Digital Sanskrit Buddhist Canon

परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Parīnandanāparivarto nāma dvātriṁśattamaḥ
XXXII

परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः।



सहप्रतिलब्धानामित्यादि। अनेन लब्धानां समाधीनां तत्कालजमनुशंसमाह। अत एव सहशब्दः समानकालतार्थः। प्रतिलब्धानामिति प्रतिलब्धेषु सत्सु। एभिरेव नयेरिति यथोक्तवस्तुभिरष्टाभिरभिसमयैः। एभिरेव नामभिरिति सर्वाकारज्ञतादिभिः। सर्वासु च जातिषु न जातु बुद्धविरहितोऽभूदित्युद्देशः। अस्य निर्देश उत्तरो ग्रन्थः स्वप्नान्तरगतोपीति यावत्।



तत्र खल्वित्यादिरुपोद्‍घातः परीन्दनायाः। तदनेनापि पर्यायेणैति सदाप्ररुदितवृत्तान्तेनापि। तस्मात्तर्हीत्यादिना अनुशासनीशब्दपर्यन्तेन प्रथमा परीन्दना। अत्र च तथागताधिष्ठानेनेति वचनं किमर्थम् ? महार्थत्वाभ्दगवती बव्हन्तराया च विना बुद्धाधिष्ठानेन लिखितुमपि [न] शक्येति प्रदर्शनार्थम्। इयमस्माकमनुशासनीतीयमस्माकं परीन्दना। यथा अस्याः श्रवणादिकं न विच्छिद्यते तथा त्वया कर्तव्यमित्यर्थः। तत्कस्य हेतोरिति। तत्परीन्दनं केन प्रयोजनेनेत्यर्थः। अत आह। अत्र हीत्यादि।



तत्कथमित्यादिना द्वीतीयपरीन्दनाया उपोद्‍घातः। अस्मिन् मम समुच्छय इति मम शरीरे। तथतदिति। एतत्प्रेमादिकम्। एतेनोपाद्‍घातेन द्वे परीन्दने। यत आह द्विरपि त्रिरपीति। परीन्दामीति समर्पयामि। अनुपरीन्दमीत्यानुकूल्यं समर्पयामि। कथं परीन्दनेत्यत आह यथेयमित्यादि। अन्यः पुरुष इत्यभक्तः। कस्मादस्यामेतावद्‍गौरवमित्यत आह। यावदित्यादि बहुविधाश्च पूजाभिरिति यावत्।



भगवत्याः परिसमाप्तिमुद्योतयन् सङ्गीतिकार आह। इदमवोचदित्यादि। इदमिति प्रज्ञापारमितासूत्रम्। अवोचदिति भाषितवान्। भगवानिति शास्ता। परार्थरसिकास्तथागताः। परार्थ च परार्थक्रिया भगवत्या देशना। तत आह। आत्तमना इति। निरुत्तरधर्मदेशनया प्रीतः सन्नित्यर्थः। श्रोतारः किमुकुर्वन्नित्याह। भगवतो भाषितमभ्यनन्दन्निति। अभिपूर्वो नन्दिः सकर्मकः। स कदाचिदभिलाषे वर्तते। कदाचित्प्रीतौ। यदा प्रीतौ तदा तदालम्बनमेवास्य कर्म भवति। तत्पुनः कर्म भगवतो भाषितम्। एषैव देशना। के पुनस्ते श्रोतार इत्याह। ते चेत्यादि। लोकः सत्त्वसमूहः। स च श्रोतॄणां राजगृहस्य च प्रकृतत्वान्मनुष्यसमूह एव केवलो गम्येत। तथा मा भूदिति विशेषणं क्रियते। सदेवमानुषासुरगन्धर्वश्चेति। ते च बोधिसत्त्वादयः सदेवादिश्च लोक इति समुच्चयः॥



परीन्दनाभिधायी परिवर्तः परीन्दनापरिवर्तः॥



नानाविभ्रमलाञ्छनव्यपगमादग्राह्यमग्राहकम्।

भात्येतत्तथतात्मना समरसं यस्यामशेषं जगत्॥



प्रज्ञापारमिता विकल्पतरणी सा बोधिसत्त्वस्य धीः।

धीरैः सैव विशुद्धिपारगमने ताथागती कथ्यते॥



स(श)सत्यष्टौ यदभिसमयान् यत्सहस्राणि चाष्टौ।

सूत्रं तत्ते भगवति मया यश्च लब्धो विभज्य॥



पुण्यस्कन्धः फलतु स यथा युक्तिमुक्तिं प्रजानाम्।

निःसीमानां मम च वशितां विश्वकार्यक्रियासु॥



अनुपमगुणमृष्टा निर्मलाशेषवर्णा।

हरति भवरतिं वो भारती गौतमस्य।

भवति महति(?) वर्तिर्या दया स्नेहपूर्णे

जनमनसि तदन्तर्ज्ज्योतिषः संक्रमाय॥



प्रज्ञापारमितायाः प्रमिताया दशशतीभिरष्टाभिः।

सारतमेत्यभिसमये स्फुटा घना पञ्जिकेयं मे॥



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥



?(?) सम्वत् आ तो राज्ञः श्रीहर्षदेवराज्ये श्रीगण्डिगुल्मविषये। कुलपुत्रकायस्थः (? स्थस्य) पण्डितश्रीजीवन्धरशिं(सिं)हस्य पुस्तको(? स्तिके)यमिति॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project