Digital Sanskrit Buddhist Canon

अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Anugamaparivarto nāmaikonatriṁśattamaḥ
XXIX

अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः।



अनुपूर्वाभिसमय इदानीं वक्तव्यः। तमधिकृत्य शास्त्रम्-



[168] दानेन प्रज्ञया यावद्‍बुद्धादौ स्मृतिभिश्च सा।

धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता॥६-१॥



'अनुपूर्विक्रिया' अनुपूर्वशिक्षा अनुपूर्वप्रतिपद्या पूर्वमुद्दिष्टा संप्रति निर्देष्टव्या। सा 'मता' इष्टा। कथमित्याह। दानेनेत्यादि। 'दानेन' इति दानपारमितया। 'प्रज्ञया यावद्' इति प्रज्ञापारमितया। यावद्‍ग्रहणाच्छीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया च। 'बुद्धादौ स्मृतिभिश्च' इति बुद्धादिविषयाभिरनुस्मृतिभिः। चकारो भिन्नक्रमः। 'धर्माभावस्वभावेन' चेति भावप्रधानो निर्देशः। धर्माणामभावस्वभावत्वेन चेत्यर्थः। 'इति' एवं 'सा मता'।



अतः सूत्रं पुनरपरमित्यादि। एवमिति वक्ष्यमाणेन वाक्यत्रयेण। प्रज्ञापारमितेत्युनुपूर्वक्रिया। अनुगन्तव्येति वेदितव्या। कथमित्याह। सर्वधर्मासङ्गतः प्रज्ञापारमिताऽनुगन्तव्या। सर्वधर्मासम्भेदतः प्रज्ञापारमिताऽनुगन्तव्या। सर्वधर्मासम्भवतः प्रज्ञापारमिताऽनुगन्तव्येति। तत्रादौ सर्वधर्माः षट्‍पारमिताः। तासामेव बोधिमार्गत्वात्। धर्मशब्दस्य चेह मार्गवाचित्वात्। सर्वधर्माणामसङ्गता निःसङ्गता निर्विघ्नता। बोधिसत्त्वैरनुक्रमकरणीयेषु प्रथमचित्तोत्पादादिषु सत्त्वपरिमोचनान्तेषु तया(था ?)साऽनुगन्तव्या। तद्यथा- "प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्नात्मना च दानं ददाति परांश्च दानपारमितायां प्रतिष्ठापयति दानस्य च वर्ण भाषते। ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः। स तेन दानेन महान्तं भोगस्कन्ध प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन अन्नं पानं वस्त्रं विलेपनं शयनमुपाश्रयमन्यद्वा परिष्कारोपकरणं ददाति तदर्थिनाम्। स तेन दानेन सत्त्वान् शीले समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति। स तैरेव शीलादिस्कन्धैः समन्वागतः श्रावकादिभूमिमतिक्रामति बोधिसत्त्वानियाममवक्रामति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति सर्वाकारज्ञतामनुप्राप्नोति धर्मचक्रं प्रवर्तयति। सत्त्वांस्त्रिषु यानेषु प्रतिष्ठाप्य संसारात्प्रतिमोचयति। एवं खलु दानेनानुपूर्वक्रिया। तां च सर्वान्नोपलभते। तथा ह्यस्याः स्वभावो नास्ति। यस्य च स्वभावो नास्ति सोऽभाव इति दानपारमितयाऽनुपूर्वक्रिया। एवं शीलादिभिरपि" इति षड्‍भिः पारमिताभिः षडनुपूर्वक्रियाः॥



सर्वधर्मासम्भेदतः प्रज्ञापारमिताऽनुगन्तव्येति। सर्वधर्माः षडनुस्मृतयः। ताः कथं धर्माः ? चित्तधारणात्। अपि च पुण्यमपि लोके धर्म उच्यते। ताश्च भावनामयं पुण्यम्। सर्वधर्माणामसंभेदतोऽभिन्नता समता। अभावस्वभावत्वात्। तयाऽनुगन्तव्येति पूर्ववत्। तथाहि-"बोधिसत्त्वः प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान्सर्वधर्मानधिमुच्य षडनुस्मृतीर्भावयति। ताः स्वयं च भावयति परांश्च तासु प्रतिष्ठापयति तासां च वर्ण भाषते। ये चान्ये तासु चरन्ति तेषां वर्णवादि भवति समनुज्ञः। स तास्तथा भावयन्नभावस्वभावयोगेन सप्तत्रिंशतं(तः) बोधिपक्षान् यावत्सर्वाकारज्ञतां परिपुरयति। सोऽभावस्वभावेनैव सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्त्य यावत्सर्वसत्त्वान् परिमोचयति। तत्र बुद्धं भगवन्तं न रूपादिस्कन्धैर्न लक्षणानुव्यञ्जनैर्न शीलादिस्कन्धैर्न दशबलवैशारद्यप्रतिसंविभ्दिर्न महाकरुणया न महामैत्र्या नाष्टादशभिरावेणिकैर्नापि प्रतीत्यसमुत्पादतो मानसिकरोति। तत्कुतः ? अभावस्वभावत्वात्तेषामित्यनुस्मृतिरमनसिकारो बुद्धानुस्मृतिः।



स प्रज्ञापारमितायां चरन्न कुशला[कु]शलान् धर्मान् मनसिकरोति। तेषामभावस्वभावत्वादित्यमनसिकारो धर्मानुस्मृतिः।



योसौ भगवतः स्रावकसंघश्चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्‍गलाः स्वभावस्तस्य नास्ति। यस्य धर्मस्य स्वभावो नास्ति सोऽभाव इत्यमनसिकारो संघानुस्मृतिः।



तेन प्रज्ञापारमितायां चरताऽखण्डेऽच्छिद्रेऽकल्माषेऽपरामृष्टे भुजिष्ये विज्ञप्रशस्ते समाधिसंवर्तनीये शीले स्थित्वा तच्छीलमभावस्वभावतो मनसिकर्तव्यमित्यमनसिकारो शीलानुस्मृतिः।



स प्रज्ञापारमितायां चरन्नामिषं वा अङ्गप्रत्यङ्गानि वा त्यजन् सर्वं तदभावस्वभावतो मनसिकरोतीत्यमनसिकारो यो(त्या)गानुस्मृतिः।



ये ते देवाः श्रोतआपन्नाश्चातुर्महाराजकायिकेषु यावत्परनिर्मितवशवर्तिषु देवेषूपपन्नास्ते सर्वेऽभावस्वभावा इत्यनुस्मृतिरमनसिकारो देवतानुस्मृतिः।"



इति षड्‍भिरनुस्मृतिभिः षडनुपूर्वक्रियाः॥



सर्वधर्मासम्भवतः प्रज्ञापारमिताऽनुगन्तव्येति। स्वलक्षणधारणात् धर्माः। स्कन्धा धातव आयतनानि बोधिपक्षाः पारमिता यावत्सर्वाकारज्ञतेति सर्वधर्माः। तेषामसंभवत इत्यसंभवज्ञानतोऽनुपूर्वक्रिया वेदितव्या। असंभवोऽभावस्वभावता। तथा हि-"तेषां नास्ति स्वभावः। यस्य स्वभावो नास्ति सोऽस्वभावः। स प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सर्वधर्माणामभावस्वभावतामधिमुच्य चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि यावत्सर्वाकारज्ञतां भावयति। सोऽभावस्वभावान् सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्तयति। त्रिभिश्च यानैः सत्त्वान् संसारात्परिमोचयति" इति धर्माणामभावस्वभावतया त्रयोदश्यानुपूर्वक्रियाः॥



इत ऊर्ध्वं चोद्यानि स्वयमूह्यानि परिहारास्तु वक्तव्याः। यद्यभावस्वभावाः पारमिता भाव्यन्ते तदा तभ्दावना निष्फला तुरगविषाणभावनावदिति चोद्यम्। परिहारमाह। सर्वधर्मा निर्विकारसमा इतीत्यादि। निर्विकारो धर्मधातुस्तेन समाः सर्वधर्मा नाभावमात्रेण। धर्मधातुश्चालम्ब्यमान आर्यधर्माणां हेतुर्भवति। अत एव धर्मधातुरितुच्यते। तत्कुतो वैफल्यम् ?



ननु प्रत्यात्मवेद्य आत्मा विज्ञप्तिश्च। अतः सति ग्राहके ग्राह्यमप्यस्तीति न युक्तः सर्वधर्माणामभाव इति चोद्यम्। परिहारमाह। सर्वधर्माणाममनात्मविज्ञप्तितः प्रज्ञानुबोधनत इत्यादि। अनात्मविज्ञप्तित इत्यात्मविलक्षणत्वादनात्माकारेण ग्राह्यग्राहकवैधुर्यादविज्ञप्त्याकारेण च। प्रज्ञानुबोधनत इति प्रमाणेन प्रतीतेः। आत्मा हि नित्यैकरूपो ज्ञाता न च स्कन्धादय इथम्भूताः। तस्मादनात्मत्वेन सिद्धाः। ग्राह्यग्राहकवैधुर्याच्च। अत एव च विज्ञप्त्याकारेणापि सिद्धाः। ग्राहकलक्षणत्वात्तस्याः। ग्राहकाभावाद्‍ग्राह्यमपि नास्तीति सिद्धः सर्वधर्माणामभावः।



रूपादिशब्दैर्येभिलप्यन्ते त एव रूपादयः। अस्ति च लोके तैस्तेषामभिलापः। श्रोतॄणां व्यवहारः संवादश्च। तत्कुतोऽभावः सर्वधर्माणामिति चोद्यम्। परिहारमाह। नाममात्रेणेत्यादिना। अर्थशून्यं नाम नाममात्रम्। तेन ते सर्वधर्मा अभिलप्यन्ते। न हि बुद्ध्याकार एषामर्थो बाह्यत्वेन प्रति [य]ते, बाह्ये च प्रवृत्तेः। नापि बाह्य एवार्थः, असत्यपि बाह्ये शब्दादर्थगतेः। बुद्धिरेव बाह्यरूपेण शब्दार्थ इति चेत्। न चैतस्या अर्थो रूपं, अत्यन्तभेदात्। अभेदे वा न विसंवादः स्यात्। बुद्धिमन्तश्चार्थवन्ता भवेयुः। तस्मादर्थाभावान्नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते। व्यवहारस्तावदस्तीति चेदाह। व्यवहारश्चेत्यादि। न क्वचिदित्यर्थाभावत्। न कुतश्चिदिति वाचकाभावात्। नापि कश्चिदिति न वाचिको न च कायिको नापि मानसः। वाच्यवाचकयोरभावात्। सर्वधर्मा इत्यादिनोपसंहारः। अव्यवहारा अव्याहारा इति तेषु तयोरभावात्। अत एव चाव्याहृताः।



ननु रूपादीनां प्रमाणवत्त्वात् तच्छून्यता अपि प्रमाणवत्य इति तदालम्बना प्रज्ञापारमिता प्रमाणवती स्यात्। न चेष्यत इति चोद्यम्। परिहारमाह। सर्वधर्माणां अप्रमाणत इति। अप्रमाणत्वात्। तथा हि सर्वधर्माणां नास्ति प्रमाणमभावलक्षणत्वात्। आकाशस्येव रूपाभावलक्षणस्य, ततस्तच्छून्यतानामपि नास्ति प्रमाणमवच्छेदकाभावात्। ततः प्रज्ञापारमिताया अप्यालम्बनाभेदात्।



यदि तर्हि रूपादयो न सन्ति क‍इत्य (किमिति) नीलादयः प्रख्यान्ति। धर्मनिमित्तान्येतानि न धर्मवस्तूनि। एकानेकस्वभावविरहात्, अप्रकाशात्मनः प्रकाशायोगाच्च। धर्मनिमित्तानि तु धर्मभ्रान्तीनामाकाराः। ता हि प्रकाशरूपत्वात् प्रकाशमानास्तैरसभ्दिरपि रूपैः प्रख्यान्ति। असत्ख्यातिलक्षणत्वाद भ्रान्तीनाम्। यद्येव, न सिद्धयति प्रज्ञापारमिता। सा खल्वभ्रान्ता साकारा तु बुद्धिर्भ्रान्तैव। न च निराकारा बुद्धिः स्वप्नेप्यनुभूयत इति चोद्यम्। परिहारमाह। सर्वधर्मानिमित्तत इत्यादिना। सर्वधर्मेष्वानिमित्तं निमित्तास्तमयाज्ज्ञानस्य निराभासता निराकारता। ततः प्रज्ञापारमिता वेदितव्या। आकारपरिवर्जनादारूप्यसमापत्तिवदिति भावः।



नन्वयं विकल्पनिमित्तानां परिवर्जनाद्धर्मधातोः सम्यङ्‍मनसिकारो न पुनः प्रज्ञापारमितेति चोद्यम्। परिहारमाह सर्वधर्मनिर्वेधत इत्यादि। निर्वेधशब्देनात्र प्रतिवेध उक्तः। सर्वधर्माणां परिनिष्पन्नेन रूपेण प्रतिवेधो ज्ञानसाक्षात्क्रिया स तेषां निर्वेधः। तत इति तेन लक्षणेन प्रज्ञापारमिता इत्यर्थः। पूर्वत्र हेतौ तृतीया। तदन्तात्तम्। तथा हि तस्यैव सम्यङ्‍मनसिकारस्य श्रुतचिन्ताभावनान्वयादनाभोगतोऽनभिसंस्कारतः सर्वधर्मतथताया निष्प्रपञ्चज्ञानमुत्पद्यते। स तस्याः प्रतिवेधः। अथ कोऽर्थः प्रज्ञापारमिता(त)या शुद्धिः ? नैतद्युक्तम्। तथा हि। कस्तया शुद्ध्यति ? नात्मा तस्यानिष्टेः, न चित्तं प्रतिक्षणभेदात्। अथ चित्तसन्तानः। सोप्यशुद्धः शुद्धो वा प्रकृत्या भवेत्। पूर्वस्मिन् पक्षे न तस्य शुद्धिरङ्गारस्येव घृष्यमान(ण)स्य। द्वितीयपक्षे वैयर्थ्यम्। अथ चित्तधर्मता तया शुद्ध्यति। तदप्ययुक्तं निर्विकारत्वात्तस्या इति चोद्यम्। परिहारमाह। सर्वधर्मप्रकृतिपरिशुद्धित इत्यादि। सर्वधर्माणां प्रकृतिस्तस्याः परिशुद्धिस्ततस्तेन प्रयोजनेन प्रज्ञापारमिताऽनुगन्तव्या। अनुष्ठातव्येत्यर्थः॥



ननूक्तं तदप्ययुक्तं निर्विकारत्वात्तस्या इति। उक्तमेतत्किन्तु न युक्तम्। हेतोरनैकान्तिकत्वात्। सा हि प्रकृत्यैव परिशुद्धा अतन्मयत्वात्, आगन्तुकेनावरणमलैर्मलिनीक्रियते नभ इवात्र तमस्तुहिनादिभिः। पश्चात्प्रज्ञापारमितयैव तेषां निरासाद्धिशुद्धयति पवनादिभिरभ्रादिमोचनादिव नभः।



ननु प्रज्ञापारमितापि भगवतैव देशिता। देशना च सनिमित्तमेव ज्ञानमुत्पादयति। ततः प्रज्ञापारमितापि निर्मिमित्ता न युक्तेति चोद्यम्। परिहारमाह। सर्वधर्मावचनत इत्यादिना। सर्वधर्माणामवचनात्। वाचास्वरूपमप्रकाश्य केवलं सूचनात्। परमार्थदर्शनाय प्रज्ञापारमिताऽनुगन्तव्या।



ननु केयं विशुद्धिः ? क्लैशपक्ष (क्षय) इति चेत्। पुनर्भवः स्यादेव। अथ हेतुक्षयाज्जन्मापि क्षीयते तदा परिशिष्टा संस्कारा यावदायुरवस्थाय स्वयमेव निरुध्यन्ते। इति श्रावकबोधिरेव स्यान्नानुत्तरा सम्यक्सम्बोधिः। सत्यां वा विशेषो वक्तव्य इति चोद्यम्। परिहारमाह त्रिभिर्वाक्यैः। सर्वधर्माणामनिरोधत इति। अनाश्रवाणां धर्माणामक्षयात् प्रज्ञापारमिताऽनुगन्तव्या। कथमनिरोधः ? प्रहाणसमतया। निर्देशत्वेन प्रहाणादविशेषात्। सर्वधर्माणामिति सांक्लेशिकानां सर्वधर्माणां निर्वाणप्राप्तितः प्रज्ञापारमिताऽनुगन्तव्या। यथा तेषां तथता तथैव त इति ज्ञानं तथतासमता। तया कथं तथतासमतेत्याह। सर्वधर्मा इत्यादि। नागच्छन्त्यनागतादध्वनः, न गच्छन्त्यतीतमध्वानं, यत आगन्तव्यं यत्र च गन्तव्यं तयोरसत्त्वात्। यतश्च अजानानाः स्वसंविन्मात्रेऽध्वनामज्ञानात्। ज्ञानपूर्वकत्वाच्च गत्यागमनयोः। तस्मात् अजाता अत्यन्ताजातित इति॥



इयता बोधिसत्त्वानां स्वार्थसम्पत् प्रसाधिता। अस्तु नामैषां स्वार्थसम्पत्स्वार्थस्य लोके प्रकृत्यैव प्रियत्वात्तदर्थ दुष्करस्यापि व्यवसायात्। परार्थस्तु दुष्करत्वानामानन्त्यात् परत्वाद्विप्रतिपत्तिः बहुलत्वादिति चोद्यम्। परिहारमाह आत्मेत्यादिना। आत्मा पर इति यो च भेद [:] तस्यादर्शनात्सर्वसत्त्वानामात्मसमतादर्शनादित्यर्थः। तथा चोक्तमार्यविमलकीर्तिनिर्देशे "सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पाद्यते। ततः सर्वधर्मा विरोहन्ति" इति।



इत ऊर्ध्वं दुष्करसंज्ञाप्रतिपक्षेण यथा यथा प्रवेक्षणीयं तदाह समुद्रशब्दादर्वाक्। तत्रादौ सत्त्वानामर्हत्त्वदिषु दुष्कर संज्ञानिरासार्थमाह। सर्वधर्माः सत्त्वव्यहारविषयाः। आर्यार्हन्तः यतः प्रकृतिपरिशुद्ध। धर्मतामात्रत्वात्। भारानारोपणतयेति निःस्वभावत्वात् भावस्य। सत्त्वविनयाय दशदिग्बुद्धक्षेत्रगमनेन दुष्करसंज्ञानिरासायाह। सर्वधर्माणां अदेशाप्रदेशत इति। अदेशत्वाच्च प्रकृतिस्वभावत इति। रूपादीनां प्रतिस्तस्याः स्वभावतः। न हि तस्यादेशोऽपतनधर्मत्वात्। नापि प्रदेशो निरंशत्वादाकाशवत्। संसारसुखे दुस्त्यजसंज्ञानिरासायाह। सर्वधर्माणां सांसारिकाणां निरोधे प्रहलादनत्वं सुखसंज्ञोत्पादनत्वं ततः प्रज्ञापारमिताऽनुगन्तव्या।



"अनित्या वत संस्कारा उत्पादव्ययधर्मिणः।

उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति॥"



इतिशब्दः श्रावकविनयनसमाप्त्यर्थः। बोधिसत्त्वविनयनमधिकृत्याह। अरत्यविरतित इति। रतिरत्यन्तमुत्कण्ठा निर्वाणे। तदभावो बोधिसत्त्वानां अरतिः। विरतिरत्यन्तमुद्वेगः संसारे। तदभावो बोधिसत्त्वानामरति। ताभ्यां प्रज्ञापारमिता। इति संसारनिर्वाणाप्रतिष्ठानाय प्रत्यवेक्षा। अरक्ताविरक्ततयेत्यादिना वैराग्याय प्रत्यवेक्षा। सर्वधर्मा अश(स)क्ता इत्यनभिनिविष्टाः। सङ्गासङ्गा सङ्गतत्प्रतिपक्षौ। तद्विगतास्तयोरनुपलम्भादिति विकल्पप्रहाणाय प्रत्यवेक्षा। सर्वधर्माः सर्वमार्गाः सप्ताभिसमयाः। त एव बोधिः। बोधिप्रापकत्वात्। अत एवाह। बोधिः। बुद्धज्ञानावबोधनतयेति। अवबोधन प्रापण इति बोधिः। सुलभावबोधनाय प्रत्यवेक्षा। सर्वधर्मास्वलक्षणधारणात्। ते शून्यानिमित्ताप्रणिहिता विज्ञानमात्रत्वेनार्थविरहात् सर्वनिमित्तास्तमयात्। भ्रान्तिशरीरे त्रैधातुकप्रणिधानाभावाच्च यथाक्रमम्। इति मार्गसंक्षेपः।



यदि विमोक्षमुखान्यपि तेषां मार्गस्तदा तानि भावयन्तो हीनबोधौ पतेयुः। इत्यत आह। सर्वत्यादि। सर्वधर्माः सर्वबोधिसत्त्वमार्गाः। भैषज्यमिति हीनयानस्पृहामहाव्याधिहराः। कुत इत्याह। मैत्रीपूर्वङ्गमतयेति। यतो मैत्री तेषां पुरःसरी। अपि च। सर्वचतुर्भिरप्रमाणैः सह विहरणात् मत्रीविहारिणः। ब्रह्मभूता इति ब्रह्मणा तुल्याः। तद्वदेव दोषानुत्पादनादित्युद्देशः। सर्वदोषानुत्पादनत इति निर्देशः। सर्वदोषा मैत्र्यादीनां विपक्षो यथाक्रमं व्यापादो विहिंसा अरतिः प्रतिघानुनयौ च। अप्रणिहितत इति निर्वानोत्कण्ठाविरहात्। अप्रतिहतित इति संसारे अत्यन्तानुद्वेगात्। इति त्रयोदशविधोऽपूर्वाभिसमयः सानुषङ्गः॥



एकक्षणाभिसमयो वक्तव्याः।



एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः॥१-१६॥



इति यः पूर्वमुद्दिष्टः स कथं चतुर्विधः ? सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः। विपाकजसर्वसाश्रवानाश्रवधर्मैकचित्तक्षणाभिसमयः। अलक्षणसर्वधर्मैकचित्तक्षणाभिसमयः। अद्वयसर्वधर्मैकचित्तक्षणाभिसमयश्चेति॥



तत्र प्रथममधिकृत्य शास्त्रम्-



[169] अनाश्रवाणां सर्वेषामेककेनापि संग्रहात्।

एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः॥७-१॥



[170] अरघट्‍टं यथैकापि पदिका पुरुषेरिता।

सकृत्सर्व चलयति ज्ञानमेकक्षणे तथा॥७-२॥



प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य 'एकैकेनापि दानादिना' चित्तक्षणेन प्रवृत्तेन 'सर्वेषां' अनाश्रवाणां धर्माणां 'सङ्‍ग्रहात्' आक्षेपात् 'एक्षणावबोधः' एकचित्तक्षणाभिसमयः। 'अयं' इति प्रथमः। तथा हि 'यथैकापि परि(द)का' 'पुरुषप्रेरिता सर्वमरघटं(ट्टं) सकृच्चलयति' तथैकपदमपि दानादिचित्तं प्रयुक्तं सर्वमनाश्रवधर्मसन्दोहं सकृदेवाकर्षयतीत्यर्थः। अतः सूत्रं समुद्रापर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। अत्र प्रज्ञापारमिता परिगृहीतत्वात्, सर्वाकारज्ञता मनसिकाराविरहितत्वाच्च। गम्भीरोदार एकैको दानादिचित्तक्षणः प्रज्ञापारमितेत्युच्यते। तस्यापर्यन्तता अनाश्रवधर्माकर्षकत्वम्। तेषामन्योन्यसम्बन्धस्य चिरपरिशीलितत्वात् सानुगन्तव्या वेदितव्या। कथमित्याह। समुद्रापर्यन्ततयेति। गम्भीरोदारस्य समुद्रस्यापर्यन्तता सकृदपर्यन्तनिम्नगाजलाकर्षकत्वम्। तासां परस्परसंसर्गात्। तया समुद्रापर्यन्ततया उपमया। तद्वदित्यर्थः। इति सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः॥



द्वितीयमधिकृत्य शास्त्रम्-



[171] विपाकधर्मतावस्था सर्वशुक्लमयी यदा।

प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा॥७-३॥



विपाकजो धर्मो विपाकधर्मस्तभ्दावस्तत्तासां 'अवस्था' अस्या इति यथोक्ता प्रज्ञापारमिता। 'सर्वशुक्लमयी' इति सर्वे कुशला धर्माः साश्रवा अनाश्रवाः। ये पुर्वमनेन निःस्वभावतया भावितास्ते पश्चाद्विपाकजाः। अतः प्रकृत्यैव तेषां नैःस्वाभाव्यसंवेदिनी। तस्मात्सर्वशुक्लमयी। ईदृशी सा यदा 'जाता' सम्पन्ना 'तदा' 'ज्ञानं' चित्तं 'एकक्षणे' तेषु सर्वेष्वनाभोगेन। अनाश्रवेषु सर्वेषु साभोगः प्रथमः। अयं तु द्वितीयः साश्रवानाश्रवनिराभोगश्च। अतः सूत्रम्। गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तताऽनुगन्तव्येति। प्रज्ञापारमितायाः विपाकधर्मतावस्था सर्वशुक्लमयी च। अत एवापर्यन्तता। तेषु सर्वेषु भावाभावैकरसा। निराभोगश्च विपाकजत्वात्। तस्या अपर्यन्तता वेदितव्या। कथमित्याह। गगनापर्यन्ततया दृष्टान्तेनेति। गगनमाकाशम्। तच्च रूपिद्रव्याभावैकरसमपर्यन्तं निराभोगं च परिस्पन्दाभावात्। अत उभयोरपि अपर्यन्तता सदृशीति विपाकजसर्वशुक्लधर्मैकचित्तक्षणाभिसमयो द्वितीयः॥



तृतीयमधिकृत्य शास्त्रम्-



[172] स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिवर्यवा।

अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति॥७-४॥



'स्वप्नोपमेषु धावद्‍गन्धर्वनगरोपमेषु" इति महत्योर्भगवत्योः पठ्यते। शास्त्रे त्वेकमेव पदं सर्वेषामेकार्थत्वात्। स पुनरर्थो विचित्रैरपि लक्षणैः प्रतिभासमानानामेषां यथालक्षणमसत्त्वादलक्षणता। ततो मायोपमत्वादलक्षणेषु सर्वधर्मेषु 'स्थित्वा' षट्‍पारमिताः परिपूरयन् 'सर्वधर्माणामलक्षणत्वमेककक्षणेनैव 'विन्दति' जानाति। धातूनामेकार्थत्वेन विन्दतेर्ज्ञानवृत्तेः। एतदाह। मेरुविचित्रया प्रज्ञापारमिताविचित्रताऽनुगन्तव्येति। मायोपमेषु सर्वधर्मेष्वलक्षणत्वेन यदेकरसं ज्ञानं सेह प्रज्ञापारमिता। अतस्तस्या एकरसत्वेपि मायोपमैः सर्वधर्मप्रतिभासैर्या विचित्रता सा मेरुविचित्रतया दृष्टान्तेन वेदितव्या। यथा ह्याकाशस्य नीरूपत्वादसती मेरुणा विचित्रताऽवभाति। मेरुपार्श्वानां चतुर्वर्णानां दिक्षु तत्सर्ववर्णतया प्रख्यानात्। तथा तस्या इत्यलक्षणसर्वधर्मैकचित्तक्षणाभिसमयस्तृतीयः॥



चतुर्थमधिकृत्य शास्त्रम्-



[173] स्वप्नं तद्दर्शिनं चैव द्वययोगादनीक्षकः।

धर्माणामद्वयं तत्त्वं क्षणेनकेन पश्यति॥७-५॥



'स्ननं तद्दर्शिनं चैव' इति कुद्योगे कथं द्वितीया ? कर्तव्योऽत्र यत्नः। अथवा। अनीक्षितेति तृन् पठितव्यः। तृतीये सर्वधर्माणां स्वप्नमायोपमैराकारैर्विचित्रः प्रतिभासः। चतुर्थे तु तेषामस्तमयाच्छरन्मध्यान्हगगनसमो विगतसमस्तविप्लवः। तत्र स्वप्नदृश्यं नरकचित्तरङ्गादिस्वप्नः। तद्दर्शी आत्मैव तयोरस्तमयात्। यस्तौ विकृते(तौ) 'योगेन' [अ]भेदेन सोऽद्वयं' ग्राह्यग्राहकशून्यं 'धर्माणां तत्त्व' परमार्थं 'एकक्षणेनैव पश्यति'। एनमाह। रूपापर्यन्ततयेत्यादिना। इह चतुर्थ एकक्षणाभिसमयः। प्रज्ञापारमिता तस्या अपर्यन्तता। सर्वधर्मपरमार्थस्य केवलस्य केवलविमलनभोनिभस्य तेन संवेदनात्। सा वेदितव्या। कथमित्याह। रूपादीनामपर्यन्तयेति। कथं तेषामपर्यन्तता ? द्वयप्रतिभासास्तमयात्। यावत्खलु द्वयं तावत्पर्यन्तः परिमितत्वात्।



ननु रूपतद्‍ग्राहकयोरस्तमयेनापि पर्यन्तता ? क आह रूपस्यैवेति ? किन्तर्हि ? रूपस्य यावद्विज्ञानस्य। ननु तथापि ग्राहकस्यास्तमयो नोक्त इति चेत्। न तस्यापि स्कन्धैरेव संग्रहात्। अप्रकाशात्मनो ग्राहकत्वायोगादिति सर्वधर्माद्वयतत्त्वैकचित्तक्षणाभिसमयश्चतुर्थः॥



एकक्षणाभिसमयः सप्तमोऽभिसमयः॥



अष्टमोऽभिसमयो धर्मकायः। तस्य चत्वारि वस्तूनि। त्रयः कायाः कारित्रं च। तथाहि पूर्वमुद्देशः कृतः-



[174] स्दाभाविकः ससांभोगो नैर्माणिक इति त्रिधा।

धर्मकायः सकारित्रश्चतुर्धा समुदीरितः॥१-१७॥



इति॥ धर्मो मार्गः। स चेह प्रकर्षगतेः प्रकरणाच्च सप्ताभिसमयलक्षणो गृह्यते। धर्मलभ्यः कायो 'धर्मकायः'। कायः शरीरम्। त्रीणि शरीराणि बुद्धानां त्रयः कायाः। उक्तं हि महत्योर्भगवत्योः-"सर्वाकारपरिशुद्धानामनाश्रवाणां सर्वधर्माणां या प्रकृतिः स तथागतोऽर्हन्सम्यक्सम्बुद्धो वेदितव्यः॥ पुनरपरं तेषामेव धर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य द्वात्रिंशता लक्षणैरशीत्यानुव्यञ्जनैरलङ्‍कृतकायस्तथागतोऽर्हन्सम्यक्सम्बुद्धो बोधिसत्त्वानां परमं महायानधर्ममनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति॥ पुनरपरं तेषामेव सर्वधर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य तथागतोऽर्हन्सम्यक्सम्बुद्धो दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वकालं नानानिर्माणमेघेन सर्वसत्त्वानामर्थं करोति" इति॥ उक्तं च सूत्रालंकारे-



"त्रिभिः कायैश्च विज्ञेयो बुद्धानां कायसङ्‍ग्रहः।

साश्रयः स्वपरार्थोऽयं त्रिभिः कायैर्निदर्शितः॥" इति।



तस्मात् त्रिभिरेव कायैः कारित्रेण च परिच्छेदेन चतुर्धा धर्मकाय उक्तः।



तत्र स्वभावः प्रकृतिः। स्वभाव एव 'स्वाभाविकः'। विनयादिभ्यष्ठगिति स्वार्थे ठक्। अथवा तस्मिन्नेव स्वभावे भवो विशुद्धः परः प्रकर्षः स्वाभाविकः कायः। सम्भोगाय प्रभवतीति 'साम्भोगिकः'। निर्माण निर्मितिः। तेन निर्वृत्तः कायो 'नैर्माणिकः'।



तत्र स्वाभाविकमधिकृत्य शास्त्रम्-



[175] सर्वाकारां विशुद्धिं ये प्राप्ता धर्मा निराश्रवाः।

स्वाभाविको मतः कायस्तेषां प्रकृतिलक्षणः॥८-१॥



तेषां प्रकृतिधर्मता धर्मधातुः। ननु न धर्मधातुस्तथागतोऽतिप्रसङ्गात्। किं तर्हि ? धर्मधातुविशुद्धिः। तथा चोक्तमार्य बुद्धभूमिसूत्रे-"पञ्चभिराकारैः सुसमुदितबुद्धभूमेः सङ्‍ग्रहो वेदितव्यः। कतमैः पञ्चभिः ? धर्मधातुविशुद्धया आदर्शज्ञानेन समताज्ञानेन प्रत्यवेक्षणाज्ञानेन कृत्यानुष्ठानज्ञानेन च" इति।



धर्मधातुविशुद्धिः सुविशुद्धो धर्मधातुः। सुविशुद्धानां धर्माणां धर्मतेति नार्थभेदः कश्चित्। अतः सूत्रम्। सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तावभासनताऽनुगन्तव्येति। सर्व एव त्रासादिदोषरहिताः स्फाटिकाः शुद्धाः। तत्र चन्द्रसूर्याभ्यामन्ये श्रावकप्रत्येकबुद्धानां विमुक्तिकायस्योपमाः। सूर्याचन्द्रमसावपि शुद्धस्फाटिकौ। तयोरेतदधिकं यत्तौ दशदिग्व्यापिरश्मिजालं जनयतः। ततस्तावनन्तज्ञेयविषयमनन्तं ज्ञानमुत्पादयतो बुद्धानां विमुक्तिकायस्योपमाने। अत एवासौ धर्मकाय इत्यभिधीयते। अनन्तधर्माश्रयत्वात्। तदिह धर्मधातुविशुद्धिजमनन्तं ज्ञानं प्रज्ञापारमिता। तस्या अपर्यन्तज्ञेयावभासनता वेदितव्या सूर्यरश्मिमण्डलापर्यन्तावभासनतया दृष्टान्तेन। तथा हि बुद्धधर्माणां सुविशुद्धो धर्मधातुः सूर्यवत्। तज्जा प्रज्ञा प्रज्ञपारमिता सूर्यरश्मिण्डलवत्। तया यदपर्यन्तावभासनं तद्रविरश्मिमण्डलेनापर्यन्तावभासनवत्। तदनेन बुद्धानां सुविशुद्धो धर्मधातुः स्वाभाविकः कायस्तस्य च सर्वत्र ज्ञेये ज्ञानवशिता दर्शिता।



तस्यैव सत्त्वार्थवशितां व्यापिनित्यत्वं चाधिकृत्य शास्त्रम्-



[176] परिपाकं गते हेतौ यस्य यस्य यदा यदा।

हितं भवति कर्तव्यं प्रथते तस्य तस्य सः॥८-९॥



[177] वर्षत्यपि हि पर्जन्ये नैवाबीजं प्ररोहति।

समुत्पादेपि बुद्धानां नाभव्यो भद्रमश्नुते॥९-१०॥



[178] इति कारित्रवैपुल्याद्‍बुद्धो व्यापी निरुच्यते।

अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते॥८-११॥



'सः' इति स्वाभाविकः कायः। 'प्रथते' निर्माणप्रथनात्। तदा तदेति गम्यते 'यदा यदा' इति वचनात्। तस्य हितस्य करणायेत्यर्थाद्‍गम्यते। तस्मात्तदा तदैवेत्यत आह। 'वर्षत्यपि' इत्यादि। 'इति' इत्यादि। 'कारित्रवैपुल्यं' सर्वभव्येषु कारित्रम्। तस्यैव' इति कारित्रस्य। इति स्वाभाविकः कायः॥



साम्भोगिकस्य कायस्य बहुवक्तव्यम्। तत्र सम्भोगमधिकृत्याह। सर्वशब्दापर्यन्ततया प्रज्ञापारमिताऽपयन्तताऽनुगन्तव्येति। शास्तुर्देशयतः श्रृण्वतां च बोधिसत्त्वानां यः परममहायानधर्मसंबोधः सा प्रज्ञापारमिता। स एव सम्भोगः सम्भोगकारणत्वात्। यः पुनस्तज्जानां मृदुमध्याधिमात्रसौमनस्यलक्षणानां रतिप्रीतिप्रामोद्यानां सुखस्य चानुभवः स मुख्यः सम्भोगः। तस्याः प्रज्ञापारमिताया अपर्यन्तता वेदितव्या। कथमित्याह। सर्वशब्दापयन्ततयेति। हेतौ तृतीया। यतस्तयोः सम्बोधयोर्यथाक्रममपर्यन्ता देशनाः शब्दजन्या जनकाश्च ते कथं सर्वे ? नाना विनेयानुरूपैः सर्वैराकारैः प्रथनात्। कथमपर्यन्ताः ? अनिधनेन तेन कायेन देशनाया निरवधिकत्वात्। ताथागतस्यापि सम्बोधस्यापर्यन्तता। कुत इत्याह। सवबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमिताऽपर्यन्तता। यथोक्तः शास्तुरेव महायानधर्मसम्बोध इह प्रज्ञापारमिता। तस्या अपर्यन्तता। तत्कारणस्य सर्वबुद्धधर्माणां समुदागमस्यापर्यन्ततयेत्यर्थः। ते पुनर्धर्मा महत्योभगवत्योः पठ्यन्ते। सप्तत्रिंशब्दोधिपक्ष्या धर्माः। अष्टौ विमोक्षाः। नवानुपूर्वविहारसमापत्तयः। दश कृत्स्नायतनानि। अष्टवभिभ्वायतनानि। अरणा समाधिः। प्रणिधिज्ञानम्। चतस्रः प्रतिसम्विदः। सर्वाकाराश्चतस्रः परिशुद्धयः। दश वशिताः। दश बलानि। चत्वारि वैशारद्यानि। त्रीण्यरक्ष्याणि। त्रीणि स्मृत्युपस्थानानि। असंमोषधर्मता। वासनासमुद्‍घातः। महाकरुणा। अष्टादशावेणिकाः बुद्धधर्माः। सर्वाकारज्ञता चेति॥ अतः शास्त्रम्-



[179] बोधिपक्षाप्रमाणानि विमोक्षाश्चानुपूर्वेशः।

नवात्मिका समापत्तिः कृत्स्न दशविधात्मकम्॥८-२॥



[180] अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः।

अरणाप्रणिधिज्ञानमभिज्ञाः प्रतिसम्विदः॥८-३॥



[181] सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश।

बलानि दश चत्वारि वैशारद्यान्यरक्षणम्॥८-४॥



[182] त्रिविधं स्मृत्युपस्थानं त्रिधाऽसंमोषधर्मता।

वासनायाः समुद्‍घातो महती करुणा जने॥८-५॥



[183] आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः।

सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते॥८-६॥



बोधिपक्ष्याश्चाप्रमाणानीति द्वन्द्वः। 'अनुपूर्वश' इति। अनुपूर्व परेण संबध्यते। 'अरक्षण' इत्यकरणीयरक्षणम्। अरक्ष्यमित्यर्थः। तत् त्रिविधम्। 'धर्मकाय' इति। अनाश्रवो बुद्धानां धर्मराशिः। यथावसरमस्माभिर्बहवो व्याख्याताः। शेषानिह व्याचक्षीमहि।



'अष्टौ विमोक्षा' इति। रूपी रूपाणि पश्यति सुवर्णदुर्वर्णानि नीलपीतलोहितावदातानीति प्रथमो विमोक्षः। अध्यात्ममरूपसंज्ञी रूपाणि पश्यति पूर्ववदिति द्वितीयः। शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः। आकाशानन्त्यायतनादिविमोक्षाश्चत्वारः। संज्ञावेदितनिरोधोऽष्टमः।



आवरणाद्विमुच्यन्त एभिरिति विमोक्षाः। तत्र त्रयो निर्माणावरणविमोक्षाः। शेषाः शान्तविहारसमापत्त्यावरणविमोक्षाः। त्रयो रूपिणः। पञ्चारूपिणः। परमप्रशान्तोऽष्टमः। रूपीति आत्मनि रूपसंज्ञी। पश्यतीति अधिमोक्षनिर्मितानि मनसा पश्यति। अध्यात्ममरूपसंज्ञी। आत्मनि नामसंज्ञी। शुभो विमोक्षः। शुभाशुभानि रूपाणि निर्माय तेष्वेकतरसंज्ञालाभात्। यथाक्रममाभोगप्रातिकूल्यप्रहाणाय। संज्ञावेदितानिरोधोऽस्थावराणां चित्तचैतसिकानां क्लिष्टमनःसंगृहीतानां च निरोधः प्राग् व्युत्थानात्॥



अष्टावभिभ्वायतनानि। आलम्बनाभिभवनादभिभूतानि आयतनानि चित्तस्थितयोऽभिभ्वायतनान्यष्टौ। तत्र प्रथमाद्विमोक्षात् द्वे अभिनिर्ह्रियेते। द्वितायादपि द्वे। तृतीयाच्चत्वारि। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि। तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथा संज्ञी च भवतीति प्रथमम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि यावत्तथासंज्ञी च भवतीति द्वितीयम्। अध्यात्ममरूपसंज्ञी च बहिर्धा रूपाणि पश्यति परीत्तानीत्यादि तृतीयम्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणीत्यादि चतुर्थम्। तृतीयाद्विमोक्षाच्चत्वार्यभिनिर्ह्रियन्ते। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणी पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि। तद्यथा उमकापुष्पं सम्पन्नं वाराणसेयकं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं निलनिर्भासम्। तानि च रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथासंज्ञी च भवतीति पञ्चमम्। एवं पीतानीत्यादि। तद्यथा कर्णिकारपुष्पमित्यदिकं षष्ठम्। एवं लोहितानित्यादि। तद्यथा बन्धुजीवपुष्पमित्यादि सप्तमम्। एवमवदातानीत्यादि। तद्यथा उषसि तारकारूपमित्यादि चाष्टमम्॥



तत्र परीत्तानि सत्त्वसख्यातानि स्वल्पप्रमाणत्वात्। सुवर्णदुर्वर्णानि शुभाशुभत्वात्। हीनप्रणीतानि भौमदिव्यत्वात्। तानि विमोक्षैरधिमुच्याभिभ्वायतनैरभिभवति। पुनः पुनरन्तर्द्धाप्य दर्शनात्। अभिभूय जानाति शमथेन पश्यति विपश्यनया तथासंज्ञी भवति निरभिमानत्वात्। अधिमात्राणीति। असत्त्वसंख्यातानि गृहविमानपर्वतादीनि महाप्रमाणत्वात्। नीलानीति उद्देशः। शेषैर्निर्देशः। नीलवर्णानीति स्वाभाविकेन वर्णेन। नीलनिदर्शनानीति सांयोगिकेन वर्णेन। नीलनिर्भासानीति। उभयथापि भास्वरत्वात्। उमकाऽतशी(सी?)। कर्णिकारः प्रसिद्धः। बन्धुजीवो बन्धूकः। उषा रात्रेरन्तः॥



'कृत्स्नं' दशविधात्मकं' इति। अभिभ्वायतनैरभिभूय पृथिव्यादीनां कृत्स्नं समन्तादिभिः सफरणात्कृत्स्नान्युच्यन्ते। कदाचित्तान्येवायतनानीति कृत्स्नायतनान्युच्यन्ते। कदाचित्तु पृथिव्यादिभिर्विशिष्य निर्दिश्यन्ते। पृथिवीकृत्स्नं अप्कृत्स्नं तेजःकृत्स्नं वायुःकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नं अवदातकृत्स्नं आकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं चेति॥



'सर्वाकाराश्चतस्रः परिशुद्धय' इति। आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिश्च।



तत्र सवासनानां सर्वक्लेशपक्षाणां दौर्बल्यानामाश्रयादत्यन्तोपरमः स्वस्यचात्मभावस्य यथेच्छमादानस्थानच्यवनेषु वशवर्तिता सर्वाकारा आश्रयपरिशुद्धिः। सर्वालम्बनानां निर्माणपरिणामसंप्रख्यानेषु वशवर्तिता सर्वाकारा आलम्बनपरिशुद्धिः। पूर्ववत्सर्वचित्तदौष्ठुल्यापगमश्चित्ते च सर्वाकारकुशलमूलोपचयः सर्वाकारां चित्तपरिशुद्धिः। पूर्ववत्सर्वाविद्यापक्षदौष्ठुल्यापगमः सर्वज्ञेयज्ञाने च वशवर्तिता सर्वाकारा ज्ञानपरिशुद्धिः॥



'वशिता दश' इति। दश वशिताः। अयुर्वशिता यथेच्छमायुषस्थापनात् त्यजनाच्च। चित्तवशिता यथेच्छध्यानादिसमापत्तेः। परिष्कारवशिता यथेच्छमुपकरणप्रत्युपस्थानात्। कर्मवशिता यथेच्छं कायवाक्कर्मसिद्धेः। उपपत्तिवशिता सर्वोपपत्त्यायतनेषु यथेच्छमुपपत्तेः। ऋद्धिवशिता यथेच्छमभिज्ञाः। प्रणिधानवशिता सर्वप्रणिधानसमृद्धेः। अधिमुक्तिवशिता यद्यथाधिमुच्यते तत्तथैव भवति। ज्ञानवशिता यदेव ज्ञातुमिच्छति तदेव जानाति। धर्मवशिता सूत्रादिधर्मव्यवस्थानेषु कौशलम्॥



'त्रीण्यरक्ष्याणि' इति। परिशुद्धकायसमुदाचारस्तथागतो नास्ति तस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चित्परे न जानीयुरित्येतत्प्रथममरक्ष्यम् एवं वाक्कर्म द्वितीयम्। एवं मनःकर्म तृतीयम्॥



'त्रीणि स्मृत्युपस्थानानि' यथापाठम्- "तथागतस्य धर्म देशयत एकत्याः शुश्रूषन्ते। श्रोत्रमवदधति। आज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम्। न तेन तथागतस्य नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम्। अपरे न शुश्रूषन्ते। न श्रोत्रमवदधतीत्यादि। न तेन तथागतस्याघातो नाक्षान्तिर्नाप्रत्ययः न चेतसोऽनभिराद्धिः। एकत्याः शुश्रूषन्ते। एकत्या न सुश्रूषन्ते। न तेन तथागतस्य द्वयं भवति नन्दी आघातश्च। सर्वत्रोपेक्षको विहरति स्मृतिमान सम्प्रजानन्" इति॥



'असम्मोषधर्मता' सत्त्वार्थक्रियाकालानतिक्रमाद्‍बुद्धानाम्। अत एवैषा लक्षणविधानतोपपन्ना भवति॥



'वासनासमुद्धात' इति। प्रहीणक्लेशस्यापि यदप्रहीणक्लेशस्येव चेष्टितं सा क्लेशवासना। सापि तथागतस्यास्तङ्गतेति समुद्‍घातक्लेशवासनः स भगवानुच्यते॥



'महाकरुणा' हिताशयता। यया भगवान्सर्वकालं षट्‍कृत्वो लोकं व्यवलोकयति "को हीयत को वर्द्धत " इत्यादि॥



'सर्वाकारज्ञता' इति सर्वधर्माणां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञानमित्यर्थः॥



रणं विवादकलहादि। इह तु रणहेतुः क्लेशो रणः। तमालम्ब्य रणमुत्पादयतीति। यं समाधिं समापद्यते, यतो व्युत्थाय ग्रामादौ प्रविष्टं तमालम्ब्य तत्रत्यानां रणं नोत्पद्यते सा 'अरणा'। सा श्रावकस्यापि भवति बुद्धस्यापि। तयोः कारित्रविशेषः। तमधिकृत्य शास्त्रम्-



[184] श्रावकस्यारणादृष्टेर्न क्लेशपरिहारिता।

तत्क्लेशस्त्रोत‍उच्छित्त्यै ग्रामादिषु जिनारणा॥८-७॥



श्रावकीयाऽरणा क्लेशहेतोर्दर्शनस्य परिहारिता। न साक्षात्क्लेशस्य। सौगती तु परकीयक्लेशस्रोतस उच्छेदाय न दर्शनस्येत्यर्थः॥



इदं जानीयामिति प्रणिधाय ध्यानं समापन्नस्य लोकवृत्तान्तादौ यज्ज्ञानमुत्पद्यते तत् 'प्रणिधिज्ञानं' श्रावकाणाम्।



तथागतमधिकृत्य शास्त्रम्-



[185] अनाभोगमानासङ्गमव्याघातं सदा स्थितम्।

सर्वप्रश्नापनुद्धौद्धं प्रणिधिज्ञानमिष्यते॥८-८॥



'अनाभोगं' निर्विकल्पत्वात्। 'अनासङ्गं' निरपेक्षत्वात्। 'अव्याघातं' सर्वत्राप्रतिहतत्वात्।'सदा स्थितं' इत्यसमाहिते चेतसि स्थितत्वात्। सर्वप्रश्नान् छेदयतीति 'सर्वप्रश्नापनुत्'।



स च सम्भोगकायः परिशुद्धे स्वबुद्धक्षेत्रे जायते यावदाकाशस्थितिरवतिष्ठते। तत्कुतो बुद्धक्षेत्रम् ? प्राधान्येन तस्यैव तत्रोपपत्तेः।



लुज्यते प्रलुज्यतेति लोकः। प्रजातं भाजनं च। तस्मात् द्विधा लोकधातुः सत्त्वलोको भाजनलोकश्च। तत्र सत्त्वलोकपरिशुद्धिमधिकृत्याह। सर्वसत्त्वधातुपुण्यज्ञानसम्भारापर्यन्ततया प्रज्ञापारमिताऽपयन्तताऽनुगतव्येति। यया भगवतः प्रज्ञया परिपाचिताः सत्त्वास्तत्र यावदाकाशमुत्पद्यन्ते। उत्पन्नाश्च यया बोधये परिप्राच्यन्ते। सेह प्रज्ञापारमिता। तस्या अपर्यन्तताऽनुगन्तव्या। कथमित्याह। सर्वेत्यादि। ये केचित्तत्र सत्त्वा उत्पद्यन्ते। सर्वे ते लब्धार्यभूमयो बोधिसत्त्वाः। ते सर्वे। सर्वः सत्त्वधातुः सत्त्वराशिः। तस्य पुण्यज्ञानसम्भारः। तयोरपर्यन्ततया। पृथिवीधात्वपर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्या। एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। तथा हि भाजनलोकस्तत्र करतलसमं भूतलम्। प्रासादोद्यानवापीकल्पद्रुमादिपरिकरश्च सत्त्वावासः परमोज्ज्वलसप्तरत्नमयोऽनेकलोकधात्वन्तरस्फुरणमहारश्मिप्रमोक्ष उपरिष्ठाच्च गगनमनुरूपसनिर्भासं षड्‍धातुकाश्च सत्त्वाः। "षड्‍धातुरयं भिक्षो पुरुषः" इति वचनात्। अतस्तेषामपि कायः कान्तिमान् प्रभामण्डलीभूम्यनुरूपवर्णसंस्कारः। तत्राभोगपरिभोगाश्च सत्त्वानां सर्वदेवलोकप्रतिविशिष्टाः। येषामुपभोग एकान्तसुख एकान्तानवद्य एकान्तवशवर्ती च। ईदृशी षड्‍धातुपरिशुद्धिरपर्यन्ता निरवधिकत्वादतिविशालत्वाच्च। अतस्तस्या अपर्यन्तया तत्कारणभूताया भगवतः प्रज्ञाया अपर्यन्तताऽनुगन्तव्या। तत्र चोत्पन्ना बोधिसत्त्वा अनन्तान् लोकधातून् गत्वा तत्रत्यानां सत्त्वानामकुशलं(ल)सञ्चयान् हन्तध्या(व्या?)न(न्) तत्प्रतिपक्षांश्च कुशलसञ्चयान् प्रजानन्ति। तेषामप्रमाणतया तत्परिच्छेदिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह। कुशलाकुशलधमसञ्चयाप्रमाणतया प्रज्ञापारमिताऽप्रमाणता वेदितव्येति। यावन्तश्च ते बोधिसत्त्वास्तेषां कुशलधर्मोत्पादनाय धर्म देशयन्ति स सर्वः सर्वधर्मसञ्चयः। तस्याप्रमाणतया तद्व्यवस्थापिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह। सर्वधर्मसञ्चयाप्रमाणतया प्रज्ञपारमिताऽप्रमाणता वेदितव्येति॥



सर्वधर्मसमाध्यपर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। धर्मा धारण्यः समाधयश्चित्तस्थितयः। धर्माश्च समाधयश्च सर्वे च ते धर्मसमाधयश्च। तेषामपर्यन्तता। तत्प्रतिलम्भिता तल्लाभिता या तत्र बोधिसत्त्वानां तया तज्जनिकाया भगवतः प्रज्ञया अपर्यन्तता वेदितव्येत्यर्थः।



सर्वबुद्धर्मापर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। तत्र बुद्धः सम्भोगकायः। तस्य सर्वे धर्माः सर्वबुद्धधर्माः। द्वात्रिंशन्महापुरुषलक्षणान्यशीति चानुव्यञ्जनानि। तेषामपर्यन्तता अपरिच्छेद्यता। केनापरिच्छेद्यता ? तुलया। तथागतादन्यस्य तादृशानामभावात्। तया भगवतः प्रज्ञायास्तादृश्येवापर्यन्तता वेदितव्या। कतमस्याः प्रज्ञायाः ? यया तेषां समग्राणि कारणानि सम्यक् परिज्ञाय सम्यगनुष्ठितानि। अतः शास्त्रम्-



[186] द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम्।

सम्भोगिको मतः कायो महायानोपभोगतः॥८-१२॥



चतुर्थेन पादेन सम्भोगिकत्वे कारणमाह।

तत्रादौ पञ्चभिरिन्द्रवज्राभिर्लक्षणान्याह।



[187] चक्राङ्कहस्तक्रमकूर्मपादो

जालावनद्वाङ्‍गुलिपाणिपादः।

करौ सपादौ तरुणौ मृदू च

समुच्छ्रयैः सप्तभिराश्रयोऽस्य॥८-१३॥



[188] दीर्घाङ्गुलित्वायतपार्ष्णिगात्रम्

प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा।

एणेयजङ्घश्च पटूरुबाहुः

कोशावधानोत्तमवस्तिगुह्यः॥८-१४॥



[189] सुवर्णवर्णः प्रतनुच्छविश्च

प्रदक्षिणैकैकसुजातरोमा।

ऊर्णाङ्कितास्यो हरिपूर्वकायः

स्कन्धौ वृतावस्य चितान्तरांसः॥८-१५॥



[190] हिनो रसः ख्याति रसोत्तमोऽस्य

न्यग्रोधवन्मण्डलतुल्यमूर्तिः।

उष्णीषमूर्धा पृथुचारुजिव्हो

ब्रह्मस्वरः सिंहहनुः सुशुक्लाः॥८-१६॥



[191] तुल्याः प्रमाणेऽविरलाश्च दन्ता

अन्यूनसंख्यादशिकाश्चतस्रः।

नीलेक्षणो गोवृषपक्ष्मनेत्रो

द्वात्रिंशदेतानि हि लक्षणानि॥८-१७॥



क्रमः पादः चक्राङ्कौ हस्तौ चास्येति 'चक्राङ्कहस्तक्रमः'। सुप्रतिष्ठितत्वात् कूर्माविव पादावस्येति 'कूर्मापादः'। स चासौ स चेति समासः। जालावनद्धाङ्गली पाणी च पादौ चास्येति 'जालावनद्धाङ्गलिपाणिपादः'। 'करौ सपादौ तरुणौ मृदू च' अस्येति परेण सम्बन्धः। 'समुच्छ्रयैः सप्तभिराश्रयोऽस्य'। लक्षणे तृतीया। आश्रयः कायः सप्तभिरुच्छयैर्लक्षितः कायोऽस्येत्यर्थः। एतेन पञ्चलक्षणान्युक्तानि। चक्राङ्कितपाणिपादता सुप्रतिष्ठितपादता जालपाणिपादता मृदुतरुणहस्तपादता सप्तोच्छ्रयता चेति।



'दीर्घाङ्गुलित्वायतपार्ष्णिगात्रम्

प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा।

एणेयजङ्घश्च पटूरूबाहुः

कोषा(शा)वधानोत्तमवस्तिगुह्यः॥



दीर्घाङ्गुलित्वं च आयतपार्ष्णिश्चेति समाहारद्वन्द्वः। 'गात्रं प्राज्यं ऋजु' इति बृहदृजुगात्रम्। उच्छङ्खपादश्चासौ 'ऊर्ध्वरोमा' च। उच्चैः सुनिगूढजानुगुल्फत्वादुच्छङ्खपाद इति सूत्रम्। अतश्च उत्कर्षनिगूढार्थ उच्छब्दः। जानुगुल्फास्थिवाची शङ्खशब्दः। उरू मूलादधश्च सर्व पाद इति गम्यते। वस्तौ गुह्यं वस्तुगुह्यम्। कोशावधानमुत्तम वस्तिगुह्यमस्येति तथोक्तः। अनेनाष्टौ लक्षणानि। दीर्घाङ्गुलिता। आयतपार्ष्णिता। बृहदुजुगात्रता। उच्छङ्खपादता। ऊर्ध्वाङ्गरोमता। ऐणेयजङ्घता। पटूरुबाहुता। कोशावहितवस्तिगुह्यता चेति।



'सुवर्णवर्णः प्रतनुच्छविश्च

प्रदक्षिणैकैकसुजातरोमा।

ऊर्णाङ्कितास्यो हरिपूर्वकायः

स्कन्धौ वृतावस्य चितान्तरांसः॥'



हरेरिव पूर्वकायोऽस्येति 'हरिपूर्वकायः'। 'वृत्तौ' इति सुसंवृत्तौ। सुश्लिष्टपरिमण्डलग्रीवत्वात्। असंयोरंतरं उत्तरांसमुरः। तदुपचितमस्येति 'चितान्तरांसः'। अनेन सप्तलक्षणानि। सुवर्णवर्णता। श्लक्षणच्छविता। एकैकप्रदक्षिणावर्तरोमता। ऊर्णाङ्कितमुखता। सिंहपूर्वकायता। सुसंवृतस्कन्धता। चितान्तरांसता चेति।



'हीनो रसः ख्याति रसोत्तमोऽस्य

न्यग्रोधवन्मण्डलतुल्यमूर्तिः।

उष्णीषमूर्धा पृथुचारुजिव्हो

ब्रह्मस्वरः सिंहहनुः सुशुक्लाः॥

तुल्याः प्रमाणे विरलाश्च दन्ता

अन्यूनसंख्यादशिकाश्चतस्रः।

नीलेक्षणो गोवृषपक्ष्मनेत्रो

द्वात्रिंशदेतानि हि लक्षणानि॥'



अनेन श्लोकद्वयेन द्वादशलक्षणान्युक्तानि। रसरसज्ञता। न्यग्रोधपरिमण्डलता। उष्णीषशिरस्कता। पृथुतनुजिव्हता। ब्रह्मस्वरता। सिंहहनुता। सुशुक्लदन्तता। समदन्तता। अविरलदन्तता। समचत्वारिंशद्दन्तता अभिनीलनेत्रता। गोपक्ष्मनेत्रता चेति। दशपरिमाणमस्याः संहतेरिति 'दशिका'। ताश्चतस्रः। चत्वारिंशदित्यर्थः। गोवृषौ गोबलीवर्दौ। अथवा 'गोवृषः' पुङ्गवः। सर्वैकत्वेन 'द्वांत्रिशदेतानि हि लक्षणानि'। एषां व्याख्यानं च हेतुश्च पूर्वनिमित्तता च धर्मदान (?) सूत्रे।



[192] यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः।

तस्य तस्य प्रपूर्यायं समुदागमलक्षणः॥८-१८॥



अत्र

'यस्य यस्य लक्षणस्य यो यो हेतुः प्रसाधकः।

तस्य तस्य प्रपूर्यायं समुदागमलक्षणः'॥

अयं साम्भोगिकः कायः। कस्य पुनः को हेतुरित्याह।



[193] गुरूणामनुयानादि दृढता संवरं प्रति।

संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः॥८-१९॥



[194] वध्यमोक्षाः समादानं विवृद्धिः कुशलस्य च।

इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः॥८-२०॥



तत्र गुरूणामनुगमनप्रत्युद्‍गमानाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुपानप्रभृतिषु च परिचारदानाच्चक्राङ्कहस्तपादता। दृढसमादानत्वात् सुप्रतिष्ठितपादता। संग्रहवस्तूनामासेवनाज्जालहस्तपादता। प्रणीतान्नपानादिदानान्मृदुतरुणहस्तपादता सप्तोच्छदता च। 'वध्यमोक्षाः' इति बहुवचनामाद्यर्थम्। वध्यमोक्षणाज्जीवितानुग्रहकरणात्। प्राणातिपातविरतेश्चासेवनाद्दीर्घाङ्गुलिता आयतपार्ष्णिता बृहदृजुगात्रता च। कुशलधर्मसमादानस्य विवर्धनादुच्छंखपादता। ऊर्ध्वाङ्गिरोमता च। 'इत्यादिक' एवमादिकः। 'यथासूत्रं' इति यथा पठिष्यति धर्मदाने। महापुरुषकारत्वात् महापुरुषास्तथागता महाबोधिसत्त्वाश्च। तेषां द्योतकानि महापुरुषलक्षणानि द्वात्रिंशत्। तेषामेव शोभाकरणादशीत्यनुव्यञ्जनानि। तान्यधिकृत्य द्वादशश्लोकाः-



[195] ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्‍गुलयो मुनेः।

वृत्ताश्चितानुपुर्वाश्च गूढा निर्ग्रन्थयः शिराः॥८-२१॥



अनेनाष्टावनुव्यञ्जनान्युक्तानि। ताम्रनखता स्निग्धनखता तुङ्गनखता च। वृत्ताङ्गुलिता चिताङ्गुलिता अनुपूर्वाङ्गुलिता च गूढशिरता निर्ग्रन्थिशिरता चेति।



[196] गूढौ गुल्फौ समौ पादो सिंहेभद्विजगोपतेः।

विक्रान्तं दक्षिणं चारु गमनमृजुवृत्तते (ता)॥



[197] मुष्टानुपूर्वते



इति षडक्षराधिकेन श्लोकेन द्वादश। गूढगुल्फता। अविषमपादता। सिंहविक्रान्तगामिता। हंसविक्रान्तगामिता। वृषभविक्रान्तगामिता। प्रदक्षिणावतंगामिता। चारूगामिता। अवक्रगात्रता। वृत्तगात्रता। मृष्टगात्रता अनुपूर्वगात्रता चेति॥



मेध्यमृदुत्वे शुद्धगात्रता।

पूर्णव्यञ्जनता चारूपृथुमण्डलगात्रता॥८-२३॥



इति षडिंवशत्याक्षरैः पञ्चानुव्यञ्जनानि। शुचिगात्रता मृदुगात्रता विशुद्धगात्रता परिपूर्णव्यञ्जनता चारुपृथुमण्डलगात्रता चेति।



[198] समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता।

अदीनोच्छदगात्रत्वं सुसंहतनगात्रता॥८-२४॥



अनेन षट्। समक्रमता विशुद्धनेत्रता सुकुमारगात्रता उत्सदगात्रता सुसंहतनगात्रता चेति॥



[199] सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता।

वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता॥८-२५॥



[200] दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता।

अनेन सार्धश्लोकेन नव। सुविभक्ताङ्गप्रत्यङ्गता वितिमिरशुद्धालोकता मृष्टकुक्षिता अभग्नकुक्षिता अक्षामकुक्षिता गम्भीरनाभिता दक्षिणावर्तनाभिता समन्तप्रासादिकता चेति॥



समाचारः शुचिः कालतिलकापगता तनुः॥८-२६॥



[201] करौ तूलमृदुस्निग्धगम्भीरायतलेखता।

नात्यायतं वचो बिम्बप्रतिबिम्बोदयास्यता॥८-२७॥



बिम्बानां प्रतिबिम्बोदयोऽस्मिन्निति तथोक्तमास्यं मुखमस्येति 'बिम्बप्रतिबिम्बोदयास्यः'। अनेन सार्धश्लोकेनाष्टौ। शुचिसमाचारता व्यपगततिलकगात्रता तूलसदृशसुकुमारपाणिता स्निग्धपाणिलेखता गम्भीरपाणिलेखता आयतपाणिलेखता नात्यायतवदनता बिम्बप्रतिबिम्बदर्शनवदनता चेति।



[202] मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता।

चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः॥



[203]अनुपूर्वोदगतास्तुङ्गा नासिका परमं शुचिः॥८-२८॥



'परमं' अत्यन्तम्। अनेन सार्धश्लोकेन द्वादश। मृदुजिव्हता तनुजिव्हता रक्तजिव्हता च। गजगर्जितजीमुतघोषता। मधुरचारुमञ्जुस्वरता वृत्तदंष्ट्रता तीक्ष्णदंष्ट्रता शुक्लदंष्ट्रता समदंष्ट्रता अनुपूर्वदंष्ट्रता तुङ्गनासिकता शुचिनासिकता चेति॥



विशाले नयने पक्ष्म चित्तं पद्मदलाक्षिता॥८-२९॥



[204] आयतश्लक्ष्णसुस्निग्धसमरोमे भ्रुवौ भुजौ।

पीनायतौ समौ कर्णावुपघातविवर्जितौ॥८-३०॥



[205] ललाटमपरिम्लानं पृथु पूर्नोत्तमाङ्गता।



समरोमे इति स्त्रियां डाप्। अनेन श्लोकद्वयेन त्रयोदश। विशालनयनता चितपक्ष्मता सितसितकमलदलनयनता आयतभ्रूता श्लक्ष्णभ्रूता स्निग्धभ्रूता समरोमभ्रूता पीनायतभुजता समकर्णता अनुपहतकर्णता सुपरिणामितललाटता पृथुललाटता परिपूर्णोत्तमाङ्गता चेति॥



भ्रमराभ्राश्चिताः श्लक्ष्णा असंलुडितमूर्तयः॥८-३१॥



[206] केशा अपरुषाः पुंसां सौरभ्यादपहारिणः।

श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम्॥८-३२॥



अनेन सार्धश्लौकेन सप्त। भ्रमरसदृशकेशता चितकेशता श्लक्ष्णकेशता असंलुडितकेशता अपरुषकेशता श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादता चेति॥



सर्वैकत्वेन बुद्धानामशीतिरनुव्यञ्जनानि॥

इति साम्भोगिकः कायः॥

नैर्माणिकं कायमधिकृत्य शास्त्रम्-



[207] करोति येन चित्राणि हितानि जगतः समम्।

आ भवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः॥८-३३॥



[208] तथा कर्माप्यनुच्छिन्नमस्या संसारमिष्यते।



अतः सूत्रम्। सर्वधर्मापर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। यावन्तः स्थलजलान्तरिक्षचराणां स्थावरजङ्गमानां सत्त्वानां कायवाक्संगृहीता धर्माः सत्त्वानां विनयनाय भगवता अनन्तेषु लोकधातुषु निर्मिताः ते सर्वधर्मास्तेषामपर्यन्ततया भगवतः प्रज्ञाया अपर्यन्तता वेदितव्या। कतमस्याः ते निर्मिताः ? शून्यताऽपर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। यथा तथागतेन निर्मिताः काया अनन्तास्तथा तेषां शून्यताप्यनन्ता। केन शून्यता ? स्वाधीनैश्चिचैतसिकैर्मायापुरुषवत्। अतस्तस्यापि अपर्यन्ततयाऽपर्यन्ततेति पूर्ववत्। यथा तेषां कायवाचौ निर्मिते तथा चित्तचैतसिका अपि किन्न निर्मीयन्ते ? तदुपादानाभावात्, अपूर्वसत्त्वाप्रादुर्भावाच्च। ननु चित्तचैतसिकनिर्माणमपीष्यते बुद्धानां।



"कायवाक्‍चित्तनिर्माणप्रयोगोपायकर्मकः।"



इति वचनात्। सत्यमिष्यते। किन्तु सत्युपादाने देवताधिष्ठानेन स्वप्नदर्शनवत्। वाचा वागर्थन्नि(र्थनि)वेदनवच्च। अत आह। चित्तचरितापर्यन्ततया प्रज्ञापारमिताऽपर्यन्तताऽनुगन्तव्येति। तेषां च सत्त्वानां यथा देशितं धर्ममालम्ब्य प्रातिपक्षिकाः कुशला धर्मा उत्पद्यन्ते। तैश्च तेषां विक्षेपका अकुशला धर्माः प्रहीयन्ते। अत आह। कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणताऽनुगन्तव्येति।



अथ ये निर्मितास्ते कथं भगवतः कायाः ? भगवता निर्मितत्वादिति चेत्। मायाकारनिर्मिता गजादयस्तर्हि मायाकारस्य कायाः स्युः, स्वकायत्वेनाधिष्ठाय तेन निर्माणात्। स्वकायवच्च गमनव्याहारादिषु दुष्करेषु व्याप[आ]रणात्तेपि काया इत्ययं भगवतो नैर्माणिकः कायः।



उक्तास्त्रयः कायाः। कारित्रमिदानीं वक्तव्यम्। तत्समासत आह। सिंहनादनदनतया प्रज्ञापारमितानुगन्तव्येति। मृगाणामुत्तमः सिंहः। तत्साधर्म्यात् पुरुषोत्तमाः पुरुषसिंहा इत्युच्यन्ते। इह तु प्रकर्षगतेर्देवमनुष्यादिसर्वपुरुषोत्तमस्तथागतः सिंह इत्युच्यते। तस्य धर्मः सर्वाशापरिपूरणतया सर्वपरप्रवादिमृगभीषणतया च सिंहनाद इत्युच्यते। सिंहध्वजवत्। तस्य नदनो देशकः। तभ्दावस्तत्ता। तया भगवतः प्रज्ञा गन्तव्या पारगमनात् पारमिता वेदितव्येत्यर्थः। स पुनः सिंहनादनदनः सप्तविंशतिविधस्य कारित्रदेशना। सा विस्तरेण महत्योर्भगवत्योर्द्रष्टव्या। तामधिकृत्य शास्त्रम्-



गतीनां शमनं कर्म संग्रहे च चतुर्विधे॥८-३४॥



[209] निवेशनं ससंक्लेशे व्यवदानावबोधने।

सत्त्वानामर्थयाथात्म्ये षट्‍सु पारमितासु च॥८-३५॥



[210] बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये।

संकेतेऽनुपलम्भे च परिपाके च देहिनाम्॥८-३६॥



[211] बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य च वारणे।

बोधिप्राप्तौ जिनक्षेत्रविशुद्धो नियतिं प्रति॥८-३७॥



[212] अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे।

बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने॥८-३८॥



[213] विपर्यासप्रहाणे च तदवस्तुकतानये।

व्यवदाने च सम्भारे संस्कृतासंस्कृते प्रति॥८-३९॥



[214] व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम्।

धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम्॥८-४०॥



भगवांस्तान्विग्रहान्निर्मिमीते ये नारकाणां नरकाग्निनिर्वापणेन धर्मदेशनया च तथा तिरश्चां स्वमांसरुधिरादिदानेन तथा प्रेतानामन्नपानादिदानेन धर्मदेशनया च चित्तमभिप्र साद्य तेन चाभिप्रसादेन स्वगतिभ्यश्च्युतानां देवमनुष्येषूपपादयन्ति। देवानपि हीनयानाधिमुक्तिकान् धर्मदेशनयाभिप्रसाद्य मनुष्येषूपपन्नान् यावच्छ्रावकबोधौ प्रत्येकबोधौ च प्रतिष्ठापयिष्यन्तीति गतिप्रशमनकर्म॥



ये च मनुष्यान् बाह्याध्यात्मिकेष्वामिषदानेषु लौकिकलोकोतरेषु च धर्मदानेषु, अर्थचर्यायां समानार्थतायां च शिक्षयन्तीति सङ्‍ग्रहवस्तुनिवेशनकर्म॥



संक्लेशः क्लेशावरणं ज्ञेयावरणं च। व्यवदानं तयोरस्तमयः। स च पुद्‍गलधर्मनैरात्म्यज्ञानादिति संवृतिः। परमार्थस्तु [न] धर्मधातोरन्यदस्तीति संक्लेशव्यवदानज्ञाननिवेशनकर्म॥



यथा हि मायाकारो विचित्राणि वस्तूनि यावभ्दक्ष्यभोज्यानि निर्माय लोकं तोषयति। स च लोको न जानाति सर्वमेतदद्रव्यकमिति। यश्च प्रज्ञापारमितायां चरति न स धर्मधातुव्यतिरिक्तं किञ्चित्पश्यति न सत्त्वं नापि सत्त्वप्रज्ञप्तिं धर्माणामपि नैरात्म्यादिति सत्त्वार्थयाथात्म्यनिवेशनकर्म॥



स आत्मना च दानं ददाति परांश्च दाने नियोजयति दानस्य च वर्णं भाषते। ये चान्ये दानं ददति तेषा च वर्णवादी भवति समनुज्ञः। एवमात्मना च शीलं रक्षतीत्यादि वाच्यमिति षट्‍पारमितानिवेशनकर्म॥



आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते। आत्मना च पञ्चशिक्षापदानि यावदात्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयतीति वाच्यमिति बुद्धमार्गनिवेशनकर्म॥



इह बोधिसत्त्वः सत्त्वानां पारमितादीन् सर्वधर्मान् देशयति। तेषां कोटित्रयस्य फलस्य च प्रकृतिशून्यतां देशयति। ते तथा भावयन्तो विशेषमधिगच्छन्ति। ततस्ते भूयस्या मात्रया प्रकृतिशून्यतां भावयन्ति यावदनुत्तरां सम्यक्सम्बोधिमधिगच्छन्तीति प्रकृतिशून्यतानिवेशनकर्म॥





प्रकृतिशून्याः सर्वधर्माः न चान्या प्रकृतिशून्यता अन्ये धर्माः। किं तर्हि ? प्रकृतिशून्यतैव धर्माः। त एव प्रकृतिशून्यतेत्यद्वयधर्मनिवेशनकर्म॥



न सम्यक्सम्बोधौ भगवता कश्चिद्धर्म उपलब्धः। यत्पुनरभिसम्बुध्य धर्मा देशिताः स्कन्धधात्वादयो वा यावत्सर्वाकारज्ञता वा तत्सर्वं लोकव्यवहारेणेति साङ्केतिकज्ञाननिवेशनकर्म॥



यदि पारमितादिषु सर्वधर्मेषु शिक्षते तथापि सम्यक्सम्बोधये न शक्नोति। यदि पुनस्तेष्वेव चरति तेषां च कोटित्रयं फलं च नोपलभते। तदा सम्यक्‍सम्बोधये शक्नोतीत्युपलम्भनिवेशनकर्म॥



यद्यपि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सत्त्वं सत्त्वप्रज्ञप्तिं च नोपलभते तथापि संवृत्या पश्यति सत्त्वान् वस्तूपलम्भेन संक्लिष्यमानान्। स तांस्तत्प्रहाणाय त्रिषु यानेषु परिपाचयतीति सत्त्वपरिपाकनिवेशनकर्म॥



स एवमुपपरीक्षते। शून्याः सर्वधर्माः। न च शून्यता शून्यतामभिनिविशते। तस्मात्सर्वधर्मेष्वनभिनिविष्टेन भवितव्यम्। दानादिषु चरितव्यम्। न च तेषु तत्फलेषु वा गन्तव्यमिति सर्वाभिनिवेशप्रहाणनिवेशनकर्म॥



न मार्गेण बोधिः प्राप्यते नामार्गेण। यतो बोधि एव मार्गः मार्ग एव बोधिः। बोधिसत्त्व एव तर्हि बुद्धः स्यादिति चेत्। यदा सर्वबुद्धधर्मान् परिपूर्य वज्रोपमसमाधौ स्थित्वा बोधिसत्त्व एकक्षणसमायुक्तया प्रज्ञया सम्यक्सम्बोधिमधिगच्छति तदा स एव तथागतः सर्वदर्शी सर्वज्ञ इति निर्दिश्यत इति बोधिप्राप्तिनिवेशनकर्म॥



स आत्मनः परेषां च दशाकुशलसंगृहीतानि दौःशील्यानि षट्‍पारमिताविपक्षांश्च हीनयानफलानां च पञ्चानां साक्षात्क्रियास्पृहयोरवकाशं, स्कन्धधात्वादिसाश्रवानाश्रवसर्वधर्मसंज्ञादौष्ठुल्यानि च निवार्य स्वयं च पारमितादिषु सर्वकुशलधर्मेषु प्रतिष्ठितो भवति परानपि प्रतिष्ठापयति। तच्च कुशलमूलं सर्वसत्त्वसाधारणकृत्वा आत्मनः सम्यक्सम्बोधौ च सर्वाकारायां च स्वबुद्धक्षेत्रपरिशुद्धौ परिणामयति। प्रणिधानानि च बुद्धक्षेत्रपरिशुद्धये यथा सूत्रं करोतीति बुद्धक्षेत्रपरिशुद्धिनिवेशनकर्म॥



प्रथमचित्तोत्पादिक एव बोधिसत्त्वः सम्यक्सम्बोधौ नियतो भवति। नियतस्य कथमपायेषूपपत्तिरिति चेत्। यः सम्यक्सम्बोधौ चित्तमुत्पाद्य षट्‍सु पारमितासु चतुर्षु वाप्रमाणेषु चरति दश चाकुशलान् धर्मान् प्रहाय तिष्ठति। अष्टौ तस्याक्षणा न सम्भवन्ति किं पुनरपायोपपत्तिः। कथं तर्हि तिर्यग्योनौ जातकानि ? तानि साश्रवानाश्रवसर्वकुशलधर्मसमन्वागतस्य सत्त्वार्था(र्थ) वशितया संचिन्त्योपपत्तयो न च तिर्यग्दुःखवेदनाः। तद्यथा तथागतः परमवशित्वलाभात्सर्वलोकधातुषु युगपदनन्तानात्मभावान् परार्थाय निर्मिमीत इति सम्यक्सम्बोधिनियतनिवेशनकर्म॥



स हि प्रज्ञापारमितायां स्थित्वा दशसु दिक्षु गङ्गानदीवालुकोपमेषु सत्त्वानामर्थ करोति न च लिप्यते। तथा हि यः स्पृशेत्, येन स्पृशेत्, यं च स्पृशेत्, त्रीनिमान्धर्मानसौ नोपलभते शून्यतायां च स्थितः सर्वशुक्लधर्मेषु स्थितो भवति। तयैव तेषां सङ्‍ग्रात्। तथाहि सर्वधर्माः सर्वधर्मैः शून्याः। ततः शून्यतायामन्तर्भूता इत्यप्रमेयसत्त्वार्थनिवेशनकर्म॥



स एवं निरूपयति। ये ते दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ये च तेषु तथागताः सर्वे ते स्वभावेन शून्याः केवलं नामसङ्केतेन प्रज्ञप्यते। सापि प्रज्ञप्तिः स्वभावेन शून्या। यदि तु कस्यचिच्छून्यता न स्यात् प्रादेशिकी स्यात्। यतस्तु न प्रदेशिकी ततः सर्वधर्माः सर्वधर्मशून्या इति। स एवं प्रज्ञापारमितायां स्थित्वा षडभिज्ञा अभिनिर्हरति। यासु स्थित्वा दशदिक्सर्वतथागतानुपसंक्रामति पर्युपास्ते तेभ्यश्च धर्म शृणोति तेषु च कुशलमूलान्यवरोपयत्यनभिनिविष्टः। न हि शून्यतां शून्यतायामभिनिविशते। स दिव्येन चक्षुषा दशदिग्लोकधातुषु सत्त्वान् दृष्ट्वा सद्योऽभिज्ञया तत्र गत्वा तेभ्यो धर्मं देशयति। दिव्येन श्रोत्रधातुना दशदिक्सर्वबुद्धानां धर्मदेशनां श्रुत्वोद्‍गृह्य सत्त्वेभ्यो देशयति। चेतःपर्यायज्ञानेन सत्त्वानां चित्तानि विदित्वा यथाचित्तमेभ्यो धर्म देशयति। सोऽनेकविधं पूर्वनिवासमात्मनः परेषां चानुस्मरति। पूर्वतथागतदेशितांश्च धर्माननुस्मृत्यतद्विनेयेभ्यः सत्त्वेभ्यो देशयति। स आश्रवक्षयज्ञानेन सत्त्वानामनुरूपं धर्मं देशयति। स ताभिरभिज्ञाभिर्यं यमेवाकांक्षत्यात्मभावं सत्त्वानामर्थाय प्रतिग्रहीतुं तं तमेव प्रतिगृण्हाति। न च तत्र सुखदुःखानुनयप्रतिघैरूपलिप्यत इति दशदिग्बुद्धोपासनादिनिवेशनकर्म॥



कानि पुनर्बोधिसत्त्वस्य बोध्यङ्गानि ? षट्‍पारमिताश्चत्वारि ध्यानानि यावदावेणिका बुद्धधर्माः। यदि तेषु चरति कोटित्रयं च तेषां नोपलभते। यदि चात्मनः सम्यक्सम्बोधये सर्वसत्त्वानां चाग्रतायै तान् सम्यक्परिणामयति। यद्यमी बोधिसत्त्वधर्माः कतमे तर्हि बुद्धधर्माः ? एत एव। यद्योभः सर्वाकारज्ञतामभिसम्बुध्यते प्रहीणसर्ववासनानुसन्धिश्च भवति, एकक्षणसमायुक्तया च प्रज्ञया सर्वबुद्धधर्मानभिसम्बुध्यते। न चैवं बोधिसत्त्व इति बोध्यङ्गनिवेशनकर्म॥



यद्यपि स्वलक्षणशून्याः सर्वधर्मास्तथाप्यस्ति कर्म, अस्ति तेषां फलम्। न हि सत्त्वाः स्वलक्षणशून्यान् धर्मान् जानन्ति। अजानन्तः पुद्‍गलं धर्मांश्च कल्पयन्तः कर्माभिसंस्कुर्वन्ति सुचरितं दुश्चरितं वा। दुश्चरितेन त्रिष्वपायेषु पतन्ति। सुचरितैर्देवमनुष्येषूपपद्यन्ते। केचित्पुनः पुद्‍गलनैरात्म्यं परिज्ञाय सुगतिदुर्गतीः प्रहाय निर्वाणमधिगच्छन्ति। बोधिसत्त्वाः पारमितादीन् कुशलान् धर्मान्परिपूरयन्तः क्रमेण दशभूमीनधिगम्यैकक्षणसमायुक्तया प्रज्ञाया सर्वधर्मानभिसम्बुध्य बुद्धा भगवन्तो भवन्तीति कर्मफलसम्बन्धाविप्रणाशननिवेशनकर्म॥



न बोधिसत्त्वः सत्यैः सत्यज्ञानैर्वा निर्वाति। किन्तर्हि ? चतुःसत्यसमतया। या तेषां समता तथता निःस्वभावता सा न कश्चिद्धर्ममुपलभते सत्यपर्यापन्नमन्यं वा। ततः सर्वधर्माः शून्या इति पश्यन्नियायममवक्रम्य गोत्रभूमौ स्थितो भवति ध्यानान्युत्पादयत्यप्रमाणान्यारूप्यसमापत्तीश्च। स इह शमथभूमौ स्थित्वा दुःखं परिजानाति समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति। न च सत्यारम्बणं चित्तमुत्पादयति। केवलं बोधिनिम्नेन चित्तेन स्वलक्षणशून्यान्सर्वधर्मान् पश्यति। सोऽनया विपश्यनया सर्वधर्मशून्यतां पश्यति। उपायकौशल्येन च धर्मं देशयतीति चतुःसत्यदर्शननिवेशनकर्म॥



"मैत्रेय आह। यदि भगवन्नभावस्वभावाः सर्वधर्मा कथं बोधिसत्त्वेन रूपादौ शिक्षितव्यं यावद्‍बुद्धधर्मेषु ? भगवानाह। नाममात्रतया। आह। संस्कारनिमित्तेन वस्तुना अवस्तुकं नामकथनं नाममात्रम्। संस्कारो विकल्पः। तस्य निमित्तं विषयः। यत्रैवं भवति। इदं रूपमियं वेदना यावदमी बुद्धधर्मा इति भावः॥ भगवानाह॥ आगन्तुकमेतन्नामधेयमत्र प्रक्षिप्तम्। इदं रूपं यावदमी बुद्धधर्मा इति। नामाभेदेन नामा च (? नाम्यर्थ)प्रतीतेः। तस्मादलीकः शब्दार्थो व्यवहारमात्रं न वस्तु॥ आह॥ व्यवहारमात्रतापि रूपस्य स्वभाव एवेति। रूपस्वभाव उपलब्ध एव भवति। भगवानाह। न रूपस्य स्वभाव एवेति। रूपस्वभाव उपलब्ध एव भवति। भगवानाह। न तस्योत्पादनिरोधौ ततो न स स्वभावः॥ आह॥ किं पुनर्भगवन् सर्वशः स्वलक्षणेन न सन्त्येव रूपादयो यावद्‍बुद्धधर्माः ? भगवानाह। सन्ति लोकसङ्केतव्यवहारतो न नु परमार्थतः॥आह॥ यथाहं भगवतो भाषितस्यार्थमाजानामि। अनभिलाप्य एष धातुः परमार्थतः। सचेत्सस्कारनिमित्तं वस्तु स एवानभिलाप्यो धातुरिति व्याहतमेतत्॥ भगवानाह॥ यदातेऽनभिलाप्ये धातौ प्रज्ञाप्रचारो भवत्युपलभसे। तदा संस्कारनिमित्तं वस्तु। आह। नोहीति॥ भगवानाह॥ अत एव न तत्तस्मादन्यन्नाप्यनन्यत। अद्यन्यत् कुतस्तदा विनष्टम्। अथानन्यत् कुतो नोपलभ्यते। अपि च। यद्यसौ संस्कारनिमित्तादन्यः स्यादपीदानी सर्वबालपृथग्जनाः परिनिर्वायुः सम्यक्सम्बोधि चाभिसम्बुध्येरन्। अथानन्यः स्यादपीदानीं तदपि निमित्तं नोपलभ्येत॥आह॥ अनभिलाप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमाने यदि संस्कारनिमित्तं नोपलभ्यते तत्किमसन्नोपलभ्यते सद्वा ? भगवानाह। यदि विकल्पतो ग्रहणमेति न विकल्पेष्वपगतेषु तदा परिकल्पमात्रं तदिति न तस्य सत्त्वमसत्त्वं वा। आह। कतिभिराकारैर्भगवन् धर्माणां प्रज्ञप्तिः ? त्रिभिर्मैत्रेय। यदुत परिकल्पितं रूपं विकल्पितं रूपं धर्मता रूपम्। यावत्परिकल्पिता बुद्धधर्माः। विकल्पिता बुद्धधर्माः। धर्मता बुद्धधर्मा इति। तत्र या संस्कारनिमित्ते वस्तुनि रूपमिति नामसङ्केतव्यवहारं निश्रित्य रूपस्वभावतया परिकल्पना तत्परिकल्पितं रूपम्। यत्तस्य संस्कारनिमित्तस्य विकल्पमात्रतायामवस्थानं तद्विकल्पितं रूपम्। या पुनस्तेन परिकल्पितेन रूपेण तस्य विकल्पितरूपस्य नित्यकालं निःस्वभावता नैरात्म्यं तथता भूतकोटिस्तद्धर्मतारूपम्। एवं यावत्परिकल्पितविकल्पितधर्मताख्या बुद्धधर्माः। तत्र परिकल्पितं रूपमद्रव्यम्। विकल्पितं सद्रव्यं विकल्पितसद्रव्यतया, न स्वतन्त्रवृत्तितः। धर्मतारूपं नैवाद्रव्यं न सद्रव्यं धर्मताप्रभावितम्। एवं यावद्‍बुद्धधर्माः। आह। यदुक्तं भगवता। अद्वयस्यैषा गणना कृता यदुत रूपमिति यावद्‍बुद्धधर्मा इति तत्कथम् ? भगवानाह। यत्कल्पितं रूपं न तद्रूपं निःस्वभावत्वात्। न चारूपं व्यवहारतः। यद्विकल्पितं रूपं न तद्रूपं स्वतन्त्रवृत्तितः। न चारूपं विकल्पितरूपत्वात्। यद्धर्मतारूपं न तद्रूपं रूपविवेकत्वात्। न चारूपं रूपपरमार्थत्वात्। तस्मादद्वयस्यैषा गणना रूपमिति यावद्‍बुद्धधर्मा इति॥आह॥ एवमन्तद्वयं प्रहाय मध्यमाप्रतिपदं प्रतिपन्नस्य रूपे यावद्‍बुद्धधर्मेषु कथं लक्षणपरिज्ञा लक्षणप्रहाण लक्षणसाक्षात्क्रिया लक्षणभावना च ? भगवानाह॥ रूपस्य यन्न परिज्ञानं नापरिज्ञानं तदेवास्य परिज्ञानम्। एवं यावद्या भावना नाभावना सैव भावना। एवं यावद्‍बुद्धधर्माणाम्॥आह॥ एवं परिज्ञादिसमन्वागतस्य बोधिसत्त्वस्य कतमन्निर्वाणम् ? भगवानाह। गम्भीरमेषां निर्वाणं यतो न तन्निर्वाणं नानिर्वाणम्। तत्कथम् ? यतः परानारभ्य संसारापरित्याग एषां न निर्वाणम्। आत्मानमारभ्य निर्वाणापरित्याग एषां निर्वाणम्। एकात्याग इतरत्यागादयुक्त उभयोरत्याग इति चेत्। उभयोरविकल्पनादुभाभ्यां नोद्विजते। ततो युक्त उभयोरत्यागः। स तर्हि संसरति निर्वाति चेति न युक्तम् ? यद्वोधिसत्त्वस्य चित्तवशिताप्राप्तस्योपायकौशल्येन संसारसंदर्शनं सोऽस्य संसारापरित्यागः। या शून्यता या चानुपलम्भप्रतिष्ठानता सोऽस्य निर्वाणापरित्यागः॥आह॥ अविकल्पनायाः समस्तं लक्षणं कतमत् ? भगवानाह। ये च रूपादयः सर्वधर्माः। या च तेषां शून्यता। या च तेषां तस्याश्च भावाभावाद्वयता। या चाप्रपञ्चना। इदमविकल्पनायाः समस्तं लक्षणम्॥आह॥ किन्नु भगवन् सर्वेषां श्रावकाणामेकान्तेन निर्वाणप्रतिष्ठा भवति ? भगवानाह। नानाधातुके लोके नानाभूताः सत्त्वा नानागोत्रप्रकृतयः। अस्ति सा गोत्रजातिर्या आदित एव प्रणीतं विशेषं प्रार्थयते। तमेवाधिगच्छति। अस्ति या हीनं विशेषं प्रार्थयते। तमेवाधिगच्छति। तेनैव सन्तुष्यति। स शमैकायनः श्रावकः। अस्ति यो हीनं विशेष प्रार्थयते। तमेवाधिगच्छति न च तावता सन्तुष्यति। उत्तरिप्रणीतं विशेषं प्रार्थयते। स बोधिपरिणतिकः श्रावकः। सोऽर्हत्त्व प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति। तस्य तत्प्राप्तये या उपपत्तयो न ताः कर्मक्लेशवशेन। अपि त्वचिन्त्यां निर्वाणपारगामिनीमर्हतोऽप्युपपत्तिं प्रज्ञपयामि या प्रथमा गोत्रजातिः सा बोधिसत्त्वानाम्॥आह॥ आश्चर्यं भगवन् यावदुदाराशया बोधिसत्त्वा माहात्म्याशयाश्च॥भगवानाह॥ यदमी शक्रत्वलोकपालत्वचक्रवर्तित्वादिभिः सर्वलोकसम्पत्तिभिरनर्थिनोऽनुत्तरायां बोधौ कुशलं परिणामयन्ति। तासु च निःसङ्गता निरवग्रहता च। इयमेषानुदाराशयता। यत्पुनस्तदश(स)क्तिसुखमनवग्रहसुखं निर्वृतिसुखं च तत्सर्व सर्वसत्त्वसाधारणमिच्छन्तोऽनुत्तरायां बोधौ कुशलमूलं परिणामयन्ति संसारापरित्यागतया। इयमेषां माहात्म्याशयता॥आह॥ आश्चर्याद्‍भूता भगवन् बोधिसत्त्वधर्माः। तान् प्राप्तुकामैरनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयितव्यम्। इत ऊर्ध्वम्॥ सुभूतिराह॥ अभावस्वभावेषु सर्वधर्मेषु कथं कर्मफलव्यवस्थेति॥ भगवानाह॥ धर्माणामभावस्वभावमजानन्तः सत्त्वा विपर्याससमुत्थितैर्विकल्पैः कर्माणि कृत्वा यथाकर्मफलानि प्राप्नुवन्ति।" तत्र चत्वारो विपर्यासाः पुद्लनैरात्म्यविपक्षः। भावेष्वभिनिवेशो धर्मनैरात्म्यविपक्षः। अत्र च मैत्रेयप्रश्नोत्तरैर्वहवो विपर्यासा निरस्ताः। सुभूतिप्रश्नोत्तरैः कतिचित्। इति विपर्यासप्रहाणनिवेशनकर्म॥



विपर्यासेन सत्त्वाः कर्माभिसंस्कुर्वन्ति। ततः संक्लिश्यन्ते च लोकव्यवहारेण न परमार्थतः। न हि किञ्चिद्वस्त्वस्ति वालाग्रकोटीनिक्षेपमात्रकमपि यत्र स्थित्वा कर्म कुर्युः। तद्यथा स्वप्नमायादिष्विति विपर्यासनिर्वस्तुकताज्ञाननिवेशनकर्म॥



या सर्वधर्माणां समता तथता भूतकोटिस्तनिर्वाणम्। तच्च लोकव्यवहारेण व्यवह्रियते न परमार्थतोऽनभिलाप्यत्वादिति व्यवदाननिवेशनकर्म॥



यद्यपि स्वप्नमायोपमाः सर्वधर्मा निर्वस्तुकास्तथापि तदजानन्तः सत्त्वा वस्त्वभिनिवेशेन कर्माणि कृत्वा सुगतिदुर्गति गच्छन्ति। अतस्तेषां विपर्यासप्रहाणाय बोधिसत्त्वो बोधौ चित्तमुत्पाद्य संसारे चरति। यावदभिसम्बुध्य सत्त्वान् परिमोचयतीति व्यवदानसम्भारनिवेशनकर्म॥



"भगवानाह॥ न द्वयेनाभिसमयो नाद्वयेन ! एष एवात्राभिसमयो यत्र न द्वयं नाद्वयम्॥ तत्कस्य हेतोः ? प्रपञ्चो एष योऽयमेषामभिसमयः। न च धर्मसमतायां प्रपञ्चोस्ति। निष्प्रपञ्चा धर्मसमता। सैव सर्वधर्माः। सैव सर्वपृथग्जनार्यपुद्‍गलाः। सैव बुद्धरत्नं संघरत्नं च। समता हि धर्मता। न च धर्मताया नानात्वमस्ति॥ सुभूतिराह। किं धर्मता संस्कृता किं असंस्कृता॥ भगवानाह॥ न संस्कृता नासंस्कृता। यश्च संस्कृतो धातुर्यश्चासंस्कृत उभावेतौ न संयुक्तौ न विसंयुक्तौ न रूपिणौ अनिदर्शनावप्रतिघावेकलक्षणौ यदुतालक्षणौ" इति संस्कृतासंस्कृताव्यतिभेदेन ज्ञाननिवेशनकर्म॥



"भगवानाह॥ सर्वधर्माः सुभूते स्वभावेन शून्याः। ते न श्रावकैर्न प्रत्येकबुद्धैर्न तथागतैः कृताः। या च स्वभावशून्यता तन्निर्वाणं" इति निर्वाणनिवेशनकर्म॥



कारित्रस्यैव व्यापित्वं दर्शयितुमाह। सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यताऽनुगन्तव्येति। कारित्रमाचारः। आचारो धर्मः। "न्यायो हि साचारो धर्मः स्वभावश्च धर्माख्यः" इति वचनात्। सर्वो धर्मः सप्तविंशतिविधं कारित्रम्। तस्याकोप्यता अवध्यता। दशदिक्सर्वलोकधातुस्थितेषु सर्वसत्त्वेषु सर्वैराकारैः यथा भाजनमविच्छेदेन यावदाकाशं प्रवृत्तिः। तया तज्जनिकया भगवतः प्रज्ञापारमिताया अकोप्यता तादृश्येव वेदितव्या। इत्युक्तं धर्मकायस्य कारित्रम्॥



समुद्रापर्यन्ततावाक्यादिभिरकोप्यतावाक्यपर्यन्तैः प्रज्ञापारमिताया ये विशेषा उक्तास्तेषां पारमार्थिकं ज्ञानमानुपूर्व्या दर्शयितुकामः पृच्छति तत्कस्य हेतोरिति। एकक्षणाभिसमयधर्मकायसम्बन्धिभिरनुगमवाक्यैर्यदुक्तं तत्सर्वं कस्य हेतोः केन कारणेनेत्यर्थः। रूपं हीत्यादिकमुत्तरम्। इह समुद्रोऽपर्यन्तः शून्यतामात्रत्वात्। तस्याश्च प्रमाणाभात्। एवं रूपादयोपि पञ्चस्कन्धाः समुद्रसमाः। तद्वत्प्रज्ञापारमितापि। तथा हि ये च रूपादयो या च तेषां शून्यता या च प्रज्ञापारमिता सर्व एते न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना एकलक्षणा यदुतालक्षणा इति भावः। एवं गगनसमतादयोपि ज्ञातव्याः। यावदनुपलब्धिरिति। अक्लिष्टमज्ञानम्। एवं हीत्यादि। एवं हीति। यथैतेऽष्टावभिसमयाः सपरिच्छदा निर्दिष्टस्तथैवेत्यर्थः। अनुगन्तव्येति अनुसर्तव्या। ततः किं करणीयमित्याह यदेत्यादि। अनुगमिष्यतीति व्यञ्जनकायेन श्रोष्यति। व्यवचारयिष्यतीत्यर्थशरीरेण ज्ञास्यति। अवतरिष्यतीति श्रद्धास्यति। अवभोत्स्यत इति प्रज्ञास्यति। चिन्तयिष्यतीति चतसृभिर्विचारणायुक्तिभिश्चिन्तयिष्यति विचारयिष्यति। एवमेवैतन्नान्यथेति। यानि पुनः स्थानानि चिन्तयन् बालः शक्तिक्षयात् खिन्न उन्माद्येत् मूर्च्छेत् मरणं वा निगच्छेत् तानि स्थानान्यचिन्त्यानि तेषु तुलयिष्यति। यथैतानि भगवता परमयोगीश्वरेण दृष्टानि तथैव निर्दिष्टानि। अस्माकमेतान्यचिन्ता(न्त्या)नि तर्कागोचरत्वादिति उपपरीक्षिष्यत इति। एतावतैव सर्वसंशयानां छेदनादवधारयिष्यत्येवमेवैतदिति। एवमतीव च्छिन्नेषु संशयेषु भवनाया अधिकारः। अत आह। भावयिष्यतीति। चतुर्विधा भावना। शमथो विपश्यना शमथविपश्यने शमथविपश्यनाभिरतिश्च। कीदृशैर्मनसिकारैरित्याह। सर्वमायेत्यादि। अहमिति ममेति रूपमिति वेदनेत्येवमादिकः सर्वाभिनिवेशः सर्वमन्यना। मन्याशब्दाण्णिजन्ताद्यच् मन्यना। सर्वपरप्रवादिभिर्मारादिभिः क्लेशैश्च याः कम्पनाः ताः सर्वेञ्जनाः। तदा नास्य दुर्लभेत्यादि। सर्वगुणानामिति बोधिसत्त्वगुणानाम्। बुद्धक्षेत्रस्येति गुणानां परिपूरिरिति वर्तते। शेषं सुगमम्॥



सूत्रस्यार्थोऽष्टवभिसमयाः शास्त्रे प्रथममुद्दिष्टाः। त इयता विस्तरेण निर्दिष्टाः। पुनः शास्त्रम्-



'लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः।

तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः॥'



अथवा षडर्थाः सूत्रस्य। सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता चेति त्रयमेतल्लक्षणं प्रज्ञापारमितायाः। यतस्त्रिविधैव सा। चतुर्थः सर्वाकाराभिसम्बोधिः। सोऽस्यां प्रयोगः। चर्येत्यर्थः। पञ्चमो मूर्धाभिसमयः। सोऽस्यां प्रयोगप्रकर्षः। षष्ठोऽनुपूर्वाभिसमयः सोऽस्यां प्रयोगानुक्रमः। अनुपूर्वप्रयोग इत्यर्थः। सप्तम एकक्षणाभिसमयः। सोऽस्यां प्रयोगनिष्ठाः। अष्टमो धर्मकायः। सोऽस्यां विपाकः। प्रधानफलमित्यर्थः। पुनः शास्त्रम्-



'विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः।

धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः॥'



अथवा त्रयोर्थाः सुत्रस्य। हेतुः प्रयोगः फलं च। तत्र त्रिविधः प्रयोगविषयो हेतुः। सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता च। चत्वारोऽर्थाः प्रयोगः प्रयोगसामान्यात्। सर्वाकाराभिसम्बोधो मूर्धाभिसमयोऽनुपूर्वाभिसमय एकक्षणाभिसम्बोधश्चेति। फलं धर्मकायः कर्म च। विनापि तेनार्थगतेः। अर्थसंग्रहः सकलसूत्रार्थस्य संक्षेपः। तत्र प्रथमोऽष्टधा। द्वितीयः षोढा। तृतीयस्त्रेधा॥



अनुगमस्य वाचकः परिवर्तोऽनुगमपरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचिताया एकोनत्रिंशत्तमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project