Digital Sanskrit Buddhist Canon

प्रथमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamo'dhyāyaḥ

उदयननिराकरणम्
प्रथमोऽध्यायः

ॐ नमस्तारायै।

विज्ञायन्ते स्ववचनसरणिं रमणीयतमाँ गुणिगणावशिष्टाम्
उदयनवचनात् स्ववचन-[चरण] हतिसरणिं भणिष्यामि।

इह खलु विशालशैलमेखलास्थूलस्थाणुस्थानीये (२) परस्य (ज्ञान प्रसूतपृष्ठ) श्रीमत् ज्ञानश्रीमित्रपादीयमुक्तसामर्थ्यासामर्थ्यात्प्रस्फुटित उपशङ्कातः सामर्थ्यासामर्थ्यविरुद्धधर्मसंसर्गेण भेदसिद्धौ तत्सिद्धिरिति सत्त्वादिषुपरेणश्लेषितं क्लिश्यते।

अविकलेन हि सकलदूष्यकेण (३) हि पालना प्रत्यक्षतः पृथ्वीपवनपाश्रः प्रत्यर्थिवीजानि परस्परोपसर्पणसम्पूर्णप्रत्ययप्रत्यर्जितसन्निधानानि तदुद्‍भूतस्वाधीनवर्द्धिष्णुतादिगुणरमणीयपरिणत्या प्रवर्धन्ते (४) प्ररोहं प्रतिप्रत्ययभावजान्य [भावजानि]प्रभाव्यन्ते। यथोक्तविशेषणप्रत्ययत्वमेषां प्रत्यात्मप्रतिष्ठाधिष्ठितसौष्ठवपृष्टप्रत्यक्षानुपलम्भसम्भवान्वयव्यतिरेकप (५) रिकल्पना तस्या उपलालितसकलितसहकारिसाकल्यविशेषणसारुप्यमवस्थापनीयमपरथा प्रत्ययान्तरप्रत्यासत्तिसापेक्षत्वे बीजस्येव क्रमयौ (६) गपद्यविशेषसौष्ठवस्फुटितमुपाधावग्रिमक्षणस्यापि सहकारिसाकल्यासाकल्यावस्थयोः स्थितास्थिततया प्ररोहं प्रति प्रत्येतुं पार्येत। तथा च कुशूलकुक्षिकुण्डलितक्षणा (७) धिकत्चात् सहकारिक्षणक्रमेण केदाराक्रान्तकलेवरं कदम्बकमेकमनेकम्बेति विस्तरत विचारचक्रमपक्रमन्ते। किं चेत् न तयो क (८) थितमिदमुत्तानीक्रमेण सहकारिसहचरितप्रत्ययप्रत्यासत्तिभ्रान्तस्वभावान्तरमिन्त्युपक्षिप्य पक्षप्रतिपक्षप- रिजिघृक्षाक्षान्तहृदया साधकमिदमिति ज्ञापकविरोधे व्याहरन्ति।

जिघृक्षासामर्थ्यसमर्थनादौ साक्षाद्वयवहतुं तत्तदा तत्करोत्यादि तत्करोत्येव वा यथा (२) च यस्य नेहः सन्दोहनिः सन्देहपरिणतौ प्रणतिदेहोत्कृष्टः यथाप्रकाशितसाधनातत्त्वप्रसाधनश्च केवलोपि क्षणत्वपदार्थः न च केवलस्तथाभू(३) तोपि करोत्यपीति करोत्येवेति वा प्रत्याकलितः स एष प्रसङ्गप्रसङ्गतो विपर्ययः पूर्वापरकालमिलितकरणाकरणयोराधारभेदञ्च संदीपयति। तथाहि (४) पर्यवसाने जनकत्वमभिमतकार्ये पर्यालोचितं प्रमाणेन प्रत्येकमवस्थितम्।

अन्वयव्यतिरेकाभ्यां धराधामादिसाकल्यं श्लथयित्वा विशेषणं परापरभावभङ्गया स्वविशेषव्याप्तमालोच्यनिमत्यन्तायोगव्यवच्छेदायोगव्यवच्छेदच्छदिच्छन्नमुन्नीयते -

निर्विशेषं हि सामान्यं भवे (६) च्छशविषाणवत्।
निर्विशेषणं कर्तृत्वं भवेद्वन्ध्यासुतासमम्॥

तस्मादस्मत्प्रतिभावर्णभावस्थाप्रतिभासप्रभावात् भावानां किन्तत्रैव तथा (७) भदन्तैः परमपरापरसदृशता च स्वभावान्तरानुभवितैकप्रतिसन्तानं बन्ध्यत्वमकर्तृत्वं केशकुन्तलकमलकाण्डात् स्वरवत्संवेदनीयम्। तत्(८) तपनादिसहचरभेदसम्पादिततत्तदादिभेदो दर्श्यतां पूर्वापरावस्था पारमार्थिका भेदज्ञा प्रत्यभिज्ञा परमविश्वाससर्वस्वं बिभ्रति भ्रमिमूर्षणीयेति। पक्ष द्व-(९) यानुग्रहनिग्रहे हेतुः हेतुभाव एव भावनां संदूष्यते भव्येन। तथाहि, तत्कर्तृत्वं परेषु मध्यस्थमिव वादिप्रतिवादिसम्मतबिलम्बकारित्वात् सपक्षादित्वविशेषसिद्धिविश्लेषेऽपि सुश्लेषकौशलबलाबलम्बीवानुमतमुभयभूमिभागिनोरपि भावतो भूतोक्तिप्रवृत्तयोस्तथाभूतञ्च भाव्यमानं कर्तृत्वरूपं किं तत्त्वतोऽत्यन्तायोगव्यवच्छिन्ननिर्वर्त्मथाभूतञ्च भाव्यमानं कर्तृत्वरूपं किं तत्त्वतोऽत्यन्तायोगव्यवच्छिन्ननिर्वर्त्मकर्तृत्वरूपमुच्छविभ्रमभूमि - भूतानुभवव्यवस्थानमनवस्थितमपि अनुमन्यते मान्येन अन्येन वा प्रकारेण यदुतायोगव्यवच्छिन्नकर्तृ -(३) -त्वरूपमुत्कीर्तयितव्यम्, व्यपेतानुभवादिव्यवस्थमपि स्वस्थयः स्थविरवादिवृन्दवृन्दारकानन्तरकथितपक्षयोरन्यतराङ्गोकारकारागारग्रहेण। अर्थगृ(४)हीतौ-पर्यायतो द्वावपि द्वापरद्वारालङ्कृतौ कथय कोऽत्र निस्त्राणमापद्यते अवद्यप्रभेद इति चेदुच्यते। अयमेव प्रसङ्गः यदुत यद्यदा (५) यत्समर्थव्यवस्थानस्थानं तत्तदा तत्करोत्यपि यथा सामग्र्‌‍यवस्थायां विकलकालकलायामपि पूर्वादिकायामकथितसामर्थ्यव्यवस्थानं स्थानञ्च (६) काञ्चनकार्यमर्यादामादाय दर्शितो भावभेदः इत्यन्तायोगव्यवच्छेदकर्तृत्वपक्षे लक्षयितव्यः प्रसङ्गः। न च कदाचिदपि वेद्यते निःसहचरस (७) हकारिचक्रः प्रक्रममाणः कर्तु मत्यन्तायोगव्यवच्छेदेन अभिमतो भावः स्वकार्यमित्यावर्जनीयो विपर्ययश्चात्र। तथापि स्यात् अनेकान्तशान्तावनमुत्थितायामभित्तिचित्रकर्म्मप्रतिममिदमाभाति। तथाहि सामर्थ्यव्यवहारयोग्यत्वेपि प्रसङ्गसाधने कीद्दशर्क्तृत्वप्रवर्तितशक्तव्यवस्थानमाक्षेपमक्षे-(p. ५)-पकारित्ववस्य प्रसाधकप्रमाणप्रस्थापनार्थत्वात्। सहकारिसाकल्ये सत्येव करोतीति विलम्बकारित्वलक्षणश्च केवलावस्थायां प्रसज्जयितुमशक्यत्वात्। सहका-(२) रिसाकल्ये सति करोत्येवेत्येवं स्वभावकर्तुत्वकीर्तनेऽकीर्तिः करितलबिलम्बितैव स्थिविरवादानुकुलत्वात्कुक्षित्वादस्य पक्षस्य हन्तनितान्तनिर्मलैः सुभाषितभानुभिरनुन्नमेव परेषां मोहतमः। यदेवं साकल्यं सहकारिकल्पं बीजकर्तृत्वविशेषणं प्रक्षिप्य परपक्षः क्षुभ्यतेऽक्षेपकारित्वमपि तद्विशे(४) षरूपं प्रमाणप्रसिद्धं अनुरुध्य बाध्यते साधुः यस्मादक्षेपकारित्वानपेक्षकारित्वं कर्तृत्वसामान्यस्यान्त्यावस्थायां प्रत्यक्षानुपलम्भसम्भावित (५) स्य व्यक्तिप्रभेदतया व्यापकं सम्भाव्य प्रकारान्तराप्रतीतेरनक्षेपकर्तृत्वरूपं कर्तृत्वसामान्यस्य परिणाममनुमन्यसे प्रसङ्गसङ्गतौ (६) नाङ्गता सङ्गच्छते दोषस्य। तथाहि हेतुसाहित्येऽपि बीजस्य कर्तृत्वं दृश्यमानं न साहित्येन विशेषणीयं शिलाशकलादेरपि तथात्वप्राप्तेः अपितु केवल्यै (७) व बीजस्य प्रत्येकमवस्थितं अन्वयव्यतिरेकयोरवगमेन पाषाणकुलस्य साहित्यबहिर्भावभजनात्। प्रत्येकत्वञ्च न च विशिष्यमाणं कर्तृत्वं बीज-(८)-स्य प्रत्येकत्वाभावस्वभावोऽ प्रत्येकरूपः सहकारिचक्रसंपर्कः कथं विशेषं शक्नुयात् नहि चक्षुर्नास्ति तेन च विशिष्टमिति शिष्टेष्टः पक्षः। अथापि प्र (९) त्येकत्वस्य साहित्ये प्रत्येकमन्वयादेर्गृहीतौ नाप्रत्येकत्वेन विशिष्यत तदुत्तरकालं पुनर्विशेषणीयं एतावन्ति सहकारीणि सहितानि हि ता नि कार्यायेति पाठान्तर अपरहस्तेन सामग्रीमीहमानो मानोचितस्तामेवादत्ते सामग्रीपाषाणतलाकीर्णामपीति चेत् न् अकारणविकल्पकत्वादेव नोपादीयते (२) कार्यार्थिना शिलाशकलादिको भावः। किन्तया विशिष्य करणीयं यदा तु विशेषणमेतादृशं अपसारितम्। अथ तदानीं अवशिष्यमाणं ब्रीहिकलेवरं कारणत्वेन निष्टङ्कितेन (३) अत्यन्तायोगव्यच्छेदानुमितौ केवलमपि कदाचित्करोतु सामग्रीसमवग्रह काल इति प्रसङ्गसङ्कीर्णवतः प्रथनो मनोरथोन्मथोऽयं प्रार्थितोदोषः प्रार्थितः (४) तदयुक्तम् -

सामर्थ्य हि कृतिः योग्यता वा ? नाद्यः साध्याविशिष्टत्वप्रसङ्गात्। नापि द्वितीयः सा हि सहकारिसाकल्यं या। प्रतिस्विकी वा, नाद्यः सिद्धसाधनत्वात्, परानभ्युपगमेन (५) हेत्वसिद्धिश्च यत्सहकारिसमवधानवत्तद्धि करोत्येवेति को नाम नाभ्युपैति यमुद्दश्य। साध्यते, न चाकरणकाले सहकारिसमवधानवन्तोऽस्मानभ्युपेयते (६) यतः प्रसङ्ग प्रवर्तेत। प्रातिस्विकी तु योग्यता अन्वयव्यतिरेकविषयीभूतं बीजत्वं वा स्यात् तदवान्तरजातिभेदो वा। सहकारिवैकल्यप्रयुक्तकार्याभाववत्वं वा। नाद्यः (७) अकुर्व्वतोपि बीजजातीयस्य प्रत्यक्षसिद्धत्वात्। तवापि तत्राविप्रतिपत्तेः। नेतरः तस्य कुर्वत्यपि मयानभ्युपगमेन दृष्टान्तस्य साधनविकलत्वात्। को हि नाम सुस्थात्मा (८) प्रमाणशून्यमभ्युपगच्छेत्। स हि न प्रत्यक्षेण अनुभूयते तथाऽनवसायात्। नाप्यनुमानेन लिङ्गाभावात्। यदि न कश्चिद्विशेष, कथं तर्हि करणाकरणे चेत् (९) क एवमाह नेति। किं जाति भेदरूपः सहकारिलाभालाभरूपो वेति नियामकं प्रमाणमनुसरन्तो न पश्यामः तथापि योऽयं सहकारिमध्यमध्यासी नोऽऽक्षेपकरणस्वभावो भावः स यदि प्रागप्यासीत् तदा प्रसह्य कार्य कुर्वाणो गीर्वाणशापशतेनाप्यपहस्तयितुं न शक्यते, इति चेत्”। युक्तमेतत् यद्यक्षेपकरणस्वभावत्वं भावस्य प्रमाणगोचरः स्यात् कुतः तत्सिद्धमिति चेत् न विद्भः। प्रसंग तद्विपर्ययाम्यां तत्सिद्धिरिति चे न, परस्पराश्रयप्रसङ्गात्। एवं स्वभावत्वसिद्धौ हि तयो प्रवृत्तिस्तत् प्रवृत्तौ च चैवं स्वभावत्वसिद्धिरिति।

“स्यादेतत कार्यजन्मैवास्मिन्नर्थै प्रमाणं विलम्बकारिस्वभावानुवृत्तौ कार्यानुत्पत्ति सर्वदेति चेत्।” न, बिलम्बकारिस्वभावस्य सर्वदैवाकरणे (४) तत्त्वव्याघातात्। ततश्च बिलम्बकारीत्यस्य यावत्सहकार्यसन्निधानं तावन्न करोतीत्यर्थः। एवं च कार्यजन्मसामग्र्‌‍यां प्रमाणयितुं न शक्यते न तु जातिभेदे। ते तु किं (५) यथानुभवं परस्परसापेक्षा विलम्बकारित्वभावाः परस्परं प्रत्यासन्नाः कार्य कृतवन्तः किं वा यथात्वपरिकल्पने क्षिप्रकारिस्वभावा इन्यत्र (६)कार्योपजननमजागरूकमेवेति।

नापि तृतीयः, विरोधात् सहकार्यभावप्रयुक्तकार्याभाववांश्च सहकारिविरहे कार्यावांश्चेति व्याहतम्। (७) तस्माद् यद्यदभाव एव यन्न करोति तत्तदभाव तत्करोत्येति स्यात्। एतच्च स्थैर्यसिद्धेरेव परं बीजसर्वस्वमिति एतेन समर्थव्यवहारचरत्त्वं हेतुरिति निरस्तम्। तादृग्व्यवहार(८) गोचरस्यापि बीजस्यांकुराकरणदर्शनात्। नासौ मुख्यस्तत्रव्यवहारः। तस्य जनननिमित्तत्वात्। “अन्यथात्वनियमप्रसङ्गादिति चेति, न, कीदृशं पुनर्जन (९) नं मुख्यसमर्थव्यवहारनिमित्तम्। न तावदाक्षेपकरणं निमित्तं तस्यासिद्धेः। नियमस्य च सहकारादिसाकल्ये सत्येव करणँ करणमेवेति ये एवं स्वभावत्वेनाप्यु-पत्तेः। ततश्च जनननिमित्त एवायं व्यवहारो न च व्याप्तिसिद्धिरिति।”

जरठकमठपृष्ठकर्परकणेरमतिकटुकूटप्रकटनपटलमतिविकटमतिपाटवाढ्‍यो येन (२) विपाटितमस्येति नरीनृत्यतां त्रिभुवननगरनर्तनटीवादकीर्तनकीर्तिः कृतिकदम्बकस्येति किमधिकमत्र सम्बदनीयम्। एतेनायोगव्यव, च्छेदेन कर्तृत्त्वं (३) कर्तृत्वसामान्यपरिणाममपि पुरोधाय धूर्तब्रूवस्वस्वीकरणमशरणमारब्धमेवं यद्यदा यत्करणसमर्थव्यवहाराभ्यङ्गस्तं तत्तदा तत्करोत्येव यथान्त्याव (४) स्थायां प्राक् पृथगवस्थायामपि बीजमबीजपराजित्वरसत्वरमेवंविधमवधारितम्। न च करोत्येवेति तद्विपर्ययपर्यांलोचना र्प्यस्तनितान्तान्तः (५) करणेन कृतिना सम्पत्तव्यम्। तदेवमबीजपरावृत्तंबीजं धर्मप्रत्यक्षानुपलम्भारम्भसम्भावितान्वयव्यतिरेकिकार्यतया निर्णीतकर्तृत्वसामान्यजमाक्षिप्ताक्षेप (६) कारित्वानक्षेपकारित्वलक्षणजननजनितं तत्समर्थव्यवहारयोग्यत्वं साधनं साध्यञ्चात्र करोत्यपि करोत्येवेति वा कर्तृत्वद्वयं पर्यायतो यथा पराभ्युपगमं स्वयमपि (७) सम्भवति पक्षद्वयस्य प्रतिक्षेपालक्षणात्सामान्यस्य विशेषाव्याप्तेः सम्भवात्। पक्षद्वयस्यापेक्ष्यापि लक्षयितव्यमेवं प्रसङ्गतद्विपर्ययमपर्यासितं क्षणेनापि दूष (१) णगणस्य यद्यत्करणसमर्थव्यवहरणकारणत्वाभरणस्य तमुपलब्धं तत्तदाकरणवत् यथान्त्यायां दशायां प्राक्पृथगवस्थायामपि बीजमजातजरत्वमनु(२) मतम्। एवमेकप्रत्यवमर्शमसृणमनीषया मनीषिजनेन। न च निचीयमानमाम्नातमपि कदाचनापि केवलं करणेन दुश्चलकुक्षिनिक्षेपादिदशायां (३) दिशोपि दशाशेषा पर्यटता प्राणिवादेन प्रत्येकस्यास्य जनकत्वमवधारितम्। अतो न परितोषः साकल्यस्य स्वस्वबोधेन समाधानेन च बुधपरार्थ्यस्य प्रत्येकमि(४) त्यङ्गीकरणे स्वाभावस्वाभाव्यमभावप्रतियोगित्वं तदैवेति सहितं तत्रैवेति सहितं उभयसहितं तथैवेति सहितमासक्तमिति स्वकाण्ड (५) दण्डखण्डिताडम्बरं स्ववचनसम्वरणमपि पलायनपरागणमापातितमिति विपदेषा समूलधातच्युति कथं प्रतिकर्तव्येति। दूरतरललोचनप्रचल(६) जलदस्रास्रुधारासहस्रेणा पि न त्राणमामरणान्तमार्तकातरत्वरवादिनो वराकस्येति सानुक्रोशमपि स्वान्तसन्तरयति न वादविधौ वाचा(७) लगलितामित्यलमलीककाव्यकल्पनाजल्पैरनल्पैर्न्यायाभिनिवेशी भव भव्योपि न्यायनीतौ। “(१) तथाहि कस्तवायं न्यायः अथ एतावतापि भावस्य कः स्वभावः समर्थितो भवति। नहि पक्षविपक्षाभ्यामन्यः प्रकारोऽस्तीति चेत् न दूषणाभिधानसमये निश्चयाभावेनैव सन्दिग्धासिद्धिनिर्वाहे कथापूर्वरूपपर्य (८) वसानादित्यनेन।” प्रसङ्गसाधनं पराम्युपगमेन वा संभाव्यमानतया वा प्रकारान्तराभावात् प्रस्तूयते। तत्र सन्दिग्धासिद्धत्वमुक्त्वा दूषणमेव मयैव नाभ्युपगतमिति चेत् तच्चिन्त्यतां कर्तृत्वमनुमन्यसे तावद् तच्च यावत् पूर्वस्थितमेव प्रत्यभिज्ञाश्रित्य इत्याश्रयोबीजात्मकं यत्कार्यमव्यपेक्षकमन्वयव्यतिरेकासामर्थ्यावस्थित(२) तथाभावं तावदत्यन्तायोगव्यवच्छेदनकर्तृत्वरुपं पर्यवसितमभङ्गमेव प्रसङ्गस्य कथं संदिग्धासिद्धदोषेण शोषयितुं शक्यम्। आक्षेपकारित्वमपि तत्राधिष्ठिता (३) त भागादिदन्तयाधिष्ठितं भागं साकल्यगर्ब्भाविर्भूतं भावयित्वा सम्भावितं ततोऽधिष्ठितं भागेऽविनिर्भागभाविनं भावतो भाष्यते तदेव बीजं पूर्वमप्यासीदिति (४) तदाक्षेपकारित्वक्षणजननजनितसमर्थव्यवहारयोग्यत्वं प्रसङ्गसाधनं कथं संदिग्धासिद्ध्‍या विधूननीयं इति न प्रतिवादिसमाश्रितोत्तरपक्षप्रतानकथापू (५) र्व्वभागः स्वरूपभङ्गमनङ्गीकृत्यास्तीति व्यस्तमखिलदोषोद्‍भावननिग्रहाधिकरणप्रसङ्गवत्। उभयमपि अक्षेपकारित्वानपेक्षकारित्वमनुल्लिख्यै (६) व बीजं केवलं सहकारिमध्येऽप्यवसितकर्तृभावं प्रागपि कुर्वन् तथाभूतमिति भावतो भाषस्व सुसधिसाधिबाधनम्। [समाधिमाधिबाधनम् ]

ननु भाषित एव समाधिः। तथाहि -कृ(७) तिं प्रति-अविलम्ब इति भावः। किमुत्पत्तेरनन्तरमेव कृतिः सहकारिसमवधानान्तरं वाविलम्ब इति कोऽर्थः ? किं यावन्न सहकारिसमर्थानाँ समवधानं तावदकरणं सर्व(८) थैवाकरणमिति वा। तत्र प्रथमचतुर्थयोः प्रमाणाभावात्, अनिश्चये द्वितीयतृतीयतोः प्रत्यक्षमेव प्रमाणं बीजजातीयस्य हि सहकारिसमवधानान्तरकर (९) करण-करणमेवेति प्रत्यक्षसिद्धमेव। तथा सहकारि समवधानरहितस्याकरणमित्यपि। अत्र च तवापि न विगतिः एष प्रमाणसिद्धत्वात् विपर्यये वा धकाच्च। तथाहि यदि सहकारिविरहेऽकुर्व्वाणस्तत्समवधानेऽपि न कुर्यात् तज्जातीयमकारणमेव स्यात्। समवधानासमवधानयोरुभयोरप्यकरणात्। एवं यदि तत्समवधान (२) विरहेऽपि कुर्यात् सहकारिणो न कारणं स्युः तानन्तरेणापि करणात्। तथा चानन्यथासिद्धान्वयव्यतिरेकवतामप्यकारणत्वे कार्यस्याकस्मिकत्वप्रसङ्गः (३) तथा कादाचित्कत्वविहतिरिति। एवञ्च द्वितीयपक्ष विवक्षायामक्षेपकारित्वमेव भावस्य स्वभावः। तृतीयपक्षविवक्षागान्तु क्षेपकारित्वमेव भावस्य स्वरूपमिति नोभयप्रकारनिवृत्तिरिति। त एव (एतत्) अहो अपूर्वोऽयमस्य दम्भारम्भः स भ्रमभूमिभूयिष्ठभौतबलभोजफलम्भोज स्थितः कष्टयति भूतभाषणभूषणमपिभ्रातृव्यस (५) मुपेतं तथा हे हे भैषी च प्रणयरमणीयभाषणभूम्ना स्वसमान्मायनामानं अर्थसार्थ सहकारिसाहित्यमपरित्यज्य समर्थनं ते तत्वतः साहित्यमुदाहृत्य तच्च तत्(६) कृतमिति विक्रीतगवीरक्षणवृत्तान्तमुपहरति। तथौक्तेरनन्तरं व्याकृतिनिश्चले कीर्तिमत संकीर्त्यते ‘साधनत्वेन प्रमाणफलं हितत्। सति हि (७) क्षणक्षीणतोपलक्षणेन प्रेक्षावांश्च क्षणिकोऽक्षेपपक्षप्रमुखानां यथासुखसुखं लेखयापि खण्डयितुं दुःशक्तम्। इदृशसशक्तिसमर्थनम्। तस्मादाचा (८) र्यवचनात् तमेव श्रुति-श्रुतिपुटकेन कणेहृत्य प्रीयतां प्रीत्या न स साहित्येपि पररुपेण कर्त्ता स्वरूपञ्चतस्य प्रागपीति प्रागपि कुर्यादिति। यदप्यमुना (९) नयेन विवदता वादिनि सुस्थितम्। तथापि किं असमर्थस्यैव सहकारिविरहः स्वरूपलाभानन्तरं कर्तुरेव वा सहकारिसमवधानमन्यथा नेति कि नियामक (१०) मिति चेत् ‘इदमुच्यते कुशूलस्थबीजस्यांकुरानुकूलः शिलाशकलाद्विशेषः कश्चिदस्ति न वा, न चेन्नियमेन एकत्र प्रवृत्तिरेव न स्यान्निवृत्तिश्च तदर्थिनो न स्यात् परम्परयाऽङ्‍कुरप्रसवसमर्थबीजक्षणजननादस्त्येवेति चेत् - कदा पुनः परम्परयापि तथाभूतं करिष्यतीति। तत्र सन्देह इति चेत्। स पुनः किमाकारः किं सहकारिषु (२) समवहितेष्वपि तेषु करिष्यति न वेति। उत असमवहितेष्वपि करिष्यति न वेति। अथ यदा सहकारिसमवधानं तदैव करिष्यत्येवेति। कदा तेषां समवधानमिति (३)सन्देहः। नाद्यः समान्यतः कारणत्वानवधारणैतस्यानवकाशात्। अवकाशे वा कारणत्वावधारणात्। नेतरः सहकारिणां तत्त्वावधारणे तस्यान (४) वकाशात्, अवकाशे वा तेषां तत्त्वानवधारणात्। तृतीये तु सर्व एव तत्सन्तानान्तःपातिनो बीजक्षणाः समानशीला प्रप्नुवन्ति यत्र तत्र सहकारि (५) समवधाने सति कृति नियमात् सर्वत्र च सहकारिसमवधानसम्भवात्। ‘समर्थ एव क्षणे क्षित्यादिसमवधानमिति चेत्- तत्किमसम(६)र्थे सहकारिसमवधानमेव न। समवधाने सत्यपि वा न तस्मात्कार्यजन्म। नाद्यः शिलाशकलादावपि क्षितिसलिलतेजः पवन योग(७) दर्शनात्। नेतरः शिलाशकलादिव कदाचित्सहकारिसाकल्यवतोपि वीजादङ्‍कुरानुत्पत्तिप्रसङ्गात्।” एवमपिस्यात्। को दोष इति चेत्(८) न तावदिदमुपलब्धम्। आशङ्कयत इति चेन्न तत्सन्निधाने सत्यपि अकरणवत् तद्विरहेपि करणयोगमप्याशङ्क्येत आशङ्क्यतामिति चेत्-तर्हि बीजविरहेऽपि आशङ्क्येत। तथा च साध्वी (९) प्रत्यक्षानुपलम्भपरिशुद्धिः। स्यादेतत् न बीजादीनां परस्परसमवधानवतामेव कार्यकरणमङ्गीकृत्याशङ्क्यते येन समवधानानियमा सर्वेषाम्बा तज्जाती यानामेकरसता निश्चयः स्यात्। नापि यत्र तत्र समर्थोपपत्तिमङ्गीकृत्य येन विकलैभ्योऽपि कार्यजन्मसम्भावनायां प्रत्यक्षानुपलम्भविरोधःस्यात्। किन्नाम बीजादिषु स (२) मवहितेष्ववान्तरजातिविशेषमाश्रित्यापि कार्यजन्मसम्भाव्यत इति।” न दृष्टसमवधानमात्रेणैव उपपत्तौ तत्कल्पनायां प्रमाणाभावात् कल्पनागौरवप्रसङ्गः (३) प्रतिहतत्वात् अतीन्द्रियेन्द्रियादिविलोपप्रसङ्गात् कल्पनानुपपत्तेर्विशेषस्य विशेषंप्रति प्रयोजकत्वाच्चेति” - तदप्यसारं - बीजस्यजन्मनि जननं येन निरु(४)पितमेव निदानमङ्‍कुरकाण्डकलिशप्रभृति -उर्णवनयवनवनकुसूलतलनिमीलयदपि दात्रसूर्य (शूर्प) मृतिमुक्कुरप्रक्रमादितदनन्तरमुपनयोग्यबेलाविलोकनेकुसू(६) लकक्षितदाकषप्रकर्षक्षेत्रेधराधामादिसमवधानमुपसर्प्पणप्रत्ययप्रतिबद्धमभ्यवसितमखिलेन परिणतिपरम्परया च कियत्या पूज्यते सङ्गतिम(६)ञ्जसा अङ्‍कुराख्यं क्षित्यादीनां कार्यं न्यक्षेणालक्षित तदेतस्य परिणतकारणपरम्परायां भिन्दति स स्वभावो वा बीजस्वभावोऽच्युतप्राच्यरूपो वा व (७) स्तुतोऽस्त्विति विमर्शपूर्वकं खर्व्वगर्वभृतः प्रस्तुबते तत्रानर्थान्तरजातिभेदानुमतिर्मतेः पुरो नापि प्रकृतप्रबन्धानुबन्धो बौद्धानां प्रसिद्धः सिद्धान्तः (८) पुनरीदृशः - निखिलास्त्रिकर्णसुखंकुर्वाणः

तद्यथा समर्थः कुतः उत्पन्न इति चेत् स्वकारणेभ्यः। तान्येनमपरप्रत्ययसन्निधान एव किं जनयन्ति ? कदाचिदन्यथा स्यात् ततश्चैकोपि क्वचिज्जनयेदिति चेत् "अपरापरप्रत्यययोगेन प्रत्यभिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्काराः यद्यपि कुतश्चेत्साम्यात्सरुपाः प्रतियन्ते तथापि भिन्न‍एवै षां स्वभावस्तेन किश्ञ्चिदेव कस्यचित्कारणमिति "कस्माद्” दृश्यावान्तरजातिभेदोपालम्भः सृगल्लपल्लवितः प्रबलजनवदुत्तानेनान्तःकरणं प्रीणाति प्रा (२) माणिकस्य स्थूलपरामर्शेन हि विजातीयव्यावृत्तवीजावर्जितं स्वकार्यकारित्वमवस्थापितमपि सूक्ष्मावान्तरप्रसङ्गतद्विपर्ययपर्यालोचनाख्य विमर्शान्तरवृत्या (३) बीजत्वाधिष्ठितस्वभावविशेषप्रतिष्ठितं प्रसाध्यते किं तत्रानुपपन्नं नाम यथा दवीयसि देशे विनिवेशितात्मभावं भावं विभाव्य वृक्ष इत्यवृक्षव्यावृत्तमवधारयत्यवधा (४) रणाध्वरीणोद्‍भव जनः पुत्रः सन्निधानाधीनधीविशेषेण शिंशपेति तत्राप्येते निरूपणात् वक्रकोटरपटलघटितस्स्कन्धसन्धिरिति स्वभावान्तरमवगम्य (५) मानमपि न वृक्षत्वशिशपात्व शून्यमवसीयते। न वा सर्वोवृक्षः शिंशपा न वा सर्वे च शिंशपा वक्रकोटरपटलघटितस्कन्धसन्धिरिति तथाभूतं प्रस्तुतम (७) प्यस्तु वस्तुव्यथाव्यूहस्यापहतेः अनुपहसित एव साध्यासाधनभावः बीजत्वमेव हि सामान्यम्बिधिरूपेऽवस्थितं अखिलासु व्यक्तिषु नास्माकमङ्गीकारगो (७) चरः पुनश्च तत्रावान्तरादृश्यजातिभेदाभ्युपगमवादो वावदूककल्पित एवमुच्यते [मुह्यते] न पुञ्जपुञ्जेन प्रत्यर्थितः, एतच्चाम्बरवर्त्मवर्तिकमलपरिमलालोलरोलम्बमाना (८) विरावकुलावगाहि, यदुत- स खलु जातिविशेषः संग्राहको वा स्यात् प्रतिक्षेपको वा स्यात् - एवं शालित्वमपि संग्राहकं चरप्रतिक्षेपकं वा।” न च नोभयमपीत्यादि (९) यथा विकल्पकल्पितप्रतिदूषणप्रसरः यस्मात्स्मेरास्यसरसीरुहहारिहसितेनापि नार्पितसत्यङ्कारः कश्चिदपि विपश्चिदेवं विधावान्तरजातिभेदे यादृशस्तुप रापरप्रत्ययप्रबन्धानुबन्धबोधितः सामान्यसम्भवेऽपि स्वभावभेदस्तथा प्रख्यापितमनन्तरं सहेतु हेतुवित्तसंस्पन्दनेन यत्पुनरुक्तिरुच्यते विशेषस्य विशेषं प्रति प्रयो (२) जकविरोधाच्चे’ ति तत्सिद्धमेव साधयितुमारब्धम्। तथापि यद्यपि कुतश्चित् सा स्यात् सरूपाः प्रतीयन्ते तथापि भिन्न एवैषां स्वभाव इति भाषया शालिबीजत्वाधिष्ठितान्त्यव्यक्तिलक्षणञ्च (३) विलक्षणस्वभावविशेषविभ्रान्त एव कर्तृवादोऽङ्‍कुरं प्रतिस्थूलपरामर्शव्यवस्थापि तत्कर्तृभावभाजं बीजधर्म्मिणं अध्यवसायसाहित्येतरयोरवस्थयोः अधिकरणकर (४) णे कलया कलयितुमशक्ये विरोधाकर्षिप्रसङ्गं तद्विपर्ययप्रमाणमैक्यपरिपन्थिपश्यता दृश्यते हि प्रामाणिकचक्रमौलिलालितचरणयुगलाना (५) मप्येवंविधो क्षणव्याहारः यथा प्रमाणेततरतासाधारणवेदवाक्यमाकलय्याधिकरणप्रमाणान्तरेण प्रामाण्यलक्षणस्वभावान्तरसाधनम्। यथा वा (६) महीमहीधरादिशशधरकृतेतरादिना रूपेण संदिग्धमपि धर्मपुरोधाय साधनान्तरेण तनुते जनो जानाति चाचरणीयचक्रबहुविरतितत्त्वं यश्चायमु(७) -पसंहारः संद्दब्धः। तस्माद्यो यथाभूतो यथाभूतमात्मनोऽन्वयव्यतिरेकावनुकारयति तस्य तथाभूतस्यैव तथाभूते सामर्थ्यम्, तद्विशेषास्तु कार्यविशेषं प्रयोजयन्ति शाल्यादिवदिति युक्तमुत्पश्याम इति मयोक्तो यस्मात्स्थूलास्खलितप्रत्याकलनेन अङ्केनादाय तस्मिन्नंशे निःशङ्कःशङ्कशुकोपिलोकः। कथंकथि(९) -कस्तु तदवान्तरविचारचक्रचौरप्रव्यावितस्थूलदृष्टिनिविष्टबुद्धिः प्रमेयः प्रदाप्यते। नामुना न्यायेनेति पुनर्भणामः। अन्यबीजजातीयमपि च कुसूलमी लनानुक्तबीजं बीजत्वेन निरूपणात्। अनयोरवस्थयोः स्थितैकस्वभावत्वं विरुद्धता प्रसङ्गादिनाप्रमाणेनाह प्रयोजकमात्रेणाबीजत्वमायातीति केन भावेन भाष्य-(१)-ते। किन्तयोरवस्थयो स्थितस्य स्थैर्य प्रत्यक्षेण सिद्धमस्ति। अथ तद्वा स्यात्ताद्दक् चास्यानुकश्चिद्विशेषमित्यभिसन्धिना।

अथ प्रसङ्गतद्विपर्ययमेव न किञ्चिदिति कृत्वा। किंवा बीजत्वमेव (३) सामान्यमात्मसकलव्यक्तिप्रत्येकपरिसमाप्तमूर्तिसहजशक्तिसशब्दितमागन्तु शक्ति व्यपदेश्यं सहकारिसाहित्यसमेतमुपलब्धमङ्‍कुरजननयोज्यमन्यथात्वे (४) बीजत्वे इति मनसि निवेश्य स्थैर्यस्य प्रत्यक्षसिद्धिपर्यालोचनात्‍शून्यत्वान्नाद्यः। तादृक् त्वमपि पर्यन्तवतिनामेव बीजानामिति द्वितीयोपि न। प्रसङ्गतद्वि (५) पर्ययप्रमाणं पुनर्निरस्तसमस्तदूषणम्। अबीजपरावृत्या बीजत्वं बहुतमव्यक्तिसम्मतेऽपि पूर्वापरकालयोर्बीजे निश्चाययिष्यते तेन निजागन्तुकशक्तिपक्षो (६) पक्षेण वैलक्षण्याविष्करणमात्रमत्राणं अंकुरस्य जातिनियमाकर्म्मकत्वप्रसङ्गस्तुविपर्ययवाधकमबाधकमेव यतीऽबीजपरावृत्तिविशेषेण बीजत्व (७) वाङ्‍कुरत्वनियमस्योपपत्तेः। एतेन विपर्ययोप्यनैकान्तिकः कथितः। बीजविशेष एव हि प्रयोजको न तन्मात्रं बीजस्य प्रमाणवृत्तेर्बलवत्वात्। स्थूलदृष्ट्‍या त्वेवमवस्थाप्य तां न व्यवहारहानिः प्रतिबन्धसाधनोपायः पुनः सापायः अङ्‍कुरस्य हि जातिनियमो न तावन्निर्मित्तः, सार्वत्रिकप्रसङ्गात्। नाप्यन्यनिमित्तः तथाभूतस्याभावात् सेयं (२) निमित्तवता विपक्षान्निवर्तमाना स्वव्याप्यमादाय बीजप्रयोजकतामेव विश्राम्यतीति प्रतिबन्धसिद्धिरित्येवं वर्णिता बीजत्वाधिष्ठितस्वभावभेदस्यान्यावस्थारूपतया तूपलक्षण (३) स्थ अङ्‍कुरत्वनियमं प्रतिप्रयोजकत्वात्। व्यभिचार्येव बीजत्वमात्रमङ्‍कुरस्यप्रयोजकतायां बीजस्वभावत्वमात्रं नाङ्‍कुरे प्रयोजकम्, प्रयोजकं पुनः तत्स्वभावाधिष्ठित-(४) शेषाधिष्ठितं प्रयतमाने बीजत्वमुपलब्धमिति स्थूलकलनम्, न रूढकफलं तत् अनालोकितस्तत्त्वस्थलोति एतदेव त्वमिति नासौ व्यवहारः पारमार्थिक(५) इत्येतत्तदा एवमवतारितो विचारः कथं प्रस्तावमवविस्फूर्यते तेन बीजस्वभावत्वं क्वचित्कार्ये प्रयोजकत्वं न वा ? न चेत्तत्स्वभावं बीजम्, तेन रूपेण (६) कश्चिदप्यनुपयोगात्। एवं च प्रत्यक्षसिद्धं बींजस्वभावत्वन्नास्ति सर्वप्रमाणागोचरस्तु विशेषोऽस्तीति विशुद्धा बुद्धिरित्युपहासभावाप्युपहसितभाव(७) मेव तिरस्करोति। क्वचिदप्युपयोगे त्वेकस्य तेन रूपेण सर्वेषामविशेष ताद्रूप्यादिति। यद्यपि कुतश्चित्साम्यात्सरूपा प्रतीयन्ते तथापि भिन्न एव एषां (८) स्वभावस्तेन किञ्चिदेव कस्यचित्कारणमित्यनेन तथात्वं यच्च भाव स्यादिति कथितं तदपि अप्राप्तसहकारिसाहित्याभ्यां विशेषादिपरिणामलक्षणसामर्थ्यकारण-(९) त्वात्। अन्त्यबीजरूपत्वाभावात् प्रसिद्धरोषस्तिष्ठति। तदेव हि तन्न पूर्व न परत्वादिति किं मुखस्येते तस्मांत्प्रतिक्षणमपरापरयत् कार्यानुकूलप्रत्यय साकल्यमधि शय्य बीजत्वमवान्तरं स्वभावालम्बनं सम्वेद्यते तदेक कार्यप्रति तथाभूतं सम्वेद्यते तदेककार्यं प्रति तथाभूतं तदेव प्रयोजकमसद्वादग्रहः यदुक्तमनेन तथा च (२) बीजं किंचिदेव स्वकार्य कुर्यान्नापराणि। न च वस्तुमात्रं तत्कार्यं अबीजादनुत्पत्तिप्रसङ्गात्। नापि बीजमात्रं अंकुरकारिणोऽपि तदुत्पत्तिप्रसङ्गात्। नाप्यङ्‍कुरान्यतममात्रं प्रागपि तदुत्पत्तिप्रसङ्गात्। यदायदुत्पन्नं (३) सत् यत्कार्यानुकूलसहकारिमध्यमधिशेते तदा तदेव कायँ प्रति तस्य प्रयोजकमिति चेत् तत्किमवान्तरजातिभेदमुपादाय बीजस्वभावेनैवेति वा आद्ये (४) स एव जातिभेदः तत्र प्रयोजकः किमायातं बीजत्वस्य द्वितीये तु समानशीलानामपि सहकारिविकल्पादकरणमित्यायातं तत्तत्सहकारि सा (५)- हित्ये तत्तत् कार्यं प्रति प्रयोजकस्य बीजस्वभावस्य सर्वसाधारणत्वादिति। अत्रापि प्रयोगः यत् येन रूपेण अर्थक्रियासु नोपमुच्यते न तत्तद्रू पं यथा बी (६) जं अङ्‍कुरत्वेन न किंचिद्प्यकुर्वन् न अङ्‍कुरस्वरूपं तथा च शाल्यादयः सामग्रीं प्रविष्टाधिबीजत्वेनार्थक्रियासु उपयुज्यन्त इति व्यापकानुपलब्धिः (७) प्रसङ्गहेतुः तद्रूपतायां अर्थक्रियां प्रतियोग्यतया व्याप्तत्वात्, अन्यथातिप्रसङ्गात्। तद्रूपत्वमेव तस्य प्रत्यक्षसिद्धत्वादशक्यापह्रवमिति चेत् - अस्तु तर्हि वि-(८)-पर्ययः। यत् यद्रूपं तत्तेनार्थक्रियासूपयुज्यते। यथा स्वभावेन सामग्री निवेशिनो भावा बीजजातीयार्श्चैते कुशूलस्थासादयः इति स्वभावहेतुः तद्रूपमात्रा (९) नुबन्धित्वात् योग्यतायाः ततश्चास्ति किञ्चित्कार्यं यत्र बीजमुपज्यते। इत्यादिरारम्भे गम्भीरः कणेरवत् तत्सूरमर्गलः प्रस्फुटितशंख-(शृंग)-वत् प्रबन्धो बद्धो वा बाल कथय कुतः कुतर्के त्वया कलितः। यतः प्रदर्शाद्यानवद्यविद्याचार्यप्रकाण्डपरिपिण्डिन्वीक्षिकीकीर्तितधर्मकीर्तिकमतमपरापरप्रत्ययोगेनेत्यादिकं प्रसङ्गो नाङ्गसंगतः।
(२) तद्रूपतामात्रस्य वस्तुवत् प्रसूतप्ररोहादिकार्यार्जनयोग्यतया व्याप्त्ययोगात्। कारणाभावात् समर्थस्वभावानुपपत्तेः। तथाहि तत्र योऽव्यवधानादि देशबीज-(३)- विश्वम्भरादिकलापः स सभागाङ्‍कुरकरणे समर्थो हेतुः यस्तेषां परस्परोपसर्पणाश्रय प्रत्ययविशेषः (४) स तद्धेतुजनने समर्थः तेषाञ्च न पूर्वं न पश्चात् न पृथक् भाव इति समर्थानामपि पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्ते। तेनैषाँ परस्परोपसर्पणादिहेतुर्यः समर्थहेतुरिति तस्य न कदाचिदन्यथाभावः। अनेन (५) न्यायेन सर्वत्र हेतुफलभावप्रतिनियमः द्रष्टव्यः प्रतिक्षणं अन्यान्यस्वभावभेदान्वयिनीषु भावशक्तिषु न तु स्थिरैकभावेषु भावेषु स्वभावस्यान्यथात्वासंभवात् (६) समर्थासमर्थस्वभावयोः क्रियाक्रियायोगात्। अन्यसहितः करोति चेत् किं न केवल इति चेत् किं केवलस्य कार्यकरणेऽसमर्थः स्वभावः। समर्थः किं न करोति? (७) अकुर्वन् कथं समर्थ इति ? हेतुविन्दावाचार्यवचनमकलङ्कहरिणाङ्कनिर्मलमपि स्वपक्षनिर्वाहवाहाधिरोहादिव प्रत्यूहव्यूहव्यस्तमुपन्यस्तवान् अभ्यसितमनीषः पा-(८) र्श्वकरानि उत्प्रेक्ष्यते साहित्यमुपाधिमधिरोप्य सामर्थ्यासामर्थ्यापेक्षया प्रसङ्गतद्विपर्य यप्रत्याशां शाति भवान् तत्राप्याचार्यवचनं न साहित्येपि पर-(९) रूपेण कर्ता स्वरूपञ्चास्य प्रागपीति प्रागपि कुर्यात्। इति साहित्येपि न साहित्यविशेषणं करणसामर्थ्य मिति प्रसङ्गात्। प्रोक्तं वाक्यन्तु ततः स्वभावनिष्ठ-(१०) मप्रतिष्ठाप्य प्रसङ्गो नाङ्गसङ्गतिमङ्गीकरोत्युक्तमेव।

ननु सति क्षणभंग भंगिरेषागुरुगरिष्ठोपि शास्त्रकृतः तत्प्रसाधकप्रमाणप्रसङ्गसङ्गतौ दुर्गताङ्गनादोहदलीलां समुद्वहति पिच्छिलतत्त्वतुच्छानच्छार्था स य समूर्च्छलिता पक्षालकलङ्गणभर्ङ्गिनः साधीयेभ्योऽपि सम्येभ्यो बीभत्सन्त इति (२) नैतदाश्चर्यं सहस्रेणापि हि निष्पीडामवधानतः सुरपतिरक्षां वीक्ष्यमाणो न प्रेक्षतेऽसौ स्थितस्थितस्थित्यादिसंविधानादपरदशायां बीजस्य जनकत्वमिति (३) स्थिरपक्षे कथमयं नियमो महनीयतां नीयतां किं स्वहेतुदत्तमर्यादतया सामग्रयेपि वा प्रत्येकसामर्थ्यासमर्थमसहतया वा पर्यन्तप्रतिपन्नपर्यन्तप्रतिपन्नसंमूर्च्छनतादि स्व-(४)-भावहीनतया वा परिपक्षादृष्टसदसत्कर्मनिर्माणनिर्मूलतया वा दृश्यते तावदेवमेवं ते कथमित्यनर्थकप्रथमकथा प्रथनाद्वा कश्चरत् पुरतो गच्छेत् स्वभ्रं (५) वा स्वर्गमेवेति पक्षाः पञ्चेन्द्रियकल्पनात् पञ्च वा उपस्कृतसञ्चितान्यविषयनिश्चयनान्नाद्या मनसि विपश्चितः प्रविशति शक्यमेवमतथ्यमपि (६) स्थापयितुं स्वकारणकलापपरिकल्पितं चक्षुषो रूपं यदिदं मदीयो रूपं च समवैति।

शब्दमथ प्रत्यासीदन्तं तदात्मना तुलयति अपरत्रान्येवं विषये-(७)-ऽनुशासनीयमिति तृपञ्चतयी कल्पना पारमार्थिकी स्यात् ग्राह्याऽर्थविषया उपद्रव्यं भावयितुं पार्यन्ते। स्वहेतुदत्तमर्यादतया यदेकमेव हि स्वहेतुविहितविशेष (८) पञ्च वा धियं धत्ते पञ्चप्रपञ्चचक्षुरादीन्द्रियप्रसादादिति तदनन्तरमघातपरिशीलिनमपि (शीलनीयं) एकैकशः कलितान्वयव्यतिरेकत्वात् अन्यपरिणामप्रणाशमा-(९)-शंसतां पूर्वाशिवतातिः प्रतिवादस्य प्रारब्धाप्रियेण प्रियमनुष्ठितम्। कर्म्मनिर्माणनैपुण्यं न प्रमाणयता प्रणेतव्यो व्योमान्तर्जातोयो वीजादि भाव (ग्रामः) तस्य दृष्टाभिनिविष्टत्वे वा कामं अन्य प्रतीक्षोऽस्तु, नियमस्तु विरुध्यत इति गुरुप्रबाधकप्रमाणप्रहारः प्रकृष्ट आस्ते। वादादिकथा नव्यस्य कथने च विक्षेपनिग्रहप्रसङ्गः (२) स्यात् पक्षपूजाविष्करणमात्रमन्तिमसपक्षे लक्ष्यते न पुनरधिकं किञ्चित्।

तस्मात् तथा तत्कारणं वस्तु तथैव तदकारणम्
यथा तत्कारणं केन मतं नेष्टमकारणम्। (३)
स्वभावभेदेन बिना व्यापारोऽपि न युज्यते।
नित्यस्याध्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वन्यम्॥

इति प्रसङ्गतद्विपर्यय प्रेरिणाप्रसरः स्थिरत्वे सति जनकत्वेन निर्णीतस्यान्ति-(४)-म परिणामे ब्रीहिविशेषस्याविचल इति स्थितमाचार्यवचनं तस्मात्तत्स्वभावस्य अन्यथात्वासम्भवात्। तद्धर्मणस्तु तथाभावोऽन्त्यावस्थावदनिवार्यः। अन्त्यावस्थायां-(५)-प्राग समर्थस्य सामर्थ्योत्पत्तौ सामर्थ्यस्य तत्स्वभावत्वेऽपूर्वोत्पत्तिरेव सा। अतत्स्वभावत्वे स प्रागिव पश्चादपि अकारक एव। सामर्थ्याख्यातपदार्थान्त (६) रात्कार्योन्पत्तेरिति तस्मात्प्रतिष्ठितस्वभावभागी भावः। अहेतुभिर्जन्यते न पुनर्ययथानुप्रतिष्ठः बीजन्तु सति सहकारिसाकल्ये संदिग्धे नि-(७)-घननिबन्धनाधीनत्वं सशंसितसंभावनं स्वहेतुना जन्यत इति जन्यमेतत् समस्तन्यायनीते।

पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता।
तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः।
रूपे श्लेषो हि सम्बन्धो द्वित्वे सति कथं भवेत्।
तस्मात्प्रकृतिभिःन्नानां सम्बन्धो नास्ति तत्त्वतः॥
परापेक्षापि सम्बन्धः सोऽसन् (९) कथमपेक्षते।
संश्च संवनिराशंसो भावः कथमपेक्षते॥

सिद्धासिद्धयोरपेक्षाभाबादत्यन्तसम्भवी सम्बन्धः न सिद्धस्यासिद्धं किञ्चिदस्ति यदर्थमपेक्ष्यते यथा सामान्यात्मनासिद्धं विशेषात्मनार्थमपेक्षते अङ्‍कुरादिको भावः निष्पत्त्यनिष्पत्तिविरुद्द्धर्याध्यासेन भिन्नत्वात् सिद्धासिद्धविकल्पानतिक्रमात् ततो न सहकारिसापेक्ष-(२) बलक्षपक्षादिपदार्थसार्थस्य सम्भवः स्वहेतोः सम्भावनास्पद नहि भवति निजजनननिगडनियमित एवायं नरोपसन्नमौननियम एव वाचा वाचस्पति-(३) मपि पिच्छयति। तस्मात्प्रमाणविरुद्ध एवार्थो ज्ञापकेन ज्ञाप्यते कारक हेतुना च करणीय इति एष एव परमप्रमाणिकः प्रचारः।

यच्चोक्तम् “अथवा व्यतिरेकेण प्रयोगः (४) विवादाध्यासितं बीजं सहकारिविकल्पप्रयुक्ताङ्‍कुरादिकार्यवैकल्यं तदुत्पत्तिनिश्चयविषयीभूतबीजजातीयत्वात्, तत्पुनः सहकारिविकल्पप्रयुक्ताङ्‍कुरादिकार्य (५) न भवति तदेवंभूतजातीयम्, यथा शिलाशकलमिति एतदपि न ससाहित्येपि पररूपेण कर्ता इत्येतेन गतार्थः। अंकुरजनस्वभावभ्रष्टभावादेव अना-(६)-विर्भूताभिनवोद्भिद्‍वीजं प्रागवस्थायामिति स्थापितमेव। स्थूलपरामर्शाश्रये समावेश्याबीजव्यावृत्तवीजविषयमन्वयव्यतिरेककल्पनं सूक्ष्माऽवा-(७)-न्तरनिरूपणपराहन्यमानमानसेनापि मन्तव्यं कोऽत्र मन्त्रयते। तस्मात्स्थूलपरामर्शापेक्षया यदि स्वभावविशेषभ्रंशेन नास्याङ्‍कुरकार्यविक(८) लत्वं साध्यमेवमनोकान्तः। सूक्ष्मप्रेक्षापक्षापेक्षता यज्जातीयत्वमसिद्धम्। स एव हि तस्य नास्ति यस्तज्जनकः। निःस्वभाव इति भावः। तदत्र परमार्थः सत्वं (९) तु हेतुः क्षणिकत्वे कुतः सपक्षो जलधरः स च साश्वधर्माध्यासितो बोधनीयः प्रमाणेन प्रमाणञ्च प्रसङ्गविपर्यय तच्च किं व्यापारं उपपाद्यते। पूर्वापरावस्थयोः करणाकरणमध्यक्षप्रेक्षितं लक्ष्यीकृत्य प्रमाणान्तरबाधाद्वा कादाचित्कानपेक्षवत् इति तर्कोपनिषदाचार्यवचनाद्विरुद्धमेकत्वे पूर्वापरावस्थयोर्बीजस्य प्रान्ते प्रेक्षितप्रत्येककर्तृत्वस्य साधयति करणाकरणम्। यस्माद्विरोधस्य सामान्यलक्षणं च विचक्षणः समाचक्षाणः परभाग-(३)-भागी तत्र सामान्लयक्षणमेकधर्मण्यनवस्थितिनियतत्वं तच्च सामान्यं व्यक्तिद्वयात्मना विशेषी स्यात्। सहानवस्थानलक्षणं परस्परपरिहारस्थितलक्षण-(४)-ताख्यं च। तत्र प्राच्यस्य (आद्यस्य) प्रत्यक्षानुपलम्भप्रत्यक्षाणि सत्ता साध्यसिद्धानि द्वितीयस्य पुनरन्योन्यभेदसिद्धेर्वा ध्रुवभावविनाशवत् प्रमाणान्तरबाधाद्वा। कादाचित्(५) कानपेक्षवदिति वचनादुपायद्वयमुपन्यस्तमास्ते। तत्र तत्कालं कारित्वमतत्कालकारित्वभेदेन सिध्यति विरुद्धं न कालान्तराकारित्वेन तदवच्छेदे-(६)-नास्य विधेर्विधुरत्वात्। यथा कादाचित्कमकादाचित्कत्वेन विरुद्धं अनपेक्षत्वमपि सापेक्षत्वेन।

अथ चयेनैव प्रमाणेन कादाचित्कानपेक्ष-(७)-योः एक धर्मिण्यनवस्थितिनियतत्वं निरूप्यते, तेनैवानयोर्विरोधो बोधसौधाधिरोही तद्वत्कालभेदेन अनाश्रितादिमविरोधबोधोपाययोर-(८)-पि करणाकरणयोः प्रसङ्गविपर्ययाख्य मक्षतप्रमाणलक्षणमाख्याति, परस्परप्रत्यनीकत्वमेकधर्मण्यनवस्थितिनियमं निरूपयदिति पलायितं प्र(९) त्याशया परस्य अतो यदपरमेवमवादीत् वादी तदपि दलितदर्धमपसर्पति सचिवान्।

अस्तु बीजत्वमेव प्रयोजकम्, भवतु सहकारिसन्निधाने सति कर्तृस्वभावत्वं भावस्य, तथा च तदसन्निधानेऽकरणमप्युपपद्यताम्, तथापि तज्जातीयमात्र एवेयं व्यवस्था न त्वेकस्यां व्यक्तौ करणाकरणलक्षणविरुद्ध धर्माध्यासस्य (२) तथा च तदसंनिधाने प्रत्यक्षसिद्धतया तत्र दुर्वारत्वादिति चेत्-न विरोधस्वरूपानववोधात्। स खलु धर्मयोः परस्पराभावरूपत्वं वा स्यात् नित्यानित्यवत्(३) धर्मिणि तदापादकत्वं वा शीतोष्णत्ववत् तद्वता वा दण्डित्व कुण्डलित्ववत्।

नाद्यः निर्विशेषणस्यासिद्धेः यावत्सत्वं किञ्चित्त्करणात्। सविशेषणस्य तु विरोधसिद्धाव-(४)-प्यध्यासानुपपत्तेः। यदायदकरणं हि तत्करणस्याभावो न त्वन्यदा तत्करणस्य न चैतयोरेकधर्मिसमावेशमातिष्ठामहे। नेतरः भावाभा(५) वव्यतिरिक्तयोः करणाकरणासिद्धेः व्यापारापरव्यपदेशसहकारिभावाभावौ हि करणाकरणे कार्यभावाभावौ वा। अति-(६)-रेकसिद्धावपि स्वकाल एवं स्वाभावप्रतिक्षेपवदकरणाभावमाक्षिपेत् करणं न त्वन्यदा। नहि यो यदा नास्ति स तदा स्वभावं प्रतिक्षेप्तुमर्ह-(७)-ति, विरोध्यभावं वाऽऽक्षेप्तुं तथा सति न कदाचिदपि तत्र स्यान्न कदापि तद्विरोधी भवेदिति। ‘नासतो विद्यते भावो नाभावो विद्यते सत’ इति आयातं न वा विरो -(८)-ध इत्यादिकमतर्क्य तार्किकत्वं अर्ककरसंपर्ककर्कशगामिनोपो मनो न सान्त्वयति असर्पायोपेतत्वादमीषामसद्विकल्पानाम्। यत् पुनः प्रसङ्गविप-(९)-र्य यमधिकृत्यै वा (ए) काभिधानम् “स्तां वा तथापि न ताभ्यां शक्याशक्ययोरविवक्षित काल भेद एव विरोधः, साध्यते तथोपसंहर्तुं अशक्यत्वात्।” यदा तदेत्युपेक्ष्य(१०) यत्समर्थ तत् करोत्येवेत्युपसंहर्तुं शक्यमिति चेत् न काल नियमाविवक्षायां यत् समर्थ तत् करोत्येव कदाचिदित् स्यात्। तथा च सम्भव विधेरत्यन्ता योगो विरुद्धः, न त्वयोगः नीलं सरोजं भवत्येवेति वत् इति। तदपि अयोगोऽत्यन्तायीगव्यवच्छेदेनापि सर्वदा बीजस्य सत्वे सम्भवन्तु कतृत्वमित्यभिमतत्वात् मलिननलिन-(२)- निभं निभालनीयः।

यच्चोक्तम् - "ननु यदसमथ (त्वं) प्रथममासीत्, तस्य पश्चादपि सामर्थ्य कुत आगतम्। प्रथमं समर्थस्य ना पश्चात् तत्र गतं नैतदेवं तत्तत्सहकारिमतः (३) तत्कारकत्वं हि सामर्थ्य, अतद्वतस्तदन्यवतो वा तदकर्तृ त्वमसामर्थ्यमिदञ्चौत्पत्तिकमस्य रूपमिति।” तदपि सहकारिसापेक्षजननबीजविमर्शेन गतम् ते च (४) सहकारिणः स्वोपसर्प्पण प्रत्ययवशाद्भिन्नकाला इत्यर्थात् कार्याणामपि भिन्नकालतेति तथाप्येककालस्थ एव भावो जातो नष्टस्तदा कार्यं करोतु उत्पन्नमा (५) त्रस्य तत्स्वभावत्वात्। एकदेशस्थवदिति चेत् -सेयमेककालता स्वरूपकालापेक्षया सहकारिसांनिध्यापेक्षया वा आद्ये न किञ्चिदनुपपन्नं (६) नित्यानामपि एवं रूपत्वात्, वर्तमानैकरूपत्वाद्भवानां तदेव तु क्वचित्सावधि क्वचिन्निरवधीति विशेषः। सावधित्वेपि व्यापारफलप्रवाहप्रकर्षाप्रक-(७)-र्षाभ्यां विशेषः। द्वितीयस्तु स्यादपि यदि तेषां यौगपद्यं भवेत्। क्रमिणस्तु सहकारिण इत्युक्तम्। सहकारिसहितः स्वभावेन करोतीति वक्तरि जा-(८)-त नष्ट एव करोतु इत्युत्तरप्रसङ्गो निरर्गलशैशवस्येत्यलमनेन। तस्मात्कार्यस्य स एव कालः कारणस्य सचान्यश्चेति सम्बन्धिकालापेक्षया पूर्वकालता व्यवहा-(९)-रः। एतदपि सहकारिसाकल्यविशेषणकरणनिराकरणादलीकं परिकल्पनमनल्पं शल्यचक्रसातभाजनम् देशभेदेन तु कर्तृत्वाकर्तृत्वमुपलब्धं आन्याक्षेपं उपयनात्महसितसहचरञ्च न विरोधत्वादि (२) सनमापन्नः। तेनैव सहकारेण तस्यैव तदैव तथैव सम्बद्धत्वमसम्बद्धत्वं च पूर्वापरवेलायामनिश्चित “अस्तु तर्हि तस्यैव तेनैव सहकारिण सहसम्बन्धोऽसम्बन्धश्चेति (३) विरोधः न विकल्पानुपपत्तेः। तथाहि सम्बन्धिनः सम्बन्ध्यन्तरे स्वाभावस्वाभाव्यं वा विरुध्येत, अभाव प्रतियोगित्वं वा, तदैवेति सहितं वा, तत्रै वति (४) सहितं वा, उभयसहितं वा, तथैवेति सहितं वा ? विकल्पक्रमेण (१) तदुद्धरणवक्तव्यञ्चाचक्षितमालोचनीयम्। (५) तथाहिशशशृंगस्य।

ञ्च ये योग्यमयोग्यश्चापि जायते॥
नित्यं योग्यस्वभावस्य तद्विकल्पविरोधतः।
इति त्‌योग्यतावाच्यः स्वभावोऽस्य निरुप्च्यताम्।
विभागयोगजाति-(६)-भिः किमन्यैर्गमनादिभिः।
तेषु सत्येपि तस्येति, सम्बन्धस्याप्रसिद्धितः॥
युक्तः स्वभावभेदोऽयं तत्प्रतिक्षणजन्मिनाम्।

इति न्यायात् यदि संसर्गयो-(७)-ग्यः स्वभावो बीजस्य निजो नापैति कदाचन तदा स्वाभावस्वभाववत्वमतृणहेतुं कथमुक्तं नान्यत् कर्म्म इति। शेषं तु फल्गुवर्जितं अनर्गलबालत्वस्येत्यादि (१) तमालोकस्य। अथ कादाचित्कं तद्रूपं तदेव निरूप्यतां निबन्धनं ............... दिपि यः किमधिकेनेति धूर्तत्वेन।

‘इति अन्वयमुखेन क्षणिकत्वानुमाननिराकृतस्य निराकरणम्। ’
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project