Digital Sanskrit Buddhist Canon

तृतीयोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyo'dhyāyaḥ

अपोहप्रत्यूहव्यूहनिरासः

तृतीयोऽध्यायः

इहापोहे प्रत्यूहव्यूहो व्युदस्यते। इह जगति जाग्रतो जीवलोकस्य नीलविपुलचलचेतनीयनिचूलनिचयादौ चक्षुषो विक्षेपादनन्तरं नीलादिस्वलक्षणनिष्ठो (२) निर्भासस्तदनुसन्धानधीरसाधारणबोधप्रतिबद्धनीलादीनिर्भासश्च निश्चीयते एतच्च द्वयमपि नीलादिपरिच्छेददक्षमक्षतमभीक्ष्णमभिलक्ष्यते। सारूप्यवश-(३)-गा हि परिच्छेदशक्तिः सम्वेदनानामस्ति चानयोर्नीलभिर्भासता नीलनिर्णयनिबन्धनं तेनोभयमपि भयभ्रष्टं नीलमेव परिच्छिनत्तीति सम्प्रत्ययः सांव्य-(४)-वहारिकलोकस्य। तत्त्वतर्कवितर्कविश्रृङ्‍खलाश्रयस्तु व्याख्याता समःख्यातिप्रथममव्यपदेश्यं व्यवसायात्मकमिति। प्रथममालो-(५)चनाज्ञानं निर्विकल्पकं बालमूकादिज्ञानप्रख्यम्, ततः परं पुनर्वस्तु धर्मेर्जात्यादिभिर्यया बुद्धयावसीयते सापि प्रत्यक्षत्वेन सम्मतेति विकल्पकमध्य(६)क्षं जात्यादियोजितजलजादिवस्तुपरिच्छेदे दीप्यते। बौद्धस्त्ववधय्वसितवान्, प्रथममेव प्रमाणं द्वितीयन्तु स्मरणाभोगादिसामग्रीजल्पनार्थात् (७) उत्पद्यते नेत्रादिसमग्रात्। किन्तर्हि मध्यावस्थालक्षणज्ञानग्राह्याकारात्‌स्मरणाभोगादिसहितादनिष्ठितमितीष्टं निर्णयनिबन्धनं पुनरत्रनेत्रनीलाद्यर्थापायेऽपि नीलाक्षिस्मरणसंकान्तनीलादिनिर्भासः कुतः संबोभवींत। नार्थात्तस्य निरुद्धत्वात्। न जलादे व्याप्यरूपादिस्वभावत्वात्। इदं ह्युक्तम्-

तच्च सामा- (२)-न्यविज्ञानमनुरुन्धनविभाव्यते।
नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः॥
शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेपि दृश्यते,
तादृश्येव सदर्थानां नैतच्छोत्रा (३) दिचेतसाम्॥
इति तथा

यदप्यन्वयिविज्ञानं शब्दव्यक्त्यवभासियत्।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते।

द्रव्याद्यरूपादिरूपम्। इदं तु विकल्पकं नीलाद्याकृतिसाक्षराकारं च सुज्ञातमन्तर्मात्रादिपरि (४) वित्तिर्विर्भाव्यते। तेन न जात्यादिपरिच्छेददर्पो द्वितीयप्रत्ययस्य तत्प्रत्यनीकरूपादिः रूपत्वात्। न हि यत्र यस्य प्रतिभासोऽसंभावी स तस्य ग्राहकः प्रत्य-(५)-यस्पर्शाकारशून्य इव रूप सम्वेदी न स्पर्शस्य। तथे दमपि नीलादिनिर्भासि न तत्स्वभावशून्यजात्यादिसंवेदि व्यवस्थाप्यमापद्यते। तदेतरयां वे-(६)-दनविवर्तमात्रायाम्।

‘अपोहः शब्दलिङ्गाभ्यां प्रकाश्यत इति ल्थितिः
साध्यते सर्वधर्माणामवाच्यत्वप्रसिद्धये,।
इति साध्यत्वमनूद्यते।

रहस्यं पुनरत्र, येन नी-(७)-लं अनीलापोहम्परिच्छिद्यते प्रत्ययेन न तेनैवापोहविषयत्वमात्मनो व्यवस्थाप्यते, किन्तर्हि, प्रत्ययान्तरेण बाधमातन्वता नीलस्वक्षणविलक्षणत्वादेतन्निर्भासस्य। तेनेदं परप्रौढशास्त्रकृद्‍भिरपितत्प्रत्ययमधिकृत्योच्यमानं न मानसस्पर्शिप्रेक्षस्य क्षणिकत्वानुपपत्तिश्चानुगत व्यववहारानन्यथा सिद्धेः शब्दलिङ्गविकल्पाहि साधारणं रूपमनुपस्थापयन्तो न तृणकुब्जीकरणेऽपि समर्था इत्यविवादं, बाह्यार्थस्थितौ स्थिरास्थिरविचारात्। तच्चालीकं वा, आकारो वा, बाह्यं वस्तु वेति त्रयः (२) पक्षाः। तत्र न प्रथम पक्षः तद्धि तावदनुभबादेव तथा व्यवस्थाप्यंतस्यालीकत्वेनानुल्लेखात्। तथात्वे वा प्रवृत्तिविरोधात्। न ह्यलीकमेतदित्यनुभूयाप्यर्थक्रियार्थी प्रवर्तते (३) अन्यनिवृत्तिस्फुरण्णान्नैष दोष इति चेत्, एतदेवासत् विधिरूपस्यैव स्फुरणात्। नहि शब्दलिङ्गाभ्यामिह महीधरोद्देशेऽनग्नि र्न भवतीति स्कुरणमपि त्वग्निरस्ती-(४) ति। यद्यपि निवृत्तिमहं प्रत्यैमीत्यादि।

यस्मादिह धराधरविश्म्भरायां विभावसुरस्तीति धनञ्जयाकारधारित्वाद्वोधस्य तेन बोधेन धनञ्जय एवावबुद्धः। (५) तेन विधेरेव स्मरणादिति सम्मतमेवास्माकम्। अलीकमिति तु लोकेऽप्रकाशभृद्‍बाध्यमलीकमाहुरिति वचनात्। प्रकाश्यमानं बाधितमुच्यते। तत्किमुच्यते न (६) तावत्तेनैवानुभवे नेत्यादि भाषामपि तावदभ्यस्य निराकारवादिना हि द्रव्यवदेकानेकविचारचक्रनिकृत्ततया नीलाद्याकारमेव चेतश्चक्रमलीकमभिलप्यते तदपि न स्वानुभवप्रभावादपि तु बाधकबोधाधीनंतत्। तथा नील जलजाकाराक्रान्तमेव स्वान्तमनीलव्यावृत्तिरित्युच्यते। व्यतिरिक्तायां नीलव्याकृत्तौ ततो व्या-(८) वर्तमानं नीलमनीलमेव मिलेदनीलवता अपितु तस्मात्-

तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि।
शब्दाश्च निश्चलाश्चैव निमित्तमनुरुन्धते॥
भेदान्तरप्रतिक्षेपा प्रर्तिक्षेपौ तयोर्द्वयोः।
पदं संकेतभेदस्य ज्ञातृवांच्छानुरोधतः॥

तत्राप्यन्यापोहे शब्दार्थेन व्यावृत्तिरन्यान्य एव व्यावृत्तेस्तु व्यावृत्तैर्निवर्तमानस्य तदभावप्रसङ्गात्। तथा च (२) प्रवृत्तेर प्यभावः तस्माद्य एव व्यावृत्त स एव व्यावृत्तशब्दप्रवृत्तिभेदश्च र्सकेतभेदानुवाच्यभेदोऽस्ति।

ननु च वाच्यविशेषाभावात् संकेतभेदोऽप्ययुक्तः द्वयोरेका (३) चलनात्, तथा च व्यतिरेकिण्या विभक्तेरप्रयोगः तस्याभेदाश्रयत्वात्।

द्वयोरेकाभिधानेऽपि विभक्तिर्व्यतिरेकिणी।
भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः॥

न वै शब्दार्थ काचिद्विषयस्वभावायत्ता वुत्तिरित्यतो वृत्त्यभावप्रसंगात् यथा व्यतिरिक्तेऽव्यतिरिक्ते वा प्रयोक्तुमिष्यन्ते तथा निर्मुक्तास्तमर्थमप्रतिबन्धेन प्रकाशयन्ति। तेन गौ र्गौ (५)त्वमित्येकार्थाभिधानेऽपि कस्यचिद्विशेषस्य प्रत्ययेन विरुध्यते संकेतभेदे व्यतिरिक्तार्था विभक्तिरर्थान्तरमिवादर्शयन्ती प्रतिभात्यनर्थान्तरेऽपि तथा प्रयोग (६) दर्शनाभ्यासात्। न तावत् सर्वत्र भेदः अन्यत्रापि पुरुष इव तस्य प्रतिबन्धाभावात्। यथैकं क्वचिदेकत्र चानेन ख्याप्यते तदविशेषेऽपि गौरवादि ख्या- (७)-पनार्थं बहुवचनेन प्रयोगाभावात्तु संकेतभेदो न स्यात् अन्यस्यैव, तथाहि भेदान्तरेण यदि भणितस्यार्थः यदायं प्रतिपत्ता तदन्यव्यवच्छेदभावानपेक्षः (८) पिण्डविशेषेऽश्वव्यवच्छेदमात्रं जिज्ञासते तथाभूतज्ञापनात् तथा च भेदसङ्केतेन शब्देन बोध्यतेऽनश्वत्वमस्यास्तीति यदा पुनर्व्यवच्छेदान्तरनिराङ्क्ष्यस्तंज्ञा-(९)-तुमिच्छति तदाऽपरित्यक्त व्यवच्छेदान्तरं तमेवाश्वपरिच्छेदान्तरं तमेवाश्वपरिच्छेदं तथा प्रकाशनाय प्रमुच्यते अनश्वायमिति। अत एव पूर्वत्र प्रतिष्ठितपदान्तरत्वाच्छब्दप्रवृत्तेर्न समानाधिकरण्यं विशेष्यभावो वा गोत्वमस्य शुक्लमिति तन्मात्रविशेषेण वुद्धे स्तदाश्रयभूताया एकत्वेनाप्रतिभासनात्। निराकांक्षत्वाच्च द्वितीये तु न भवति। तथा संकेतव्यवहारेण संकेतसकलव्यच्छेदधर्मे विभागवत् एकस्य बहुजनेन प्रतिभासनात् व्यवच्छेदान्तरसाकांक्षत्वाच्च।

भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः।
शब्दयो र्न तयो र्व्वाच्येविशेषस्तेन कश्चन॥

तस्मान्न सर्वत्र धर्मधर्मिवाचिनोः शब्दयोर्वाच्येऽर्थे निश्चयप्रत्ययविरोधत्वेन कश्चिद्विशेषः एकस्तमेव प्रत्यायनप्रतिक्षिप्तभेदान्तरः प्रत्यायति (३) अन्यौऽप्रतिक्षेपेणैत्ययं विशेषः।

जिज्ञापयिषुरर्थ तं तद्धितेन कृतापि वा।
अन्येन वा यदि ब्रूयात् भेदो नास्ति ततोऽपरः॥

एतावन्तमेव च भेदं दर्शनं शुद्धिस्तेन....वादे जा-(४)-येत पाचकत्वमिति कदा वा पा इति अन्येन वा तथाभूतज्ञापनाय स्वयंकृतेन समयेन न पुनस्तथा मूताभिधानमात्रेणार्थान्तरमेवैतद्भवति तथाभूतस्यैव ज्ञा-(५)-पनाय शब्दस्य कृतसंकेतत्वात्। न च पाचकत्वमिति तथा उच्यते, न पाचक एव अत्र पाकेन अन्य एव कश्चित्पाचको नामाभिधीयते पाक विचिन्त्यते। यत् पु-(६)-नरस्यामिधेयं तत् कश्चित्तं तवेव पाचकत्वेनापीत्ययम्।

नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत्।
अविशेषादणुत्त्बाच्च न गति (७) श्चेन्न सिद्धयति।
अविशेषः विशिष्टानामैन्द्रियत्वमतोऽनणुः।
एतेनावरणादीनामभावश्च निराकृतः॥
संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपतः।
अभिलापाच्च (८) भेदेन रूपं वुद्धौ न भासते।

आवरणं हि परमाणूनां उपलब्धं, असंसर्गात्कथमिति न युक्तम्। न हि अवयवी प्रतिषेधसाधारणं क्वापि उपलब्धं येन तत्त्वाभावे परमाणुषु न स्यात्तथा प्रतिघातादयः। अथ

चित्रत्वात्परमाणूनां संहतेः स्यात्पटादिकम्।
कथमावरणं वा तस्यातपस्य जलस्य वा॥

अवयवैः सन्त्यागमन्तरेण परिमाणुषु च (१०) केवला अव्याहतपरस्परान्तरानुप्रदेशाः कथमावरणत्वात् जातस्य वात्र उच्यते। असंसृष्टाः कथमवयविनं जायन्ते संसर्गश्च नैकदा तदभावात् न सर्वात्मनाऽणुमात्रपिण्डप्रसङ्गात् संयोगस्य पदार्थान्तरस्य जननेन चेत् तमेव संयोगं सान्तराः कथंजयन्तीति समानः प्रसङ्गः। संसर्गश्चेत् किं संयोगेनापरे-(२)-ण तथा वापि ना। अथ सान्तरा एव संयोगमवयविनञ्च जनयन्ति तथा सत्यवरणादिकार्यमपि किंन जनयन्ति।

विनापि परमाणूनां संसर्गात् संहतिः परा।
आघातेऽपि पृथग्भावौ (३)यस्यां नैव समस्ति सः॥

न खलु संयोगः प्रतिभासते संयोगे व्यतिरिक्तः, केवलमसंयुक्तयोः सावस्थानोपलभ्यते तौ पुनरुपलभ्येते ततोऽन्वयव्यतिरेकाभ्यां कल्प-(४)-नामात्रमेतदिति निर्णयः। अप्रत्यक्षेण ते तथाभूतं सचैवंभूतं जातमिति प्रतीतिः। ततः सैवावस्था पृथग्भावेन ज्ञाप्यते संयोग इति। अत‍एव।

शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा तथा॥

न शब्दज्ञानेन वैलक्ष्यमात्रादेव पदार्थभेदोऽपितु प्रत्यक्षलक्षणज्ञानभेदात् विकल्पि-(६)-काहि बुद्धिरनादिवासनासामर्थ्यादुपजायमाना तथा तथा प्लवते ततो नार्थतत्त्वं प्रतिष्ठां लभते। तथान्वयव्यतिरेकेण परिकल्पितं भेदमाश्रित्य संयोगादिबूद्धयः ततः परिकल्पितस्यैव चोत्पादनार्थतत्वस्य कल्पितार्थभेदस्तु तीर्थ्यान्तरदर्शनादप्युपजायते। ततोऽप्यर्थतत्त्वव्यक्स्थायामनवस्था (८) तथा (८) तथाभ्युपगमनेन परस्परापवादः स्यात्। ततो भिन्नशब्दः ज्ञानञ्च विकल्पिते वस्तुनि वासनाया अन्वयव्यतिरेकाभ्यां प्रवर्तते किं भूतोऽसौ विकल्पो वस्तु-(९)-भेदानुसारी वस्तूनां भेदो व्यावृत्तिरतथाभूतात्। न व्यावृत्तादन्या व्यावृत्तिः ततः स एव सन्तानापेक्षयाऽर्थान्तरभेदो भेदेन प्रतिभाति वस्तुभेदम-(१०)-न्तरेण च कल्पना भेदानुगा गम्यन्ते, यथा एको गुणः एकः समवायश्चतुर्विशतिः गुणाः।

मतो यद्युपचारोऽत्र स इष्टो यन्निबंधनः।
स एव सर्वभावेषु हेतुः किन्नेष्यते तयोः॥

आजाताः पुत्रा स्थविरं तापयन्तीतिवत्, अतीताजातयोर्यन्निबन्धनमुपचारस्य निरु-(२)-पणानुस्मरणगृहीतत्वेन क्षणं तदेव निमित्तमस्तु वर्तमानेपि संयुक्तो घट इत्यादावपि॥

उपचारो न सर्वत्र यदि भिन्नविशेषणम्।
मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थ (३)तेति चेत्॥
अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि॥
गुणद्रव्याविशेषः स्यात् भिन्नो व्यावृत्तिभेदतः।
स्यादनर्थान्त(४) रत्वेऽप्यकर्माद्रव्यशब्दवत्॥

ननूपचारो हि नाम मुख्यनिबन्धनः स कथमसति मुख्ये भवेत्। मुख्यञ्च भिन्नविशेषणं दण्ड्‍यादिवत्। अभिन्नविशेष-(५)णत्वे मौली व्यवस्थितिः भवतस्तु पूर्वपूर्वकल्पनाकृतविशेषणयोगादभिन्नविशेषणत्वेनमुख्यत्वं क्वचिदिति नोपचारसंभवः। भिन्नविशे (५) षणं मुख्यमित्येव कृतः। अभिन्नविशेषणमपि कल्पनाकृतभिन्नविशेषणमत्यन्ताभ्यासात् रूढिमुपगतं मुख्यमेव।

बुद्धेहस्खलिता व्‌‍त्ति र्मुख्यारोपित (७) योः सदा
सिंहे माणवके तद्वद्‍घोषणाप्यस्ति लौकिकीं॥

इति वचनात्। अस्खलन् गतिप्रत्ययविषयो हि मुख्यः तदपरस्तु गौण इति किन्न पर्याप्यम्। यदि विशेष-(८)-णमपरं नास्ति विशेष्यमेव तर्हि सर्वत्र वाच्यम्। इत्यभिन्नार्थता पर्यायता रूपाभेदेन सामानाधिकरण्यं भिन्नविषयत्वे हि तद्भवति न बुद्धय एवहि स्व वास-(९)-नानुरोधादुपजायमाना भेदाभेदसामानाधिकरण्यादिव्यवहारमुपरचयन्ति न पर्यायतादिप्रसङ्गः अनर्थान्तरत्वेऽपि दृश्यन्ते अपर्याया अकर्म्मद्रव्यम्, अद्रव्यं कर्म्मेति प्रभृतयो व्यपदेशाः। तत्र किं व्यावृत्तिभेद एव निबन्धनं नापरः प्रवृत्तिनिमित्तभेदः गौः शुक्लो गौः शब्दत्वमिति। पुनः

व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः।
संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम्॥
श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा।
भिन्नधर्ममिवाचष्टे वोगोऽङ्‍गुल्या इव क्वचित्॥
युक्ताङ्‍गुलोति सर्वेषामक्षिपात् धर्मिवाचिनी।
ख्यातैकार्थाभिधानेऽपि तथाविहितसंस्थितिः॥

गौरिति तदेकाकारपरामर्शयोगी सकल एव पदार्थ उच्यते। शुक्ल इति तदेकदेशः परामर्शान्तरयोगिनी च वर्तमाना व्यतिरेकश्च अन्वयव्यतिरे-(४)काभ्यां अपोवृतः। ततस्तस्य गौः शुक्लो गुण इति व्यतिरेकविभक्तिस्तद्यथा “शिलापुत्रकस्य शरीरं राहोः शिरः”। यदा च गवाकारावग्रहौ नास्ति शुक्लत्वमेव केवलमुपलभ्य-(५)-ते सम्बन्धिविशेषरहितम्। तदा प्रश्नयति कस्येदँ शुक्लत्वमिति तदापूर्वदर्शनात् अवधृतगोस्वभावो निर्दिशति गौरिति तादात्म्यसम्बन्ध एवास्य विवक्षितो-(६)-व्यतिरेकस्तु कल्पकप्रवलस्य प्रथमं निश्चयात्। यदा तु केवलेनानेन भवितव्यं यदि नाम विशेषोपलक्षणमन्दता मन्दलोचनानां तथापि शुक्लेनानेन गवान्येन भ-(७) वितव्यमिति प्रश्नयति। कीऽयं शुक्लो गौरन्यो वेति तदा प्रतिवचनं गौरिति। समानाधिकरणतया तदन्तर्भावेनैव प्रश्नभावात्। तदनुरूपमेव प्रतिवचनं मूकं अयञ्च तत्त्वार्थः।

अन्वयव्यतिरेकाभ्यां व्यतिरेकविनिश्चये।
विशेषलक्षणाभावे कुतश्चित् कारणादपि॥
अयं शक्लो णुणोऽश्वस्य प्रतिवाक्यं विपश्चितात्।
प्रश्नस्य व्यतिरेकित्वात् [९] तथैवेत्यत्र निश्चयः (निर्णयः)
यदा त्वव्यतिरेकेण विशेषान्तर्गमे सति।
प्रमाणवृत्तमालोच्य प्रश्नः प्रश्नयितुर्भवेत्॥
तदाविदिततद्भाव उत्तरं तादृशेव सः।
दातान्यप्रक्र-[१०]-मस्यात्र नैवावसरसम्भवः।
प्रत्यक्षभेदमालोच्य न भेदस्य विनिश्चयः॥
न मूलमनुमानस्याभेदस्यासम्भवो मतः।
अन्वयव्यतिरेकौ तु यदानादी व्यवस्थितौ।
तदा भेदस्य सद्भावात् व्यवहारस्तथैव सः।
अनादिव्यवहारोऽयं एवमेव जराङ्गतः।
वस्तुचिन्ता तु लोकस्य नेति भेदो न बाध्यते।

एवमपि द्रव्याभावे घटस्य (२) रूपं रूपस्य रूपमिति वत् स्यात् तद्‍व्यतिरिक्तस्याभावात् न।
रूपादि शक्तिभेदानां अनाक्षेपेण वतैते।
तत्समानफलाहेतुव्यवच्छेदघटश्रुतिः॥
अतो न रूपं घट इत्येकाधिकरणा श्रुतिः।
भेदोऽयमीदृशो जाति समुदायाभिधायिनोः॥
रूपादयो घटस्येति तत्सामान्योपसर्जनात्।
तच्छक्ति भेदाः ख्याप्यन्ते वाच्योऽप्यन्यो दिशानया॥

ननु समासकृत्तद्धितेषु सम्वन्धा-(४)-भिधानमन्यत्र रूढि अभिन्नरूपा ऽव्यभिचरित सम्बन्धेभ्यः। यथा राजपुरुषत्वं कारकत्वमौपगवत्वमिति स्वस्वामिस्वक्रियाकारकापत्यापत्यवत्सम्बन्धाः। अस्यापवादः। (५) समासाद्रूढात्कृष्णसर्पत्वम्, कृतसमरत्वं तद्धितात् हस्तित्वम् अत्र जातिमात्रमुच्यते न सम्बन्धः तद्धितादभिन्नरूपाच्छुक्लत्वं मत्वर्थीयान्तोपि प्रकृत्या तुल्यरूपत्वात्। अ (६) त्रापि गुण एवाभिधीयते। कृदन्तोऽव्यभिचरितसम्बन्धः सदिति न सत्तां पदार्थो व्यभिचरति तेन स एव सम्बन्धो वाच्य इति शाब्दन्यायात्। कथं पाचकपाचकत्वयोरेक एवार्थ इति चेत् न क्रियासमवाययोर्निराकृतत्वात्, कल्पनाकृतभेदेऽपि तादात्म्याक्षतेः, किमनुपपन्नं नाम व्यावृत्तिव्यावृत्तशब्दयोरेकार्थत्वेन तेनान्यापोह वि (८) षये तद्वत्पक्षोपवर्तलूनम्।

‘प्रत्याख्यातं पृथक्‌त्वेहि स्याद्दोषो जातिंतद्धतोः’।
तद्धतो न स्वतन्त्रत्वात् अस्यायमर्थः।

एवमिति सच्छब्दो जातिस्वरूषमात्रोपसर्जनं द्रव्यमा (९) ह। न साक्षादिति तद्भूतधटादिभेदानाक्षेपात्। स एवातद्‍भेदत्वे समानाधिकरण्याभाव न ह्यसत्यां व्याप्तौ सामानाधिकरण्यमस्ति। तद्यथा शुक्लशब्देन स्वाभिधेयगुण (१०) मात्रविशिष्टद्रव्याभिधानात्। सतामपि द्रव्यमधुरादीनामनाक्षेपस्ततश्चातद्‍भेदत्वमेवमन्यत्रापि प्रसङ्गः। जातिश्च स्वरूपञ्च शब्दस्य च उपसर्जनं द्रव्यमुक्तं न तद्वत् घटादिभेदस्तदुभयव्यवधिना षारतन्त्र्यं ततश्चन घटत्वानाक्षिपति। घटत्वयोगाच्च, सत्ताश्रयो घटो भवति। स्वतः यथा रूपशब्देनानाक्षिप्तैर्म्मधुरादिभिन्नसामानाधिकरण्यं शुक्लमम्बुमिति तद्वत् पक्षोपवन्दनं तत्प्रत्याख्यातमित्याचार्यवचनै भाष्यकार व्याख्याने च प्रचरति। कथमयमनुचितचिन्ताचमत्कारित्वात् समुचितचेता णितवान्।

“न च निवृत्तिमात्रप्रतिभासेऽपि प्रवृत्तिसम्भवः, न ह्यघटो नास्तीत्येव घटार्थी प्रवर्तते अपि घटोऽस्तीत्यादि” यतोऽघटो नास्तीत्यन्यनिवृत्तिर्घटो वास्तीति अघटादन्या इहास्तीति अघटलक्षणा-(४)-न्यव्यावृत्त इत्येक एवार्थः। घटाकारघटितघोषोन्मीषितमनीषाया एव घटविशेषे अप्रतिष्ठितायाः अघटव्यावृत्तघटे प्रवृत्तिनिमित्तत्वेन निरूपणात्। तत्प-(५)-रिच्छिनत्तिततोऽन्यव्यवच्छिनत्ति तृतीयप्रकाराभावञ्च सूचयति इत्येकप्रमाणव्यापार एषः।

तेन अघटस्यैव निवृत्तिरिति प्रतीतौ नायं दोष इति चेत्, घटनिवृत्त्यप्रतिक्षेपे नियमस्यैवासिद्धेः। तत्प्रक्षेपे तु कस्ततोऽन्यो विधिः, निषेधप्रतिक्षेपस्यैव विधित्वात् इति विवक्षितमेवोद्योतितम्। यतो घट सारूप्यस्फुरणादेवं तदितरनिराकरणं, तदनुपलम्भरूपत्वा दिति कथितमेवं प्रथमं बाधकप्रत्ययादुत्तरसमयसम्भविनः पुनस्तदलीकत्वकल्पनमेकेषाम्।

यत्पुनरुच्यते-स्वरूपभेद ए (८) वान्यापोहोऽन्यापोढरूपत्वाद्विधिरिति चेत् न अलौंकपक्षे तदभावात् तस्य स्वरूपविधानवलीकत्वप्रसङ्गात्। स्वलक्षणस्य विकल्पानरोहादिति-तदप्येतेन दूषितम्-(९) घटसारूप्यस्फुरणेनाघटनिवृत्तस्थूलमूलवस्तुविधिरविभूत एव बुद्धयाप्यवसीयते तदूर्ध्वं ध्वंसते बाधकादिति कोऽपराधः प्रथमबोधस्य प्रथमबोधापेक्षया(१०) च इदमुदीर्यते त्वया विकल्पे स्वलक्षणानारोहादिति न सङ्गतं सजातीयविजातींयव्यावृत्तप्रतिष्ठितघटाकारपटु प्रत्यक्षापेक्षया वस्तु स्वलक्षणमुच्यते। तदेव वस्तुविजातीयत्वावृत्तमुल्लिखता विकल्पेन समारूप्यवशात् सामान्यलक्षणमध्यवसायं विकल्पमित्युच्यते-तदपि स्थूलमूलस्वरूप [२] स्पर्शाद्यतिरिक्तजात्यादिपदार्थानुपलम्भात्, भेदे च घटादिकमिदानीमेवंविधमध्यवसीयते, इत्यर्थमभिसंधाय विकल्पे स्वलक्षणमेतत् व्यावृत्तमाभातींत्युच्यते। उभयतो व्यावृत्तस्य हितदेकस्मादपि तस्य व्यवच्छेदोऽस्तीति न ह्यनीलमुत्पलं न भवतीति भण्यते। तथा चोक्तम्‌ः-

यथोक्तविपरीतं यत् तत्स्वलक्षणमुच्यते।
सामान्यं त्रिविधं तच्च भावाभवोभयाश्रयम्॥
यदि भावाश्रयं ज्ञानं भावो भावानुरोधतः।
नोक्तोत्तरत्वात्‌दृष्टवात्, अतीतादिषु चान्यथा।
भावधर्मत्वहानिश्चेद्भावग्रहणपूर्वकम्।
तज्ज्ञानमित्यदोषोऽयं मेयं त्वेकं स्वललणम्॥
तस्य स्वपर रूषाभ्यां गतेर्मेयद्वयं मतम्।

विधिरपि विधिरूपतायामविधि धर्मत्वं व्यवच्छिन्नस्वभावमपेक्षमाणः कथं [६] न सापेक्षः।

“ततः प्रतीतावितरेतराश्रयत्वमुक्तं सङ्केतेसञ्चार्य यत्परिहृतं ज्ञानश्रिया तदेतत् ग्राम्यजनधन्धीकरणं गोलकादिंवत्, स्थानान्तरसञ्चारान्” इति मित्रपादान् प्रति उपालम्भो न शक्यः विधिस्फुरणस्यैव स्वीकारात् स च विधिः शब्दात् प्रतीयमानः संकेतानुसारेण प्रत्येतव्यः, संकेतश्च नाप्रतीतेऽर्थे तस्मात् [८] सङ्केते कथं सञ्चार्य परिहृतः परस्पराश्रयदोषः तथा चोक्तम्

अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम्।
अन्योऽन्याश्रमित्येकग्रहाभावे द्वयाग्रहः॥
संकेतासंभवस्तस्मादिति केचित्प्रचक्षते।
तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा यदि॥
व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते।
अनिराकरणे तेषां संकेते व्यवहारिणाम्॥
न स्यात्तत्परिहारेण प्रवृत्तिवृक्षदेशवत्।
अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम्॥
वृक्षोऽयमिति संकेत, क्रियते तत् प्रतिपद्यते।
व्यवहारेऽपि तेनायमदोषः इति चेत् तरुः॥
अयमप्यमेवेति प्रसङ्गो न निवर्तते।
एक प्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः॥
प्रपत्ता तदतद्धेतूनर्थान् विभजतेस्वयम्।
तद्‍बुद्धिवर्तिनो भावान् भातो हेतुतया धियः॥
अहेतुरूप विकलानेकरूपानिव स्वयम्।
भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते॥

इदमेव परमसुभाषितामृतमपि च ते साधूरिति पिष्टं पिष्यते [३] यत्पुनरती(ति)विशङ्करकलेव मीलनादिधन प्रत्ययादुद्‍भाषितम्। विध्यलीकमिति चेत्।”

“न व्याघातात्। किञ्चिदिति हि विध्यर्थी न किञ्चिदिति चालीकार्थः। अतद्रूपपरावृत्तिमात्रेणालीकत्वे स्वल[४]क्षणस्याप्यलीकत्वादिति (प्रसंगात्)।” तदपि कः स्पृशन्तु। यथातत्वमनवसायो यथावसायमतत्त्वात्। साम्वृतो विधिप्रत्यक्षप्रतिभासविधेरन्य एवायम्। ततश्च द्विविधो विधिः पारमा [५] र्थि को यस्यार्थस्य सन्निधाना सन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणं असाधारणं तत्त्वं वस्तुतः तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वा [६] द्वस्तुनः। अन्यत्सामान्यलक्षणँ सोऽनुमानस्य विषयः ग्राह्यविषयभेदश्चायम्। अध्यवसेयविषयभेदस्तु तिर्यगूर्ध्वतात्मकानि यत्रोपयोगा तद्रूपपरावृ[७] त्तघटादिस्वभावः स्वलक्षणमेवैकतो व्यावृत्तमुच्यते उत्पलवत्।

नावस्तुरूपं तस्यैव तथासिद्धेप्रसाधनात्।
अन्यत्र नान्यसिद्धिश्चेत् न तस्यैव प्रसिद्धितः॥
अयथाभि[८] निवेशेन द्वितीया भ्रान्तिरिष्यते।
गतिश्चेत्‌पररूपेण न च भ्रान्तेः प्रमाणता॥
अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता।
गतिरप्यन्य था दृष्टा पक्षश्श्चायं [९] कृतोन्तरः॥

प्रत्यक्षविकल्पे च घट एव स्फुरति केवलं एकत्र स्फुटतया अन्यत्रास्फुटतया न च विशेषणभेदेन विशेष्यमपि भिद्यते। तेनोभयथापि घट एवायमुदयनाचार्यः दृश्यविकल्प्यावर्थौ एकीकृत्य व्यवहारप्रवृत्तिरिति व्याख्यातरम्भ अलीकानलीकत्वादियथारुचि रचयन्ति न व्यवहर्तारः इति पुरुषद्वयापेक्षया पि तु ज्ञानस्य स्वाकारवशाद्‍ग्रहणं [२] साधारणमेव। अन्यथा हि बाधकप्रत्ययबलात् अलीकाकारविकल्पचलनादेव तथात्व कथं स्थाप्यं तदर्थाकारत्वञ्च। अथ ग्रहणनिबन्धनं प्रत्यक्षेतरयोः समानम्। परस्तु पारमार्थि [३] कः शब्दज्ञानगृहीतो च इति मन्यते तेन तदभिमानस्थलोऽयं बाधकावतारः तदेवमुभयतो व्यावृत्तघटाकारं ज्ञानग्राह्यं ग्रहणमेकतो व्यावृत्ताकारं ज्ञानं ग्रहणम् [४]व्यवसाय इति प्रतीतिद्वयव्यवस्था। अविद्यमानेऽत्यर्थेऽनुभवाविद्मावासनावशगविकल्पाकारवशात् ग्रहणमत्रारोपणं तद्विषयश्चारोपित उच्यते। स च विधिरपि प्रतीत्यर्थो [५] पि न सम्भवति, विकल्पे स्वलक्षणस्यान्यव्यावृत्ततया संस्पर्शात् विरोधात् उभयतो व्यावृत्तस्यापि घटस्य विजातीयव्यावृत्तघटमात्रग्रहणात् सजातीयभे-[५]-दग्रहण सामर्थ्यात्। न च स्वलक्षणस्य भावनाविधित्वपरिहारेण स्फुरणम्। न चालीकमप्यलीकत्वेन तेनैव ज्ञानेन गृह्यते,

‘अप्रमाणाणामपि स्वार्थे प्रमाणमिव लक्ष्यते’ इति न्यायात्।

उभयोरापि ग्राहकविकल्पआस्थाकारविलासात् प्रकारान्तत्वेणाप्रथनाम् प्रथमा न रूपसम्भववाच्यकाल्पनिकस्याप्यंश(८) भावस्यात एव न मूलो निष्ठुरन्यायक्षणरप्रहार प्रत्याशापरस्य।

अन्योपोहलक्षणशब्दार्थे जातिधर्म्मापि कल्प्यमाना एकत्वनित्यत्व नित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणा व्य-[९]-वतिष्ठन्ते। अभेदाश्रया विच्छेदात् कश्चार्थ (तेनार्थ) प्रतीतेश्च। तथाहि।

याप्येभेदानुगा बुद्धिः काचिद्वस्तुद्वयेक्षणे।
संकेतेन विनासार्थ प्रत्यासत्तिनिबन्धना॥
प्रत्यासत्तिर्विना जात्या यथेष्टा चक्षुरादिषु।
ज्ञानकार्येषु जातिर्वा यथान्वेति विभागत्‌ः।

यथा तावदभेदप्रत्ययजननसामग्री यदुतार्थमेकं श्रावणेयं अवलोक्य द्वितीयं चाकलेयं अन्यं वा गोव्यक्तिभेदमवधारयन्न भिन्नप्रत्ययवान् भवति अयमपि गौरयमपि गौरिति अपरापरालोकने च वर्धमाना भिन्नबुद्धित्वाद्वर्धमा (२) नं सामान्यमाम्नायते अभेदश्च गोपिण्डमण्डलानां खण्डमुण्डादिभेदेऽपि विजातीयमात्राभिन्नार्थप्रतीतेः। पदार्थानामेव धर्म्मः सजातीयादपि विशेषप्रतीतौ भेद प्रतीतिरिति व्यवहारः समस्तगोपिण्डमण्डलप्रध्वंसाभावान्, कालाकलाकलापकलमान्नित्यत्वमपि विजातीयापोहपदार्थस्य सर्वात्मना च प्रत्येकमन्यापोढ (४) प्रत्यय ढौकनात्। प्रत्येकपरिसमाप्तिः सुदृढा अलीकत्वञ्च अस्य बाधकाधीनमिति, तदपेक्षयामि यदमुना प्रतीतं तदातदन्यथाकर्तुमशक्यं अलीककल्पनया वस्तुप्रतिबद्ध(५) मेतत् नभवति प्रत्यक्षप्रतिभासवत्, तदभावेऽपि स्मरणवदस्योत्पतिरित्येव स्यात्, यत्रतु प्रतिबद्धा व्यवसायप्रसवस्तत्र भाविकत्वमेवालीकत्वेऽप्याकारस्यापोढत्व-(६)-स्य भावेपि बाह्ये भावात् अन्योपोढत्वमेवानुगमः, स च वास्तवोऽपि सम्वादात् काल्पनिको पि कल्पना बुद्धौ विवर्तनात्। नहि क्षणिकाबुद्धिरननुगमावा बाह्यपदार्था (७) गममक्षिकत्चं वा प्रत्येतुं अक्षमास्मरणवत्, यथा हि स्मरणमनतीतमपि स्वयमतीतत्वं स्मरति तथेदमपि आरोपितस्तूच्यते, यच्च पदार्थो विकल्पारूढग्राह्याकारप्रतिभासाद्‍गहीतः स आरोपित उच्यते, यथा बाह्यार्थाभावेऽपिं संनिधानेऽसंनिधाने वा शीतार्थेन वह्निञ्चिन्तितस्तत्र वह्निरुभयव्यावृत्तो नास्ति विजातीयव्यावृत्तस्त्वास्ति चिन्ता सा-(९)-रूप्यवशात् प्रतीतः स आरोपित उच्यते असत्‌व्यापीत्यपि बाधकप्रत्ययवशेन तथात्वावस्थाभेदाग्रहोऽपि विजातीयभेदप्रतीते सजातीयाद्भेदग्रहणसामर्थ्यम्।

तेनेवं निरस्तं “साधारणं च रुपं विकल्पगोचरः, न चालीकं तथा भवितुमर्हति। तस्य हि देशकालानुगमो न स्वाभाविकः, तुच्छरूपत्वात्। न काल्पनिकः तस्याक्षणिकत्वात्। नारोपितः अन्यत्रा (२)प्यप्रसिद्धेः।

भेदाग्रहादेकत्वमात्रमनुसन्धीयते इति चेत् न भाविकस्यभेदस्याभावात्, भावे वा काल्पनिकत्वस्य व्याघातात्। परमार्थासतः परमार्थाभेदपर्यवसायित्वात्। आरोपितस्याग्रहानुपपत्तेः अभेदारोपानवकाशाच्च। आरो पितासत्त्वस्य परमार्थसत्वेप्रसङ्गम् चतुःकोटिविनिर्मुक्तस्याप्रतिसञ्जकत्वात्। तदग्रहस्य त्रैलोक्येऽपि सुलभत्वात्।

अन्यत्रापि पारमार्थिकभेदप्रतीतो कथमभेद आरोप्यतामिति चेत् एवं तर्हि यस्य प्रतिभासे यन्नारोप्यते नियमेन तस्यैवाप्रकाशे तदारोप्यं न त्वेवन्नाममात्रकस्यातिप्रसञ्जकत्वात्। अत एव न व्यधिकरणस्यापि सतोऽसतो वा भेदस्याग्रहीऽभेदारोपोपयोगीति।

टीकाकारमतमवगम्य किंमव वलयितभव अनेन तन्मते (६) किलारोपो नाम साधर्म्यदृगपेक्षः क्वचि त् कस्यचिदुपचारो रजतस्यैव शुक्तौ विवाक्षितः। ततोऽयं कुग्रामवास्तव्य बटुजव्यपेतव्यः। जल्पनीयमनल्पं प (७) र्यन्ते किमपि भविष्यति लब्धं तावत् ग्रन्थकारयशः इत्याशयेनाभिहितवान्। ‘नापिन्यायादपोहसिद्धितदभावादित्याद्यपि प्रतिविहितम्।

यत्पुनर्भावाभाव-(८)-साधारण्यं विकल्पितं न तावत् उभयरूपत्वं विरोधात्। न तद्धर्मत्वम् अनम्युपगमात्। नहि गोत्वमभावस्यापि धर्म इत्यम्युपगम्यते। न तद्धर्मित्वम्, अनेकान्तात्। व्यक्ति(९)रपि हि भाबाभावशालिनी न निषेधैकरूपेति। न तदुभयासादृश्यमसम्भवात्। अतन्निवृत्त्यैव तथात्वे साध्याविशेषात्। नाप्यस्ति नास्ति सामानाधिकरण्यं वि (१०) रोधादन्यथा सिद्धेश्च। नहि यदस्ति तन्नास्तीति प्रत्ययगोचरः स्यात्। प्रकारान्तरमाश्रित्य स्यादेवेति चेत् एवं तर्हि तमेव प्रकारभेदमुपादाय विधिव्यवस्था यां को विरोधः येन प्रतिबन्ध सिद्धयेत्। “तस्य विधिरूपतायामस्तिना किमधिकमुपनेयमिति चेत् निषेधरूपत्वेऽपि किमधिकमपनेयमिति समानम्। अत एव साधारण्यमिति चेत् तथापि किमेतदुभयात्मकमुभयपरिहारो वेति अशक्यमेतत्। तस्मादस्तिनास्तिभ्यामुपाध्यन्तरोपसंप्राप्तिः प्राप्तोपाधि नियमो बेति सार्थकत्वं तयोः। तदेतद्विधावपि तुल्यम्। शान्ता (३) शेषविशेषत्वादलीकपक्षे क्वोपाध्यन्तरविधिस्तन्नियमोवेति विशेषदोषः। ततो गोशब्दो गोत्वविशिष्टव्यक्तिमायाभिधायी पर्यवसितः। तास्तु विप्रकीर्णदेशकालतयार्थक्रिया (४) र्थिप्रार्थनामनुभवितुमीशत इति प्रतिपत्ता विशेषाकांक्षः। सा च तस्याकांक्षास्ति गोष्ठे कालाक्षी धनुर्घटोघ्नीमहाघण्टानन्दिनीन्यादिभिर्नियामकै र्विधायकैर्वा निवार्यत इति (५) विधौ न कश्चिद्‍दोषः। इति। तदपि निर्लक्षणशरमोक्षप्रख्यामीक्ष्यते। तथाहि वृक्ष, शब्देन वृक्षविधिरेव कृतः, सतुविधिर्यथा प्रत्यक्षेण अनुपालम्भात्मना वा तेन (६) प्रतिषेधः क्रियमाणः शक्यते नैवास्ति नास्तिशब्दाभ्यां सम्बद्धमस्ति नियतत्वात् नास्ति नियतत्वादेव वा तथा किमयं शब्दो विधिः ‘आभ्यां पदाभ्यां सम्बद्धं योग्यं (७) उपदर्श्यते’। तथा चेदस्ति नास्ति पदसम्बन्धसाधारण उपदर्शितः। तत् साधारणञ्चावृक्षव्यावृत्तं वा वृक्षार्थविधायितया तथाभूतश्चार्थः बाह्यपदार्थस्य (८) अभावनियतस्य भावनियतस्य वा सजातीयव्यावृत्तया तथाख्यातस्यानेन तथाख्यानाभावातं। स च शब्दार्थः साधारणो वा भावाभावयोर्दृष्टत्वात् साधारणं तु (१)को यथा नित्यानिन्ययोर्दृष्टत्वात्, प्रमेयत्वं वस्तुत्वं वा साधारणमुक्तं तद्वत्। न तु भावाभावात्मकत्वादुभयसाधारणः शेषमपि कल्पनं अफलमन्यथैव विवक्षितत्वात्। सर्वस्यैव हि धर्मरूपस्य शाब्दस्य तादृशधर्म्मद्वये दृष्टत्वात्। साधारण्यमाबालमवगतम्। तथाहि।

आविर्भावतिरोभाव धर्म्मकेष्वनुयायिवत्।
तद्धर्म्मि यत्रावाबुद्धिः, ज्ञानं प्राग्धर्मग्रहणाद्भवेत्॥
इति भट्‍टमतम्।
एकं धर्मिणमुदृश्य नानाधर्मसमाश्रयम्।
विधावेकस्य तद्भाजमिवान्येषामुपेक्षकम्॥
निषेधे तद्विविक्तञ्च तदन्येषामपेक्षकम्।
त्रयवहारमसत्यार्थ प्रकल्पयति धीर्यथा।
तं तथेवाविकल्पार्थ भेदाश्रयमुपागताः।
अनादिवासनोद्भूतं धावन्तेऽर्थ न लौकिकम्॥
तत्फलोऽतत्फलश्चार्यो भिन्न एकस्ततस्ततः।
तैस्तैरुपप्लवैर्नीतसञ्चयापयैरिव॥
दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविफ्लवाः॥
इति सिद्धान्ततत्वमाचार्यीयमादावेव लिखितम्।
शब्देभ्यो यादृशीबुद्धिर्नष्टेऽनष्टेपि दृश्यते।
तादृश्येव सदर्थानां नैतच्छोभादिचेतसाम्॥

भावाभावयोर्दर्शनाद्विकल्प प्रति (५) भासस्य साधारण्यमुक्तं पूर्वार्द्धेन। द्वितीयार्धेन अपरमार्थविषयत्वसाध्यधर्माभावेन साधनधर्मस्य भावाभावसाधारण्यस्याभावो दर्शितः। श्रोत्रादि (६)चेतसि विपक्षधर्मिणि ततश्चायं प्रयोगः प्रजायते। यः प्रत्ययो यस्यार्थस्य भावाभावसाधारणप्रतिभासः स परमार्थतस्तद्विषयो न भवति। यथा (७) संशयप्रत्ययप्रतिभासः स्वार्थसम्मतः शर्कराद्यर्थभावाभावसाधारणप्रतिभासश्च शर्करादिविकल्पप्रतिभासः व्यतिरेकेण यः परमार्थतः (८) प्रत्ययो यद्विषयः स तस्यार्थस्यान्वयव्यतिरेकावनुविधत्ते। यथा मधुरगान्धारध्वनिभावाभावानु विधायीश्रोत्रबोधः। शर्करालक्षणस्वार्थभावाभावा (९) नुविधायी च न भवति शर्कराविकलस्य प्रतिभासः परमार्थतस्तद्विषयत्वं तदुत्पत्तिसम्बधनिबंधनं दृष्टं श्रोत्रप्ररूप प्रत्ययप्रतिभासो यदि तदभावेति (१०) परमार्थतस्तद्विषयत्वं स्यात्। तदा संशयविपर्यासप्रत्ययप्रतिभासस्यापि स्यात् न च तयोस्तथात्वमनुमन्यते प्रामाणिकेन नावालम्बनप्रत्ययत्वा भावादपरमतौ कारणं शक्यं कल्पयितुम्। यथा गो ज्ञानं तावत् विषयं अपरमपि च न युक्तम्।

तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते।
नीलाद्याकारलेक्षो यः स तस्मिन्‌केन निर्मितः॥
इति यत् यत् प्रतिभासं विज्ञानं न भवति न तत्तद्विषयं व्यवहर्तव्यम्। यथा गो ज्ञानं अश्वविषयं न व्यवहृयते वर्णकृत्यक्षराकाराभासं कल्पविज्ञानं, न वर्णकृत्यक्षराकारशून्यपरसम्मतसामान्यप्रतिभासं तद्विषयत्वं हि प्रतिभासत्वेन व्याप्तरूपाभासस्य रूपविषये दृष्टं रसे (४)चनोपनद्धं परमार्थत इति विशेषणात् सांवृतं न पार्यते। परमार्थश्च प्रतिष्ठितो भावस्वभावोऽर्थक्रियासमर्थः। प्रत्यक्षप्रतिभासितः सर्वव्यवहर्तृणां हानोपादानसमी (५) हाविषयः प्रकाश्यते-

अर्थक्रियासमर्थ यत्तदेव परमार्थसत्।
अन्यत् संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे। इत्यर्थः।

तेनेदमसंलग्नम् ‘तद्यदिगोविकल्पस्याश्वविषयत्वमेव तद्‍भावासाधारण्यं गव्यपि बाह्ये तथा, ततः साध्यविशिष्टत्वम्’।

अरूपादिविशेषाकाऽङ्‍क्षा तदाऽसाधारण्यम्, नह्‍युदाहृतो गोविकल्पोऽश्वा‍इत्यादिविशेषमाकाङ्‍क्षति। नियमविधौ तु विरोध एव। न ह्यतद्विषयस्य तद्विशेषनियमाकाङ्‍क्षा नाम, गोज्ञानस्याश्वविशेष नियमऽ कांक्षाप्रसङ्गात्। तदीयसदसत्वानुपदर्शनं चेत् ततोऽसिद्धिर्दोषः। नहि गोविकल्पो गोश्वरूपं नोपदर्शयतीति मम कदापि सिद्धम्, तव चाद्यापि। उपाध्य (९)न्तरंचेदनेकान्तः। न हि यो यस्य उपाध्यन्तरं नोपदर्शयेत् नासौ तदपीतिनियमः’ इति।

पुनश्चोक्तं कथं पूरेत अस्य अगोत्वव्यवच्छेदः, शब्दलिङ्गाभ्यां (१०) प्रतिपाद्यते न विशेषः वस्तुस्वरूपयेवेति प्रमाणन्तरस्य शब्दान्तरस्य च वृत्तेः। तथाहि-

एकस्यार्थस्वभावस्य प्रत्यक्षस्य च सतः स्वयम्।
कोऽन्यो भावो न दृष्टः स्यात् यः प्रमाणैः परीक्ष्यते॥
सहि-प्रत्यक्षः प्रसिद्धो धर्मिणि साधनासम्भवात्। यथा प्रत्ययत्वसाध्ये शब्दस्तथा प्रत्यक्षेणैव सिद्धेः सर्वाकारसिद्धे तदन्यस्यऽ(२) सिद्धस्याभावात्, भावे वा न तत्स्वभावत्वं नहि यत्..........न भवन्ति स तत्स्वभावोयुक्तः तन्मात्रनिबन्धनत्वात् भेदव्यवहारस्य। अन्यथा अभावप्रसंगादि (३) इत्युक्तम्, तस्मात्प्रत्यक्षेण धर्मिणि तत्‌स्वभावासाकल्यपरिच्छेदात् अत्रानवकाशः प्रमाणन्तरबुद्धिः स्यात्।

“नो चेद्‍भ्रान्तिनिमित्तेन संयोज्येतः गुणान्तरम्‌ः
‘शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्॥

यदि दृष्टसर्वतत्वस्यापि भ्राम्यद्धेतोः निश्चयप्रतिरोधिना भ्रान्तिनिमित्तेन गुणान्तरा न संयोज्येत, यथा शुक्तौ रजताकारौ, न हि शुक्तौ ते रूपे समानं विशिष्टञ्च तथाप्रतिपत्तिप्रसङ्गात्। अप्रतिपत्तौ वा विवेकेन त्वविकल्पायोगान् अतिप्रसङ्गाच्च। तस्मात् पश्यन् शुक्तिरूपं च (६) विशिष्टमेव पश्यति निश्चयप्रत्ययवैकल्यात्।

अनिश्चितं तव सामान्यं पश्यामीति मन्यते’

ततोऽस्य रजतसमारोपः तथा सदृशाऽर्थरोपि नोत्पत्ते(७)रलक्षितनानात्वस्य भ्रान्तिसमारोपात् स्थितिभ्रान्ति याऽवन्तोऽस्य परभावा तावन्त एव यथास्वं निमित्तभाविनः समारोपा‍इति तद्वयवच्छेदकानि (८) भवन्ति प्रमाणानि सफलानि, तेषान्तु व्यवच्छेदफलानां तु ना प्रतीतवस्त्वंशप्रत्यायने प्रवृत्तिस्तस्य दृष्टत्वात्। फलां शस्य चैकदेशेन दर्शनायोगात्।

तस्मात् [१]दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः।
भ्रान्तेर्ननिश्चल इति साधनं सं प्रवर्तते॥
वस्तु ग्रहेऽनुमानाच्च धर्मस्यैकस्य निश्चये।
सर्वधर्मग्रहोऽपोहे नायं दोषः प्र [१०] वर्तते।
तस्मादपोहविषयं इति लिङ्गं प्रकीर्तितम्।
अन्यथा धर्मिणः सिद्धौ किमतः साधकं परम्॥
क्वचिद्‍दृष्टेपियज्ज्ञानं सामान्यार्थविकल्पकम्।
असमारोपितान्यंशे तन्मात्रापोहगोचरम्॥
निश्चितारोपमनसोऽर्थो बाध्यबाधकभावतः।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते॥
यावन्तोंश समारोपस्तन्निरासे विनिश्चयाः।
तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः॥
अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि।
बुद्धया नान्यविषय इति पर्यायता भवेत्॥
इति स्वमतमुपदर्श्य विषयम [३] परमोहहतये प्रोक्तम्।
यस्यापि नानोपाधेर्धी ग्राहिकार्यस्य भेदिन-।
नानोपाध्यूपकाराङ्गं शक्त्यभिन्नात्मनो ग्रहे॥
सर्वात्मनोहकार्यस्य को भेदः स्यादनिश्चितम्।
तयोरात्मनि सम्बन्धादेक ज्ञापे द्वयग्रहः॥

अत्मभूतस्योपाधेस्तद्वतोरूपकार्योपकारकभावस्य ग्रहणात्। एकज्ञाने द्वयोरपि ग्रहणमिति एकोपाधिविशिष्टेपि [४] तस्मिन् गृह्यमाणे सर्वोपाधीनां ग्रहणं तद्‍ग्रहणनान्तरीयकत्वादुपाधिकृद्‍ग्रहणस्य। अन्यथा तथा न गृह्येत। न ह्यन्य‍एवान्योपकारको यो न गृही [६] तः स्यात्। न चाप्यपकारके तथाऽगृहीते तदुपकार्याग्रहणं तस्याप्यग्रहणप्रसङ्गात्। तस्मादर्थान्तरोपाधिवादेऽपि समानः प्रसङ्गः।

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि।
नोपकारस्ततः तासां तथा स्यादनवस्थतिः॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे।
दृष्टे तस्मिन्नदृष्टा ये तद्‍ग्रहे सकलग्रहः॥

इत्यनेन पारमार्थिकपारतन्त्र्य लक्षणोपाधिसम्बन्धयोन्यस्वभावाङ्गीकारे सकलगहः एकेनापि प्रमाणेन शब्देन वा प्रवृत्तेन स्यात्। यदा तु

भावे भाविनि तद्भावो भाव एव च भाविता।
प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः॥
एतावन्मात्रतत्वार्थाः कार्यकारणगोचराः।
विकल्पा दर्शयन्त्यर्थान् मिथ्यार्था घटितानिव॥
भिन्ने का घटनाऽभिन्ने कार्यकारणतापि वा।
भावे ह्ययन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं न तौ॥
संयोगि समवाद्यादि सर्वमेतेन चिन्तितम्।
अन्योऽन्यानुपकाराच्व न सम्बन्धी च तादृशः॥

इति कल्पितोपकार्यापकारकभा [२]वे सम्बन्धेनायं प्रसङ्गः, केन हि कार्यांपेक्ष्य पश्चात् कार्यकारणभावभाजं भावमकल्पमपि प्रत्यक्षमीक्षते येनायं प्रसङ्गः स्यात्। अत एवोक्तम् अपोहेनायं दोषः प्रसङ्गत‍इति। सूर्यवदेवा (सूर्यादेर्वा) विश्वोपकारिस्वभावे ग्रहे विश्वग्रहः [३] स्यात्। अत ए वाह-

‘यदि भ्रान्तिनिवृन्त्त्यर्थं गृहीतेऽन्यदिष्यते’

स्यादेतन्निर्भागस्य वस्तुनो ब्रहे कोऽन्यस्तदा न गृहीतो नाम स तु भ्रान्त्या नावधार्यते इति प्रमाणान्तरं यद्येवं-तद्‍व्यवच्छेदविषयं सिद्धं तद्वत्ततोऽपरम्।

तद्वयच्छेद विषयं सिद्धं तद्वत्ततोऽपन्परम्।
असमारोपविषये वृत्तेरपि च निश्चयैः।
यन्न निश्चीयते रूपं तत्तेषां विषयः कथम्॥

यत्तर्हि भ्रान्तिनिवृत्त्यर्थं प्रवृत्तं प्रमाणांअन्यस्य समारोपव्यवच्छेदफलमिति सिद्धमन्यापोहविषयं तद्वदन्यदपि अस [५] मारोपर्विषये वृत्तेः यत्रास्य समारोपो न तत्र निश्चय इति समारोपाभावे र्क्तमानोऽन्यापोहविषयः सिद्धः, प्रत्यक्षन्तु प्रतिष्ठितप्रतिभासवशात् गृह्णीत पारतन्त्र्यादि स्वभावभ्रष्ठः [६] अकष्टेन अपकर्षितप्रकृतावद्यसंदोहमदेहमेवं समर्थयते।

प्रत्यक्षण गृहीतेऽपि विशेषेंशवर्जिते।
यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते॥

इति विकल्पप्रत्ययहेतुश्चायं अभ्यास पा[७]टवा सन्ति तारतम्यादिः। यथा

परिव्राट्‍कामुकशुनामेकस्यां प्रमदा तनौ।
कुणपः कामिनी भञ्जमिति तिस्रो विकल्पना॥

इत्यादि वर्तिककारदर्शिते प्रसङ्गे यन्निपुणमसृणमनीषया धर्म्मा [८] न न सर्पवदपविषविसर्पं स्फारफूत्कारप्रायं प्रलपितममुना लेखितुमपि (लिखितुमपि) उर्ज्जामहे। महेश्वरप्रणतलब्थवर्णवर्णितत्वेन न प्रहसनाय प्रस्तूयते।

उपाध्यन्तरं चेदनेकान्तः। न हि यो यस्य [९] उपाध्यन्तरं नोपदर्शयेत् नासौ तदपीति नियमः। ननु नियम एव, तथाहि यन्न यत्समेवतधर्मबोधनं न तत् तत्स्वरूपबोधनं यथा गोविकल्पशब्दौतुरगे। तथा च तौ गव्यपि नीलत्वा[१०]पेक्षयेति व्यापकानुपलब्धि धर्मिबोधेऽपि कि धर्माणां कस्यचिद्‍बोधः कस्यचिदबोधश्चेत्युपकारभेदान्नियमः स्यात्। उपकारभेदश्च शक्तिभेदात् भवेत्। न चैव प्रकृते अनवस्थाप्रसङ्गात्। ततः शक्तेर्नभेदात्। उपकाराभेदे सर्वोपाधिसहितबोधिऽबोधोवेति द्वयी गतिरिति प्रतिबन्धसि द्धिः।

दुष्प्रयुक्तमेतत्, उपाधिं प्रकल्प्य मेदे प्रतिनियतसामग्रीवोध्यत्वस्यापि स्वभाववैचित्र्यनिबन्धनत्वात्, तस्यापि स्वकारणाधीनत्वात्, तस्याप्यन्वयव्यतिरेकसिद्धत्वात् तस्यापि कार्योन्नेयत्वात् इति।

यत्तु शक्तेरभेदादित्यादि, तत्तदा शोभेत यदि धर्मिमात्राधीनस्तद्‍बोधमात्राधीनो वा, तावन्मात्रबोधसामग्रयधीनो वा यावदुपाधिभेदबोधः स्यात्, न चैवम्।

यया [४] कयापि सामग्र्‌‍या ज्ञानमुत्पद्यतां तत् किं पारमार्थिकस्वरूपद्वयनिष्ठोपकार्योपकारकभावभागिद्रव्यं दृष्टमिष्टं न वा, तेन ज्ञानेनयदि दृष्टं, सर्वात्मना उपाधिभिः सार्धम्। यद्यंशेनापोह वि [५] षयत्वस्य स्वीकृतमपारमार्थिकोपाध्यपकारयोग्यस्वभावत्वस्य भावस्यातद्‍व्यावृत्तिनिष्ठस्य तेन निरूपणात् निपुणं निरूपय तावत्। ग्राहकज्ञानापेक्षया प्रसङ्गे दत्ते के [६] शे स्पृष्ट शिरश्च नयसि सामग्र्‍या वैचित्र्यादिति ततः कि ज्ञानमेव सकलोपाधि उपकारयोग्यवस्तुस्वरूपमन्योन्यापेक्षं न लक्षयसि। वस्तुस्वरूपमेव चान्यथाकृत (७) स्वभाव एष ज्ञानस्य कृतस्तेन तत्पदार्थमेकोपाधिविशिष्टं निष्टंकयति। पर्यन्तविकल्पविश्वासे दन्तनिष्ठोषिकायाः किमेतदन्यत्। अन्यविकल्पालम्बने तु व्यक्तमेव प्रकृतदोषानतिक्र-(८)-मः कारकहेतुप्रसक्तिश्चेति यत्पुनरूपहास्य एवं उपहसति।

एतेन भेदाद्धर्मिणः प्रतीतावपि शब्दलिङ्गद्वारा धर्माणां भेदप्रतीतिरिन्द्रिय द्वारापि मा भूत इत्यादिकं तु कर्णस्पर्शें कटिचालनमपास्तम्। तत्तदुपाध्युपलम्भसामग्रीविरहकाले प्रसञ्जितस्येष्टत्वात्। विचित्रशक्तित्वाच्च प्रमाणानां, लिङ्गस्य प्रसिद्धप्रतिबन्धप्रतिसन्धानशक्तिकत्वात्, शब्दस्य समयसीमविक्रमत्वात्, इन्द्रियस्य तु अर्थशक्तेर पेक्षणात् न तु सम्बद्धोऽर्थ इत्येवं प्रमाणैः प्रमाप्यते, अतिप्रसङ्गादिति-तदपि सम्यक् पूर्वविचारानतिक्रमात्, अपि च तदस्यपरिहारेण प्रवर्ततेति च ध्वनेः उच्यते। तेन ते स्यात् व्यवच्छेदे कथं च सत् शब्दस्तथायुक्तं अन्यच्च निष्परिहारेण प्रवर्ततेऽतिप्रसङ्गे, तत्रान्यत्र च प्रवृत्त्यनुज्ञायां तन्नामग्रहणवैयर्थ्यं सत् प्रवृत्तिनिवृत्यनुज्ञायाञ्च एकचोदना, ना (२) नात्व एतद्वचनमेव स्यात् व्यावृत्याख्याने तस्मादवश्यं शब्देन व्यवच्छेदश्चोदनीयः। स चाभिन्नस्तदन्ये व्यक्तिजातिधर्माप्यस्ति तन्नियतासूपगमं, नियतचोदनं जात्यर्थप्रसाधनञ्च, परित्य (३) ज्य अवान्तरपरिकल्पनं अनर्थनिर्बन्ध एव यथाकल्पनमस्यायोगात्। न वै व्यवच्छेदो न क्रियते, प्रवृत्तिविषयन्तु कथयन्ति जातिरूपा, व्यवच्छेदोऽस्ति भेदस्य नन्वेतावत्प्रयोजनं शब्दानामिति। (४) किं तदसामान्यो नापरेण वः। न जातिरर्थक्रियायोग्येति प्रवृत्तिविषयः। तद्‍द्वारेण चोदिते न प्रवृत्तिरपि प्रत्युक्ता, तद्वत् चोदने च व्यवधानं जातिवतोः प्रवृत्तिविषयत्वे व्यावृत्ति तच्चान्तो (५) किन्नेष्यते व्यावृत्तेरवस्तुत्वेनासाधनत्वाच्चेत् तत्तुल्यं जातेः तद्वत्‌साधनाददोष इति चेत् तुल्यं तद्‍व्यावृत्तिमतः अवस्तुग्राही च व्यावृत्तिवादिनां शाब्दः प्रत्ययः सचित्रमवजातजन्म कारकेऽपि कारकाव्यवसायी प्रवर्तयति, वस्तुसंवादस्तु वस्तूत्पत्त्या तत्प्रतिबन्धेसति भवति, अन्यथा नैवास्ति वस्तुत्पत्ते र्न भ्रान्तेरिति चेत् नातत् प्रतिसिद्धस्ततस्तदव्यवसायात्। मणिप्र [७] भायां मणिप्रभायां मणिभ्रान्तिदर्शनेन व्यभिचाराच्च भ्रान्तेरवस्तुसंवाद इति चेत् न यथोक्तेनैव व्यभिचारात्। वितथप्रतिभासो हि भ्रान्तिलक्षणं तन्नान्तरीकतया संवादो न प्रतिभासा-(८) पेक्षी जातेर्ग्रहणमेवं भ्रान्तिग्रहणे वा न तत्र प्रवृत्तिरिति किं तेनान्यव्यावृता च क्रियायोग्यनीलाद्यर्थाकारप्रत्ययप्रादुर्भावात्, तदुपनीतेऽन्यप्रवृत्ति निवृत्ती समञ्जस जन्मानो विनापि च सा (८) मान्येन प्रकृतिभिन्नेष्वर्थेषु भेदे चेदमिति प्रत्यभिज्ञानं यस्मात्-

ज्ञानाद्यर्थक्रियां तां तां दृष्ट्‍वा भेदेऽपि कुर्वतः।
अर्थास्तदन्यविश्लेषविषयैर्ध्वनिभिः सह॥
संयोज्यप्रत्यभिज्ञानं कुर्यादप्य[१०]स्य दर्शने॥

भेदेऽपि प्रकृत्यैव चक्षुरादिवत् ज्ञानादिका अर्थक्रिया तथान्येषु पदार्थेषु तामेव अर्थक्रियामतद्रूपपरावृत्तेषु पश्यतोऽन्यावृत्तविषयत्वविसंसृष्टं तदेवेदमिति स्वानुभववासनाप्रबोधने संसृष्टभेदं मिथ्याज्ञानमा(म) जायते, अन्यथा भेदसंसर्गवती बुद्धिः स्यात् दण्डिवत्। न ह्येकदण्डदर्शनेनान्यत्र स एवायमि (२) ति भवति, किं तर्हि, तदिहेति। न चैवं प्रत्यभिज्ञानं किं तदेवेदमिति, तन्न तदेकमनेकत्र पश्यतोपि भेदसंसर्गवत् मुक्तम्। विभ्रमवशात्तु तथा ज्ञानेन विरोधः निमित्ताभावाद्विभ्रमो न मुक्त इति चेत् (३) त एव भावास्तदेकार्थकारिणोऽनुभवद्वारेण प्रकृत्या विभ्रमकलाया विकल्पवासनाया हेतुत्वान्निमित्तं। मरीचिकादिष्वपि हि जलादिभ्रान्तेस्तावेवाभिन्नाहारपरामर्शप्रत्ययनिमित्तानुभव (४) जननौ भावौ कारणं भिन्नावपि न हि तत्रान्यदेव किञ्चित्सामान्यमस्ति यत्तथा प्रतीयते। सत्त्वे वा सदर्थग्राहिणी बुद्धिर्भ्रान्तिर्न स्यात्, अभूताकारसमारोपाद्‍भ्रान्तित्वे स एवाकारोऽस्या विषयः, (५) अविषयस्यानारोपात्। स चारोपोसामान्यमेककार्यकारिग्रहण इति निरर्थिकोत्पत्तिः यथावस्थितस्वभावग्रहासामर्थ्यं विकल्पानां स्वकारणप्रवृत्तेः स्वकार (६)णञ्च अविद्यावासनाऽपि केशविभ्रमस्येव तिमिरं तेन।

अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा॥
दोषोद्‍भवा प्रकृत्या स विनयप्रतिभासिनी।
अनपेक्षितसाधर्म्यदृगादिस्तिमिरादिवत्॥
परस्यापि न सा बुद्धिः सामान्यादेव केवलात्।
नित्यं तन्मात्रविज्ञाते व्यक्त्यज्ञानप्रसङ्गतः।
एकवस्तुसहायाश्चेद्वयक्तयो ज्ञानकारणम्।
तदेकं वस्तु किं तासां नानात्वं[४] समपोहति।
नानात्वाच्चैकविज्ञानहेतुता तासुनेक्ष्यते॥
अथ वैकल्यं जननविरोधितेनतत्साहित्ये जननं चेत्
अनेकमपि ययेकमपेक्ष्याभिन्नबुद्धिकृत्।
ताभिर्विनापि प्रत्येकं क्रियमाणां धियं प्रति॥
तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया।

अथ यथा नीलादिषु एकापायेऽपि चक्षुर्विज्ञानं भवतीति न समूहेऽपि तेषामसामर्थ्यम्। तथेहापि प्रत्ये (१०) काषाये भवतीति न सर्व्वदाऽसामर्थ्यम्। न,

नीलादेर्नेत्र-विज्ञाने पृथक्सामर्थ्यदर्शनात्।
शक्तिसिद्धिः समूहेऽपि नैवं व्यक्तेः कथञ्चन॥

न हि व्यक्तयः सामान्यरहिता अन्वयिज्ञानजनने दृष्टशक्तयः ततो न तास्तत्र समर्था इति न तेन गृह्येरन्।

तासामन्यतमापैक्ष्यं तच्चेच्छक्तं न केवलम्॥
तदेकमुकुर्युस्ताः कथमेकां धियञ्च न।

पूर्वकसहकारिविचारात्सामान्यमुपकार्यमासां प्राप्तं सामान्यान्तरमिवापेक्षिणां क आसां प्रतिबन्धोधियमाधातुमेकान्तो हि तेन विनोत्पन्ना मिथ्या स्वविषयादृते। इति मिथ्या (२) त्वमाशङ्‍क्य मानसविवादा उक्तमेव बौद्धधियाम्। तथा

धर्मिणो नैकरूपस्य नेन्द्रियात्सर्वथा गतिः।
स्वसंवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः॥
सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः।
तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता॥
ते कल्पिता रूपभेदा निर्विकल्पस्य चेतसः।
न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः॥
यद्यप्यस्ति सितत्वादि यादृगिन्द्रयगोचरः। [५]
न सोऽभिधीयते शब्दैर्ज्ञानयोरूपभेदतः।
एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत्।
श्रोत्रादि चिन्तानीदार्नी भिन्नार्थानीति तत्कुतः॥
जातो नामाश्रयोऽन्योन्यः चेतसां तस्य वस्तुनः।
एकस्यैव कुतो रूपं भिन्नाकारवभासितत्॥

चक्षुलिङ्गञ्च शब्दञ्चाश्रित्य यदि चित्राचित्राभासत्वंविकल्पनिर्विकल्पकचेतसोर्भवति। तर्हि तयोरेकविंषयत्वं कथमस्तु परमार्थतः अथैकँ परमार्थविषयमपरं तिमिरकामलाबलादिव शुक्ले पीताद्याभासधायिनोऽविद्याद्यपरप्रत्ययादितः सर्वतो विनिवृत्तेऽखऽडात्मनि (८) विवक्षितार्थक्रियाहेतोप्रतिनियतान्यव्यावृत्तधर्म्मधर्मिभावलब्धखण्डत्वानर्थक्रियासमर्थप्रतिभासविकल्पकारिणः समुत्पन्नमपरमार्थविषयकारणं कारणभेदात् प्रति (९) भासभेदाच्च समर्थ्यतामित्युक्तौ क्लेदं सम्बध्यते।

चित्राचित्रप्रतिभासाभ्यां मिथो विरुद्धाभ्यामेकनीलविषयाभ्यामनैकान्तात्। न र्हि चित्राध्यक्षे यन्नीलं चकास्ति तदेव वा पुरुषान्तरस्य येनाकारेणैकविषयत्वं तयो र्न तेनैव विरोधो, येन च विरोधो न तेनैकविषयत्वम्, धर्मान्तराकारेण विरोधो नीलमात्राकारेण चै कविषयतेति चेत्-नन्विहापि धर्मान्तराकारेण विरोधो गोत्ववत्पिण्डमात्राकारेण एकविषयतेति तावन्मात्रनिराकरणेऽसिद्धो हेतुः। पूर्वत्र सिद्धसाधनम्। न हि शाब्दलैङ्गिकविकल्पकाले देश (२) कालनियमादयोऽपि सर्व एव धर्मविशेषा विषयभावमासादयन्तीत्यभ्युपगच्छामः” निर्वाहभ्रंशरूपे न ह्यव्यक्तमुक्तवतो पि प्रमेयानुसरणेनानिस्तरणमेव भवतः धर्म्मिधर्मतया चित्रतेह विवक्षिता सा कथमनेकान्ता। चित्राभ्यां नीलाभ्यां तयौर्निर्विकल्पकं चेत् गौरर्थक्रियासमर्थप्रतिष्ठितं नीलप्रतिभासयोः विकल्पका नियतप्रतिभासविकल्पेन सह कथं सव्येतरनयनदृष्टवदेकविषयत्वं स्फुटास्फुटास्फुटमपि सन्निहितासन्निहिततया नीलस्य ग्रहणं तत्रासन्निहिततया देशकालाभ्यां विकल्पकमवैति देशादिसन्निहिततया निर्विकल्पकम्।

दूरासन्नादि भेदेन व्यक्ताव्यक्तं न युज्यते।
तस्यादालोकभेदाच्चेत् तत्पिधानापिधानयोः॥
तुल्या दृष्टिरदुष्टिर्वा सूक्ष्मोऽशस्तस्य कश्चन।
आलोकेन च मन्देन दृश्यतेऽतो भिदा यदिं॥
एकत्वेऽर्थस्य वाह्यस्य द्‍श्यादृश्यभिदा कुतः।
अनेकत्वेऽणुशोभिन्ने दृश्यादृश्यभिदा कुतः।
मान्द्यपाटवभेदेन भासो बुद्धिभिदा यदि।
भिन्नेऽन्यस्मिनभिन्नस्य कुतो भेदेन भासनम्‌ः।
मन्दं तदपि तेजः किमावुतेरिह सा न किम्।
तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम्॥
अत्यासन्ने च सुव्यक्तं तेजस्तत् स्यादतिस्फुटाम्।
तत्राप्यदृष्टमाश्रित्य भवेद्रूपान्तरं यदि ?॥
अन्योऽन्यावरणात्तेषां स्यात्तेजो विहतिस्ततः
तत्रेकमेक दृश्येत तस्यानावरणे सकृत्॥
पश्येत्स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे।
अर्थानर्थौ न येन स्तस्तद्‍दृष्टं करोति किम्॥

अदृष्टं दृष्टं वा कारणं कल्प्यतामेकत्वे बाह्यस्य स्फुटास्फुटघटनापाटवापलापात्। प्रत्ययस्य प्रतिनियताकारितैव प्राप्तकाला। अन्यथा जय (१०) पराजयादिव्यवस्थावादिनां विपर्यस्येत्। अदृष्टवशाज्जयः पराजयतया परिणतः पराजयो पि जयतयेति शक्यमभिधातुम्।

तस्मात्संवित् यथाहेतु जायमानार्थसंश्रयात्।
प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः॥

यथा ‘ननु धर्मिण्येव स्फुटास्फुटप्रतिभासभेदः न कथञ्चित्। यथा यथा हि धर्माः प्रतिभान्ति तथा तथा स्फुटार्थप्रतिभान व्यवहार” इत्यादि, धर्म्मधर्म्मितया हि प्रतिभासनं देशकालाभ्यां असंनिहिततया कल्पनमस्फुटप्रतिभानमारोपितार्थत्वादित्यसकृदुक्तं परमार्थतस्तद्विषयता नेष्यते। साम्वृती तु जग (३)द्‍गीतास्त्येवातः परामर्शावतारः, तत्त्वदर्शिनः सम्वादोपि स्थूलपरामर्शिना तद्रूपपरावृत्तनीलविषयः, अवान्तरपरामर्शेन सजातीयपरावृत्तानेकनीलगोचरः सद्वस्तुत्वादयो (४) क्रियामात्रनिबन्धना व्यपदेशास्तस्यैव नीलस्य श्लिष्टाः स्वभावन्तरता स्पृशः तद्वारेणाप्यबाधनं गृहीतसम्बन्धानुसन्धानद्वारेण शब्दलिङ्गं लक्षिता प्रतीतिरूत्प्रेक्षाका-(५)-रतया परोक्षविषया अन्तसम्बन्धेन वा पुरोवर्तिनिवृत्तेर्व्यपरोक्षविषया न तयो रपि तत्वत एक विषयता सांवृतबोधस्वीक्रारे क्व प्रतीतिर्बाधानुपलम्भकुक्षौ (६) क्षिप्तत्वादुपाधिचक्रस्य न शक्यं शक्रस्यापि तद्‍द्वारेण संदिग्धानैकान्तिकत्वं कीर्तयितुम्।

ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम्।
प्रतिभासभिदामर्थे विभ्रदेकत्र दृश्यते॥
अर्थस्याभिन्नरूपत्वात् एकरूपं भवेन्मनः।
सर्व तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता॥
अर्थाश्रयेणोद्भवतस्तद्रूपमनकुर्वतः।
तस्य केचिदंशेन परतोऽपि भिदाभवेत्॥
तदा ह्याश्रित्य पितरं तद्रूपोऽपि सुतः पितुः।
भेदंकेनचिदंशेन कुतश्चिदवलम्बते॥
मयूरचन्द्रकाकारं नीललोहितभास्वरम्।
सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः॥
तस्य तद्वाह्यरूपत्वे का प्रसन्नेक्षणेऽक्षमा।
भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः॥
शोधितं तिमिरेणास्य व्यक्तञ्चक्षुरतीन्द्रियम्।
पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुनः॥
आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते।
शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषयः कथम्!॥

इत्यन्यस्योपाधिग्रहस्य तद्वतो चानन्वयव्यतिरेकाध्यासात्, तत्कथं तद्‍द्वारेणापि प्रतिभासभेदो भावीति धर्मादुपाधीनामतिवि ज्ञानसद्भावात्।

वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम्।
भेदेऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते॥
ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने।
इत्यतत्क्रार्यविश्लेषस्यान्वयो नैकवस्तुनः॥
वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः।
बाह्यशक्तिव्यवच्छेदनिष्ठभावेऽपि तच्छ्रुतिः॥
विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते।
ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत्‌श्रुतिः॥

‘बाह्यशक्ति’ इत्यादि श्लोकपूर्व्वभागः प्रमाणस्य बाधकस्य सूत्र [३] कः, ‘विकल्प प्रतिबिम्बेष्वित्यादि प्रकाश्य दृश्यविकल्पावर्थो एकीकृत्य व्यवहारप्रवृत्तेरित्येवमर्थः संकेतादिकारणस्य।

व्यतिरेकीव यज्ज्ञाने भात्यर्थं प्रतिबिम्बकम्।
शब्दात्तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा॥
तस्याभि धाने श्रुतिभिरर्थेकोऽशोऽवगम्यते।
तस्यागतौ च सङ्‍केतक्रियाव्यर्था तदर्थिका॥
शब्दोऽर्थाश कमाहेति तत्रान्यापोह उच्यात।
आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक कथम्।
शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च।
अनन्वयी धियोऽभेदात् दर्शनाभ्यासनिर्मितः।
तद्रूपारोपगत्यान्यथावृत्ताधिगतेः पुनः।
शब्दार्थोऽर्थः स एवेति वचन न विरुध्यते॥

इति बाधकप्रत्ययवशात् अतद्रूपव्यावृत्तविरोधेऽपि शब्दस्यार्थोऽपोह कथ्यते। स च विधि प्रतीत्यनन्तरं विधिगुणत्वेन प्रतिभाति। अन्बयव्यतिरेकाभ्यां लोकव्यवहार प्रवृत्तेः। यथा च तत्परिच्छिनत्ति इत्यादि [२]

क्कचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन।
बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात्।
व्यर्थोऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादि पदेष्वपि॥
व्यवहारोपनीतेषु व्यवच्छेदोऽस्ति कश्चन।
निवशनं च यो यस्मात् भिद्यते विनिवर्त्यतम्।
तद्भेदे भिद्यमानानां समानाकारभासिनि।
स चायमन्यव्यावृत्या गम्यते तस्य वस्तुनः॥
कश्चित् भाग इति प्रोक्तो रूपं नास्यापि किञ्चन।
तद्‍गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम्॥
न तत्र गम्यते कश्चिद्विशिष्टः केनचित्परः।
न चापि शब्दो द्वयकृदन्योऽन्याभाव इत्यसौ॥
अरूपोरूपवत्त्वेन दर्शनं बुद्धिविप्लवः।

इति व्यक्तमुक्तमपोहो व्यावृत्तिमात्रमुत्तरकालं शब्दार्थः प्रतीयते। प्रतीयत इतिसाध्वेवोक्तं

मित्रपादैः
शब्दैस्तावन्मुख्यमाख्यायातेऽर्थ,
स्तत्रापोहस्तद्‍गुणत्वेन गम्यः।
अर्थश्चैकोऽध्यासतो भासतोऽन्यः,
स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित्॥
एतावत्यर्थे विवक्षिते स्ववोधवैधुर्यं बोधयन्नाह-
वर्णकृत्यक्षराकार शून्यंगोत्वं हिवर्ण्यते॥

इति एतावत्यर्थे विवक्षिते स्वबोधवैधुर्यं बोधयन्नाह-‘यदप्यत्यन्तविलक्षणानामित्यादि, तदपि सन्दिग्धानैकान्तिकम्म् विधिनापि तथाभूतेन सालक्षण्यव्यवहारस्य निर्वाहात् तथाहि अयं व्यवहारो न निर्निमित्तः, नाप्यनेक निमित्तः नाप्यनेकासंसर्ग्येकनिमित्तः अतिप्रसङ्गात्। ततौऽनेक संसर्येकनिमित्तः परिशिष्यते इत्यादि, तदपि

वर्णाकृत्क्षराकार शून्यं गोत्वं हिवर्ण्यते।

वर्णाकृत्यक्षराकारशून्य (३) सामान्यम्, (२) बहुलाभिसन्धौ धौताधौतमूलकसमानसत्यतावृत्तान्तपामरस्यापि न लक्ष्यते को हि विशेषोऽभावोऽपोहः समस्तवर्णाकृत्यक्षराकारशून्यं वा सामान्यं अतद्रूपपरावृत्त नी (४) लाकारविकल्पेन प्रतीतिविशेषोऽध्यवसायशब्दार्थः वाच्यः, प्रवृत्तेरशेषाया अङ्गमित्युक्तौ, कोऽयमध्यवसायः किमलीकस्य वस्तुतयाऽवभासः किं चावस्थात्मकतया ततो भे(५)दाग्रहो वा वस्तुवासनासमुत्थत्वं वेत्याद्यनभिमतमुख्योऽप्य प्रस्तुतबन्धबन्धुताप्रतानः, अर्थसारूप्यमस्य प्रमाणं तद्वशादर्थप्रतीतसिद्धेः दृश्यविकल्प्याव-(६) र्थावेकीकृत्य व्यवहारप्रवृत्तेः प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवदित्यादिवचनात् नीलाकाराद्विशिष्टतद्विशेषग्रहः। अतद्रूपपरावृत्तनीलाकारा तन्मात्रग्रहणमिति व्यवस्था (७) यां “नापिविषयसारूप्यं, (तदभावान्) का हि परमार्थसदलीकरूपयोः समान रूपता नामे त्यादि गुडगोरसयोरेकताकरणं क्वोपयुक्तम्। बाधकप्रत्ययाद्धि तदलीकत्वं किं प्रागा (८) रोप्य चिन्ता क्रियते शेषश्च दोषोऽभिमानस्यैव चिन्त्यत्वादित्यादिरजतप्रतीतिपरामर्शाद्‍गतः। यदि रजतं किं वाच्यम्। तस्माद्भावाभावसाधारणप्रतिभास(९)..........साधकेन विधेः प्रत्ययान्तरेणास्तीति वा स्थाप्यो नास्तीति बाधकेन आशङ्कितस्यारोपितस्य वा प्रतिबंधो देशादिप्रतिषेधे प्रीतिप्रसिद्धमेव।

देशकालनिसिद्धश्चेत् यथास्ति स निषिध्यते।
न तथा न यथा सोऽस्ति तथापि न नि[१०]षिध्यते॥

यत् तु ज्ञानसारुप्यात् क.....प्रवृत्तिरिति प्रस्तुत्य स्फुरित एव प्रवर्तयनीति तत्सिद्धमेव साध्यते। यतो ज्ञानसारूप्यमनुमानसिद्धमिष्य (१) ते। स चावस्थातुं‍अपरोक्षरूपाज्ञानान्तर्गताप्यनुमानेन सिद्धा। अहंकारास्पदग्राहकाकारपरामर्शान्तर्गतत्वात् बाह्यभूता स्फुरितशब्दवाच्या।

सारूप्यात् भ्रान्तितो वृत्तिरर्थे चेत्स्यान्न सर्वदा।
देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः॥
तथा विधायाः, अन्यत्र तत्रानुपगमाद् धियः।
बाह्यऽर्थप्रतिभासाया उपाये वाऽप्रमाणता॥

....वस्था स्वभावबाह्यमाकारा परव्यपदेशता परोक्षतारूप प्रकाशात्मकानहंकारस्य च नीलभावादेव च तथोक्त तद्रूपरावृत्तिविषयाबुद्धि स्वहेतोरालोच्यते प्रव........................शुक्तौ रजतशुक्तिवद् तेनेदमपि निर्दलितम्।

आ. त. वि. 162-163-“तर्हि स्फुरिते स्वाकार एव प्रवर्तयतु तत्र प्रवृत्त एव चार्थी तत्सदृशमर्थमासादयति। (मणि) प्रभायाँ प्रवृत्तो मणिबदिति चेत् ‘न, अभिभतार्थक्रियासामर्थ्यविरहिण्यप्रवृत्तेः। (४) न बाह्ये विकल्पाकारोपसम्भवस्तस्य तेनासंस्पर्शात्। चाकारे बाह्यत्वारोपः स्वरूपे संस्फुरति, अस्वरूपारोपानवकाशात्। प्रभायां तु मणि बुद्धयैवमण्यर्थी प्रवर्तते न तु तद्धुद्धयेति दृष्टान्तोऽप्याभासः” इत्यादितर्कतत्त्वमबेदयमानेन भणितम्।

मणिप्रदीपप्रभयोः मणिबुद्धयामिधावतोः।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति॥
यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः।
अर्थक्रियानुरोधेन प्रमाणत्वं सुव्यवस्थितम्॥
ग्राहकाकारविक्षिप्ता नीलमेवेतदिति स्फुरत्।
विकल्पबाह्यमेवैतत्..........................

नीलान्यनीलनीलगोचरः.......... ज्ञानमाभाति नीलाकार उत्यत्तेश्चेत्। अनुमानात् तयोऽन्ये.....विकल्प्यार्थो हि धर्मिणि। “सम्वेदनं च यत् रूपं नहि तत् तस्य वेदनम्” वस्थित न भवत्येतत्। स्थितमवयविन.........(८) अन्वयव्यतिरेकाभ्यां सर्वभेदमिदं गतः।

तस्माद्वाह्यसिद्धिश्च साकारं च ज्ञानमिति बाललोलुप्त्व मिति परिहास परितार्पि परतापितहृदयव्यक्ताव्यक्ताद्युत्पत्तिज्ञाने नीलमज्ञानं न क्रियोपलक्षितस्वरूपव्यव-(९)-हारत्वमुपायमिति तत् उपाधि नीलमनहंकारकलितमाभासने मेयबाह्यता भासते ज्ञानरूपाख्यं अनुमाने नेति। प्रथमप्रामाणिकवचनमेवेति लक्षणैरूपलक्ष्यते...............ष्टा सति (१०)वि हेतुरति द्वियो-

कोकापद्‍मवने प्रीता नैतदैश्वर्यकारणम्।
अद्यापि बहिरेवायं तत्करिण्या मनोदधेः॥
बालपावकवत् ग्राह्या बालद्रुम.............

यत्पुनरुक्तम्-

“अथ कोऽयमगौर्नाम। किमेकस्य गोस्वलक्षण स्यानात्मा आहोस्वित्तद्‍गतधर्मविरही। आद्ये वाहुलेय एव मौनं शावलेय स्यात्। द्वितीये तु तद्‍गत धर्मविरहि व्यावृत्तस्तद्वानेन स्यात् तत्र च नो विवादः इत्यादि कृतोपि सर्वदा तदपोहेन............दर्शितं स्यात्।

एक प्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता।
एकप्रत्यमशार्थं ज्ञानाद्येकार्थसाधने,
भेदेपि नियता केचित्स्वभावेनेन्द्रियादिवत्॥

तस्मात्‌त्वयि कुर्वत्‌सर्वेणेह मण्डलमखण्डसंतत सदा येन पश्यति न भूमिं असन्तश्च.....परिमाणवर्णाकृत्यक्षरा (४) एव प्रवृत्ते..... मण्डलकृतमेकपरामर्शमप्यपश्यन् वर्णाकृत्या अतद्धर्म्मव्यतिरिक्तमवबुध्यत इति तथा स्यात् विशेषमपि न यत् न हि रुप्यते एकेनैव व्यवहारो इत्येव व्यक्तित्वे रूपमिति यदि (५)तदा सामान्यमपि नीलाद्याकारवाची स्यात्। स्यादेकव्यवहृतेः यतोऽन्यस्मादेकत्वेनान्ये यद्येकत्वेन व्यवहर्तृ स्यात्तर्हि बुद्धिवैकल्यसजातीयव्यावृत्तिविरोधः। किं चाथ व्यक्तिवेन किं भाषकत्वेन (१६) व्यवहारयति यत् यत् एतत् अनया प्रतीतं तदेव तयैकत्वेनव्यवहार्यमिति सबला प्रवुत्तिः। बहुषु सामान्येषु वाचित्वमिहा............मिति सत्यस्पष्ट............अन्वयव्यतिरेकाभ्यां(७) प्रत्ययविभागम्।

बुद्धेरस्खलितावृत्तिर्मुख्यारोपितयोः सदा।
सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी॥
यत्र रूढयाऽसदर्थोऽपि जनैः शब्दो निवेशितः।
स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्‍गति॥
यथाभावेऽप्यभावाख्यां यथाकल्पनमेव वा।
कुर्यादशक्ते वा प्रधानादि श्रुर्तिं जनः॥
यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासितत्।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते॥
जातिश्चेद् गेह एकोऽपि मालेत्युच्येत वृक्षवत्।
मालावहुत्वे तच्छब्दः कथं जातेरजातितः॥
मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः
मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः॥
अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वयि।
पदार्थशब्दःकं हेतुमन्यं षट्‍कं समीक्षते॥
यो यथा रुढितः सिद्धस्तत्साम्यात् यस्तथोच्यते।
मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः॥
संकेतान्वयिनी रूढिर्वक्तुरिच्छन्वयी च सः
क्रियते व्यवहारार्थ छन्दः शब्दांशनामवत्॥
विकल्पसंस्कार मात्राश्रयसमुद्भवः॥
बाह्य हेत्वाश्रयात् साक्षात्संभवाद्धेतुरोधकः।
सम्बन्ध बोधिशब्दो वा तद्वोधो वापि बोधयेत्।
तदभावैऽपि तिरोहे संज्ञावदनपेक्षयेंत्।
तन्मात्रपरतन्त्र सेत्युच्चार्यतुमीहे भया।
य मात्रता संवित्तत्रावस्थिति दर्शनात्।
समयोयमनाद्युपज्ञब्दशक्ति निराकृतम्॥
अव्यव
शब्दः प्रस्थापकत्वे स्यान्नार्थस्यापि तु संविदः॥
सा तु तस्येत्य सम्बन्धो प्रच्यवेदकताधिकः।
नाभिधानं परोधर्मः प्रतीतिकरणाज्जनैः॥
करणत्वेऽपि कार्याल्पा क्रिया न द्वय निष्ठता।
प्रतीतेरनुतद्वित्वे तद्धेतुस्तत्प्रतिष्ठितः॥
मा चरन्नभि कुतोऽभेदा तद्विपर्यसंविदा।
सर्वासामर्थसंवित्वे संविदाते विपर्यवः॥
सर्वमेव प्रमाणं स्यात्‌वरूपादिष्ट संश्रयात्।
परोक्षता प्रमाणं स्याद्धेतुभेदे विशेषतत्॥
उतः [४]प्रमाणं तत्त्वैस्तु स्वयमुच्चारणे तथा।
गर्थप्रतीति निवृत्ति स्वातंत्र्यवति वाचके॥
नाकाक्षादिकृतैकार्यविषयत्वेऽस्वतन्त्रता।
एकमेवार्थं विज्ञानं ज्ञानं मिन्द्रिवसंश्रयम्॥
नातो[५]ऽन्यम्तन्निमित्तस्तद्वस्तु प्रत्वायकं कृतः।
वस्तुसम्बन्धसामार्थ्याक्षिप्तवस्त्वाश्रयागतिः॥
तत्र नान्यत्र तच्चैतत्प्रापितं संकरं परैः।
तदभावे पि या जाता तद्वाक्यप्रष्टपेक्षया॥
[६]मा मेति शून्यकार्येति कस्य हेतोः प्रकल्पयेत्।
[बौद्धन्यायाचार्यश्रीरत्नकीर्तिपादविरचितम्।
उदयनिरकरणम्]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project