Digital Sanskrit Buddhist Canon

सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XXX

सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः।



अष्टाभिरभिसमयैर्भगवती निर्दिष्टा। सा यथा वेदितव्या तन्नोक्तम्। अतस्तभ्दगवान् विच(व)क्षुराह पुनरपरमित्यादिना। पर्येष्टव्येति इच्छतेः प्रयोगः। पर्येषिता पर्येषमाणेनेति। एषृ इत्यस्य भौवादिकस्य प्रयोगः। कायक्लमथादिमनसिकाराणां प्रतिषेधो वीर्यातिशयार्थः। मा च क्वचिदित्यादिना विक्षेपप्रतिषेधः। मा प्रणिधा इति मा निवेशय। क्वचित इत्युद्देशः। अध्यात्मं बहिर्धा वेति निर्देशः। अधिशब्दोऽधिकरणार्थः। ततो वितर्क्यार्थेऽव्ययीभावः। अन इत्यच् समासान्तः टिलोपः। बहिर्धेति बहिरित्यर्थः। मा गा इति सम्बन्धः। माङि लुङ्, इणो गा लुङि, गातिस्थेत्यादिना सिचो लुक्। न माङ्‍योग इत्यडागमप्रतिषेधः। वामेन दक्षिणेनेति पार्श्वेनेति भावः। पूर्वेणेत्यादिना दिशां निर्देशः। अनुविदिशमिति विदिशाम्। अनुशब्दो वीप्सायाम्। विदिशि विदिशीत्यनुविदिशम्। अव्ययीभावे शरत्प्रभृतिभ्य इत्यच् समासान्तः। तथा च कुलपुत्रेत्यादिना अतत्त्वमनसिकाराणां प्रतिषेधः। नात्मतो न सत्कायत इति। सीदतीति सत्। राशित्वात्कायः। अनित्यो रूपादिराशिः सत्काय इत्युच्यते। सत्काये पुद्‍गलः प्रज्ञप्यते। अतश्च नात्मतो न सत्कायतश्चलसीति। न द्रव्यसता पुद्‍गलरूपेण नापि प्रज्ञप्तिसता। उभयोरनुपलम्भादित्यर्थः। न रूपतश्चेत्यादि। नापि रूपादिभिः स्कन्धैः। धर्माणामप्यनुपलब्धेरिति भावः। अतश्चलतीति एभिश्चलति। एषां समारोपेण वितिष्ठत् इति निवर्तते। शेषं सुगमम्।



वैशब्दोऽवधारणे। एवमेवेत्यर्थः। आलोकमिति मोक्षमार्गस्य देशनाम्। समुदानेतुकाम इति। आत्मनि सम्यगुत्पादयितुकामः। अधिमुक्तिमिति। एवमेवैतदित्यवधारणम्। क्व ? सर्वधर्मेषु। कीदृशेषु ? शून्यानिमित्ताप्रणिहितेषु। यथाप्रतिभासमर्थाभावाच्छून्येषु। तस्य च प्रतिभासस्य भ्रान्तिनिमित्तस्य प्रकृतिनिरोधादनिमित्तेषु। अतश्च भ्रान्तिमात्रतया दृष्टे त्रैधातुके प्रणिधानाभावादप्रणिहितेषु। शून्यताशब्दः क्वचित्पठ्यते। तत्र स्वार्थे तल्। निमित्तपरिवर्जितेनेत्युद्देशः। भ्रान्तिनिमित्तयोर्वस्त्वभिनिवेशस्तदिह निमित्तम्। तत्परिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन चेति निर्देशः। भावो धर्मदृष्टि सत्त्वदृष्टिरात्मदृष्टिः। ताभ्यां परिवर्जितेनेत्यर्थः। यानीत्यादि। यानि धर्म देशयन्तीति सम्बन्धः। शून्यानिमित्ताप्रणिहिताः पूर्ववत्। निःस्वभावस्य नोत्पादो न जातिर्न निरोधः। यस्य नोत्पादनिरोधौ सोऽभावः। तस्माद् अनुत्पादा अजाता अनिरोधा अभावाः सर्वधर्मा इत्येवं यानि धर्मं देशयन्ति तानि कल्याणमित्राणि। अर्थाद्‍गम्यते तद्विपरीतं धर्म यानि देशयन्ति तानि पापमित्राणि। प्रतिपद्यमानो अनुतिष्ठन्। कृतज्ञ श्रुतज्ञानात्। कृतवेदी श्रुतफलज्ञानात्। परितुलयमानेनेति चिन्तयता। लोकामिषं अन्नपानवस्त्रादि। तेन प्रतिसंयुक्ता तदभिलाषिणी। अनुबद्धव्योऽनुगन्तव्यः। अस्ति हीति। अस्ति खल्वेतत्। सेवितुमित्यादेः पदत्रयस्य परिभोक्तुमित्यर्थः। अभिभूयेति निर्दोषीकृत्य। सत्त्वविनयेनेति सत्त्वानां चित्तरक्षार्थम्। परिग्रहमुपादायेति परिग्रहार्थम्। सङ्गस्तृष्णा। आरम्बणमुपलम्भः। भूतनय परमार्थप्रभेदः। संक्लेशाभावाद् असंक्लेशाः। व्यवदानाभावाद् अव्यवदानाः। निःसत्त्वादिपदैः पुद्‍गलनैरात्म्यमाह। मायोपमादिपदैर्धर्मनैरात्म्यम्। प्रतिवाणिः प्रतिवचनम्। अनिविण्णमखिन्नम्।



अनुशासनी उपदेशः। औणादिकोऽनिर्धरणीवत्। रुदन् अश्रुपातेन। क्रन्दन् दीनस्वरैः। शोचन् उत्कण्ठमानः। परिदेवमानो विलपन् अनुबद्ध इति समन्वितः। क्वचिल्ल्यपः पाठः। तस्यापि पूर्वादिक्कर्म। अनुपरिक्षिप्ता परिवेष्टिता। परिखाः खातयः। ऋद्धा धनसम्पत्त्या। स्फीता गृहोद्यानादिशोभया। क्षेमा निरुपद्रवत्वात्। सुभिक्षा सुलभान्नपानत्वात्। आकीर्णो विस्तीर्णः। बहु नानाविधो जनः परिवारो येषां ते तथा। तादृशा मनुष्या यस्यां सा तथा। अन्तरस्यान्तरे आपणः क्रयविक्रयस्थानम्। तस्मिन् विथीशतानि। तैः पञ्चभिः निर्विद्धा निःशेषं विद्धा। विथीनामा प्रकारान्तमुभयतो गमनात्। आलेख्येन विचित्राणि च तानि चित्राणि चाद्‍भूतत्वात्। सदृशानि च पुरानुरूपत्वात्। तैः अनुत्पीडमसंबाधं जनयुग्ययानानां संक्रमस्थानानि संभूय गमनस्थानानि विस्तीर्णरथ्याः। तेषां स्थापितानि स्थापनानि। भावे क्तः। तैः सुमापिता सुरचिता। तत्र जनः पदिकादिलोकाः। युग्यानि वाहनानि। यानानि रथाः। अनन्तरत्वात्परस्परतुल्यत्वाच्च समसमैः। खोडकशीर्षाणि क्रमशीर्षाणि। उपोद्‍गतानीति प्राकारादतिविस्तीर्णात् किञ्चिन्निर्गत्योद्‍गतानि। प्रमाणवन्तीति पृथूनि तुङ्गानि च। नानाविचित्ररित्यन्यथान्यथा विचित्रैः। सर्वतश्च खोडकवृक्षान्निर्गता वृक्षान्तरम्। यथाभवति तथावसक्तम्। सर्वमस्यामस्तीति सर्वावनी। किङ्किणीजालेनेति चतुष्प्राकारखोडकवृक्षावसक्तमणिसूत्रचतुष्टयाववद्धानेकमणिसूत्रवलम्बिना। वल्गुः। श्रोत्रसुखत्वात्। रञ्जनीयो मनोहरत्वात्। पञ्चाङ्गानि वीणावंशादीनि। गन्धर्वा गायनाः। क्रीडन्ति श्रोत्रेण, रमन्ते मनसा, परिचारयन्ति कायवाक्परिस्पन्दैः। परिखाः खातयः। अनुसारिवारिवाहिन्य इति वाताद्यनुसारिणा जलप्रवाहेण युक्ताः। पद्मं रक्तकमलम्। पुण्डरीकं सितपद्मम्। अभिजाताभिजातरिति प्रणीतप्रणीतैः। सुगन्धशब्दः सुरभिपर्यायः। तत्पुष्करिणीनामित्युद्यानपुष्करिणीनां प्रमाणम्। समन्तादिति सर्वपार्श्वेषु। क्रोशः क्रोश इति वीप्सा। नीलादिपदानि प्राग्व्याख्यातानि। उपनिकूजिता बुद्धनेत्री प्रज्ञापारमिता। तस्या चित्रीकारः परः प्रसादः। तेनानुगतं सुगतेभ्यः श्रुतचित्तं येषां ते तथा। तेषां मध्ये श्रृङ्गाटकस्येति सम्बन्धः। समन्तादिति प्रतिपार्श्वम्। गृहपरिभोग इति गृहस्य परिवेष्टः। किमर्थमित्याह। उपभोगरिभोगायेति। उपभोगः फलपुष्पादीनाम्। परिभोगः साकल्येन भोगो वनविहारादिना। विवरं सन्धिः। तस्मिन्नन्तरं अवकाशः। समर्पितः सङ्गमितः। तैरवकाशगुणैः। सर्वेन्द्रियाणामनुग्रहः समन्वङ्गः। तद्योगात् समन्वङ्गी क्रीडति वाचा। रमते मनसा। परिचारयति कायेन। तावत्कालमिति परिमितकालम्। तत इति क्रीडादिकालादूर्ध्वम्। त्रिकालमिति प्राण्हमध्यान्हापरान्हेषु। आसनस्य विशेषणं सुवर्णपादकमित्यादि। अर्धक्रोशमुच्चस्त्वेनेति यावत्। तूलिकया वा आस्तीर्णं गोणिकया वा गर्भोलिकाचीनांशुकप्रत्यास्तरणम्। उपरि सा अस्येति उपरिगर्भोलिकम। काशिकवस्त्रं वाराणसेयकं दिव्यं वा। तत् प्रत्यास्तरणमस्येति तथोक्तम्। समं यथा भवति न विषमं तथा धारयन्ति प्रमाणवभ्दिः स्तम्भैः। सहिताः समग्राः। निरताः सावधानाः। कथमित्याह। किमयं संस्थित इति। कुत इत्याह। सुसंस्थितेत्यादि। मुक्ताविचित्रितं पर्यन्तेषु हारार्द्धहाराणां प्रलम्बनात्, मध्ये च स्थूलमुक्ताकलापस्य। अभ्यवकिरन्ति पुरस्तात्। प्रकरन्ति त्रिषु पार्श्वेषु। संप्रविकिरन्ति पुनश्चतुर्ष्वपि पार्श्वेषु। धर्माशयविशुद्ध्येति धर्मे या तेषां श्रद्धाच्छन्दयोः शुद्धिः। धर्माय गौरवं कल्याणमित्रत्वात्। सन्निश्रयता भाजनता। श्रद्धार्हे या श्रद्धधानता तया। विनिपातो दुर्गतिगमनम्। अविष्टितं अविच्छिन्नम्। तुष्ट इति प्रीतः। उदग्र इति तया प्रीत्या उन्नतपूर्वकायः। तदेकतानत्वात् आत्तमनस्कः। प्रीतेरुत्कर्षात् प्रमुदितः। प्रीतिसहगतः प्रसादः प्रीतिसौमनस्यम्। तज्जातमस्येति तथोक्तः। तस्य श्रृणोति स्मेति सम्बन्धविवक्षयाऽपादाने षष्ठी।



सर्वधर्मेष्वनिश्रितसंज्ञामिति। यथैतर्हि मे धर्मोद्‍गतदेशनया प्रतिभासः सनिधा(दा)नमनाश्रितः। एवं हेतुनियममनाश्रिताः सर्वधर्मा इत्येनां संज्ञामत्यन्तसमाहिताम्। अस्याः संज्ञायाः प्रभावात्किमभूदित्याह। तस्येत्यादि। समाधय एव मुखानि महोपायत्वात्। सर्वधर्माणां स्वभावाः स्वलक्षणानि। तेषां व्यवलोकनो द्रष्टा। तेषां अनुपलब्धिरसत्तानिश्चयः। सर्वधर्माणां निर्नानात्वं समता स्वलक्षणानामभावात्। तदालम्बनः समाधिस्तथोक्तः। सा च समता तथता। तया निर्विकारान्सर्वधर्मान् पश्यतीति सर्वधमनिर्विकारदर्शी। एवं यावत्सर्वतथागतदर्शी समाधिर्वेदितव्यः। एषु समाधिष्विति क्रमेण सर्वेषु स्थितः सन्। दशदिशोऽस्मिन्निति दशदिग्लोकः सर्वलोकधातव इत्यर्थः। तत्र बुद्धान् भगवतोऽप्रमेयासंख्येयान् पश्यति स्म। नैकस्मिन् कालेऽनेकस्तथागत एकस्यैव सर्वसत्त्वार्थक्रियासु शक्तेरिति चेत्। नित्यमेक एव बुद्धस्तस्यैवानन्तमायुरधिष्ठातुं शक्तेरिति किन्नेष्यते ? हेतुबलादन्येपि भवन्तीति चेत्। हेतुबलादेव तर्हि युगपदनन्तेषु लोकधातुष्वनन्तास्तथागता जायन्त इति को विरोधः ? यथा बुद्धौ चक्रवर्तिनौ सकृदेकत्र चतुर्द्वीपके लोकधातौ नोत्पद्येते निःसपत्नकर्मकारित्वात् तथा तथागतौ त्रिसाहस्रे लोकधाताविति महारथैः क्षुण्णमेतत्।



गर्ति गता इति। गतिरप्रतिद्यातः। तां प्राप्ताः। शिक्षापित इति शिक्षां प्रापितः। तत्कृतमिति। यदेव तेन पुर्व कृतम्। धारयितव्यं चेतसि न विस्मर्तव्यम्। चेलं वस्त्रम्। तस्य उण्डुकः शिरशाटक इत्यर्थः। उत्कण्ठा शोकः। परितसनं दुःखासिका। काष्ठागता प्रीतिः प्रेम। गुणवत्सु चेतसोऽकालुष्यं प्रसादः। तद्‍गुणेषु विस्मयः चित्रीकारः। अर्भ्यहणं गौरवम्। कतमं शब्दमित्यत आह। घोषमित्यादि। कतमं भोषमिंत्याह। कः पुरेषेणेत्यादि। अतिक्रामयिष्यतीति मितां ह्रस्वो न भवति। "वा चित्तविरागे" इत्यतो वाशब्दानुवृत्तेर्व्यवस्थितविभाषा। विज्ञानाच्च। अतिशब्दश्चात्र अपशब्दार्थे वर्तते। अतः पञ्चमी युक्ता भवति। यन्नुशब्दस्तस्मादर्थे। पर्युत्थापयामासेति व्यग्रीकृतवान्। यथेति यतः। अस्थिमज्जयाश्चेति। मज्जन्‍शब्दस्य लिङ्गव्यत्ययेन स्त्रियां डाप् सीमावत्। कल्यचित्त इति तेनैव हर्षेण कर्मण्यचित्तः। ततश्च द्विगुणीभूतहर्षत्वात् प्रमुदितचित्तः। गुणजातिः मनुष्यसामान्यो गुणः। विशेषस्तु मनुष्यातिक्रान्तो गुणः। क्षमन्ते चेति स्वयं कर्तव्यतयापि रोचनात्। विषयितेति शक्तिः।



विदिताभिप्राय आह। अल्पोत्सुक इत्यादि। उत्सुक औत्सुक्यम्। यत्तत् क्षणं लवमपि तत्। तन्मुहूर्तमपि तत्। त्रयाणामुपादानं तु श्रोतृणां श्रद्धभेदात्। निष्प्रतिभान इत्युद्देशः। सदाप्ररुदितस्येत्यादिनिर्देशः। उत्तर इति उत्तरनिमित्तम्। अप्रतिपद्यमानोऽलभमानः। दद्ध्वमिति दद् दाने। वाद्यप्रकृतयो वाद्यप्रकाराः। प्रभूताः प्रकारबाहुल्यात्। विपुलाः प्रतिप्रकारमानन्त्यात्। भोगा अर्थाः। सर्वलोकविशिष्टा इति सर्वलोकातिक्रान्ताः।



उपरिष्टान्मूर्ध्न इति उपरि शिरसः। प्रातिष्ठत इति प्रशब्दः प्रतेरर्थे। विहायसीत्यन्तरिक्षे। प्राञ्चोऽञ्जलयः प्राञ्जलयः। स्फुट इति प्राप्तः। सहदर्शनादिति दर्शनात्कारणाद्दर्शनेन सहैवैत्यर्थः॥



सदाप्ररुदितोपलक्षितः परिवर्तस्तत्परिवर्तः॥ आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रिशत्तमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project