Digital Sanskrit Buddhist Canon

अन्तर्व्याप्तिसमर्थनम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Antarvyāptisamarthanam

अन्तर्व्याप्तिसमर्थनम्।



ॐ नमो बुद्धाय।



इह सत्त्वमर्थक्रियाकारित्वं तदितरसत्त्वलक्षणायोगात्। तच्च क्रमयौगपद्याभ्यां व्याप्तं परस्परव्यवच्छेदलक्षणत्वादनयोः। प्रकारान्तरेण करणासम्भवात्। क्रमयौगपद्ये चाक्षणिकत्वे न स्तः। पूर्व्वापरकालयोरविचलितैकस्वभावस्य कर्त्तृत्वाकर्त्तृत्वे विरुद्वधर्म्मद्वयायोगात्।



तत्र न तावत् क्रमः क्रमाणामेकैकं प्रति पूर्वापरकालयोः कर्त्तृत्वाकर्त्तृत्वापत्तेः। एवं सर्व्वक्रमाभावात् केवलं सकलकार्य्ययौगपद्यमवशिष्यते। तत्र च स्फुट तरः पूर्व्वापरकालयोः कर्त्तृत्वाकर्तृत्वप्रसङ्गः। विरुद्वे च कर्त्तृत्वाकर्त्तृत्वे एकधर्म्मिणि न सम्भवतः। एकस्वभावश्च तावत्कालमक्षणिक इति सिद्व एतस्मिन् क्रमयौगपद्ययोरयोगः। तदेवमक्षणिके व्यापकानुपलब्ध्या निषिद्वं सत्त्वं क्षणिक एवा[व] तिष्ठते इति क्षणिकत्वेन व्याप्तं। तत्तेन व्याप्तं यत् यत्र धर्म्मिणि सिध्यति तत्र क्षणिकत्वं प्रसाधयति। इदमेवेदानीं विचार्य्यते। केयं (क्वेयं) व्याप्तिग्रहीतव्या दृष्टान्तधर्म्मिणि साध्यधर्म्मिणि वा। केचिदाहुः। दृष्टान्तधर्म्मिण्येव धूमवत्। अन्यथा साधनवैफल्यं स्यात्। उभयधर्म्मसिद्वि(द्वे)रनान्तरीयकत्वात् व्याप्तिसिद्वेः। नहि महानससिद्वायामग्निधूमयोर्व्याप्तौ पुनरग्निसिद्वये धूमलिङ्गमन्विष्यत इति। तथाहि।



दृष्टान्ते गृह्यते व्याप्तिर्धर्म्मयोस्तत्र दृष्टयोः।

हेतुमात्रस्य दृष्टस्य व्याप्तिः पक्षे तु गम्यते॥

सा च सर्व्वोपसंहारात् सामान्यमवलम्बते।

तस्य धर्म्मिणि वृत्तिस्तु प्रतीयेतानुमानतः॥



प्रत्यक्षदृष्टयोर्वन्हिधूमयोः कार्य्यकारणभावसिद्वौ तयोर्व्याप्तिसिद्विरिति प्रत्यक्षसिद्वे वन्हौ युक्तमनुमानवैफल्यम्। नैवं व्याप्तिसिद्वेः प्राक् प्रमाणान्तरसिद्वं धर्म्मिणि क्षणिकत्वम्। साधनधर्म्ममेव तु केवलमनुपश्यन्तो विपर्य्यये बाधकप्रमाणवलात्तस्य क्षणिकत्वेन व्याप्तिं प्रतीमः। तत्ततः साधनवैफल्यम्। वैफल्यमेव, क्षणिकत्वव्याप्तस्य सत्त्वस्य तथात्वेन धर्म्मिणि प्रतीतौ क्षणिकत्वस्यापि प्रतीतेरिति चेत्। न। सर्व्वोपसंहारवती हि व्याप्तिः साध्यसिद्वेरङ्गम्। तदियमनपेक्षितधर्म्मिविशेषं साधनधर्म्ममात्रमवलम्बते। तद्यथा। यत्र धूमस्तत्राग्निरिति। न पुनर्यत्र महानसे धूमस्तत्राग्निरिति। एवमिहापि यत् सत्तत्क्षणिकमिति व्याप्तिप्रतीतौ साधनधर्म्मस्यापि धर्म्मिणि सत्त्वं नान्तर्भवति। किं पुनः साध्यधर्म्मस्य। तस्मात् सत्त्वसामान्यस्य साधनधर्म्मस्य पक्षधर्म्मत्वं व्याप्तिश्चैकशः प्रतिपाद्य तदुभयसामर्थ्यात् साध्यधर्म्मस्य धर्म्मिणि वृत्तिः प्रतीयत इति कुतोऽनुमानवैफल्यं। यद्येवं व्याप्तिप्रतीतावसति धर्म्मिणि परामर्शे साध्यधर्म्मिणि व्याप्तिग्रहणमिति। कुतः। तत्र दृष्टस्य सत्त्वस्य व्याप्तिप्रतीतेः। यथा महानसदृष्टाग्निधूमयोर्व्याप्तिग्रहे दृष्टान्तधर्म्मिणि व्याप्तिग्रहणमुच्यते। न हि व्याप्तिग्रहणे महानसपरामर्शोऽस्तीत्युक्तं। ननु व्याप्तिपक्षधर्म्मत्वयोरेकशः प्रतीतावपि यस्यैव पक्षधर्म्मत्वमवगतन्तस्यैव साध्येन व्याप्तिरवसितेति सामर्थ्यात् साध्यसत्ताकथनमवैयर्थ्यं साधनस्य।



ननु न पक्षधर्म्मत्वगतिः साध्यगतिः साध्यधर्म्मसंस्पर्शात्। नापि व्याप्तिप्रतीतिरेव साध्यसिद्विः। सामान्यालम्बनतया धर्म्मिविशेषेण धर्म्मयोरनवच्छेदात्। अन्यथा विशेषयोर्व्याप्तिप्रसङ्गात् तदयं व्यस्तविषयः सामर्थ्यादिति हेतुनिर्द्देशः। अथ हेतोस्त्रैरूप्यपरिच्छेदसामर्थ्यात् साध्यप्रतीतिरुत्पद्यत इत्युच्यते। न तर्हीदानीं व्यर्थोहेतुः। स्वरूपनिश्चयेन साध्यनिश्चयोपजननात्। न हि क्वचिदियत्ताधिकं लिङ्गस्य कर्त्तव्यमस्तीति।



अपि च गृहीते पक्षधर्म्मत्वे सम्बन्धे च स्मृते अनुमानं भवद्भिरिष्यते। तद्वदन्तर्व्याप्तावपीष्यतां। न हि बहिर्व्याप्तिवादिनामपि विस्मृतायां व्याप्तौ अनुमानप्रवृत्तिरस्ति। तत्र यस्यैव पक्षधर्म्मत्वमवगतं तस्यैव साध्यधर्म्मेण व्याप्तिस्मृतेः किन्न सर्व्वानुमानवैयर्थ्यं। साध्यधर्म्मिणोऽपरामर्शेण व्याप्तेः स्मरणादिति चेत्। साध्यधर्म्मिणि दृष्टस्यैव व्याप्तिस्मरणे कथं साध्यधर्म्मिणोऽपरामर्शः। सामान्यालम्बनत्वाद्व्याप्तेः। साध्यधर्म्मिनोऽनवच्छेदादिति चेत्। ननु तत्र दृष्टस्य कथं तेनानवच्छेदः। तेनावच्छिन्नस्य वा असाधारणत्वात् कथं व्याप्तिः। अयोगव्यवच्छेदेन विशेषणान्नासाधारणतेति चेत् तथापि किन्न साध्यधर्म्मी परामृश्यते। यत्र यत्र पर्व्वते धूमस्तत्र तत्राग्निर्यथा महानस इति सामान्यालम्बनायां व्याप्तौ धर्म्मिविशेषपरामर्शस्यानङ्गत्वादिति चेत् युक्तमेतत् साध्यधर्म्मिणा ह्ययोगव्यवच्छेदः साधनधर्म्मस्य रूपान्तरमेव पक्षधम्मत्वाख्यं। न त्वयं व्याप्तेरङ्गं। तमन्तरेणापि व्याप्तेः सामान्यालम्बनायाः परिच्छेदपरिसमाप्तेः कथमन्यथा दृष्टान्तधर्म्मिणि व्याप्तिग्रहणवार्त्तापि तदेदानीं पक्षधर्म्मत्वायोगात् पक्षधर्म्मत्वाग्रहणात्; पक्षधर्म्मत्वग्रहणे वा तदैव साध्यमपि सामर्थ्यादसिद्वं सिद्वमिति सर्व्वानुमानवैयर्थ्यप्रसङ्गः। पश्चात्कालभाविलिङ्गज्ञानमपि च स्मृतिरेव स्यात् न प्रमाणं। तस्मात् व्याप्तेरनङ्गत्वात् पक्षधर्म्मत्वं व्याप्तिग्रहणे सदपि नान्तर्भवतीति पृथग्गृहीतस्मृतयोः पक्षधर्म्मत्वव्याप्त्योः सामर्थ्यादनुमेयगतिरुत्पद्यते इति। एवमवैयर्थ्यं साधनानामेषितव्यम् इति मानफलत्वात्। तद्वत् पृथग्मूतयोः पक्षधर्म्मत्वव्याप्त्योः सामर्थ्यादनुमानोत्पत्तिरन्तर्व्याप्तावपि किन्नेष्यते। तदिष्टौ वा कथं साधनवैयर्थ्यं। त्रैरूप्यगतिसामर्थ्यादनुमेयगतिरिति हि तदुपादानशक्तिरेव सामर्थ्यमुच्यते, न तु त्रैरुप्यप्रतीतेरन्तर्भाव इति सर्व्वं समानं। न सर्व्वं समानं। अन्तर्व्याप्तौ हि व्याप्तिं प्रति गत्यैव पक्षधर्म्मत्वमवगतं अनवगते पक्षधर्म्मत्वे व्याप्तेरप्यनवगतेः। ततो व्याप्तिपूर्व्वके साधनवाह्ये पक्षधर्म्मवचनमनर्थकमनन्तव्याप्तौ। नैवं बहिर्व्याप्तौ बहिरेव व्याप्तिग्रहणात्। अत्राह,-



"येन तेन क्रमेणात्र प्रयुक्ते साधने सति।

अवेत्यं पक्षधर्म्मत्वं पश्चाद्‍व्याप्तिः प्रतीयते॥

प्रत्यक्ष इव दृष्टान्ते तत्र सेत्यन्यथा कथं।

द्वौ दृष्ट्वा विद्म इति चेद् व्याप्तेः प्राक् द्वयदृक् कथं॥"



व्याप्तिपक्षधर्म्मत्वे हि स्ववाक्याभ्यां येन तेन प्रयुक्ताभ्यां सूच्येते न तु साक्षात् प्रतीयेते। वाचः स्वयमप्रमाणत्वात्। यदाह,-



शक्तस्य सूचकं हेतुर्वचोऽशक्तमपि स्वयमिति। सूचितयोऽस्तु तयोः सत्त्वे हेतौ प्रथमतरपक्षधर्म्मत्वविषयमेव प्रमाणमभिमुखीभवतु। तेन प्रमाणेन धर्म्मिणि सिद्वस्य सत्त्वस्य पश्चाद्व्याप्तिः प्रमाणान्तरेण गृह्यत इति कस्य वैयर्थ्यमिति। प्रत्यक्षेऽपि दृष्टान्तधर्म्मिणि प्रथमं हेतुर्गृह्यते पश्चाद्व्याप्तिरित्येष एव क्रमः अन्यथा दृष्टान्तधर्म्मिणि व्याप्तिर्गृहीतेत्येतदेव न स्यात्। दृष्टान्तधर्म्मिण्यदृष्टस्यैव हेतोर्व्याप्तिग्रहणात्। यद्येवं साध्यधर्म्मोऽपि व्याप्तिग्रहणाधिकरणे धर्म्मिणि ग्रहीतब्य एव यथा वन्हिधूमयोरिति चेत्। न। तत्र दृष्टस्य हेतोर्विपक्षे बाधकवृत्तिमात्रादेव व्याप्तिसिद्वेः। ज्ञातश्चैवं न खलु व्याप्तिग्रहणात् प्राक् क्षणिकस्य क्वचिदपि सिद्विरस्ति तस्यानुमेयत्वात्। असिद्वायाञ्च व्याप्तावनुमानाप्रवृत्तेः। साधनान्तरस्य च तदर्थमननुसरणात्। अनुसरणेऽप्यनवस्था स्यात्। अवस्थाने तावत् प्रयासस्य वैयर्थ्यात्। विपर्य्यये व्याप्तिबलादेव व्याप्तिसिद्वेरविघातात्। वन्हिधूमयोस्तु नादृष्टयोः कार्य्यकारणभावसिद्वेः। तत्सिद्वौ न विपक्षे बाधकवृत्तिरिति द्वयदर्शनव्यपेक्षा ? वन्हिधूमयोर्व्याप्तिसिद्विः सत्त्वक्षणिकत्वयोस्तु नैवं। यथोक्तन्यायेन व्याप्तिसिद्वेः। तस्मात् सत्त्वमात्रस्य तत्र धर्म्मिणि सिद्वस्य बाधकवशाद्‍व्याप्तिः सेत्स्यतीत्येषितव्यं। तद्वदन्तर्व्याप्तावपि। ते इमे व्याप्तिपक्षधर्म्मत्वे स्वस्वप्रमाणव्यवच्छेद्यसाधनवाक्ये न तु केवलं सूचयितव्ये। न चान्यतरवाक्येन शक्यमुभयं सूचयितुमिति कुतोऽन्यतरवाक्यवैयर्थ्यं॥



एकस्यैव हि धर्म्मस्य क्रमात्रैरूप्यनिश्चयः।

विस्मृतावनुमाभावात् तत् किं व्यर्थानुमाखिलेति॥



अपि च संग्रहश्लोकः,-

बाधकात् साध्यसिद्विश्चेद्व्यर्थो हेत्वन्तरग्रहः।

बाधकात्तदसिद्विश्चेद्व्यर्थो धर्म्म्यन्तरग्रहः॥



यदि हि धर्म्मिणि व्याप्तिः सिध्यन्त्येव साध्यसिद्विमन्तर्भावयति। ननु लाभ एवैषः। ब्याप्तिप्रसाधकादेव प्रमाणात् साध्यसिद्वेः सत्त्वहेत्वपाश्रयणप्रयासस्य निरसनात्। न हि व्यसनमेवैतल्लिङ्गान्तरानुसरणं नाम। अथ न व्याप्तिसाधकात् साध्यसिद्विः। न तर्ह्यन्तर्व्याप्तौ हेतुवैयर्थ्यमिति किमकाण्डकातरतया बहु तरमायासमाविशसि। द्वयं हि भवतः साध्यं दृष्टान्तधर्म्मिणि वृत्तिः साध्यधर्म्मिणि च। यथाक्रमं ब्याप्तिपक्षधर्म्मत्वयोः सिद्व्यर्थं। ननु यदा प्रतिनियते धर्म्मिणि विवादः, तद्वहिर्भूते च धर्म्मिणि व्याप्तिग्रहणं तदानीं भवेद्वैयर्थ्यं। यदा तु वस्तुमात्रे विवादः तदा सर्व्ववस्तुषु हेतोर्वृत्तिस्त्वयापि साध्या मयापि चेति कतमस्मिन् धर्म्मिणि हेतोर्वृत्तिसाधनं मम व्यर्थं भविष्यति। कथमिदानीं बहिर्व्याप्तिर्विवादाधिकरणं भूत एवान्यतमस्मिन् व्याप्तिसाधनात्। तावन्मात्रलक्षणत्वाच्च साध्यधर्म्मिणः। बाधकं प्रमाणं प्रवर्त्तमानमन्तर्गतमपि धर्म्मिणं बहिष्करोतीति चेत् एतदेव कथं भवतु बाधकेन प्रवर्त्तमानेनैव तस्मिन् साध्यसाधनात्। साध्यसंशयोपगमे साध्यधर्म्मिणि लक्षणोपगमादिति चेत् अयुक्तमेतत्। बाधकमात्रात् न साध्यसिद्विरित्यस्मिन्पक्षे धर्म्म्यन्तरपरिग्रहवैयर्थ्याभिधानात्। बाधकात् साध्यसिद्विरित्यस्मिंस्तु पक्षे साधनवैयर्थ्यमापादितं। तस्माद्वाधकमात्रेण साध्यासिद्वौ न क्वचित् सन्देहनिवृत्तिः। सन्देहानिवृत्तौ न वहिष्करणमवहिष्कृतश्च साध्यधर्म्म्येवेति तत्र व्याप्तिरन्तर्व्याप्तिरेव नेदानीं बहिर्व्याप्तेर्वार्त्तापि। तदियंबहिर्व्याप्तिरमुस्मिन् पक्षे कथं भवति यदि प्रतिनियते धर्म्मिणि विवादः। तद्वहिर्भूते च धर्म्मिणि व्याप्तिग्रहणम्भवति। तत्र च दुरुद्वरः धर्म्म्यन्तरपरिग्रहवैयर्थ्यदोषः। बाधकमात्रेण तु साध्यसिद्वौ हेत्यन्तरमेव व्यर्थं। अपि च सत्वहेतोर्विशेषेण न वहिर्व्याप्तिसम्भवः।



असिद्वे धर्म्मिणः सत्त्वे विवादानवतारतः।

तत्रासिद्वस्य च व्याप्तिग्रहणे साध्यधर्म्मिणि॥

व्याप्तिग्रहः कथं नस्याद्दृष्टान्तेऽपि न वा भवेत्॥



यत्र हि धर्म्मिणि दृष्टस्य हेतोर्व्याप्तिः प्रतीयते तत्र तस्य व्याप्तिग्रहणमाख्यायते। दृष्टञ्च साध्यधर्म्मिणि सत्त्वमन्यथा विमत्ययोगादिति कथं नान्तर्व्याप्तिः।



तथापि साधनवैयर्थ्यनिषेधाय बहिरेव गृह्णीम इति चेत् तत् किमिदानीं त्वदिच्छानुरोधात् धर्म्मिणि हेतोर्द्दर्शनमदर्शनमस्तु। दर्शनविशेषे वा बहिरेव व्याप्तिग्रहणव्यवस्थास्तु। उभयत्र दृष्टस्य व्याप्तिग्रहणेऽप्यस्ति बहिर्व्याप्तिभाग इति चेत्। ननु किमर्थमियान् भागो यत्नेन संरक्ष्यते।



माभूत् हेतुवैयर्थ्यमिति चेत्। ननु यदि बाधकवृत्तिमात्रेण व्याप्तिग्रहणाधिकरणे धर्म्मिणि साध्यसिद्वेः साधनवैयर्थ्यमन्तर्व्याप्तौ तदेतद्वहिर्व्याप्तावपि तुल्यं। तस्माद् व्यसनमात्रं बहिर्व्याप्तिग्रहणे विशेषेण सत्त्वे हेतौ केवलं जडधियामेव नियमेन दृष्टान्तसापेक्षः साधनप्रयोगः परितोषाय जायते। तेषामेवानुग्रहार्थमाचार्य्यो दृष्टान्तमुपादत्ते।



यत् सत्तत्क्षणिकं यथा घट इति। पटुमतयस्तु नैवं दृष्टान्तमपेक्षन्ते।



"तस्माद्‍दृष्टान्तरोक्तेभ्यो घटं दृष्टान्तमब्रवीत्।

तथा मानेष्ववैयर्थ्यादन्तर्व्याप्तावपीष्यताम्॥



इत्यन्तरश्लोकः॥



कथमिदानीं अनुमेये सत्त्वमेव सत्त्वमेव सपक्ष एव सत्त्वमसपक्षे वासत्त्वमेव निश्चितमिति हेतोस्त्रैरुप्यमवगन्तव्यम्।



"मतौ सपक्षासपक्षौ साध्यधर्म्मयुतायुतौ।

सत्त्वासत्त्वे तत्र हेतोस्ते ग्राह्ये यत्र तत्र वा॥"



साध्यधर्म्मयुक्तः सर्व्वः सामान्येन सपक्षः, अतद्युक्तश्चासपक्ष इति। तस्मिन् सपक्ष एव सत्त्वमसपक्षे चासत्त्वमेव यथाक्रममन्वयव्यतिरेकौ तौ पुनर्यत्र तत्र वा धर्म्मिणि ग्रहीतव्यौ यत्र शक्यौ ग्रहीतुम्।



तदिह सत्त्वस्य सर्व्वतोऽक्षणिकाद्व्यावृत्तौ बाधकबलात् सिद्वायां यत् सत्तत् क्षणिकमेवेति अन्वयः साध्यधर्म्मिण्यवगृह्यते। तत्र दृष्टस्य हेतोर्व्याप्तिग्रहणात् धर्म्म्यन्तरासम्भवात्। सम्भवेऽपि तदनुसरणवैयर्थ्यात्। यद्येवमसाधारणो नाम कथमनैकान्तिक उक्तः॥



असाधारणतां हेतुदोषम्मूढव्यपेक्षया।

अब्रवीदग्रहाद्व्याप्ति(प्ते)र्नैवं सर्व्वोपसंहृतौ॥



उक्तमेतज्जडधियो धर्म्म्यन्तर एव व्याप्तिग्रहणं प्रतिपन्नाः। तदभिमानापेक्षयाऽसाधारणमनैकान्तिकमाह श्रावणत्वं दृष्टान्ताभावात्। साध्यधर्म्मिणि च व्याप्तिरनिष्टेरगृहीतायां व्याप्तौ सन्दिग्धोभयतयाऽनिश्चयकरत्वात्। अथवा असाधारणतैव श्रावणत्वस्य मूढाभिमानोपकल्पिता। दृष्टैव हि शब्दव्यक्तिधर्म्मिणी विवादाधिकरणात्। अन्यथा धर्म्म्यसिद्विप्रसङ्गाच्च। दृष्टादृष्टशब्दव्यक्तिसाधारणञ्च श्रावणत्वं हेतुः। धूमसामान्यवत्। ततः सर्व्वोपसंहारवत्याः व्याप्तेः सम्भवात् सत्त्वादिवददृष्टमेव साधनं श्रावणत्वाख्यं। क्रमयौगपद्यानुपलम्भ एव चात्र बाधकं प्रमाणं। श्रोत्रज्ञानजन कत्वमेव हि श्रावणत्वं। तस्मान्मूढव्यपेक्शयाऽसाधारणत्वात्। असाधारणस्य सर्व्वोपसंहारायोगात्। साध्य धर्म्मिणि व्याप्तिप्रतीतावेव साध्यप्रतीतेः साधनवैफल्यं स्यादेव। तन्माभूव्वैफल्यमिति नैव व्याप्तिर्ग्रहीतव्या। तस्यामगृहीतायां सन्दिग्धोभयतया स्यादनैकान्तिकत्वं। सर्व्वोपसंहारेण तु व्याप्तिग्रहणे यथोक्तन्यायेन साधनवैफल्याभावात्। अदुष्टं सत्त्वादि साधनमेवेति वेदितव्यम्। तदेवमुभयथा मूढजनापेक्षयाऽसाधारणमनैकान्तिकमुक्तम्।



समानञ्चैतद्वहिर्व्याप्तिवादिनामपि यदि हि मूढमतापेक्षा न स्यात् स्यादेव श्रावणत्वमदुष्टो हेतुः। सत्वादिवन्नियतशब्देषु हि विवादे शब्दान्तरं स्यात्।



दृष्टान्तः सर्व्वशब्देषु विगतौ बाधकं प्रमाणं प्रवर्त्तम्मनं अदृष्टान्तमपि तत्रैकं दृष्टान्तयतीति कथम साधारणमनैकान्तिकं वेति।०।



अन्तर्व्याप्तिसमर्थनं समाप्तमिति॥०॥



कृतिरियं रत्नाकरशान्तिपादानामिति॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project