Digital Sanskrit Buddhist Canon

द्वितीयोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyo'dhyāyaḥ

व्यतिरेकभावादिनिर्णयः

द्वितीयोऽध्यायः

प्रसंगविपर्ययरहस्यं.....पूर्वपर्यवस्थि (त).....विपक्षादक्षणिका व्यायावृत्तं प्राप्तं वर्णनम्। अधिकश्च तत्राश्रयहेतुदृष्टान्तसि (१) द्धौ-प्रमाणाभावः, अवस्तुनि प्रमाणाभाववृत्तेः, प्रमाण प्रवृत्तावलीकत्वानुपपत्तेः। एवं तर्हि अव्यवहारे स्ववचनविरोध इति चेत्-तत् किं स्ववचनविरोधेनतेषुप्रमाणमुपदर्शि-(२)-तं भवेत् व्यवहारनिषेधव्यवहारोपि खण्डितः स्यात्। अप्रामाणिको व्यवहारोऽवश्यं स्वीकर्त्तव्य इति वा भवेत्।

नाद्यः-नहि विरोधसहस्रेणापि स्थिरे तस्यक्रमादिविर-(३)-हे वा शशशृङ्गे वा प्रत्यक्षं अनुमानं वा उपदर्शयितुं शक्यं तथात्वे वा कृतं भौतकलहेन। द्वितीयस्तु इष्यत एव प्रमाणिकैः। अवचनमेव तर्हि प्राप्तं किं कुर्मो यत्र वच-(४)-नं सर्वथैवानुपन्नं तत्रावचनमेव श्रेयः, त्वमपि परिभावय तावत्। निष्प्रामाणिकेऽर्थे मूकवावदूकयोः कतरः श्रेयान् प्रमाणिक इति।

एवं विदुषापि भवता न मूकीभूय (५) स्थितं अपितु व्यवहारः प्रतिषिद्ध एवासतीति चेत् सत्यं-यथा अप्रामाणिकः स्ववचनविरुद्धोऽर्थो मा प्रसाङ्क्षीदिति मन्यमानेन त्वयि योऽप्रामाणिक-(६)-एवासति व्यवहारः स्वीकृतस्तथास्माभिरपि प्रमाणचिन्तायाँ अप्रामाणिको व्यवहारो मा प्रसाङ्क्षीदिति मन्यमानैरप्रामाणिक एव स्ववचनवि-(७)-रोधः स्वीक्रियते। यदि तूभयत्रापि भवान्‌समानदृष्टिः स्यादस्माभिरपि तदा न किञ्चिदुच्यत इति।” तृतीये त्वप्रमाणिकश्चाप्यवश्यस्वीकर्तव्यश्चेति कस्येयमाज्ञा इति भवानेव (८) प्रष्टव्यः। व्यवहारस्य सुदृढनिरूढत्वादिति चेत्-अप्रामाणिकश्च दृढनिरूढश्चेति व्याघातः। कथञ्चिदपि व्यवस्थितत्वादिति चेत्-अप्रामाणिक(९) श्चेन्नकथञ्चिदपि व्यवतिष्ठते-प्रामाणिकादिवत्तदेवोच्यतामितिवादे व्यवस्था। एकमेव जल्पवितण्डयोस्तु प्रमाणप्रश्नमात्रव्यवस्यते स्ववचनव्याघातः। तत्र (१०) प्रमाणेनोत्तरमशक्यम् च, अप्रमाणेन तूत्तरे स्ववचनेनैव भङ्गः, मदुक्तेषु प्रश्नादिषु प्रमाणं नास्तीति स्वयमेव स्वीकारात् अनुत्तरे तु अप्रति भैवेति। यदि च व्यवहारस्वीकारे विरोधपरिहारः स्यात् असौ स्वीक्रियेतापि न त्वेवं-न खलु सकलव्यवहाराभाजनञ्च तन्निषेधभाजनं वेति परस्परमविरोधि(तम्(२)चेत्) इति परेणोक्तं तदेतत्सकलमसङ्गतम्-स्ववाग्वाधाबोधनया हि व्यापकानुपलम्भाश्रयाद्यसिद्धिमुद्‍भावयतोऽदोषोद्‍भावनं नाम निग्रहस्थानं उत्थाप्यते। (३) कथमिति चेत्-उच्यते।

आश्रयदृष्टान्तादौ प्रमाणाभाव इति साध्यमध्यवसितम्। अवस्तुनि प्रमाणाप्रवृत्तेरिति हेतुरावेदितः। प्रमाणप्रवृत्तावलीकत्वानुप(४)पत्तेरिति स्वाभिप्रायेण उपपत्तिः प्रतिपादिता तथा चाश्रयेऽवष्टम्भकप्रतिपन्ने प्रमाणेन प्रमाणाप्रवृत्तिलक्षणधर्मस्य धर्मिधर्म्मत्वावरोधे च निष्प-(५)-न्ने कथं नाश्रयाद्यसिद्धिबोधः।

अथ नास्त्येव असिद्‍ध्यादिदोष परप्रमाणस्याप्यसिद्धया साधनादौ न सन्निधानं लब्धव्यमित्यापातम्। तथा च तत्प्रमा(६) णमेवापवाददरिद्रत्वात्। ततश्च यत्त्वयादूषणमुक्तं तत्र दूषणमिति अदोषोद्‍भावनं नाम निग्रहस्थानमतस्तयोरेकतरवादिनिराकरणान्ता पर्यवसान (७) मानीतैवकथेति किं परं निरर्थकविकल्पत्रयेण भवितव्यम्। तथा हि किं प्रमाणमुपदर्शितं भवेदिति प्रमाणमेवापदर्शितं निर्दोषता विस्फुरणात् स्वसाधनस्य परोक्ताव-(८)-द्यस्य स्ववचनविचलना भ्रान्तत्वात्। अव्यवहारप्रतिषेधव्यवहारखण्डनापि स्ववाग्बाधितव्यवहारप्रतिषेधसन्निधानायका वस्तुधर्म्मिधर्मस्य च प्रमाणत्वात् प्रतिवादिनः न (९) च व्यवहारनिषेधव्यवहारहेतुरपहस्तितो हस्ते’न्यस्तश्च व्यवहारप्रतिषेधव्यवहार इति हृदयङ्गमं जनङ्गमस्यापि व्यापकानुपलम्भेन व्याप्याभावव्यवहारं व्यवहारतः सुदूरमपकृष्टप्रामाणिकव्यवहारावश्यमङ्गीकरणम्।

यत्पुनरुक्तं नहि विरोधसहस्त्रेणापीत्यादि तदपि स्ववचनविरोधानुरुद्धमवधार्यम्। नित्येऽवस्तुनि प्रमाणमुपदर्शयितु-(२) मशक्यं प्रत्यक्षमनुमानमिति किं त्वया प्रतिपन्नं अप्रतिपन्नं वा। प्रतिपत्तिरपि किं प्रमाणेन अप्रमाणेन वा। प्रमाणेन प्रतिपत्रौ स्ववचनव्याघातः। अप्रमाणेन तु प्रतिपत्तिरप्रामा(३)णिकस्यैवेति महती विकृतिः। न चायं भौतकलह प्रमाणस्यव्यापकानुपलम्भस्यं दर्शितत्वात्। द्वितीयस्त्विष्यत इति चान्तर्भूत्वा भासते जनः प्रामाणिकश्चेति अवस्तुनि व्यवहार-(४)-प्रतिषेधव्यवहारखण्डना कुतश्चेतिब्रुवन्तः एव विशिष्ट विषयव्यवहारप्रतिषेधव्यवहारखण्डेनाशब्देनैव तद्विषयप्रमाणाप्रवृत्या तद्विषयत्वमुक्तसाध्यस्य दुःसमाधानम्। अवस्तुनि (५) व्यवहारप्रतिषेधव्यवहारखण्डनाशब्दवाच्यव्यवहारप्रतिषेधव्यवहारप्रतिषेधसमाधाने वा स्ववाग्बाधा सन्निधानं आपद्यन्ते। प्रकृतवादनिधनावद्यकरमिति कृतार्थोऽनु-(६)-पलम्भवादी नियतव्यस्तत्वात् प्रतिवादिनः। ‘किं कुमो यत्र वचनं सर्वथैवेत्यादि’ यदुक्तं तदपि स्ववचनविरुद्धमनुरुद्धमनुबद्धं अनुप्रवर्तते। एतद्‍भयादभगतौ वा किञ्चिदप्रतिभा-(७)-वानुभास्करप्रभावानाभिभवभूमिर्मव्यस्थापीति नितरां निस्तीर्णव्यसनान्तरोवादी। तथाहि व्यापकानुपलम्भे पुनः समुत्थाप्यन्ते प्रतिवादिनी दूषणा दुष्करेऽभाषणभावभाजिभूते पराज-(८)-यभूमिरप्रतिभाभावतः प्रभेवभास्वतःसाधुजननिवेशितं साधनं प्रसाधनमेवोद्योतयतीति लब्ध एव कथावधिः।

स्ववागाबाधतो विम्यत् विभ्यच्च प्रतिभाक्षयात्।
अब्रुवन् अविब्रुवन् (९) वापि वादी भवति भर्त्सितः॥

यत्पुनः स्वभाषाभङ्गिभिरसङ्गताभिरङ्गीकरोति व्यवहारं न चोक्तावद्यं श्रुतिसभ्यः प्रस्पन्दं गिरामित्युद्‍भणति। सत्यं यथाऽप्रामाणिकः स्ववचनवि(१०)रुद्धोऽर्थ’ इत्यादि तदपि शून्यसंशनं प्रंसनापात्रम्। स्ववचनविरौधविरुद्धतयैव नातिप्रसक्तो व्यवहारप्रतिषेधव्यवहारः न पुनः स तथाभूतो मा भूदित्ययं व्यवहारोऽस्माकमनुमतः किन्तर्हि तद्‍व्यापकविरहात् व्याप्यविरहो विभागतः प्रमाणानुगतश्च व्याप्यव्यापकभावस्वप्रमाणसिद्धत्वात् तद्विरहितस्य चावस्तुसतो धर्म्मिणः प्रतिपन्नत्वात्(२) असतोऽत्यधिकरणादिविवक्षारूढकारककलासंक्रान्तकलेवरत्वात्कथमपरथा स्थूलस्खलितस्ववचनबाधावारुद्धा वृथान्यायविन्मानिनो नैयायिकाः स्ववचनबाधेहि स्ववचनंप्रमाणं बाधकं ढौकितम्। अतः कथमयमप्रामाणिकः कथित इति श्लथय शून्यग्रन्थिग्रन्थनार्थित्वम्। तथा च अप्रामाणिकः स्ववचनबाधोऽभ्युपगम्ययमानोपि त्वया स्ववाग्बाधत्वं न जहाति नानुमानं प्रमाणमिति-(४)-वित् यदि त्वभ्युपगमादेवादोषत्वमेवमन्यत्रापि अस्तु अवस्तुविषयेऽसिद्धत्वमभ्यु पगच्छाम इति वयमपि वदिष्यामः उत्पत्त्यापि जल्पवितण्डेऽपि कथ्यत इति तत्पक्षापेक्षया (५) विवक्षितोदोषः क्षिप्यते।

पक्षादिषुप्रमाणप्रश्नमात्रप्रवृत्तस्येत्यादि,
प्रमाणं पृच्छता तेन जल्पकेन जयात्मना।
अवस्त्वाचारसमारब्धं पृष्टं तच्च न सिद्‍ध्यति॥
विकल्पेन तु तत्सिद्धौ (६) प्रश्नप्रणयणे कृते।
कृतावकाशो हेतुःस्यात् मौलः साधुः विजृम्भितः॥

अवस्तुधर्मी कुतः प्रमाणात् प्रसिद्धमिति ब्रुवन्नेव अवस्तुधर्मिनिष्ठप्रमाणप्रश्नः तदसिद्धौ प्रमाणतः (७) प्राप्तानवकाशः काशतललवलधीयानिति कथं न स्ववचनप्रतिहतः। तथाहि विशेषविषयप्रमाणप्रश्नात् विशेषः सिद्धः तदसिद्धौ तद्विषयविमर्शायोगात्। सिद्‍ध्यभ्युपगमेवा ये-(८)-नैव वचसा परमचरोध्वमधुरस्तेनैव स्वपक्षं क्षिणोतीति क्षीणः कथंजल्पवितण्डयोरपि स्ववचनव्याधातः। तदेवं बौद्धेन व्यापकानुपलम्मे व्याप्याभावार्थमुपन्यस्ते कस्या-(९)मपि स्ववाग्जर्जरित् जयो जायते। न भाषते चेत् अप्रतिभां भूरिभूमिमाभजतीति कृतं कायव्रतेन सबिनैव न्यायेन अवस्त्वपि धर्मिस्वानुरूपध-(१०)-र्मापेक्षया स्वानुरूपनिरूपणनिष्ठितनिः शेषनिजधर्मविषय इति अभ्युपगम्यताम्। अयं सभ्याः तथाहि जीवति शरीरे क्षेत्रज्ञ संज्ञा उपमेयमेयज्ञापनाङ्ग प्रामाणदिमत्वं न्यस्तम्। केवलव्यतिरेककीर्तितविक्रमः श्रावणत्वसमं माभूदिति सपक्षे तर स्यादेव व्यावृत्तमिति वर्णनीयतासपक्षे(२)-सत्वमस्यापद्यतेति मृषोद्यं विद्योतेत। केवलव्यतिरेकत्वमस्येति प्रमुषितमन्‌ःपरितोषतया सपक्षस्याविद्यमानत्वात्। तस्मिन्नस्य सत्त्वमशस्तमुपन्यस्तमपहस्तनीयमितिचे-(३)-तयमानः।

किं सद्‍भाव भंगेनासद्‍भूते प्राणादिमत्त्वस्य सपक्षे सद्‍भावविपक्षं लक्षयति न चेत्तर्हि सद्‍भावासद्‍भावनिषेधव्यवहारोपि निषेधव्यवहार एवेति निवृत्तिः किं निषिध्यते। प्रा-(४)-णादिमत्त्वं सपक्षस्य विद्यमानत्त्वात्। न निवृत्तमपादानत्वस्याभावादिति। स एष व्यवहारो नैयायिकस्य व्यतिरेकिहेतुप्रतिहतिप्रत्यूहननिदानो दीप्यते। न बौद्धप्रारब्धविरोधानुरोधा-(५)-दनुबद्ध इति भण गुणमयमनोहरनीतिं प्रमाणप्रहरणस्य काञ्चित्। यया सपक्षो विक्षोभितविपक्षप्रसरः प्रेक्ष्यैरूपलक्ष्यते सिद्धधर्मितया तदाश्रितश्चायमविद्यमा-(६) नत्त्वं नाम पक्षधर्मताध्यस्तं स्यात्। स्याच्चास्याप्यन्वयाद्यनुशरणमणीयसाऽप्यंशित्वरमणीयं यदविद्यमानं न तच्छक्तिसमाख्यातकारनिबन्धनसुवर्णादिपदप्रासाद-(७) धवलदक्षम्, तद्यथान्तरिक्षबलक्षजलजजालम्। अकालजलधरधीरध्वानं नेदानीं व्यायनीतिनिपुणप्रसाध्यमारब्धप्रमेयबोधोपायमनपायमापदेषाऽभावप्रमेयदर्शमु-(८)-त्कर्षितरोषा परापतति। अस्मादविस्मयवेश्माप्रविश्य प्रगुणोपायं मानप्रतिपीपदः प्रसाधकं प्रमाणमभावप्रमेयस्य विकल्पमनल्पाभावव्यवहारपरिभावितसाम-(९) र्थ्यमनर्थककदर्थनं कथाकथाच्छादनेन किं तरयति प्रस्तुतव्यतिरेकक्रमम्।

यातानयातो मार्गोऽयं हेतुकानामनेकधा।
सुधामोहव्यपोहेन देहास्येह समीक्षता।
ईर्ष्यारो-(१०) षकथापक्षे प्रेक्षप्राक्षालनक्षमः।
क्षणक्षप्यत्वसत्पक्षे विपक्षस्त्वेष लक्ष्यताम्॥

एवं प्रमेयत्वमपि सकलकालकलापव्यापिस्वभावं शाश्वतत्वमनुसंधाय (साध्य सा) धनौ धर्मिणि केवलान्वयमनुमन्यमानं अमुना (न्यायेन) ना (न) येन निर्व्वहति।

ननु चाधुना पि न धुनाति वाक्यं स्वपरपरामर्शसाम्यमसपक्षन्यायस्य न्यासे विशेषणं मनसि ह प्राप्तकालमवा(२) लस्य प्रमाणव्यापारस्पर्शनेन तत्र कम भाणीत् गुणीगुणः बहुबाधाविधोपि तर्कोपनिषदनवद्यविद्याचार्यकीर्ति(धर्मकीर्ति) कीर्तिप्रमाणव्यापारपरिपालनमिह निदानं मुदः प्रामाणिकम् (३) अस्ति च अभावविभावनाविभुः प्रभुतप्रमाणव्यापारः पीरस्फुटा पि पटुभिरपि नारटितः प्रत्यर्थिजनाभ्यर्थनया निःप्रमथनं कथ्यते।

रूपाभावादभावस्य शब्दोरूपाभिधायिनः। (४)
न शक्या एव सिद्धास्ते व्यवच्छेदस्य वाचकाः॥

अभावप्रमाणवेद्योऽभाव इति भट्‍टभावमभिभूय विशेषणविशेष्यभावभावसन्निकृष्टाभावमक्षजप्रत्यय-(५)-प्रत्याज्यं तच्चास्याक्षपा दमतम्। तत्परिच्छिनत्ति ततोऽन्यद्‍व्यवच्छिनत्ति तृतीयप्रकाराभावञ्च सूचयतीत्येकप्रमाणव्यापार एष इति नरसिंह सिंहासनारूढ प्रौ-(६)- ढप्रामाणिकचक्रचूडामणिवचनरत्नं यत्सतः श्रूयताम्।

अत्र हि प्रसङ्गविपर्ययनिर्वाहेण पूर्वापरावस्थयोर्व्यवस्थापितो वस्तुभेदः स एवानित्यता शब्दवाच्यता (७) तथा च स्वभावादवस्थ्यमनित्यतां व्रूम इति वचनम्। स चान्तरं प्रागभावं प्रध्वंसं च सामाख्यातो वस्तुभेदः प्रसिद्‍ध्यति येन प्रमाणेन क्षणपर्यवसानभजनभावेन क्षण-(८)-भङ्गभाषया भणितः तेनैव तद्विपरीतमपि नित्यत्वमक्षणिकत्वं च सिद्धिपद्धतिमध्यारूढं जायते। तस्य परिच्छिद्यमानादनर्थान्तरत्वे तत्त्वेन विलोकने स्यादत-(९)-त्वे ततः पृथगवस्थानव्यवस्थानममुनैव प्रमाणेन परिच्छिन्दता तृतीयप्रकारापकारश्च कलितः। तत्पुनः प्रमाणमाचार्यपादैर्दर्शितम्। अन्त्यक्षणदर्शिनां निश्चयादिति प्रत्यक्षम्। तथा-

क्वचित्तदपरिज्ञानं सदृशापरसंभवात्।
भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत्॥
तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम्।
पश्यन् परिच्छिनत्त्येव दीपादिनाशिनं जनः॥

तथा सर्व हि प्रदेशमर्थान्तरं अध्वानविविक्तमुपलब्धवतः स येन येन असारेण तदसारणतां ततो भेदमभिलपन्ती स्मृतिरूत्पन्ना प्रत्यक्षबलेनेत्या-(३)-दिना तत्र तत्र सशून्यं वचः तदिहापि नित्यत्वमनित्यताग्राहिप्रमाणेन स्वप्रेमयाद्वहिर्भावभागिस्मरणजनद्वारेण आत्मव्यापारं व्यवहारतथताऽवतारितनिश्चयं विपश्चितः प-(४)रितः परितोषयतो यथा सलिलं सलिलजस्य निदानमदीनमानसेन प्रमाणसनाथेन स्थापयित्वा सलिलसरोजबीजस्वभावमबिभ्रतोऽभूतो न भ्राजते भावतो भावो बारिजन्ये (५)-ति कारणाभावेन कार्यमसदिति प्रतिपिपादयिषा परवशस्याकाशदेशे पि य शब्दप्रयोगो रोगमिव भावमस्पृशन् अभावाभिधायी नाशङक्य एव सद्‍भावविभावकृत्-(६)-न चाप्रमाणपूर्वकः स्वयमप्रमाणमपि स्मरणसमर्थितपदार्थसार्थवदयमपिप्रमाणप्रणीत एवाङ्गीकरणीयः। तथा सुप्रसूतः स्वन्नरून्न-(७)-तनीतिनिम्नेनाम्नोतो येनैव मानेन मनस्विना सता तेनैव बन्ध्यासूनुशब्दो विनिवेशितः नाशंका तङ्केन तर्कते भावचनोपमिति बलाबलम्बीव्यवहा-(८)-रोऽम्बुदसंवृतदिगन्तरे वा पि प्रमाणयितव्यो नामान्यथा प्रस्थानं परिपन्थिविधिरूपेण तु प्रमाणप्रणयानुसरणकारणकोऽयमकाण्डचण्डः कोलाहलो (९) लोकालोकमाक्रमतीति किमत्र कुर्मः।

तदेव,

नित्यं नास्ति न वा प्रतीतिविषयं तेनाश्रयासिद्धता,
हेतोः स्वानुभवस्य चाक्षतिरतः क्षिप्तः स्वपक्षोऽपि च।
शून्यं च द्वितयेन सिध्यति न वा (१०) सत्तापि सत्ता यथा,
नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि॥
इति दोष संग्रहः।

अत्रामी एवं पर्यननुज्यन्ते,
धर्मस्य कस्यचिदवस्तुनि मानसिद्धा,
बाधा विधिव्यवहृतिः किमिहास्ति नो वा।
क्वाप्यस्ति चेत्कथमियन्ति न दूषणानि,
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः॥
तस्माद्वैधर्म्यदृष्टान्ते नेष्टो-(२)ऽवश्यमिहाश्रयः।
तदभावे च तन्नेति वचनादपि तद्‍गतिः॥
तत्तु अनादि वासनोद्भुतविकल्पपरिनिष्ठतः।
शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः
तस्मिन्भावा(४)नुपादाने साध्ये ऽस्यानुपलम्भनम्॥
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः

असंख्यातो हि विषयः सर्वभावधर्म्मनिवृत्तीनां व्यवहारायाभावानुरूपधर्मवि-(४)-धीनां सर्वोपारव्याविरहलक्षणाभावो भावयितव्यो यथोक्तप्रक्रमप्रसाधितसमस्तप्रमाणव्यापारतया प्रमाणिकजनसमाश्वासविश्वम्भराभूतः तथा (५) न सपक्षोऽसपक्षः ततोऽन्यस्तद्विरुद्धस्तदभावश्चेत्यपि परमसुतरामनया रीत्यागतमानुषङ्गिकम्। प्रस्तुते पुनरुपदिशामः।

यदि च व्यावहारस्वीकारे विरोधो परिहारः स्यात् (असौ स्वीक्रियेतापि, न त्वेवम्), न खलु सकलव्यवहाराभाजनञ्च तन्निषेधव्यवहारभाजनञ्चेति वचनं परस्परमविरोधीति,-यदुक्तं तद्वालेनापि दुरभिल(७)पम्। अभावो हि धर्मी स्वानुरूपप्रमाणव्यापारानुसारी स्यात्ते प्रत्ययप्रतिष्ठापितः स्वस्मिन्नसंभाविना च भावधर्मेण विमुह्यमानो व्यापकानुपलम्भेन सम्भा-(८) वितः। तत्किमुच्यते न खलु सकलव्यवहाराभाजनञ्चेत्यादि अवस्तुनोऽवस्तुसमुचितधर्मविधिव्यवहारगोचरतयापीष्यत एवेति नाभ्युपगण एव दो-(९)-षायेति शेष प्रबन्धोऽपि निःसारतयाऽदम्भारम्भास्तम्भसम्भावनां बिभर्ति। बन्ध्यासुतशब्देन च स्वभाव एवोच्यते इत्युक्तम्। ततस्तदनुबन्धने प्रबन्धो बन्ध्य(१०)त्वं प्रतिसंविधातव्यम्। यत्पुनरुक्तम् किं वक्तृत्त्वविवक्तस्यावस्तुनो नियमेनो पालम्भात्। आहोस्विद्वस्तु तद्विविक्तस्या-(वक्तृत्वस्य)-नुपलम्भादिति तदपि पातयित्वा वसुंतत वदनातीतमितिवत् भौतवचनस्वरुचिगोचरः। चराचरविपश्चितामिति चिरं चिन्तनीयं चेतनेन। तथाहि नियतरूपात् भवभावितभावाभावविधिप्रतिषेधविकल्पप्रमाणव्या (२)पारपरिचयाद्यथा पर्यन्वसितं तथा स्थापितमेव प्रागिति सुस्थता भावतैव स्थेया। तस्मात् प्रमाणमेव सीमा विंधिप्रतिषेधाव्यवसायनियमस्येत्युपसंहारो भाव-(३)-त्कः सर्वस्मै स्वदते निर्व्यूढश्च यः पुनर्विकल्पमात्रमादाय असत्ख्यातिरन्यथाख्याति रितिवा विचारप्रक्रम वसोऽपि न प्रकृतानुरूपः नियतानुभवो हि विक-(४)ल्पानां प्रवर्तयिता।

सुखदुःखादिभेदश्च तेषामेव विशेषतः।
तस्या एव यथाबुद्धेर्मान्द्यपाटवसंश्रयाः॥

इति न्ययादविद्यानुभववासनासनाथविकल्पजालम (५) नाहतमूलमिति। न च तावतैव वासनात एव निखिललीलादिजननमस्त्विति स्वस्थं मनसो वचनमुचितम्, ज्ञानजो ज्ञानहेतुश्च वासनेति, अर्थजो (६)ऽर्थहेतुश्चेत्युपलक्षणात् किन्नाख्यायते। अथ प्रसाधकप्रमाणसम्भवादित्युत्तरमत्रापि समानम्। प्रमाणस्तु न पञ्जरितभावाविकल्पजाल-(७)-मनलसाः पश्यन्तः शब्दयोनिः विकल्पो विकल्पयोनिश्च शब्द इति संकेतव्यवहारकालमिलितानाविलविकल्पजालदुर्जटितविधिप्रतिषेधवद्धचक्षुबन्धुत्वा(८)स्त (त्त) त्वानुसारिणः सर्वे परिनिर्वृताः किमपरं परामर्शप्रसरस्ते तनिष्यति।

एक प्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः॥
प्रपत्ता तदतद्धेतूर्थान् विभजते स्वयम्(९)
तद्‍बुद्धिवर्तिनो भावान् भातो हेतुतया धियः॥
अहेतुरूपविकलानेकरूपानिव स्वयम्।
भेदेन प्रति प्‌येतेत्युक्तिर्भेदे नियुज्यते॥

इति सकल पुरोक्तावद्य प्र-(१०)-च्छादनपूर्वैकसङ्केतकरणन्यायः। एकप्रत्यवमूलजनननिदानमपि दर्शितः।

एक प्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत्॥

इत्येतेन प्रतिसन्धानमपि सबाह्याभ्यन्तरभावयोरतद्‍व्यावृत्तैकार्थक्रियाकारित्वलक्षणैकत्वविषयं तदेवं बन्ध्यासुतशब्देनात्यन्ताभाव उच्यते। (२) तत्प्रोक्तन्यायसमानत्वात्।

शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः।
शशशृंगादिरूपेण सोऽत्यन्ताभाव इष्यते॥

तद्वदिदमपि वदितव्यम्-
वन्ध्याया उदरं निम्नं वृद्धि-(३)-काठिन्यवर्जितम्।
वन्ध्यासुतादिरूपेण सोऽत्यन्ताभाव उच्यते॥
यादृश्यभाववादेन तादृशीवासनावशात्।
बुद्धिरुत्पद्यते तत्र नान्योऽस्याप्रतीतता॥

यादृशी शेमुषी परमा (४)र्थस्तदभाववादे तादृशी चेदाकारविशेषशालिनी, अविद्यानुभववासनावादे तदा स्वस्वभावमध्यमग्नतया परस्परपरिचयच्युतिचर्चां चारूच्चार्यते। प्रतिनियतत्वारू-(५)-पत्वादेव चाभावाकार निश्चयस्य व्यवहाराङ्गता। यथा संसारः तथा न तदभावलक्षणो मोक्षः प्रणिधाता सातानुभवनभवनमिति भव्यव्यवहारिणां प-(६)-द्धतिरनुरुध्यताम्।

यच्चोक्तम्-घटस्तावत्स्वाभावविरहस्वभावः प्रमाणसिद्धताद्रूप्येण कदाचिदप्यनुपलम्भात्। एतावतैव तदभावोऽपि घातविरहरूपः सिद्ध इति (७) चेत न घटाभावस्य तदभावविरहस्वभावत्वानभ्युपगमात्। न चान्यस्वभावेप्रमाणगोचरे तदन्योपि सिद्धः स्यादतिप्रसङ्गात्। एवं भूतावेव घटतदभावौ (८) यदेकस्य परिच्छित्तिरेवापरस्य व्यवच्छित्तिरितिचेत। न चान्यस्य स्वभावे घटवत् घटाभावस्यापि प्रामाणिकत्वानभ्युपगमे स्वभावादनवकाशात् प्रमाणसिद्धेवहि (९) स्वाभावावलम्बनं न तु स्वभाववादावलम्बने नैव वस्तुस्थितिरिति भवतामेवायं तत्र तत्र जयदुन्दुभिरिति तदपि भग्नग्रहवादिमुखसुखवादनं भवतो न ते स्वभावालम्बनमवलम्बनवासिनाप्येतत्कृतम् घटः परिच्छेतव्यो न वा आद्ये सावधरणोऽन्यथा वा, घट एवायं नान्यथा स्थापनीय इति चेत्परिच्छेदः तर्हि कर्षित एव प्रमाणद्वयावेगः (२) अथ न तथा तथापि घटः परिच्छिन्नो पट इति तदर्थी नोपसर्प्येदन्तिकमस्य न किम्। तदुक्तं न ह्ययमनलं पश्यन् अनलमेव पश्यति। इति कथं येन सलिलार्थी तत्र न प्रवर्तेते त्यादि। तस्मात्प्रति-(३)-नियतपदार्थानुभव एवान्वयव्यतिरेककल्पनस्य बीजमित्युच्यते। न तु स्वभावालम्बनव्यवधिबोधानुरोधः।

एकोपलम्भानुभवादिदं नोपलभे इति।
बुद्धेरुपलभे वेति (४) कल्पिकायाः समुद्भवः॥
एषैव तत्र सामग्री यदुतैकोपलम्भनात्।
अन्ययव्यतिरेकाभ्यां विकल्पयुगलं भवेत्॥
दृष्टत्वादेवमेवेति निःशंकित समाधयः।
परोक्तिवितथालापैर्न (५) शक्यन्तेऽपबाधितुम्॥

घटवदभावेऽपि स्वेन रूपेण विधिर्नास्तीति भणितो नाभावः स्यादपि तु परस्पराभाववान्। भाव एवेति। भाव परस्पराभावभङ्गं वा भवति वि-(६)श्वम्भरासम्भाव्ये वेति। भवत एव दृष्ट्‍या निष्टङिकतमिदमनुमतमस्माकम्। यादृशस्तु परस्परप्रतिषेधस्वभावस्तादृशो भावग्राहिणैष भावं नियमवन्तं भावयता (७) प्रतीत एवेति किमत्र छद्मनेति भणामः कल्पनानिर्णीतमेव त्रैरूप्यमित्यपि पापीयः व्याप्त्यादौ तृतीयप्रकाराभावविरोधसाधकप्रसङ्गादेः प्रमाणस्य प्रणीतत्वात्। (८) न केवलकल्पनोपालम्भत्रयमभ्यस्तसभ्यनीतेर्जनस्य तस्मात्‌प्रमाणमूलाकल्पनापि स्मरणवत्सम्यग्लिङ्गरूपाणां पर्याप्ता। अलमफलमूलाकल्पनाभिस्तस्मात्प्र-(८)-माणोपपन्नरूपचयत्वात् स्थितमेतत्।

‘असन्तोऽक्षणिकाः सर्वेक्रमाक्रमविरोधतः’।
अर्थक्रियासमर्थन्तु यत् तदेव परमार्थ सत्।
‘अर्थ क्रियासमर्थं यत् तदत्र परमा (१०) र्थसत्।’

यतश्चार्थक्रियासमर्थं यत् तस्मादक्षणिको अमन्तः (असम्मतः)। अर्थक्रियायां क्रमयौगपद्यविरोधात्। तदेवं क्रमयौगपद्याभाव एव बाधकं प्रमाणमुपदर्शितम् विनाशस्य स्वपरहेतुत्वं परिकरबन्ध एव ऐतेनैतदपिनिराकृतम्।

यदुक्तमनेन अस्तु, तर्हि ध्रुवभागित्वेन विनाशस्याहेतु कत्वसिद्धेक्षणभङ्गः न विकल्पानुपपत्रेः। तद्धि तादात्म्यं वा (२) निरुपाख्यत्वं वा तत्कार्यत्वं वा अभावत्वमेवेति वा स्थिता विकल्पा निषेध्यनिषेधकयोरेकत्वानुपपत्तेः। नाद्यः-उपपत्तौ वा विश्वस्य वैश्वरूप्यानुपपत्तेः।

ननु कालान्तरे (३)ऽर्थक्रियां प्रत्यशक्तिरेवास्य, नास्तिता सा च कालान्तरे समर्थेतरत्वभावत्वमेवेति चेत्-नन्वयमेव क्षणभङ्गः तथा चासिद्धमेवासिद्धेन साधयतः कस्ते प्रतिमल्लः। अपि च देशा-(४)-न्तरकालान्तरानुषङ्गिण्यस्य नास्तिता यद्ययमेव नूनमनक्षरमिदमुक्तम्, ‘यदयमेव देशान्तरकालन्तरानुषङ्गीति। यदि वा स्वदेशकालवत् कालान्तरदेशान्तरयोरपि नास्तितान-(५) नुषंगेऽस्तित्वप्रसंगः। अशक्तेः कथमस्तु शक्तेः सत्तालक्षणत्वादिति चेत्-अथ कि कालान्तरकार्यं प्रति स्वकालेऽशक्तिरसत्त्वम्। किंवा स्वकार्यमपि प्रतिकालान्तरेऽशक्तिरसत्व-(६)-माद्ये स्वकालेऽप्यसत्वप्रसंगः तदानीमपि तस्य ताद्रूप्यात्। कालान्तरकार्यप्रत्येवमेतदिति चेत् किमयं मन्त्रपाठः, नहि यो यत्राशक्त स तदपे (७) क्षया नास्तीति व्यवह्रियते। न हि रासभापेक्षया धूमो जगति नास्तीति तत्कस्य हेतोः। नह्यशक्तस्य स्वरूपं निवर्तते इति। द्वितीये तु कालान्तराधारा शक्तिः वा नाऽशक्तिः (८) कथं तदात्मिका। तदाधारा चेत् तदैवासत्वप्रसंगः इत्यादि फलविकलकलहलकलाकठोरकोलाहलविलसितम्, हालिकस्यापि हास्यहेतुरूपहासितं स्वमहिममह(९)-नीयनीतिनिखिलनिष्ठेव अक्षिक्षणकणकुलिनममन्दरविस्पन्दसुन्दरगिरां गीर्वाणगुरुगरिम्नामार्चार्याणामाकर्ण्य वर्तनम्। विनाशकारणविचारणायां तथा(१०) हि-

सदसत्पक्षभेदेन शब्दार्थानपवादिभिः॥
वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः
अर्थक्रियासमर्थस्य विचारैः, किं तदर्थिनाम्॥
षण्ढस्य रूपवैरूप्ये कामिन्या किं परीक्षया॥

स हि भावोऽभावोवा शब्दार्थः पुरुषार्थं यदि किञ्चिदुपरुणद्धि समादधाति वा यथाभिनि-(२)-वेशं तत्त्वात्। तदा तदात्वसमीहितसम्पादनाहेतुतासभ्यूहे समीहमानः समानः तद्वस्त्वधिष्ठानीकरोति वितानचक्रचलनपरिश्रमस्य। अत्रायं नः पदार्थः (३) प्रतिबद्ध इति ततः प्रस्तुतेऽपि वस्तुनिस्वहस्तस्थापितं न्यायी विहस्तो वहिस्तोकगोपालादितः। को नाम न्यायन्यासमीदृशमनलसः समाश्रयते। स्वहेतुत एव ते निमीलितविनश्वरस्वभावो भावः प्रतिनियतकालायोगफलितः प्रथमवंशप्रभवप्रभाववन्मुद्‍गरगुरुप्रहारानेहसि घटकोटिशकपालपतलमपहाय विलोचनविचयेनापि (५) निरूपयता विनाशनाम्नोऽर्थस्यावलोकनात् तथा च।

दृष्टस्तावदयं घटः परिपतन् दृष्टस्तथा मुद्‍गरो,
दृष्टाकर्पटसंहतिः परमतोऽभावो (६) न दृष्टोऽपरः।
तेनाऽभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणम्,
स्वाधीना परिघस्य केवलमियं दृष्टा कपालावलिः॥

अदृष्टमेव च निषेघकं मनमशनस्वभावम-(७)-परं परामृश्य निषेध्यमपि अव्यवसाय घटपटपर्णवाख्यमपरत्वेन व्यवतिष्ठमानमाह निषेध्यनिषेधकयोरेकत्वानुपपत्तेरिति। नहि विनाशे कोटिशकलशक-(८)पालवलयव्यतिरेकिणि विनाशकहेतुप्रहतजन्मनि निषेधकत्वसुपथं तेन वा विघटनं घट-पट पर्णवादे.........प्रत्यक्षीकारितं येन तन्निषेध्यं ततश्च भेदोप-(९)-लब्धेर्लब्धव्यो न चानयोरैक्यं विचारक्रुरक्रकचकर्तित्तं यत्तर्हि युक्तितुलाभलतादिकं सकललोकलोचनालोचितस्वस्वभावव्यवस्थितयाऽतिपरस्परस्मिन्नानुप्र-(१०)-विष्टमिति भेद उपपत्तौ विश्वस्य वैश्वरूप्यापलापप्रसवप्रसङ्गः, प्रमाणसंसर्गमङ्गीकृतवतःः तद्विपर्यये कथं बाधकः

सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः।
स्वभावपरभावाभ्यां यस्माद्‍व्यावृत्तिभागिनः।
तस्माद्यतो यतोर्थानां व्यावृत्तिस्तन्निबन्धनाः
जातिभेदा प्रकल्प्यन्ते तद्विशेषावगाहिना॥ (२)

इति न्यायेन स्वहेतोः स्वरूपमेव हि परस्माः दन्यरूपमुत्पत्तिमासन्नं आत्मानुरूपप्रतिभासमुत्पादितस्वपरविषयविषयविधिप्रतिषेधस्मार्तविकल्पद्वयदर्शितवशं दल-(३)-पति दृढदर्प्पमपि समप्यैत प्रसङ्गम्। ....यथा शर्करानयाग्निवलयर्म्मनर्म्मदादिकं हि निहितजनननिबंधनाधीननिवेशवेशमशेषस्य श्लेषयति हृदये परस्परा-(४)-संकीर्णमर्णवान्तमात्मानमभावनामानमपहस्त्यापि स्वरूपप्रतिभासप्रभावात् तद्वदिदमपि यदि प्रतिपादयति। प्रतिकालकलम वाप्ता निःसं(५)-संसर्गसंसर्गः स्वर्गार्गलगोवर्गादिकवस्तुस्वनिदानदत्तदशावधिविभ्रतावधिभावस्वभावसम्बन्धं विपरीतासम्वन्धभारभुवंभवन्तं हन्त तदा का ते हानिः (६) शुभश्रियः तदिदमायातम्‌ः-

भावैः स्वभावसंसिद्धा पृथगात्मव्थवस्थितिः।
स्वीकृतैरपरं पीडा वादिनां महती हृदि।

विनश्यतीति विनाशः कर्तरि बहुलं (७) वचनात् घञ् कृत्वाह तत् हेत्वन्तरौ जननहेतुसमुत्पत्तितः विनश्वरत्वः पदार्थः प्रज्ञप्यते। विनशनं विनाश इत्यभिसन्धाय पुनरसमर्थसमासं समावेशय-(८)-ति। न भावो भवतीत्युक्तमभावो भवतीत्यपीत्यादिना क्रियाप्रतिषेधमात्रं क्रिया इति तथैव प्रमाण प्रवृत्तेः। अस्त्वयं आयुष्मान्। भावः। ध्वंसेन विध्वस्तसमस्तार्थ-(९)-क्रिया इत्यवोचद्वाचस्पति स एवानर्थन्यायस्य न्यायस्य व्याख्याता आख्यातव्यः किमीदृशमाख्या तव आसीत्।

ध्वंसो वस्तुविधेर्बलात् परिघवत् यद्वा यथा शर्करा,
भावोऽसौ तदवस्थ एव तु न यत्किञ्चित्करास्तस्य ते॥
व्यापाराविरतिस्ततः क्षणिनये तत्त्वादवर्न्ध्य कथम्,
देशाकारवदस्य हेतुनियतः (२) कालोऽपि यत्मान्मतः॥
‘प्रध्वंसेन विनाशजन्मनिमते तेनापि नाशान्तरो-
त्पादे नाश परम्परेति विभवेद्‍भावः कदाचिन्न सः।
न ध्वंसादपरा निवृत्तिरिति (३) चेदन्योऽन्यनाशः कथम्,
तस्मिन् वस्तुविलोकनादिति न सन्नाशादृशः ख्यापनात्॥

‘यदि च तस्मिन्समति वस्त्वदर्शनात् ध्वंसाख्य वस्तुनिबृत्तिरुच्यते, तदा-
नाशो मुद्‍गर (४) एव वस्तु शकलान्येवाथवेति मित्रपादैरुक्तं प्रसङ्गतः व्यवहर्तव्यरुपायास्तु निवृत्तेर्देशकालाकाराधारा च वारिणानुरोधो व्यवहारक प्रतिनिय-(५) तप्रतिभासतद्विविक्तार्थान्तरदर्शनाख्यानुपलम्भनप्रभव विकल्पातल्पशायितया तेन तुच्छस्य कीदृशं जन्मेत्यादि गलपल्लवप्रयासः फले फल (६) रुहेतः।

तस्मात्प्रच्युतिमात्रकं व्यवहृतेः पात्रं प्रसज्याह्वय
भूयोऽर्थस्य विरुध्यते न तु जनिस्तस्येति कि हेतुना।
रोधादेव सकृन्न तद्‍व्यवहृतिर्हेतु क्षयान्नोदयो।
रोधस्तात्विक एव तात्त्विकमिथः स्वाभाव्यभङ्गस्थितेः

तस्माद्‍यो हो समग्रात्मा हेतुः स स्वकार्यमुपार्जयन् नश्वरभावालङ्कृतमुपार्जयति नियतानेहस्कमस्य पुनरपर(४) स्मान्निवृत्तिधर्मा स्वभावो न जन्महेतोरिति।

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः।
तमेव नश्वरं भावं जनयेद्यदि किं भवेत्॥
क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत्
भावो हि स तथाभूतोऽभावे भावस्तथा कथम्॥

तेन ‘यस्या सामग्रया यत्कार्यं तत्तदरिक्तानपेक्षमिति साधनार्थः तदिर्म को नाम नानुमनुत कार्य मेवतु विनाश इति। केनानुरोधेन व्यवहर्तव्यं किं तद्विरहवत्वात् कार्यस्य। नाद्यः, सहकारिष्वपि तथा व्यवहारप्रसक्तेः। विरहस्वरूपानिरुक्तेश्चेत्या (२) दि। यथा मुखसुखमनभिमतार्थमादाय दारिद्रयाद्युपेता दृष्टबलमिति दुर्मनस्थाय तन्द्रामन्दिरसंमदपरिस्पन्दकन्दलितमनोहरः मनोराज्यः नियतकालात्मना जन्म (३) जन्मवत्परेण निवेशितो बिसप्रसूनादिवदिति दर्शितैव निरुक्ति तां पुनरप्य क्षणस्थितिधर्मतां स्वभावः। स्वहेतोरेव तथोत्पत्तेः पश्यन्नपिमन्दबुद्धिः। सहो-(४)-पलम्भेन सर्वदा तद्भावसङ्गविप्रलब्धो न व्यवस्यति सदृशापरापरोत्पत्तिः। विप्रलब्धो वा अन्त्यक्षणदर्शनाः निश्चयान्। पश्चादस्यानुपलब्ध्या वाऽस्थिति (५) (र) (प्रतिपत्तेः)। निश्चयकाल इति। तदा अनित्यता व्यवस्थाप्यते। कार्योत्पादनशक्तेः कारणस्वभावत्वेऽप्यदृष्टतत्कार्यकरणदर्शने यदि-(६)....प्रसिद्धतद्भावस्य कार्यदर्शनात् तत्प्रतिपत्तिवत्। इत्येवमतिविशदविभ्रमभ्राजिस्वाभिप्रायेऽपि यश्चरता प्रतिसप्रमाणकं प्रकटिते क्लेदमतिदीनमुद्रितं (७) उदयनस्य प्रत्यास्पदं उदीक्षते-

नहि पटो जात इत्युक्ते तन्तवो नष्टा इति कश्चिद्‍व्यवहरति पटस्यानतिरेकात्तन्तृमात्रजन्मनि च भेदाग्रहादव्यवहार इति चेत् न तर्हि व्यव-(४)-हाराबलम्बनमपि विसभागसन्ततौ तावद्‍व्यवहारावलम्बनमस्तीति चेत् नैतदेवं यदि तन्तुमालेव पटनिवृत्तिः। तर्हि कथं तथाश्रयस्तदात्मको वा पटः प्राक् अन्यैवासाविति चेतनतावज्जा (७) तिकृत्‌मन्यत्वमुपलभ्यते व्यक्तिकृतं तु नाद्यापि सिद्धयतीत्यादि यत् स्फटिकाकृतस्य मठस्य हस्तवितस्तिपरिमितभागभावनातः स्वघटितसन्धि-बन्धनघटविघटनप्रकटनपटुरन्यत्कटकपाटवोपि स्फुटं स्फुरति।

क्वचित्तदपरिज्ञानं सदृशापरसम्भवात्।
भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत्॥
तथाह्यलिङ्गमावालमसंश्लिष्टोत्तरोदयम्।
पश्यन् परिच्छिनत्त्येव दीपादिनाशिनं जनः॥

इति नियतभावाभावव्यवहारनिबन्धनप्रत्यक्षाद्यनुलम्भसम्भवादपि प्रगल्भगर्व्वः प्रगल्भते, गर्भांर्भ-(३)-कोपि किं पुनरन्यो धीरधीकोऽन्त्यकोविदः व्यक्तिकृतं च स्फटिकपटपटलविलोकने प्रत्यक्षतः प्रेक्षते प्रेक्षः न खलु स्फुटित एव स्फुटितः एव वा स्फुटितो न भ-(४)-वति इति व्यवहरणजन्यत्वव्यवहरणं तत्त्वव्यावृत्तमेव हि न त्वं एतमर्थमादाय दर्शिता व्याप्तिरनित्यतया कृतकत्वस्य।

सत्तामात्रानुबन्धित्वान्नाशस्यानित्यता ध्वनेः॥
अग्ने न चान्तरोत्पत्तौ भवेत्काष्ठस्य दर्शनम्।
अविनाशात्स एवास्य विनाश इति चेत्‌कथम्॥
अन्योऽन्यस्य विनाशोऽस्तु काष्ठं कस्मान्न दृश्यते।
तत्परिग्रहतश्चेन्न तेनानावरणं यतः॥
विनाशस्य विनाशिर्त्व स्यादुत्पत्तेस्ततः पुनः
काष्ठस्य दर्शनं हन्तृधाते चैत्रापुनर्भवः॥
यथाचाप्येवमिति चेत् (७) हन्तुर्नामरणत्वजतः
अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु॥
तस्य सत्त्वादहेतुत्वं नातीऽन्यो विद्यते गतिः
अहेंतुत्वेपि नाशस्य नित्यत्वाद्भावनाशयोः॥(८)
सहभावप्रसङ्गश्चेद सतो नित्यता कुतः।
असत्वेऽभावनाशित्व प्रसङ्गोपि न सङ्गतः॥
यस्माद्भावस्य नाशेन न विनाशनमिष्यते।
नश्यन् भावोऽपरापेक्ष (९) इति तज्ज्ञापनाय सा॥
अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा॥
न भावो भूतो भूत्‌रान्तरात्भर्त्सनभागी भाव्यते।

तथाभूतस्यैव स्वयंभूतेरित्यपरापेक्षधर्मप्रतिषेधार्थं तत्त्स्वभावज्ञापनेनार्थान्तरमेव धर्मिणं चेतसा विभज्य तन्मात्रजिज्ञासायां स्वभाव एव तथोच्यते। (२) तदेतन्मन्दबुद्धयः क्वचित्तथा दर्शनायोपमात्रविप्रलब्धनाशं गुणं तस्य भावमारोप्य सहेतुकमहेतुकं वाऽप्रतिष्ठितं तद्‍द्वयाभावचिन्तयात्मानमाकलयन्ति।

स्वतो-(३)-पि भावेऽभावस्य विकल्पश्चेदयं समः।
न तस्य किञ्चद्‍भवति न भवत्येव केवलमि॥ त्यादि

न भावो भवती त्यादि न्यायनाथस्य सुभाषितमुखोप्यपापीयसा प्रबन्धेनाकाल-(४) कु=टिपटलेनेबान्धकारप्रख्यं धान्यं धी (वनेपि वी) विवर्द्धयत्ययमित्यनमनलमनलसविचारे वचनचर्चया। न च प्रमाणाभाबोऽन्त्यक्षणदर्शिनां निश्चया (५)त् सावधित्वे नोत्पत्तेरेव शकलवलयविलोकने विलोक्रो न घटमालोकयति। न हि यो यत्र काले नास्ति स तत्र दृश्यते। देशान्तर इवान्यदेशनि-(६)-वेशितद्रव्यम्। व्यवहाररीतिरमणीयशरणिरनुपलब्धिरूपविसदृशदशास्य स्वभावभाबनाभणितैव भूरिशः। कारकहेतुव्यूहव्यस्त्या विख्यापितमनपेक्षत्वं ज्ञाप-(७)-कापेक्षया सापेक्षमेवेदं। तत्किं ब्रवीति विचारकवृद्धः। रण्डाकरण्डपिण्डिततन्तुभ्यः कुविन्दनन्दकरपट्ठ- सितातानवितानावस्था स्थवीयांसं भेदमा-विभ्रतोऽनुभूयग्ते पटादिव्यपदेशविषयाः प्राव (र) णादिक्रियाविशेषशालिनो यदवस्थां द्रव्यवृद्धिप्रागल्भ्यगर्व्वगुरवो गण्यन्ते परेण।

रूपादिशक्तिभेदानामनाक्षेपेण वर्तते।
(२) तत्समानफलाऽहेतु व्यवच्छेदे घटश्रुतिः॥

बन्धनादिक्रियानिबन्थनो हि ध्वनिस्तन्तुरिति तत्समुदायविशेषं सम्पाद्य प्रावराद्यर्थं सामर्थ्यमतथाविधसमुदायान्तरव्यवच्छेदेन स-(३)-मर्थनीयमर्थनवैः पट इति प्रकटितः शब्दः।

तैस्तन्तुभिरियं शाटीन्युत्तरं कार्यमुच्यते
तन्तुसंस्कारसंभूतं नैककालं कथंचन।
कारणारोपतः कश्चित्, एकापोद्धारतोऽपिवा
तन्त्वाख्यां वर्तयेत्कार्ये दर्शयन् नाश्रयं श्रृतेः।

तन्तुकार्यो हि पट एव, तदानीं न तन्तवः तन्तुप्रत्ययस्तु कारणस्वरूपारोपतः पूर्वस्मरण-(५)-सापेक्षत्वात्। एकैकापोहने वा लक्ष्यैकैकापोहे पटी नामापरोऽस्ति तदेवं कालिको विशेषः समस्तवस्तुस्तोमविषयो विशेषतोऽन्यत्वे कथनीयः। (६) कथमन्यथा प्रत्यभिज्ञापदैकत्वसिद्धौ तेन तूष्णीकृतमेतत्, अपि च तन्तुविनाश सामान्यतस्तन्तुविरहस्वभावो वा स्यादित्यादिविचारवशेन च कलितः (७) विनाश्यस्वरूपास्वरूप कारणाकारणत्वमेव बाधकं सकलकलाकलापप्राप्तप्रदार्थसार्थस्य सर्वदा विनाशनामपदार्थान्तरप्रादुर्भावभाषणे-(८)-बिभ्यत इव विनाशपूर्वकालप्रतिज्ञासमपरपर्यालोचनयाऽप्रतिनिवृत्तं मन्यमानेन उक्तमेव काष्ठं कास्मान्नदृश्यत इत्यादि पदार्थान्तरस्याभावसंज्ञाकरणं वा, (९) लोकव्यवहारसम्मत्या वा, प्रमाणप्रवृत्या वा, महेश्वरसमीहाहेतुप्रहितप्रभावाद्वा, आत्मेच्छानुचरत्वाद्वा भावानां भावानां भर्त्सितं सर्वत्र च सुदर्शनः समाधिरिति किमयं चौरार्चनमिव प्रचपलपदस्पन्दसमन्दर्प्यमपसर्प्य। ‘तत्कालसत्वं चेत्तर्हि तदभावो जात इत्यादि भाषया, तस्मात्।

अहेतुत्वाद्विनाशस्य स्वभावादनुबन्धिता।
सापेक्षाणां हि भावानां नावश्यम्भाविनेक्ष्यते॥
बाहुल्येपिहि तद्धेतोर्भवेत्क्वचिदसम्भवः।

यद्यपि च क्षणानि विनाशकारणकारणानि सन्ति, तेषामपि स्वप्रत्ययाधीनसन्निधित्वान्नावश्यं सन्निधानमिति मही-(३)-मधीधारादिषु कश्चिन्न विनश्येदपि नियमानवधारणमेव हि व्यभिचारचमत्कारश्चेतसि विचारचक्रस्य। अत एवाह-

एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः॥
सर्वेषां नाशहेतूनां (४)हेतुसन्नाशवादिनाम्॥

तस्मान्निधनविवन्धनचण्डदण्डाभिघाताग्निसंयोगादितः समनन्तरभगवतकपालाङ्गारादिविसदृशविकारवीक्षणवेलायामपि घटकाष्ठादि-(५) कं वस्तु स्वभावत एव विनश्वरमुत्पन्नमिति न दृश्यते तद्वस्तु अंत एव विनश्वरत्वरूपस्य बिनाशस्य व्यापकत्वं कृतकत्वं प्रत्यनपेक्षत्वाध्रुवभावित्वेन प्रतिपादि (६)-तम्। तस्मात्।

भवत्येव स्वभावतः।
यत्र नाम भवत्यस्मात् अन्यत्रापि स्वभावतः।

सोयं भवन् क्वचिद्‍द्रष्टोऽनपेक्षत्वात् स्वभावत एव भवति तथान्यत्रापि स्वभाव-(७)-विशेषाभावात्। इति व्यापकत्वमुक्तमस्यान्यथाकारमुत्थाप्य दूषयतो न स्वहृदयस्यापि परितोषः।

अस्तु तर्हि ध्रुवभावित्वं व्यापकत्वमिति चेत् न अतादात्म्यादतत्कार-(८)णत्वाच्चेत्यादि, तादात्म्यं तदेककारणसम्भवश्च प्रतिपाद्यते स्म समनन्तरमेव, न वा भावत्वादभावो न क्रियत इति कश्चिदाह। किं तर्हि प्रसज्यपर्युदासोवाऽभाव इ-(९)-त्याबालमालापः कर्तव्यश्चाभावः कतरोऽस्तु न तावत्प्रसज्यः क्रियापदेन तत्र नञः सम्बन्धात् क्रियाप्रतिषेधमात्रत्वमेकप्रमाणव्यापारप्रत्ययज्ञातत्वादविद्यावशेन परापेक्षप्रत्यनीकाकारत्वं भावपरिहारस्वभावत्वञ्च(ज्ञानमिश्रयति) ज्ञानश्रीमिश्रत्राति कल्पना। सिद्धस्यासिद्धं वा पारतन्त्र्यं सम्बंधो रूपाश्लेषः तथाऽपरोपि न पारमार्थिकः (२) इति सम्बंधपरीक्षायां ख्यापितम्। तेन शेषप्रबन्धो विधि एव धीविधूत इति तदपरप्रबन्धविधूतये यतामहे। प्रत्यभिज्ञाकेशकुशकर्दलकाण्डप्रभृतौ पदार्थे प्रदीपवद्वि (३)च्छिन्नपुनः प्ररूढे समपौढकत्वेऽपि घटस्फटिकप्रत्यभिज्ञया न भिद्यते सम्बन्धभावत्वात्। समस्वभावत्वमसिद्धमवबुद्धं विरुद्धधर्मासंसृष्टविषयत्वेन घटस्फटिककु-(४)-ण्डकुण्डलमण्डलमण्डनानुसन्धित्वान्धानपि योऽधिकत्वात् बद्‍ध्वा प्रच्युत विरचायीर्ति चेत्, न-प्रत्यभिज्ञा सामथ्यँमेतत्। सिद्धा वाश्रयतोऽन्योऽन्यसंश्रयदोषो (५)न दोषसहस्रेणापि सशक्यः संकोचयितुं प्रमाणान्तरञ्च शतमासित्वाऽपि समाः समार्थोन कश्चन प्रपञ्चयितुं क्षणभर्ङ्गं सङ्गतमानना निवेदि-(६)-तैव। न च प्रमाणनिवृत्तावपि विप्रकृष्टविषये तद्भावविभावना प्रभुः प्रेक्षः।

अभिन्नवेदनस्यैक्यं यन्नैवं तद्विभेदवत्।
सिद्धयेदसाधनत्वेऽस्य न सि-(७)-द्धं भेदसाधनम्।
भिन्नाभः सितदुःखादिरभिन्नो बुद्धिवेदने।
अभिन्नाभे विभिन्ने चेद्‍भेदाभेदौ किमाश्रयौ।
तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात्।
प्रवाहे चित्तचैत्तानां सिद्धा भेदव्यवस्थितिः॥

इति आचार्यवचनमवहर्तुं प्रबन्धान्तरेण न शक्यम्, स्वरगीतफलोच्छ्‍वासमप्राप्त प्राप्यते

साधुगीतं सुष्टुगीतं लब्धं (९) गीतस्य ते फलम्।
गोपुत्रा इव गायन्ति सामो दातुमयैः स्वरैः॥

एतेनैतदपि पिष्टमनिष्टम् विवादाध्यासितो भावः कालभेदेपि न भिद्यते। विरुद्धधर्मासंसृष्टत्वात् यो यद्भेदेपि विरुद्धधर्मासंसृष्टो नासौ तद्भेदेपि भिद्यते। यथा प्रतिसन्धिपरमाणुभेदेप्येकः परमाणुस्तथा चायं विवादाध्यासितो भावस्तमात्कालभेदेऽपि न भिद्यते इति। अत्र व्याप्तौ न कश्चिदपि विप्रतिपद्येत। पक्षधर्मता ते प्रसाधितैवेति स्थिरताऽस्थिरता भावार्नाम्। तदनन्तरप्रकरणनिहतपक्षध(३)र्मता सिद्धित्वादसाधनमसाधनीयम्। तदेवं सत्त्वं प्रागभावप्रध्वंसाभावमध्यमध्यासीनस्य भावस्यान्तरालभेदे निसत्वमवगमयितुमलमुत्कलितानुकूलप्रसङ्ग-(४)-तद्विपर्यपर्यवसितसपक्षत्वे क्वचिद्‍बीजादौ दर्शितस्वसाध्यप्रतिबन्धमिति प्रबन्धेन प्रसाधितं साधीयः सुधीभिरवधार्यमिति स्थितम्। पूर्वसर्वन्यायसन्यासमाश्रि-(५)-त्य लघुपरलङ्घन जंघालहेतुहतिं प्रहिणुमः। यद्यस्य यत्रव्यवहरणकारणमपसरणपराचीनतया चिन्तितं तत्र तस्य व्यवहरणकारणजननीयं नी-(६)-लता व्यवहरणकारणनीलि। भवति तद्वयवहरणवत्। नीरजे पूर्वापरकालयौरपिकरणाकरणविरुद्धधर्माख्यानौ बीजभेदे व्यवहरणकारण (७) मपसरणरमणत्वेन मतः, तदत्र करणाकरणं नासिद्धया ग्रस्तमध्यक्षप्रेक्षितत्वात्, विरुद्धता विशेषगणपि प्रमथितप्रदूषणगणं प्राचीनप्रगल्भप्रब-(८)-न्धत्वेन नाप्यनैकान्तिकत्वं अन्तिकमस्य गन्तुं सन्तनोति सामर्थ्यम्। अन्यव्यतिरेकप्रत्याकलनया हि कारणत्वं किञ्चिदपि प्रतिपर्यालोचनीयमु(१) पायान्तरातर्कणात्। अयमेव भेदो भेद हेतुर्व्वा यदुत विरुद्धधर्माध्यासस्तस्य जनननिबन्धनञ्च सामग्रीलक्षणकारणसाजात्यविजात्यपर्यव सितौ भेद इति अभिदधानेन चाचार्यचरणेन प्रतिदर्शनं दर्शितदिक्‌कालादिगुणद्रव्यव्यायाव्ययादिभेदव्यवहारहेतुहस्तकत्वात् न्यस्तौ विरुद्धधर्माध्यासो वस्तुस्वभावनानात्वे निबन्धनसमस्तवादिव्याप्त्यव्याप्तिप्रसरानाक्रान्तपौरुषसतोऽयमेवभेद इ-(२)-ति व्यवस्थाने स्थिरस्तद्‍व्यवहरणें कारणंकल्पनारोपितधर्माणामपि भेदो विरुद्धधर्माध्यासलक्षण एवेत्यव्याप्तिरसम्भाविनी, नचोभेदेपि विमृश्यते क्वा-(३)-पि विरुद्धधर्माध्यास इत्यतिव्याप्तिव्यस्तिरस्ति विरोधबोधो बहुधा बहुष्विति न सम्भवविपर्ययो हृदि धेयः। न च विरुद्धधर्मद्वयभेदानुपपत्तिस्तत्रापि नित्यस-(४)-मां जातिरीत्या विरुद्धौ पदार्थो व्युदस्य नान्यो धर्मोनाम किन्तर्हि धर्मान्तरप्रतिक्षेपाऽऽक्षेपाभ्यां धर्म्मधर्म्मिव्यपदेशेपि न वस्तुभेदस्तेनानवस्था (१५) न मनसि निवेश्या यथाकल्पनमस्य सम्भवात्।

यत्पुनरुक्तम्-भेदो हि विरोधं व्यभिचरति, न विरोधौ भेदमिति तत्पारमार्थिकापारमार्थिकभेदभ-(६) ण्याभाषितं विरुद्धताहेतोः सविधसम्बन्धनिबन्धसम्बन्धाव्याप्तिसिद्धौ हि सपक्षे पक्षपाती विरुद्धो नोपलब्धः भेदव्यवहारज्ञापकहेतुश्च प्रति (७) भास भेदः। द्वितोयोपि प्रयोगः-स एवायमिति परामर्शः सोऽसदृशपरावृत्तपदार्थध्यवसानव्यापारः, यथा केशपाशे च्छिन्नोद्भिन्ने स एवायमिति परामर्शस्य विवादपदे घटादौ अत्यन्तसदृशे स एवायमिति मन्दसादृश्ये स इवेति प्रकरणवशात् अत्यन्तसादृश्य-(९)-मिहोपात्तं जात्येकत्वे दीपादौ प्रत्यभिज्ञेति वदताऽतद्‍व्यावृत्तिविषया स्यात्प्रकाशिता, यद्यतीतेन सह वर्तमानस्य एकत्वं नास्ति कर्थ चित्पूर्व पश्चाद्‍दृष्टार्थ क्रिया भवति। न। यथा घटमेकं विघटघटाङ्‍कुरारोपणे प्रेक्षते यथा पुरधारणं तथेव पूर्वानुरोधेऽ‍असम्भवे यतः भविष्यति तादृशार्थक्रिया तच्चेकार्थक्रियाकरणादेकत्वन्तु तदकारिव्यवच्छेदलक्षणं साम्वृतमिष्यत एव तेन क्षणभङ्गो घटादीनां धर्मस्तेनैव साधनहेतुभिरित्यपकृतम्। एकमिति हि व्यपदेशविकल्पास्तदर्थसामर्थ्यमा-(३)-त्रेण समङ्गीसजातयो न पुनरर्थरद्रितसामान्यद्यर्थसामान्यद्यर्थविषया व्यपदेशविकल्पाः प्रेक्षावद्‍भिराद्रियन्ते ततस्तादृगर्थक्रियाकारितयैकत्वं प्रत्यभिज्ञानविषयः तस्माद्या (४) प्रत्यभिज्ञा सा तदर्थक्रियाकारिव्यावृत्त सदृशार्थक्रियासमर्थविषयाः यथा घटानयनेऽपि इतराभिप्रायेण अन्यमानयेति नियोगे घटान्तरानयने पुनः-(५)-स एवानीत इति प्रत्यभिज्ञा। प्रत्यभिज्ञा चेयं स एवायं घट इति आजन्मनः प्रणाशावधिप्रतिभासप्रसवप्रसङ्गः, प्रतिक्षणं क्षणभङ्गे सति भावस्य भवेदत-(६)-विपर्यये बाधकं अस्ति च प्रतिभासः प्रागभावप्रध्वंसाभावयोर्मध्यारूढस्य वस्तुतः पूर्वापरकालकलतातिक्रान्तः। सः क्रान्तनिश्चयो निखिलवस्तु (७) सुजनानुभवभूमिः। अत‍एव स्थवीयसि स्वभावे भावानां कालनियमौऽपि सिद्धः। अतद्रूपरावृत्तिविषयस्त्वेकत्वाध्यवसायोनावस्थाभावमाकर्षति प्रत्ययभिज्ञा (८) तन्तु सांवृतैकत्वं व्यवहारयति। परव्यामोहापनयनेन यथादृश्यानुपलब्धिबलिमहिलागोपालादिगम्येऽपि प्रतिषेधे शङ्कयं लक्ष्यीकृत्य व्यामोहशुद्धतन्त्रं (९) प्रक्षिप्यते।

“तदत्यन्तविमूढार्थं आगोवालादिमसंवृतेः”
इति वचनात्।

झानं त्वर्थावभासतः।
तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम्॥

तथा दुकूलनीलनलिन-(१०)-दलावलिवलिमध्यप्रमदानन्दिमन्दिरकुन्दसिन्दूरार्थ वलभीप्रभृतीनां मध्यावस्थाख्य ग्राह्याकारवेदनावृत्यैकं प्रतिसंधातारमेव भाषितं सकृदत्र प्रतिभातीति पाश्चात्यानुव्यवशायवशेन स्फुरणञ्च पूर्वानुभूतस्य ग्राहकाकारस्य अतद्रूपपरावृत्तविषयैकविमर्शवशेन व्याप्त्यादिकञ्च परिकल्पिताद्रूप (२) पराव्‌त्तवस्तुस्तोमाकारेण क्षणक्षीणतानुकूलमिलितविन्यासेनेति न क्वाप्यंशे शंशनीयदोषमनित्यतासाधनमव धातव्यं भव्यभावेन तथा-

वज्रोपलादिरप्यथंः (३) स्थिरः सोऽन्यानपेक्षणात्।
सकृत्सर्वस्य जनयेज्ज्ञानानि जगतः समम्॥
क्रमाद्‍भवन्ति तान्यस्य सहकार्युपकारतः।
आहुः प्रतिक्षणं भेदं सदोषोऽत्रापि पूर्ववत्॥ (४)
इत्याद्यपि यथा प्रस्तावमपहस्तित्रासमुपन्यसनीयम्।

यत्पुनरुच्यते कालदिद्रव्यगुणकर्मादिकमन्तरेण न कश्चित् व्यपदेशस्तं चान्तरेण न वचनं तस्माद्वचनादेव कालदिकमस्तीति क्षणिकतासिद्धिरिति, तदपि निरस्यते, कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रपत्ययलिङ्गः तेषां विषयेषु (९) पूर्वप्रत्ययविलक्षणानामुत्षत्तावन्यनिमित्तासंभवात्। यदत्र निमित्तं स कालः यत्रैवापरप्रत्ययोदिगपेक्षया तत्रैवपरप्रत्ययः कालकृतः य-(७)-त्रै व च परप्रत्ययो दिगपेक्षया तत्रैवापरप्रत्यय काल कृत इति व्यतिकरः श्लेषः। युगपदेतानि कृतानि क्रमेण च एतानि कृतानि। चिरं कृतं क्षिप्रं कृतमिति न रूपाद्यतिरेके काले प्रत्यक्षाप्रवृत्तः मन्दता हि निष्पत्तेः कारणक्रमेण विरोधः, क्रमोपि भावाभावादेव भावस्य न कालः रांहोः शिर इतिवत्, पुनर-(९)-भावस्यायं काल इति व्यपदेशः-

‘दृष्टताऽतीतकालत्वं दृश्यता वर्तमानता
भाविता दृश्यमाणार्चामिति व्यवस्थितिः’।

रूपमपि चक्षुर्विज्ञानजनकत्वेन एवं श-(१०)-ब्दादिकमपि स्वे स्वेन्द्रियनिदानदर्शननिबन्धनत्वेन वेद्यम्। द्रव्यव्यवस्थापि तत्समुदायसाध्यफलाहेतुव्यवच्छेदेन दर्शितैवेति न तदास्ति व्यवहरणं न यत् पक्षे तद् अनित्यानुबन्धीति।

उदयननिराकरणे वादरहस्ये व्यतिरेकार्थभावार्दिन्यायनिर्णयो द्वितीयः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project