Digital Sanskrit Buddhist Canon

आलम्बनपरीक्षावृत्तिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ālambanaparīkṣāvṛttiḥ

आलम्बनपरीक्षावृत्तिः

आचार्यदिङ्नागकृता

नमः सर्वबुद्धबोधिसत्त्वेभ्यः


ये चक्षुरादिज्ञानस्यालम्बनं बाह्यार्थोऽस्तीतीच्छन्ति। ननु ते कल्पयन्ति परमाणुन् ; तत्कारणात्वात् [ज्ञानस्य]। संघातं वा तदाभज्ञानस्य जायमानत्वात्। तत्र तावत्



यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः (=अणवः) कारणं भवेत्।

अतदाभतया तस्या नाक्षवद्विषयः स तु (अणवः)॥१॥



विषय इति। ज्ञानेन स्वरूप मेव निर्धार्यते। तदाकारतया जायमानत्वात्। यद्यप्यणवः तत्कारणम्। तथापि न तादृशाः अक्षवत्। एवञ्च नाणवस्तावदालम्बनम्। संघातस्तु तदाभत्वेऽपि [ज्ञानम्य नालम्बनम्। यतः]



यदाभासा न तस्मात्सा



योऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते। यतः स एव ह्युत्पत्तिप्रत्यय उच्यते। संघातस्तु नैवम्।



द्रव्याभावाद् द्विचन्द्रवत्।



इन्द्रियवैकल्यात् द्विचन्द्रदर्शनस्य तदाभत्वेऽपि न तस्य विषयोऽस्ति। तद्वत् संघातः द्रव्यतोऽसत्त्वेन अकारणात्वात् नालम्बनम्।



एवं बाह्यदूयञ्चैव न युक्तं मतिगोचरः॥२॥



अणुः कलापश्चेति बाह्योऽर्थः नालम्बनम्, एकाङ्गवैकल्यात्॥ तत्र साधनं सञ्चिताकारमिच्छन्ति किल केचन।



सर्वोऽर्थो बह्वाकारः अतः तत्र केनचिदाकारेण प्रत्यक्ष इप्यते। परमाणुष्वप्यस्ति सञ्चिताभज्ञानोत्पत्तिकारणभावः।



अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत्॥३॥



यथा कठिनतादि विद्यमानमपि न चाक्षुषबुद्धिविषयः। एवमनुत्वमपि॥



भवेद्धटशरावादेस्तथा सति समा मतिः।



घटशरावादिपरमाणुषु बहुष्वपि न कोऽपि विशेषोऽस्ति।



आकारभेदाद्भेदश्चेत



यदि मन्यसे ग्रीवाद्याकारः विशेषक्रिया येन बुद्धेर्विशेषणमुपाधिर्भवेत्। इति। अयमुपाधिर्धटादावस्ति।



नास्ति तु द्रव्यसत्यणौ॥४॥



प्रमाणभेदाभावात् सः



परमाणुषु द्रव्यान्तरेष्वपि पारिमण्डल्ये भेदो नास्ति।



अद्रव्येऽस्ति ततः स हि।



आकारभेदः संवृतिसत्स्वेवास्ति न तु परमाणुषु। घटादयश्च संवृतिसन्त एव॥



अणुनां परिहारे हि तदाभज्ञानविप्लवात्॥५॥



द्रव्यसत्सु अपनीतसम्बन्धिष्वपि [नील-] वर्णादिवत् स्वबुद्धिर्न त्यज्यते। तथा सति इन्द्रियबुद्धीनां विषयो बहिर्नास्तीत्युपपद्यते॥



यदन्तर्हेयरूपं तु बहिर्वदवभासते।



सोऽर्थः



वाह्यार्थेऽविद्यमाने अन्तस्सदेव वहिर्वदवभासनमालम्बनप्रत्ययः।



विज्ञानरूपत्वात्तत्प्रत्ययतयापि च॥६॥



अन्तर्विज्ञान मर्थतयावभासते ततो उत्पद्यते चेति धर्मताद्वयविशिष्टमित्यतः अन्तस्सदेवालम्बनप्रत्ययः॥



यदि तावदेवमवभास एव वेद्यते। कथं तदेकदेशः सहजातः प्रत्ययः।



एकांशः प्रत्ययोऽवीतात्,



सहभूतोऽपि अव्यभिचारात् अन्यजातस्य प्रत्ययो भवती॥ नैयायिकास्तु एवमाहुः। क्रमेण जायमानयोर्हेतुहेतुमतोः भवाभावतद्वत्ता लक्षण मिति॥ अथवा



शक्त्यर्पणात् क्रमेण [वा]।



क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानधारां करोतीत्यविरोधः॥ यदि तर्हि स्वरूपमेवालम्बनप्रत्ययः। कथं तत् [रूपं] चक्षुश्चोपादाय चक्षुर्विज्ञानमुत्पद्यते॥ [इति]।



सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम्॥७॥



इन्द्रियं स्वकार्यात् शक्तिरूपमेवानुमीयते न तु भौतिकम्।



सा चाविरुद्धा विज्ञप्तेः



शक्तिस्तु विज्ञाने वास्तु। अनिर्देश्ये स्वस्य रूपे वास्तु कार्योत्पत्तौ न विशेषः।



एवं विषयरूपकम्।



प्रवर्तेतेऽनादिकालं शक्तिश्चान्योन्यहेतुके॥८॥



चक्षुराख्यां शक्तिमन्तः रूपञ्चोपादाय विज्ञानमर्थावभासि आलम्बनादविभक्तमुत्पद्यते। इदं द्वयमपि अनादिकालमन्योन्यहेतुकम्। कदाचित् विज्ञानस्य शक्तिपरिपाकात् विषयाकारता भवति। कदाचिच्च तदाकारशक्तिः। विज्ञानं सा च उभयमन्यत्वेनानन्यत्वेन च यथेष्टमुच्यताम्। एवमन्तरालम्बनं धर्मताद्वयविशिष्टत्वात् विषयतया उपपद्यते॥



इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षावृत्तिः समाप्ता
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project