Digital Sanskrit Buddhist Canon

अपोहसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Apohasiddhiḥ

अपोहसिद्धिः।



नमः श्रीलोकनाथाय॥



अपोहः शब्दार्थो निरुच्यते।



ननु कोऽयं अपोहो नाम ? किमिदं अन्यस्मादपोह्यते; अस्माद्वा अन्यदपोह्यते; अस्मिन् वान्यदपोह्यत इति व्युत्पत्त्या विजातिव्यावृत्तं वाह्य मेव विवक्षितं; बुद्ध्याकारो वा; यदि वा अपोहनं अपोह इत्यन्य व्यावृत्तिमात्रं इति त्रयः पक्षाः। न तावदादिमौ पक्षौ, अपोहनाम्ना विधेरेव विवक्षितत्वात्; अन्तिमोऽप्यसङ्गतः प्रति तिवाधितत्वात्; तथाहि पर्व्वतोद्देशे वन्हिरस्तीति शाब्दौ प्रतीतिर्व्विधिरूपमेवोल्लिखन्ती लक्ष्यते; नानग्निर्नभवतीति निवृत्तिमात्रमामुखयन्ती। यच्च प्रत्यक्षवाधितं न तत्र साधनान्तरावकाश इत्यतिप्रसिद्धम्।



अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः। तथापि निवृत्तपदार्थोल्लेख एव निवृत्त्युल्लेखः। न ह्यनन्तर्भावितविशेषणप्रतीति व्विशिष्टप्रतीतिः। ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणात् विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्; तथा निवृत्तप्रत्यया क्षिप्ता निवृत्तिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति चेत् ? ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था; तत् किमायातमस्फु रदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः। ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि स्यात्, को नाम निवृत्तिप्रतीतिस्थितिमपलपेत्। अन्यथाऽसति प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेपि चेतसि तुरगबोध इत्यस्तु।



अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तं, तथापि यद्यगवापोढ इतीदृशा कारोविकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु, किन्तु गौरिति प्रतीतिः। तदा च सतोपि निवृत्तिलक्षणस्य विशेषणस्य तत्रानुत्कलनात्; कथं तत् प्रतीतिव्यवस्था। अथैवं मतिः।यद्विधिरूपं स्फुरितं तस्य परापोहोऽप्यस्तीति तत्प्रतीतिरुच्यते। तथापि सम्बन्धमात्रमपोहस्य विधिरेव साक्षान्निर्भासी। अपि चैवमध्यक्षस्या प्यपोहविषयत्वमनिवार्यम्। विशेषतो विकल्पादेकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य। तस्माद्विध्याकारावग्रहादध्यक्षवद्विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः शब्दार्थो घुष्यते॥ अत्राभिधीयते॥



नास्माभिरपोहशब्देन विधिरेव केवलोऽभिप्रेतः। नाप्यन्यव्यावृत्तिमात्रं, किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः। ततश्च न प्रत्येकपक्षोपनिपातिदोषावकाशः। यत्तु गोः प्रतीतौ न तदात्मापरात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्; अन्यापोहप्रतीतौ वा सामर्थ्यात् अन्यापोढोवधार्य्यते इति प्रतिषेधवादिनां मतम्। तदसुन्दरम्। प्राथमिकस्यापि प्रतिपत्तिक्रमादर्शनात्। न हि विधिं प्रतीपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति; अपोहं वा प्रतिपद्यान्यापोदम्; तस्माद् गोः प्रतिपत्तिरिति अन्यापोढप्रतिपत्तिरुच्यते। यद्यपि चान्यापोढशब्दानुल्लेख उक्तः। तथापि नाप्रतिपत्तिरेव, विशेषणभूतस्यान्यापोहस्य अगवापोढ एव गोशब्दस्य निवेशितत्वात्। यथा नीलोत्पले निवेशितादिन्दीवरशब्दान्नीलोत्पल प्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्य्यम्; तथा गोशब्दादप्यगवापोढे निवेशितात् गो-प्रतीतौ तुल्यकालमेव विशेषणत्वात् अगो[ऽ]पोहस्फुरणमनिवार्य्यम्। यथा प्रत्यक्षस्य प्रसह्य रूपाभावग्रहणमभावविकल्पोत्पादन शक्तिरेव। तथा विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभिधीयते। पर्य्युदासरूपाभावग्रहणन्तु नियत स्वरूपसम्बेदनमुभयोरविशिष्टं; अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः; कथमन्यपरिहारेण प्रवृत्तिः। ततो गां वधानेति चोदितोऽश्वादीनपि वध्नीयात्।



यदप्यवोचद्वाचस्पतिः; जातिमत्यो व्यक्तव्यः; विकल्पानां शब्दानाञ्च गोचरः; तासाञ्च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यर्थतस्तदवगतेर्न गाम्बधानेति चो दितोऽश्वादीन् बध्नाति। तदप्यनेनैव निरस्तं यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां रूपमतज्जातीयव्यावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमतद्यावृत्तिपरिहारः?



अथ न विजातीयव्यावृत्तं व्यक्तिरूपं, तथाप्रतीतं, वा तदा जातिप्रसाद एष इति कथमर्थतोपि तदवगतिरित्युक्तप्रायम्।



अथ जातिवलादेवान्यतो व्यावृत्तम्। भवतु जातिवलात् स्वहेतुपरम्परावलाद्वान्यव्यावृत्तम्। उभयथापि व्यावृत्तप्रतिपत्तौ व्यावृत्तिप्रतिपत्तिरस्त्येव। नचागो[ऽ]पोढे गोशब्दसङ्केतविधावन्योन्याश्रयदोषः। सामान्ये तद्वति वा सङ्केतेऽपि तद्दोषावकाशात्। न हि सामान्यं नाम सामान्यमात्रमभिप्रेतम् तुरगेपि गोशब्दसङ्केतप्रसङ्गात्। किन्तु गोत्वम्। तावता च स एव दोषः। गवापरिज्ञाने गोत्वसामान्यापरिज्ञानात्। गोत्वसामान्यापरिज्ञने गोशब्दवाच्यापरिज्ञानात्। तस्मात् एकपिण्डदर्शनपूर्व्वको यः सर्व्वव्यक्तिसाधारण इव बहिरध्य स्तो विकल्पबुध्याकारः, तत्रायं गौरिति सङ्केतकरणे नेतरेतराश्रयदोषः। अभिमते च गोशब्दप्रवृत्तावगोशब्देन शेषस्याप्यभिधान मुचितम्। न चान्यापोढा न्यापोहयोर्व्विरोधोविशेष्यविशेषणक्षतिर्व्वा; परस्परव्यवच्छेदाभावात्, सामानाधिकरण्यसद्भावात्, भूतलघटाभाववत्। स्वाभावेन हि विरोधो न पराभावेनेत्याबालप्रसिद्धं। एष पन्थाः श्रुघ्नमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव; अप्रकृत पथान्तरापेक्षया एष एव। श्रुघ्नप्रत्यनीकानिष्टस्थानापेक्षया श्रुघ्नमेव। अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव। सार्थदूतादिव्यवच्छेदेन पन्था‍वेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात् तस्मादपोहधर्म्मणो विधिरूपस्य शब्दादवगतिः; पुण्डरीकशब्दादिव श्वेतिमविशिष्टस्य पद्मस्य। यद्येवं विधिरेव शब्दार्थोवक्तुमुचितः। कथमपोहो गीयत इति चेत् ? उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते; तत्र विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति। न चैवं प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्त्तुमुचिता; तस्य शाब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात्। विधिशब्देन च यथाध्यवसायमतद्रूप परावृत्तो बाह्योर्थोभिमतः। यथाप्रतिभासं बुड्ध्याकारश्च; तत्र वाह्योर्थोध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते। न स्वलक्षणपरिस्फूर्त्त्या प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्त स्वलक्षणास्फुरणात्। यच्छास्त्रं॥



शब्देनाव्यापृताख्यस्य बुद्ध्वावप्रतिभासनात्।

अर्थस्य दृष्टाविवेति,

इन्द्रियशब्दस्वभावोपायभेदात् एकस्यैव प्रतिभास भेद इति चेत्? अत्राप्युक्तम्।



जातो नामाश्रयोन्यान्यः चेतसान्तस्य वस्तुनः।

एकस्यैव कुतो रूपं भिन्नाकारावभासि तत्॥



न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुड्धे एकस्य वस्तुनः स्तः; यत एकेनेन्द्रियबुड्धौ प्रतिभासेतान्येन विकल्पे, तथा सति वस्तुन एव भेदप्राप्तेः; न हि स्वरूपभेदादपरो वस्तुभेदः। न च प्रतिभासभेदादपर स्वरूपभेदः; अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात्। दूरासन्नदेशवर्त्तिनोः पुरुषयोः एकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेपि न शाखिभेद इति चेत् ? न ब्रूमः प्रतिभासभेदोभिन्नवस्तु नियतः। किन्तु , एकविषयत्वाभावनियत इति। ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदः तत्र वस्तुभेदः, घटवत्। अन्यत्र पुनर्न्नियमे नैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः।



एतेन यदाह वाचस्पतिः; न च शब्दप्रत्यक्षयोव्वस्तुगोचरत्वे प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति। तन्नोपयोगि। परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थनात्। परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः। तन्न शाब्दे प्रत्यये स्वलक्षणम् परिस्फुरति किञ्च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्व्वात्मना प्रतिपत्तेः, विधिनिषेधयोरयोगः। तस्य हि सद्भावेस्तीति व्यर्थ, नास्तीत्यसमर्थम्; असद्भावे नास्तीति व्यर्थमस्ती त्यसमर्थम्। अस्ति चास्त्यादिपदप्रयोगः। तस्मात् शब्दप्रतिभासस्य वाह्यार्थभावाभावसाधारण्यं न तद्विषयतां क्षमते।



यच्च वाचस्पतिना जातिमब्द्यक्तिवाच्यतां स्ववाचैव प्रस्तु त्याननन्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते; सा हि स्वरूपतो नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणीभवन्नस्तिना स्तिसम्बन्धयोग्या; वर्त्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता; अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति सन्दिग्धव्यतिरेकित्वादनैकान्तिकम्भावाभावसाधारण्यमन्यथासिड्वं वेति विलपितं। तावन्न प्रकृतक्षतिः। जातौ भरं न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात्। किञ्च सर्व्वत्र पदार्थस्य स्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते। जातेस्तु वर्त्तमानादिव्यक्तिसम्बन्धो स्तित्वादिकमिति तु बालप्रतारणम्। एवं जातिमव्ध्यक्तिवचनेऽपि दोषः; व्यक्तेश्चेत् प्रतीतिसिद्धिः, जातिरधिका प्रतीयताम्, मा वा, न तु व्यक्तिप्रतीतिदोषन्मुक्तिः। एते न यदुच्यते कौमारिलैः। सभागत्वादेव वस्तुनो न साधारण्यदोषः। वृक्षत्वं ह्यनिर्द्वारितभावाभावं शब्दादवगम्यते। तयोरन्यतरेण शब्दान्तरावगतेन सम्बध्यत इति। तदप्यसङ्गतम्; सामान्यस्य नित्यस्य प्रतिपत्तावनिर्द्वारितभावाभावत्वायोगात्। यच्चेढं न च प्रत्यक्षस्येव शब्दानां अर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्; विचित्रशक्तित्वात् प्रमाणानामिति तदप्यैन्द्रियकशाब्दप्रतिभासयोरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितम् विचित्रशक्तित्वञ्च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम्।



ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवावभासः स्यात्; अभवंश्च न तद्विषयख्यापनं क्षमते। ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्वाद्यंशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत्? निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण; धर्म्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा। प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टे ति चेत् ? भवतु तस्यानिश्चयात्मत्वात् अनभ्यस्तस्वरूपविषये; विकल्पस्तु स्वयन्निश्चयात्मको यत्र ग्राही तत्र किमपरेण? अस्ति च शब्दलिङ्गान्तरापेक्षा ततो न वस्तु स्वरूपग्रहः। ननु भिन्ना जात्यादयो धर्म्माः परस्परं धर्म्मिणश्चेति जातिलक्षणैकधर्म्मद्वारेण प्रतीतेपि शाखिनि धर्म्मान्तरवत्तया न प्रतीतिरिति किन्न भिन्ना भिधानाधी नो धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरववोधः। तदेतदसङ्गतम्; अखण्डात्मनः स्वलक्षणस्य प्रत्यक्षे प्रतिभासात्। दृश्यस्य धर्म्मधर्म्मिभेदस्य प्रत्यक्षप्रतिक्षिप्तत्वा दन्यथा सर्व्वं सर्व्वत्र स्यादित्यतिप्रसङ्गः। काल्पनिकभेदाश्रयस्तु धर्म्मधर्म्मिव्यवहार इति प्रसाधितम् शास्त्रे; भवतु वा परमार्थिको धर्म्मधर्म्मिभेदः। तथाप्यनयोः समवायादे र्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या। एवञ्च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्म्मिप्रतिपत्तौ सकलतद्द्वर्म्मप्रतिपत्तिः। तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादि सम्बन्धप्रतिबद्धाभ्यां धर्म्मिप्रतिपत्तौ निरवशेषतड्वर्म्मप्रतिपत्ति र्भवेत्; प्रत्यासत्तिमात्रस्याविशेषात्।



यच्च वाचस्पतिः; नचैकोपाधिना सत्त्वे विशिष्टे तस्मिन् गृहीते; उपाध्यन्त रविशिष्टतब्ग्द्रहः। स्वभावों हि द्रव्यस्य उपाधिभिर्व्विशिष्यते। नतूपाधयो वा विशेष्यत्वं वा तस्य स्वभाव इति। तदपि प्लवत एव। नह्यभेदादुपाध्यन्तरग्रहणञ्चमासञ्जि तम्। भेदं पुरस्कृत्यैवोपकारकग्रहणे उपकार्य्यग्रहणप्रसञ्जनात्। न चाग्निधूमयोः कार्य्यकारणभाव इव स्वभावत एव धर्म्मधर्म्मिणोः प्रतिनियमकल्पनमुचितम्। तयोरपि प्रमाणासिद्ध त्वात्। प्रमाणसिद्धे च स्वभावोपवर्णनमिति न्यायः॥



यच्चात्र न्यायभूषणेन सूर्य्यादिग्रहणे तदुपकार्य्याशेष वस्तुराशिग्रहणप्रसञ्जनमुक्तम्; तदभिप्रायानवगाहन फलम् तथा हि त्वन्मते धर्म्मधर्म्मिणोर्भेदः उपकारलक्षणैव च प्रत्यासत्तिः। तदोपकारकग्रहणे समानदेशस्यैव धर्म्मरूपस्यैव चोपकार्य्यस्य ग्रहणमासञ्जितम्। तत् कथं सूर्य्यो पकार्य्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्गः सङ्गतः। तस्मात् एकधर्म्मद्वारेणापि वस्तुस्वरूपप्रतिपत्तौ सर्व्वात्मप्रतीतेः; क्व शब्दान्तरेण विधिनिषेधावकाशः। अस्ति च, तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्गप्रतिभासित्वमिति स्थितम्॥



नापि सामान्यम् शाब्दप्रत्ययप्रतिभासि। सरितः पारे गावश्चरन्तीति गवादिशब्दात् सास्राशृङ्गलाङ्गूलादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामर्शनात् सम्पिण्डितप्रायाः प्रतिभासन्ते। न च तदेव सामान्यम्।



वर्णाकृत्यक्षराकारश्रून्यङ्गोत्वं हि कथ्यते।



तदेव च सास्राशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकीक्रियमाणम् सामान्यमित्युच्यते। तादृशस्य वाह्यस्याप्राप्ते र्भ्रान्तिरेवासौ केशप्रतिभासवत्। तस्माद्वासनावशाद्दुड्वेरेव तदात्मना विवर्त्तोयमस्तु, असदेव वा तद्रूपं ख्यातु; व्यक्तय एव वा सजातीयभेदतिरस्कारेणान्यथा भासन्ता मनुभवव्यवधानात्; स्मृतिप्रमोषो वभिधीयताम्; सर्व्वथा निर्व्विषयः खल्वयं सामान्यप्रत्ययः; क्व सामान्यवार्त्ता ? यत् पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्वमुक्तं तदयुक्तम्। यतः पूर्व्वपिण्डदण्डदर्शनस्मरणसहकारिणातिरिच्यमानाविशेषप्रत्ययजनिका सामग्री निर्व्विषयं सामान्यविकल्पमुत्पादयति। तदेवन्न शाब्दप्रत्यये जातिः प्रतिभाति; नापि प्रत्यक्षे न चानुमानतोऽपि सिद्धिः; अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात्। नापीन्द्रियवदस्याः सिद्धिः। ज्ञानकार्य्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः। यदापि पिण्डान्तरे अन्तराले वा गोबुद्धेरभावं दर्शयेत्; तदा शावलेयादिसकलगोपिण्डानामेवाभावादभावो गो बुद्धेरूपपद्यमानः कथमर्थान्तरमाक्षिपेत् ? गोत्वादेव गोपिण्डः, अन्यथा तुरगोपि गोपिण्डः स्यात्। यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वम् स्यात्। तस्मात् कारणपरम्परात एव गोपिण्डो गोत्वं तु भवतु मा वा। ननु सामान्यप्रत्ययजननसामर्थ्यं यद्येकस्मात् पिण्डादभिन्नम्; तदा विजातीयव्यावृत्तं पिण्डान्तरमसमर्थं। अथ भिन्नं तदा तदेव सामान्यम् नाम्नि परं विवाद इति चेत् ? अभिन्नैव सा शक्तिः प्रति वस्तु; यथात्वेकः शक्तस्वभावो भावः तथ अन्योपि भवन् कीदृशन्दोषमावहति ? यथा भवतां जातिरेकापि समानध्वनिप्रसवहेतुरन्यापि स्वरूपेणैव जात्यन्तरनिरपेक्षा। तथास्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः।



यत्तु त्रिलोचनः। अश्वत्वगोत्वा दीनां सामान्य विशेषाणां स्वाश्रये समवायः सामान्यम्; सामान्य मित्यभिधानप्रत्यययोर्निमित्तमिति। यद्येवं व्यक्तिष्वप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु। किं सामान्यस्वीकार प्रमादेन।



न च समवायः सम्भवी॥

इहेति बुद्धेः समवायसिद्धि-

रिहेति धीश्च द्वयदर्शने स्यात्।

न च क्वचित्तद्विषये त्वपेक्षा

स्वकल्पनामात्रमतोभ्युपायः॥



एतेन येयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीसु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्युहाप्रवर्त्तनमस्य प्रत्याख्यातम्। जाटिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात्। यत् पुनरनेन विपर्य्यये वाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य क्वचिदेव भवन्ती निमित्तवती। न चान्यन्निमित्तमित्यादि॥ तन्न सम्यक्। अनुवृत्तमन्तरेणापि अभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशेषात् अवश्यं स्वीकारस्य साधितत्वात्। तस्मात्,



तुल्य भेदे यया जा तिः प्रत्यासत्त्या प्रसर्पति। क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम्।

यत् पुनरत्र न्यायभूषणेनोक्तं नह्येवं भवति। यया प्रत्यासत्त्या दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु किं दण्डसूत्रादिनेति। तदसङ्गतम्। दण्डसूत्रयोहि पुरुषस्फटिकप्रत्यासन्नयोः दृष्टयोः दण्डिसूत्रिप्रत्ययहेतुत्वं नापलप्यते। सामान्यन्तु स्वप्नेऽपि न दृष्टम्। तद्यदीदं परिकल्पनीयम् तदा वरम् प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, किं गुर्व्यापरिकल्पनयेत्यभिप्राया परिज्ञानात्।



अथेदं जातिप्रसाधकमनुमानमभिधीयते।



यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम्। यथा दण्डिज्ञानम्। विशिष्टज्ञानञ्चेदं गौरयमित्यर्थतः कार्य्यहेतुः। विशेषणानुभवकार्य्यं हि दृष्टान्ते विशिष्टबुद्धिः सिड्वेति। अत्रानुयोगः, विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा साध्यम्; विशेषण मात्रानुभवनान्तरीयकत्वं वा। प्रथमपक्षे पक्षस्य प्रत्यक्षवाधासाधनावधानमनवकाशयति। वस्तुग्राहिणः प्रत्यक्षस्यो भयप्रतिभासाभावात्। विशिष्टबुद्धित्वञ्च सामान्यम्। हेतुर नैकान्तिकः। भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात्। यथा स्वरूपवान् घटः। गोत्वं सामान्यमिति वा। द्वितीयपक्षे तु सिद्धसाधनम्। स्वरूपवान् घट इत्यादिवत् गोत्वजातिमा न् पिण्ड इति परिकल्पितम् भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वाद्गोव्यावृत्तानुभवभावित्वाद् गौरयमिति व्यवहारस्य। तदेव न सामान्यबुद्धिः। वाधकं च सामान्यगुणकर्म्माद्युपा धिचक्रस्य, केवलव्यक्तिग्राहकं पटुप्रत्यक्षम्। दृश्यानुपलम्भो वा प्रसिद्धः।



तदेवं विधिरेव शब्दार्थः। स च वाह्योर्थो बुध्याकारश्च विवक्षितः, तत्र न बुध्याकारस्य तत्त्वतः सम्बृत्त्या वा विधिनिषेधौ। स्वसम्बेदनप्रत्यक्षगम्यत्वात्। अनध्यवसायाच्च। नापि तत्त्वतो वाह्यस्यापि विधिनिषेधौ तस्य शाब्दे प्रत्ययेऽप्रतिभासनात्। अत‍एव सर्व्वधर्म्माणान्तत्त्वतोऽनभिलाप्यत्वं प्रतिभासाध्यवसायाभावात् तस्मात् वाह्यस्यैव साम्बृतौ विधिनिषेधौ। अन्यथा सम्व्यवहारहानिप्रसङ्गात्। तदेवं।



नाकारस्य न वाह्यस्य तत्त्वतोविधिसाधनम्।

वहिरेव हि संवृत्त्या संवृत्यापि तु नाकृतेः॥



एतेन यड्वर्म्मोत्तरः॥ आरोपितस्य वाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति। तदपहस्तितम्।



नन्वध्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः ? अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः। अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथन्नियतविषया प्रवृत्तिरिति चेत् ? उच्यते; यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसामग्रीप्रसूतत्वेन नियताकारतया नियतशक्तित्वात् नियता एव जलादौ प्रवृत्तिः। धूमस्य परोक्षाग्निज्ञानजननवत्।



नियतविषया हिभावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसाङ्कर्य्यपर्य्यनुयोगभाजः। तस्मात् तदध्यवसायित्वमाकारविशेषयोगात् तत्प्रवृत्तिजनकत्वम्। न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः। येनाकारे वाह्यस्य वाह्ये वा आकारस्यारोपद्वारेण दूषणावकाशः। किन्तर्हि स्ववासनाविपाकवशादुपजायमानैव बुड्विरपश्यन्त्यपि वाह्यं वाह्ये वृत्तिमातनो तीति विप्लुतैव। तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोर्थो विधिः। स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चेति स्थितम्॥



अत्र प्रयोगः। यद्वाचकं तत्सर्व्वमध्यवसितातद्रूपपरावृत्तवस्तुमात्रगोचरम्। यथेह कूपे जलमिति वचनम्। वाचकञ्चेदं गवादिशब्दरूपमिति स्वभावहेतुः। नायमसिड्वः, पूर्वोक्तेन न्यायेन पारमार्थिकवाच्यवाचकभावस्याभावेऽपि; अध्यवसायकृतस्य सर्व्वव्यवहारिभिरवश्यस्वीकर्त्तव्यत्वात्। अन्यथा सर्व्वव्यवहारोच्छेदप्रसङ्गात्। नापि विरुद्धः सपक्षे भावात्। न चानैकान्तिकः; तथाहि शब्दानामध्यवसितविजातिव्यावृत्तव स्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतो

वाच्यं स्वलक्षणमुपाधिरुपाधियोगः

सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धेः,

गत्यन्तराभावात्। अविषयत्वे च वाचकत्वायोगात्। तत्र।



आद्यन्तयोर्न्न समयः फलशक्तिहाने-

र्मध्येप्युपाधिविरहात्तितयेन युक्तः॥

तदेवं वाच्यान्तरस्याभावात्। विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्तौ विपक्षतो निवर्त्तमानम् वाचकत्वमध्यवसितवाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः।



शब्दैस्तावन्मुख्यमाख्यायतेऽर्थ

स्तत्रापोहस्तद्गुणत्वेन गम्यः।

अर्थश्चैको ऽध्यासतो भासतोऽन्यः

स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित्॥

अपोहसिद्धिः समाप्ता॥



कृतिरियम्महापण्डितरत्नकीर्त्तिपादानाम्॥



भवत्वपोहे कृतिनाम्प्रपञ्चो

[व] स्तुस्वरूपास्फुरणन्तु मर्म्म।

तत्रादृढे सर्व्वमयत्नशीर्णं

दृढे तु सौस्थ्यन्ननु तावतैव॥

सम्पूर्णरात्रिप्रहरद्वयेन

कीर्त्तेरपोहो लिखितः सुखेन।

त्रैलोक्यदत्तेन परात्महेतोः

[य] त्नादतोऽयं परिरक्षणीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project