Digital Sanskrit Buddhist Canon

धर्मोद्‍गतपरिवर्तो नामैकत्रिशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dharmodgataparivarto nāmaikatriśattamaḥ
XXXI

धर्मोद्‍गतपरिवर्तो नामैकत्रिशत्तमः।



एवमुक्त इत्यादि। न खल्वित्यादि प्रतिज्ञा। अचलिता हि तथतेति हेतुः। तथागतानां किमागतमिति चेदाह। या चेत्यादि। एवमुत्तरेपि हेतवः ससमर्थना वेदितव्याः। सर्वे चैते हेतवः शून्यतापर्याया निमित्तभेदात्तु भेदः। आकाशधातुराकाशसाधर्म्यात्तथतैव। ननु द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविराजितविग्रहस्तथागतो न पुनस्तथतादय इत्यत आह। न हि कुलपुत्रान्यत्रेत्यादि। तथतैव सुविशुद्धा तथागत इति भावः। स हि तेषां स्वाभाविकः काय इति न्यायः। एवं तथतादितथागतयोरभेदमुक्त्वाऽत्यन्ताभेदं दर्शयितुमाह। या चेत्यादि। एषामेव धर्माणामिति तथतादीनां तथतेति परिकल्पितरूपशून्यता। या च सर्वधर्माणामिति स्कन्धधात्वादीनां या च तथागतस्य। एकैवेत्यादिरुद्देशः। पुनरेकैवेत्यादि निर्देशः। हेतुमाह। यदुतासत्त्वादिति। अद्रव्यत्वान्न पुनर्यथालक्षणमभावादिति भावः। पुनस्तथागतानामगतिगत्योरभावं यथाकल्पनमसत्त्वात्। भावकल्पना तु संज्ञाविपर्यासादिति दृष्टान्तैः प्रतिपादयितुमाह। तद्यथापीत्यादि। मध्यान्हकालसमय इति। मध्यान्हश्चासौ कालश्च। तस्य समयः। आगमनं यथा च ग्रामं प्रविष्ट इति विशतेरर्थस्य गतिविशेषत्वात् कर्तरि क्तः। तथेहापि तथागतम् अभिनिविष्टा इति। धर्माकाया इति धर्मताकायाः। हस्तिकायस्येत्यादौ कायः समूहः। परिनिष्पत्तिरिति भूतत्वम्। मुषावादस्तत्साधर्म्यान् वञ्चक इत्यर्थः। अत एवाह अभूत इति। अमोघं दायकस्य महाफलहेतुत्वात्। अत एव दक्षिणीयाः।



प्रभाव्यन्ते उपलभ्यन्ते। कायपरिनिष्पत्तिः चरमभवसंगृहीता। नापि क्वचिद्‍गच्छतीति परिनिर्वाणकाले। न क्वचिदस्तीति परिनिर्वाय यत्र गच्छति। हेतरूपादानकारणं प्रत्ययाः सहकारिणः। तत्र शब्दस्योपादानं शब्दपरमाणव इत्येके। वायुपरमाणव इत्यपरे। तत्र उपधानी तन्त्रीवेष्टनं चकुलिका। उपवाण्यो अप्रधानतन्त्रयः। आद्यन्तयोः न शब्दो निश्चरतीति वचनं मध्ये सर्वत्र सम्बन्धनार्थम्। निर्हेतुकाशब्दात् स्वार्थेऽण नैर्हेतुकी।



संक्षोभितानि संप्रचलितानि। जिह्मीभूतानि नष्टच्छायानि। उत्सृजन्ति स्मेति मुञ्चन्ति स्म। विहायसमिति आकाशम्। स्वकेन कायेन धर्मोद्‍गतमभिच्छादयति स्मेति तस्याग्रतः सर्वकायेन भूमौ पतति स्मेत्यर्थः। कियन्तं कालमित्यत आह सप्तवर्षाणीति। अवक्रामणं प्रवेशनम्। यद्वयमिति यदा वयम्। अनुवर्तमाना इत्यनुकुर्वत्यः। दिव्यमित्याकाशभवम्। चित्तस्यान्यथात्व पृथिवीसेकवैमुख्यम्। इति प्रतिसंख्यायेति एवं निरूप्य सर्वाणि तानीति दारिकाशतानि। तानि तानीति शस्त्रविशेषणम्। अवतारमवकाशः। अध्यतिष्ठदित्यकरोत्। गन्धमित्यत्र अध्यतिष्ठदिति चकारेणानुकृष्यते। परीष्टिः पर्येषणा।



कीदृशी तत्रार्यस्य धर्मोद्‍गतस्य धर्मदेशनाऽभूदित्यत आह। तत्रेयं धर्मोद्‍गतस्येत्यादि सुगमम्। यदुतशब्दः सामान्येनोद्दिष्टस्य विशेषं द्योतयति। एभिस्त्रिंशता आकारैरित्यर्थः। अत एवास्याः श्रुतबलेनोत्पन्ना। एभिरेव त्रिंशताकारैः सदाप्ररुदितस्य बोधिसत्त्वस्योत्पन्नास्त्रिंशत्समाधयः पठिष्यन्ते। प्रज्ञापारमितायाः समता सर्वधर्मेषु। कुतः ? सर्वधर्मसमतया। सा हि धर्मधात्वालम्बना। स च समानः सर्वधर्मेषु। प्रज्ञापारमिताया विविक्तता। कुतः ? सर्वधर्मविविक्ततया। यतः सर्वधर्माः स्वलक्षणैर्विविक्ताः। अतः सापि विविक्ता स्वलक्षणप्रतिभासैः। सा कदाचिदस्माद्विवेकाच्चलतीति चेदाह। प्रज्ञापारमिताया अचलनता। कुतः ? सर्वधर्माचलनतया। यतः सर्वधर्मा न विवेकाच्चलन्ति। ततः सापि न विवेकाच्चलति। मननाच्चलतीति चेदाह। प्रज्ञापारमिताया अमननता। कुतः ? सर्वधर्मामननतया। अमनना हि सर्वधर्माः। न ते किञ्चिन्मन्यन्ते निःस्वभावत्वात्। ततः साप्यमनना। किमसौ केनापि स्तम्भिता यतो न चलतीति चेदाह। प्रज्ञापारमिताया अस्तम्भितता। कुतः ? सर्वधर्मास्तम्भिततया। न हि विवेकाच्चलन्ति सर्वधर्माः केनापि स्तम्भिताः। किं तर्हि ? प्रकृत्यैव विवेके स्थिरास्ततः प्रज्ञापारमितापि स्थिरा। आदौ समतामात्रमुक्तं नैकरसता। तामप्याह। प्रज्ञापारमिताया एकरसता सर्वधर्मेषु। कुतः ? सर्वधर्माणामेकरसतया तथतैकरसा हि सर्वधर्माः स्वलक्षणानामभावात्। तद्वत्प्रज्ञापारमितापि स्वलक्षणानामप्रतिभासात्। प्रज्ञापारमिताया अपर्यन्तता। कुतः ? सर्वधर्माणामपर्यन्ततया। तथा हि द्वौ पर्यन्तौ पूर्वा च कोटिरपरा च। तौ च न स्तः सर्वधर्माणाम्। अतीतानगतयोरसत्त्वात्। तस्मादपर्यन्ताः सर्वधर्माः। तद्वत्प्रज्ञापारमितापि। प्रज्ञापारमिताया अनुत्पादता। कुतः ? सर्वधर्मानुत्पादतया। तथाहि निःस्वभावाः सर्वधर्माः। तस्मान्नोत्पद्यन्ते खरविषाणवत्। तस्मादनुत्पादाः। तद्वत्प्रज्ञापारमितापि। अनिरोधा प्रज्ञापारमिता। कुतः ? सर्वधर्माणामनिरोधतया। न ह्यमी निरुध्यन्तेऽसत्त्वात् खरविषाणवत्। तद्वत्प्रज्ञापारमितापि। प्रज्ञापारमिताया अपर्यन्तता। केनोपमानेन ? गगनापर्यन्ततया। तथाहि गगनस्य नास्ति पर्यन्तो दशसु दिक्षु त्रिषु चाध्वेषु। एवं प्रज्ञापारमितायाः। [या] दशदिक्‍त्रैयध्विका सर्वधर्मतथतामात्रप्रथनात्। समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति। यथा ह्याकाशस्य नास्त्यन्तस्तथैव दशदिग्लोकधातूनां किम्पुनरनन्तेषु लोकधातुषु समुद्राणाम्। ततः सिद्धा समुद्रापर्यन्तता। तद्वत्प्रज्ञापारमितायाः। तथा हि या तेषां समुद्राणां तथता या च सर्वधर्माणां या च प्रज्ञापारमितायाः, एकैवैषा तथता। तथतालम्बना च प्रज्ञापारमिता। तस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति सिद्धम्।



ननु स्वप्नोपमतयापि ज्ञानं प्रज्ञापारमिता गगनोपमतयापि। तत्र पूर्वा विचित्रप्रतिभासा उत्तरा निराभासा। कथमनयोरेकार्थतेत्यत आह। मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति। यथा ह्येकरसमाकाशं प्रकृत्या तथापि मेरुपार्श्वानां विचित्राणामाधिपत्यात्तद्वदेव विचित्रं ख्याति। एवमेकरसैव तथता न विचित्रा। तथतालम्बना च प्रज्ञापारमिता। यस्तु स्वप्नोपमादिज्ञाने विचित्रप्रतिभासः सोऽभूतपरिकल्पधर्मः। तस्मात्स्वप्नोपममायोपमादिज्ञानं संवृतिः। निराभासे या च परिमार्थिके ज्ञाने सत्त्वनामवतारणाय निर्दिश्यते, निराभासपृष्ठभावी चाविकल्पोयं तदनुभूतनिश्चयार्थः। तस्मात्सिद्धमिदं मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति।



ननु सैव निराभासा प्रज्ञापारमिता स्वयमनुभूयमानं परमार्थमित्थं निश्चिनोति निःस्वभावाः सर्वधर्मा इति। तत्कथमसौ निर्विकल्पेत्यत आह। गगनाकल्पनतया प्रज्ञापारमिताकल्पनतेति। प्रज्ञापारमिताया याकल्पनता न सा किञ्चिद्विकल्पयति विकल्पपारगतत्वात्। तद्यथा गगनं न किञ्चिद्विकल्पयति जडत्वात्। अजडा प्रज्ञापारमिता किन्न विकल्पयतीति चेत्। उक्तमत्र। विकल्पश्च भ्रान्तिरभ्रान्ता च सा। तस्मान्न विकल्पयतीति सिद्धम्।



रूपापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति। यथा ह्याकाशमपर्यन्तं तथारूपस्कन्धोपि। यत्रान्यद्रूपं नास्ति तत्रावश्यं तमः प्रकाशो वास्ति। तद्वत्तदीयतथताप्रतिभासिनी प्रज्ञापारमिताप्यपर्यन्तता। यथैव समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तताऽस्माभिर्व्याख्याता तथैव सत्त्वानामानन्त्यात् वेदनापर्यन्ततयापि संस्कारपर्यन्ततयापि विज्ञानापर्यन्ततयापि पृथिवीधात्वपर्यन्ततयापि अप्धात्वपर्यन्ततयापि तेजोधात्वपर्यन्ततयापि वायुधात्वपर्यन्ततयापि आकाशधात्वपर्यन्ततयापि विज्ञानधात्वपर्यन्ततयापि व्याख्यातव्या। अथ या विज्ञानस्कन्धापर्यन्ततया या च विज्ञानधात्वपर्यन्ततया तयोः को विशेषः ? स्कन्धधातुशब्दाभ्यां प्रयोगकृतः।



वज्रोपमधर्मसमतया प्रज्ञापारमितासमतेति। चित्तधारणाद्धर्मः समाधिः। तस्य या सर्वधर्मेषु समता तयोमानेन प्रज्ञापारमितायाः समता सर्वधर्मेषु सर्वधर्मासम्भेदनतया प्रज्ञापारमितासम्भेदनतेति सर्वधर्माणामसम्भेदो अभेदः। भेदकानां स्वलक्षणानामभावात्। तद्वत्प्रज्ञापारमिताया अपि न भेदः। सम्वेद्यमानेनैव रूपेण तेषां तस्यामभावात्। सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धितेति। सर्वधर्मा न किञ्चिदुपलभन्ते। रूपस्य जडत्वात्। शेषाणामप्यात्मनि परत्र वा ग्राहकत्वायोगात्। नाप्युपलभ्यन्ते ग्राहकाभावात्। तद्वत्प्रज्ञापारमितापि नोपलभते नाप्युपलभ्यते। तस्मात्तेषां तस्याश्चानुपलब्धिता। सर्वधर्माविभावनासमतया प्रज्ञापारमिताविभावनासमतेति। विभावनां परेभ्यो वाचा देशना। सा सर्वधर्माणां न विद्यते तस्मादविभावनया समता तेषाम्। तद्वत्सर्वालम्बनेषु प्रज्ञापारमिताया अविभावनासमता। सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टतेति। चेष्टा ईहाव्यापारः। अव्यापारः सर्वधर्माः। कथं तर्हि कश्चित्कुतश्चिदुत्पद्यते ? इदंप्रत्ययमात्रेण। अस्मिन् सतीदं भवति, असति न भवतीत्येतावता हेतुफलभावः। तस्मादमी निश्चेष्टाः तद्वत्प्रज्ञापारमितापि। सर्वधर्माचिन्त्यतयापि प्रज्ञापारमिताऽचिन्त्यतेति। यथा हि धर्माः परेभ्यो न देश्यन्ते निर्विषयत्वाद्वाचः। तथा स्वयमपि न चिन्त्यन्ते न निरूप्यन्ते वाग्विकल्पयोरेकार्थत्वात्। तद्वत्प्रज्ञापारमिताप्यचिन्त्या। वेदितव्येत्यन्ते यत् पठ्यते तत्सर्वधर्मसमतादिवाक्येषु सर्वेषु सम्बध्यतेऽन्तर्दीपकत्वात्।



अथ खल्वित्यादि। अथेति देशनापरिसमाप्तौ। तथा निषण्णस्वंवेति श्रुतासनादनुत्थितस्य। अथेत्युद्देशः। कृतः। तस्यैव निर्देशः तस्यां वेलायामिति। येनैव क्रमेण यैरेवाकारैः प्रज्ञापारमिता देशिता तेनैव क्रमेण तैरेवाकारैस्त्रिंशत्समाधय उत्पन्ना इति समुदायार्थः। तत्र सर्वधर्मसमताद्याकारत्वात्समाधयस्तथा व्यपदिश्यन्ते। कथममी आकाराः ? एभि प्रकारैर्वस्तुज्ञानात्। यथोक्तम्-



वस्तुज्ञानप्रकाराणामाकार इति लक्षणम्।



इति। किं तर्ह्यालम्बनम् ? तदेव वस्तु यथास्वम्। अथवा सर्वधर्मसमतादिरेवालम्बनम्। तदालम्बनत्वात्समाधयस्तथोक्ताः। वस्तून्यधिष्ठानि। आकारो यथास्वं निर्निमित्ततादिः। एवं प्रमुखानीति त्रिंशत्समाधिप्रमुखानि। कथमेषां प्रमुखत्वम् ? एभिरवशेषाणामाक्षेपात्। शतसहस्राणीति लक्षाणि॥



धर्मोद्‍गतेन लक्षितः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकत्रिंशत्तमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project