Digital Sanskrit Buddhist Canon

अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XXVIII

अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः।



मायोपमसारपरिवर्ताभ्यां दर्शनहेया विकल्पा उक्ताः। दर्शनमार्गादेश्च प्रज्ञापारमिताविहारस्यावश्यकं बोधिप्रापकत्वमुक्तम्। ततस्तस्य तथाभावे कारणत्रयमनेन परिवर्तेन प्रथमं वक्ष्यति पश्चाद्वोधिलक्षणम्। अतः कारणत्रयमधिकृत्य शास्त्रम्-



[142] बोधौ संदर्शनाऽन्येषां तद्धेतोश्च परीन्दना।

तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः॥५-१७॥



तस्या बोधेर्यथोक्तात् प्रज्ञापारमिताविहारादवश्यं प्राप्तिः 'तत्प्राप्तिः'। तस्या 'अनन्तरो' ऽविनाभावी'हेतुः' ज्ञापकस्त्रिविध उक्तः सूत्रे। 'बोधौ सन्दर्शना' व्याकरणं यद् 'अन्येषां' स प्रथमो हेतुः। भाविनां बोधिहेतोरार्यानन्दाय 'परीन्दना' द्वीतीयो हेतुः। 'पुण्याबाहुल्यलक्षणः' तृतीयः। अतः सूत्रम्॥ अथ खल्वित्यादि अवकीर्णकुसुमनामानो व्याकर्तव्याः। ततो देवैः पुष्पमानीतं व्याकर्तव्यैरवकीर्णं ततो रश्मीनां निश्चारप्रवेशौ। आनन्दपृष्टेन भगवता तेषां व्याकरणम्। तत्तेषां व्याकरणमन्यस्मिन्विशिष्टे लोकधातावितिलक्ष्यते लोकधातोरनिर्देशात्। आयुःसद्धर्मशितिकालयोश्चयतत्वात्। तदनु तस्मात्तर्हीत्यादिना उपसंहारो विहर्तव्यान्तः। इति प्रकृतेन विहारेण बोधिप्राप्तेः प्रथमं कारणम्॥



ततो ये हीत्यादिना सम्यक्सम्बुद्धानामित्येतदन्तेन प्रज्ञापारमिताचारिणां गुणानाह। ततो ये चैनामित्यादिना वेदितव्यान्तेन येप्येनां श्रुत्वा न प्रतिक्षिपन्ति तेषां गुणमाह। अत्र प्रतिक्रोशणं मानसी निन्दा। प्रतिवहनं मनसा त्यागः। प्रतिकोपनं तस्मै कोपः। प्रतिसंहरणं गुप्तौ स्थापनम्। प्रतिषेधनं निःसारताख्यापनम्। प्रतिक्षेपोऽसभ्दूतबाधकाभिधानम्। तदव्यवसायः सप्तमः। ततः किञ्चापीत्यादिना चरितवतेत्येतदन्तेन हीनयानापतने कारणद्वयमाह। प्रणिधानादिनाविसंवादितां कृतज्ञतां चेति। तदेवं ये हि केचिदित्यादिना विस्तरेणोपोद्‍घातं कृत्वा तस्मात्तर्हीत्यादिना परीन्दनामाह। परीन्दना समर्पणा सैवानुबन्धिनी अनुपरीन्दना। अक्षरसन्निपातादिति। अक्षरसन्निपातो व्यञ्जनकायः। तमधिकृत्येति ल्यप् लोपे पञ्चमी। किमर्थमित्याह। उद्ग्रहणायेत्यादि। कथं परीन्दनेत्यत आह। यथेयं नान्तर्द्धीयेतेति। यथेयमन्तर्हिता न स्यात्तथा त्वया करणीयमित्यर्थः। अत ऊर्ध्वं स चेदित्यादिना आहारिकेत्येतदन्तेन द्वितीयमुपोद्‍घातं कृत्वा तस्मात्तर्हीत्यादिना द्वितीया परीन्दना। अत्र पुनरेवेति पश्चात्। नाशयेरिति हारयेः। शीघ्रमननुश(स)रणात् उत्सृजे। स्मर्तुमशक्यत्वात् विस्मरेः। अपराद्धः कृतापराधः। आराधनमारागणं च तोषणम्। माता बीजधा[र]ना(णा)त्। जननी बीजपृष्टेः। जनयित्री उत्पादनात्। तत उर्ध्वं उद्‍ग्रहीतव्येयमित्यादिना तादृशी प्रज्ञापारमिता सदेवकस्य लोकस्य शास्तेत्येतदन्तेनोपोद्धातं कृत्वा तस्मात्तर्हीत्यादिनाऽनुशा नीत्येतदन्तेन तृतीया परीन्दना।



अत्र सुनिरुक्ता सुपठिता धर्मकायतेति प्रज्ञापारमितैव धर्मः काय एषां तत्तदिति वक्ष्यमाणेन कर्तव्यादिना सम्बध्यते। तत्र कर्तव्यमुपस्थानादि दातव्यं पुष्पादि समन्वाहर्तव्यं देशनादि। कल्याणत इति पुण्यकामतया। स्पर्शविहारत इति तेनैव सुखीभावात्। गुणवत्तयेति कल्याणादिना। भाषेये(यमि)ति वदेयम्। कल्पं वा यावत्ततो वा उपरि यदि विस्तर इष्टः स्यात्। किन्तर्हि संक्षेपेणानन्द भाषये(भाषे)। यादृश इत्यादि। ततो योपि कश्चिदित्यादिना सम्यक्सम्बोधिरित्येतदन्तेनोपोद्‍घातं कृत्वा चतुर्थी परिन्दनामाह। तमात्तर्हीत्यादिना नान्तर्धीयेत्येतदन्तेन। चतुर्थकमिति वक्तव्ये द्वितीयकमित्युक्तम्। उ(अनु)क्तानामुक्तसामान्येनैकीकरणात्। परिददामि परिन्दामि समर्पयामीत्येकोऽर्थः। एवं चतुराकारा परिन्दना द्वितीयं कारणम्॥



तत एषा ह्यानन्देत्यादिनोपाद्‍घातं कृत्वा स चेत् त्वमित्यादि नैतत्स्थानं विद्यत इति यावत्। अत्र अध्वपर्यन्तः क्षणः। विंशं क्षणशतं तत्क्षणः। तत्क्षणाः षष्टिर्लवः। लवास्त्रिंशन्मुहूर्तः। नालिका घटिका। इति पुण्यबहुत्वं तृतीयं कारणम्॥



ततोऽथ खलु भगवानित्यादिना अक्षोभ्यस्य भगवतः सबुद्धक्षेत्रस्य सपरिषदः सन्दर्शनमन्तर्धायनं च दृष्टान्तः। अत्र सागरोपमत्वमतिविस्तीर्णत्वात्। गम्भीरत्वं ध्यानसम्पदा। अक्षोभ्यत्वं प्रज्ञासम्पदा। दार्ष्टान्तिके योजयितुमाह। एवमानन्द सर्वधर्मा इत्यादि। सर्वधर्मा हीत्यादिना युक्तिमाह। न कार्यसमर्था इति प्रतिज्ञान्तरम्। निरीहका हीत्यादिना युक्तिमाह। एवं चरन्त इत्यादिनाऽनुशंसामाह। महाबोधिशब्दात् प्राक्। असङ्गतामिति निरुपल[म्भ]ताम्। अप्रतिहतज्ञानतां वा। प्रमाणं वैपुल्यनियमः। क्षयः कालनियमः। पर्यन्तः संख्यानियमः। प्रमाणबद्धेति प्रमाणपरिच्छिन्ना। अप्रमेयत्वादित्यनुपलम्भात्। क्षयोऽपचयः। परिक्षयोऽभावः। आकाशाक्षयत्वादिति आकाशवदक्षयत्वात्। कुत इत्याह सर्वधर्मानुत्पादत इति। अनुत्पन्ना सर्वधर्माः। अतस्तेषामनुपलम्भलक्षणा प्रज्ञापारमिताप्याकाशवदक्षयेति। अभिनिर्हर्तव्येति प्रत्यक्षीकर्तव्या। रूपादीनामक्षयत्वेनेति तेषामनुत्पादतः। एवमविद्यादीनाम्। इयं सेति या स्कन्धादीनामविद्यादीनां चाक्षयत्वेन। अन्तद्वयमुत्पत्तिविनाशौ मध्यमुत्पन्नस्य स्थितिः। आवेणिकोऽन्यैरसाधारणः। न च किञ्चिद्धर्ममिति स्कन्धैः संगृहीतम्। कुतः ? प्रतीत्योत्पाददर्शनात्। नित्यमित्यनादिनिधनम्। ध्रुवमिति स्थिरम्। शाश्वतमित्यनिधनम्। कारकं वेदकं वेति। ईहतुर्गृहीतुश्चाभावात्। इत उत्तरो ग्रन्थः सुबोधः सम्यक्सम्बोधरिति यावत्। इयता क्षयानुत्पादज्ञानलक्षणा बोधिरुच्यते। अत्र शास्त्रम्-



[143] क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते।

क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम्॥५-१८॥



मलाः क्लेशविकल्पाः। तेषां 'क्षयानुत्पादयोः' ये 'ज्ञाने' सा बोधिः। 'ते' च ज्ञाने तेषां 'क्षयाभावादनुत्पादाच्च यथाक्रमं' वेदितव्ये। क्षयस्यात्यन्तमसत्तया ज्ञानं क्षयज्ञानम्। अनुत्पादस्यो(स्यानु)त्पत्तिकत्वेन ज्ञानमनुत्पादज्ञानमिति भावः। अथ बोधेर्लक्षणान्तरसम्भवेपि किमर्थमिदं लक्षणमुक्तम् ? दर्शनमार्गेण क्षीणानां विकल्पानामक्षयतोऽनुत्पादतश्च व्यवलोकनार्थम्। तदेवाह-



[144] प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना।

विकल्पजातं किं क्षीणं किं वाऽनुत्पत्तिमागतम्॥५-१९॥



विकल्पानां प्रकृतिस्तथता। न कदाचित्तस्याः क्षय उत्पादो वा। जातिरेव 'जातं' प्रकारः। ततो न कश्चिद्विकल्पप्रकारो दर्शनमार्गेण क्षीण उत्पादं वा त्याजित इति॥



अन्ये त्वाहुः-



"क्षयज्ञानं तु सत्येषु परिज्ञातादिनिश्चयः।

न पुनर्ज्ञेयमित्यादिरनुत्पादगतिर्मता॥" इति॥



ते हि शस्यन्ते- सन्ति स्कन्धाः सन्ति चत्वारि सत्यानि। तत्र संक्षेपतः क्लेशदुःखयोः क्षयः पुनरनुत्पादश्च प्राप्यते। ततोः प्राप्तयोर्ये ज्ञाने ते क्षयानुत्पादज्ञाने। प्राधान्येन तथागतानां तु ज्ञेयावरणमपि क्षीयते तेषामक्लिष्टस्याप्यज्ञानस्य क्षयादिति। तन्निरासाय शास्त्रम्-



[145] सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः।

कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया॥५-२०॥



[146] नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन।

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥५-२१॥



'नाम' शब्दोऽमर्षे। 'अत्र विस्मीयते मया' इति विपक्षप्रतिपक्षयोरयोगादिति भावः। 'अतः' कारणात् 'नापनेयं किञ्चित्' पुद्‍गलस्य धर्माणां च स्वयमभावात्। 'प्रक्षेप्तव्यं न किञ्चनं' पुद्‍गलधर्मनैरात्म्ययोरनादिनिधनत्वात्। किं तर्हि ? तदुभयं 'भूतं' भूतत्वेन 'द्रष्टव्यम्'। यतो भूतं पुद्‍गलनैरात्म्यं दृष्ट्वा क्लेशावरणाद्विमुच्यते। भूतं धर्मनैरात्म्यं दृष्ट्वा ज्ञेयावरणाद् 'विमुच्यते'। तस्मादभूतानां पुद्‍गलधर्माणां दृष्टिर्विपक्षः। तेषां नैरात्म्यदर्शनं प्रतिपक्षः। उभयोस्तु नैरात्म्ययोर्भूतत्वं महारथैः क्षुण्णम्। तत इह नोच्यते॥



तस्मात्तर्हीत्यादि। क्षयानुत्पादलक्षणा बोधिसतस्या अवश्यलभ्यता कारणत्रयं च प्रसङ्गादागतम्। प्राकृतं तु मायोपमसारपरिवर्ते निर्दिष्टं दर्शनहेयानां विकल्पानां प्रहाणम्। अतो यस्माद्दर्शनमार्गेण दर्शनहेयानां विकल्पानां प्रहाणं तस्माद्धेतोः। तर्हीति दर्शनकाले प्रज्ञापारमितायां दर्शनमार्गात्मिकायां चरितव्यम्॥



तत्कस्य हेतोरिति। हेतुमुखेन दर्शनमार्गस्य लक्षणप्रश्नः। प्रज्ञापारमितायामिति। अत्रत्ये दर्शनमार्गे ध्यानपारमितेत्यत्र चार्थो गम्यते। तेनानुक्तसमुच्चयः। प्रज्ञापारमिता चेति। कुत इत्याह। प्रज्ञापारमितायां हीत्यादि। भावनापरिपूरिं षट्‍पारमिता गच्छन्तीति सम्बन्धः। सर्वा इति प्रत्येकं समग्राः सत्यः। एकैकया षण्णामपि संग्रहादिति भावः। अतश्च षडेव पारमिताषट्‍का दर्शनमार्गः। संक्षिप्ता चेयं भगवती। अतो लक्षणमात्रमस्यामुक्तम्। यथा त्वेकैकया सर्वसंग्रहस्तद्विस्तरेण महत्योर्भगवत्योरुक्तम्। अत्र शास्त्रम्-



[147] एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः।

स एकक्षणिकः क्षान्तिसंगृहीतोऽत्र दृक्पथ॥५-२२॥



एकैकमेव एकैकशः स्वार्थ शस्। तस्य भाव एकैकस्य। अव्ययत्वाद्धि लोपः। तेन 'एकैकस्यैव दानादौ' इति दानादिषु। 'तेषां' दानादीनां 'मिथः' अन्योन्यं 'यः सङ्‍ग्रहः'। सोऽस्मिन् मूर्धाभिसमये दर्शनमार्गः। स च 'एकक्षणीकः' न तु षोडशक्षणाः(णः)। स च क्षान्त्या 'संगृहीतः' न पुनरष्टाभिः क्षान्तिभिरष्टाभिर्ज्ञानैः। इति मूर्धाभिसमये दर्शनमार्गः॥



ततो भावनामार्गः। तमाह। सर्वाणि चेत्यादिना। उपायौ च कौशल्यं चेति उपत्यकौशल्यानि। तत्र निश्रयत्वादुपायौ सिंहविजृम्भितावस्कन्धकौ समाधी। कौशल्यं प्रतीत्यसमुत्पादस्यानुलोमं च व्यवलोकनम्- "अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीत्यनुलोमम्। अविद्यानिरोधात्संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते" इति प्रतिलोमम्।



तत्र सिंहविजृम्भितः समाधिः। तद्यथा-"प्रथमं ध्यानं समापद्यते। द्वितीयं तृतीयं चतुर्थम्। आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च समापद्यते। निरोधसमापत्तेर्व्युत्थितो नैवसंज्ञानसंज्ञायतनं समापद्यते। तत आकिञ्चन्यायतनं विज्ञानानन्त्यायतनं आकाशानन्त्यायतनं चतुर्थं ध्यानं तृतीयं द्वितीयं प्रथमं ध्यानं समापद्यत" इति।



अवस्कन्दकसमाधिः। तद्यथा-"प्रथमं ध्यानं समापद्यते द्वितीयं तृतीयं चतुर्थम्। आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च। ततो व्युत्थाय प्रथमं ध्यानम्। ततो निरोधम्। ततो द्वितियं ध्यानम्। ततो निरोधम्। ततस्तृतीयं ध्यानम्। ततो निरोधम्। ततश्चतुर्थ ध्यानम्। ततो निरोधम्। तत आकाशानन्त्यायतनम्। ततो निरोधम्। ततो विज्ञानानन्त्यायतनम्। ततो निरोधम्। तत आकिञ्चन्यायतनम्। ततो निरोधम्। नैवसंज्ञानासंज्ञायतनम्। ततो निरोधम्। ततोऽसमाहितचित्ते पतति। ततो निरोधं समापद्यते। ततोऽसमाहिते चित्ते तिष्ठति। ततो नैवसंज्ञानासंज्ञायतनम्। ततोऽसमाहिते। तत आकिञ्चन्यायतनम्। ततोऽसमाहिते। ततो विज्ञानानन्त्यायतनम्। ततोऽसमाहिते। तत आकाशानन्त्यायतनम्। ततोऽसमाहिते। ततश्चतुर्थं ध्यानम्। ततोऽसमाहिते। ततस्तृतीयम्। ततोऽसमाहिते। ततो द्वितीयम्। ततोऽसमाहिते। ततः प्रथमम्। ततोऽसमाहिते चित्ते तिष्ठति" इति।



तत्र प्रथमायां गतौ नव स्थानानि। द्वितीयायां सप्तदश। आगमनेऽष्टादश। अत्र शास्त्रम्-



[148] समाधिं [स] समापद्यः ततः सिंहविजृम्भितम्।

अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते॥५-२३॥



[149] कामाप्तमवधीकृत्य विज्ञानमसमाहितम्।

सनिरोधाः समापत्तीर्गत्वाऽऽगम्य न व द्विधा॥५-२४॥



[150] एकद्वित्रिचतुष्पञ्चपट्‍सप्ताष्टव्यतिक्रमात्।

अवस्कन्दसमापत्तिरानिरोधमतुल्यगा॥५-२५॥



सिंहविजृम्भितो यथा सूत्रमेव। अवस्कन्दस्तु गहनम्। तेन तस्य लक्षणमाह। 'अवस्कन्दसमापत्तिः' भवति। कथमित्याह। 'नव समापत्तीर्द्विधा गत्वा' पश्चाद् 'आगम्य'। आदौ कथं गत्वेत्यत आह 'आनिरोधम्' इति। निरोधसमापत्तिमन्ते कृत्वा। इतरा अष्टौ क्रमेण प्रागित्यर्थः। पुनः कथं गत्वेत्यत आह 'एकद्वित्रिचतुष्पञ्चषट्‍सप्ताष्टव्यतिक्रमात्'। 'सनिरोधाः' कृत्वा। काः ? इतरा अष्टौ 'समापत्तीः'। कामावचरं च 'असमाहितं' चित्तं 'अवधीकृत्य'। अन्ते गन्तव्यं कृत्वेत्यर्थः। पश्चात् कथमागत्येत्यत आह 'अतुल्यगा' इति। अतुल्यगा सती। असमाहितादसमाहितः। समाहिताच्च समाहितमगच्छन्तीत्यर्थः। इहापि 'कामाप्तमवधीकृत्य विज्ञानमसमाहितं' इति सम्बध्यते। तेनेयसमाहिताच्चित्तात्प्रभृत्यागच्छति। अन्तेप्यसमाहित एव चित्ते गत्वा तिष्ठति। इति मूर्धाभिसमये भावनामार्गः॥



सर्वाणि चोपायकौशल्यानि परिपूरिं गच्छन्तीत्युक्तम्। कथं च तेषां भावनापरिपूरिभवेत्। यदि भावनाहेयाश्चत्वारो विकल्पनवकाः क्षीयेरन्। तेषां च प्रतिपक्षा एव महत्योर्भगवत्योः पठ्यन्ते। ते तु सामर्थ्याद्‍गम्यन्ते। वयमपि तमेव पाठमभिसंक्षिप्य तान् वक्ष्यामः। तत्राद्यं विकल्पनवकमधिकृत्य शास्त्रम्-



[151] संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे।

त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि॥५-२६॥



[152] एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः।



'एकः' इति प्रथमः। 'प्रयोगाकारगोचरः' इति प्रज्ञापारमिताप्रयोगविशेषः विषयः। 'विस्तरे' 'संक्षेपे' चेति पठितव्यम्। वृत्तानुरोधात् त्वन्यथा पठितम्। विस्तरे सम्मोहो विस्तरविकल्पः। तस्य प्रतिपक्षः। बहुषु स्थानेषु बोधिसत्त्वेन शिक्षितव्यं दानादिषु यावद्वलेषु वैशारद्येष्विति॥



संक्षेपे सम्मोहः संक्षेपविकल्पः। तस्य प्रतिपक्षः न च क्वचन् शिक्षितव्यमिति। बहुनामपि तेषां न च क्वचनेति शून्यतैकरसत्वात्। सम्बुद्धैः 'सानाथ्येन' यः परिग्रहः। तदभावे विकल्पः कल्पना। तस्य प्रतिपक्षः। यः प्रज्ञापारमितायां शिक्षित्वा दानपारमितां यावत्सर्वाकारज्ञतामनुप्राप्स्यति। तेनैवं ज्ञातव्यं-दशदिक्सर्वबुद्धैः सानाथ्येनाहं परिगृहीतः स्वस्यां मातरि तेषां कृतज्ञतयेति॥



'गुणाभावो' ऽनुशंसाभावः। प्रयोगदर्शनभावानाकालभावितत्वात् 'त्रैकालिकः'। तस्मिंस्त्रयो विकल्पास्त्रिस्रः कल्पनाः। तेषां प्रतिपक्षाः। अनुशंसान् विस्तरेणोक्त्वा यथाह-'इतीमेऽनुशंसाः प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्हरतः प्रज्ञापारमितां भावयतः।" इति यथाक्रमं प्रयोगदर्शनभावनामार्गकालिकगुणाभावे त्रयो विकल्पाः।



'श्रेयसः पथि' इति निर्वाणमार्गे। प्रयोगादिभेदात् त्रिविधा सम्मोहास्त्रयो विकल्पाः। तेषां प्रतिपक्षा यथाक्रमं-"रूपवेदनादीनां शान्तवशिकतुच्छासारकतया तस्यां चरितव्यम्। आकाशशून्यताभिनिर्हारतयाऽभिनिर्हर्तव्या। आकाशशून्यता भावनयेयं भावयितव्या" इति। इति त्रयः प्रयोगादिबोधिमार्गसंमोहविकल्पाः॥



इत्युक्तो नवविधः प्रथमो ग्राह्यविकल्पः॥

द्वितीयं विकल्पनवकमधिकृत्य शास्त्रम्-



द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः॥५-२७॥



[153] अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया।

हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः॥५-२८॥



[154] भावनेऽभावने चैव तद्विपर्यय एव च।

अयथार्थश्च विज्ञेयो विकल्पो भावनापथे॥५-२९॥



द्वितीयो ग्राह्यविकल्पश्चित्तचैत्तानां या प्रवृत्तिस्तद्विषयः। कियच्चिरं चरन्नस्यां चीर्णो भवतीति प्रश्नः। उत्तरम्। प्रथमचित्तोत्पादमुपादायेति चित्तोत्पादविकल्पः॥



यावब्दोधिमण्डल मनसिकरोति। कथमियं चरितव्याऽभिनिर्हर्तव्या भावयितव्येति। आबोधिमण्डा मनसिकारविकल्पः॥



हीनयानमनसिकाराणां चावकाशं न ददातीति हीनयानयोर्मनसिकारविकल्पौ॥



सर्वाकारज्ञता मानसिकाराविप्रणाश एव चास्यां चर्या। तथा चरितव्यं यथा चित्तचैतसिका न प्रवर्तन्त इति संबोध्यमनसिकारविकल्पः॥



किं भावयन् सर्वाकारज्ञतामनुप्राप्स्यति नेति भावनाविकल्पः॥



अभावयंस्तामनुप्राप्स्यति नेति [अ]भावनाविकल्पः॥



नेति भावयन्नाभावयन्ननुप्राप्स्यति। नेति नैव भावनानाभावनाविकल्पः॥



तत्कथं तामनुप्राप्स्यति यथा तथता भूतकोटीर्धर्मधातुरित्ययथात्वविकल्पः॥



इति द्वितीयो ग्राह्यविकल्पः॥



तृतीयं विकल्पनवकमधिकृत्य शास्त्रम्-



[155] ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः।

धर्मप्रज्ञप्त्यशून्यत्वे शक्तिप्रविचयात्मकः॥५-३०॥



[156] कृतेन वस्तुनो यानत्रितये च स कीर्तितः।

दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने॥५-३१॥



अप्रज्ञपनीयाः सत्त्वाः अनुपलम्भादिति सत्त्वप्रज्ञप्तिविकल्पः॥



अप्रज्ञपनीयाः सर्वधर्मा इति धर्मप्रज्ञप्तिविकल्पः॥



अलक्षणशून्यान् सर्वधर्मान् पश्यतीत्यशून्यत्वविकल्पः॥



धर्माश्च धर्मानुपलम्भश्च यश्चाभ्यां चरति सोपि नोपलभ्यत इति शक्तिविकल्पः॥



धर्माणां प्रविचयः कर्तव्यः। स चानुपलम्भयोगेनेति प्रविचयात्मको विकल्पः॥



न च वस्तुनः कृते सोऽस्यां चरति। यतोऽकृताविकृतानभिसंस्कृता सर्वधर्मा इति वस्तूद्देशविकल्पः॥



यद्यप्यकृताविकृतानभिसंस्कृताः सर्वधर्मास्तथापि यथा कश्चित्तथागतनिर्मितोऽभिसंबुध्य धर्मचक्रं प्रवर्त्य त्रिभिर्यानैः सत्त्वान् परिमोचयति लोकव्यवहारेण न परमार्थेन तथैव च तथागतोपीति यानत्रयविकल्पः॥



यद्यपि तथागतो निर्मितान्न विशिष्यते तथापि दक्षिणाऽपरिशुद्धिः। यथा हि तथागते प्रतिष्ठापिता दक्षिणा आनिरुपधिशेषान्निर्वाणान्न क्षीयते तथाः निर्मितेपि। तथा तथागतायाकाशे पुष्पाणि क्षिपतस्तथा नमो बुद्धायेति ब्रुवतो मनसि कुर्वतो वा संज्ञां च प्रमाणीकृत्य या हि धर्मता तथागतस्य सैव विनिर्मितस्यापीति दक्षिणाऽपरिशुद्धिविकल्पः॥



चर्या पारमितादिः। तस्या विकोपनं भेदनम्। कुतः ? धर्मतातः। दानपारमिताया यावत् प्रज्ञापारमिताया वा। एवं यावत्सर्वधर्माणां धर्मतेति। कथं तर्हि भगवता धर्मा विकोपिताः ? नामनिर्मिता हि ते धर्मा निर्दिष्टा धर्माणां सूचनाय। कथं परोऽवतरेदिति। न तु धर्माणां धर्मता विकोपितेति चर्याविकोपनविकल्पः॥



चतुर्थं विकल्पनवकमधिकृत्य शास्त्रम्



[157] सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधाऽपरः।

भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः॥५-३२॥



[158] सर्वज्ञतानां तिसृणां यथास्वं त्रिविधाऽबृत्तौ।

शान्तिमार्गे तथतादिसम्प्रयोगवियोगयोः॥५-३३॥



[159] असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि।

द्वयाभावे च सम्मोहे विकल्पः पश्चिमो मतः॥५-३४॥



यैराकारैर्लिङ्गैर्निमित्तैर्धर्माः सूच्यन्ते तानि तथागतेनानुबुद्धानि। तेनोच्यते तथागतस्य सर्वाकारज्ञतेति सर्वाकारज्ञतासम्मोहविकल्पः॥



यौ च श्रावकप्रत्येकबुद्धमार्गौ ये च बोधिमार्गास्ते सर्वे बोधिसत्त्वेन परिपूरयितव्याः। तैश्च मार्गकरणीयं कर्तव्यम्। न च भूतकोटिः साक्षात्कर्तव्याऽपरिपूर्य प्रणिधानमपरिमुच्य सत्त्वानपरिशोध्य बुद्धक्षेत्रं तेनोच्यते बोधिसत्त्वस्य मार्गज्ञतेति मार्गज्ञतासम्मोहविकल्पः॥



एतावदेव सर्वं यदाध्यात्मिकबाह्या धर्माः। ते च श्रावकप्रत्येकबुद्धानां सर्वज्ञतेति सर्वज्ञतासम्मोहविकल्पः॥



सर्वधर्माणां पारं निर्वाणं गता सर्वार्था वा गताऽनयेति प्रज्ञापारमिता। सर्वधर्माणां वा पारं परमोऽर्थोऽभिन्नं तत्त्वं सोऽस्यां तथागतैर्दुष्टः। अपि चास्यां तथता भूतकोटिर्धर्मधातुरन्तर्गतस्तेनोच्यते प्रज्ञापारमितेति शान्तिमार्गसम्मोहविकल्पः॥



नेयं तथतादिभिः संयुक्ता न विसंयुक्ता। तथाहीयमरूपाऽनिदर्शनाऽप्रतिघा, एकलक्षणा यदुतालक्षणात्वादिति तथतादिसंयोगवियोगविकल्पः॥



नेयं कैश्चिदाच्छेत्तुं(?) शक्यते। तस्मादसाधारणीकृत्य समत्वसम्मोहविकल्पः॥



अस्यां चरता दुःखसमुदयनिरोधमार्गाद्यर्थेषु चरितव्यमिति दुःखादिसम्मोहविकल्पः॥



रागादयो नार्थो नानर्थ इति प्रकृतिसम्मोहविकल्पः॥



यथा न द्वयो नाद्वयो धर्म उपलभ्यते तथा नद्वयं नाद्वयं धर्ममनुप्राप्नोतीति द्वयाभावसम्मोहविकल्पः॥



इत्युक्ताः षट्‍त्रिंशभ्दावनाहेयाः विकल्पाः॥



एवं तावभ्दवतु दोषाणां क्षयो गुणानां पुनः कथमुदय इत्यत आह-



[160] आसां क्षये सतीतीनां चिरायोच्छ्‍वसिता इव।

सर्वाकारजगत्सौख्यसाधना गुणसम्पदः॥५-३५॥



[161] सर्वाः सर्वाभिसारेण निकामफलशालिनम्।

भजन्ते तं महासत्त्वं महोदधिमिवापगाः॥५-३६॥



प्रकृतिसिद्धा गुणाः केवलमाक्रान्ता [अ]गुणैराशान् चिरेण। दोषक्षयात् प्रशता (? प्रकटा ?) इ(ए)व तं बोधिसत्त्वं भजन्ते सर्वदोषप्रहाणशालिनम्। 'अभिसारः' संदोहः। शेषं गतार्थम्॥



तस्येत्यादि विवर्जयिष्यतीनि यावत्। इति भावनामार्गस्यानुशंसः॥



आनन्तर्यसमाधिर्वक्तव्यः। तमधिकृत्य शास्त्रम्-



[162] त्रिसाहस्रजनं शिष्यखड्‍गाधिगसम्पदि।

बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः॥५-३७॥



[163] कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः।

आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत्॥५-३८॥



अन्तरयितुं शक्तोऽन्तर्यः। न तथा अनन्तर्यः स्वार्थऽण्। आनन्तर्यः समाधिः स उक्तः सूत्रे। कथमानन्तर्यः ? यथा 'बुद्धत्वाप्तेरनन्तरः'। अव्यवहितौ हेतुः कथमुक्तः ? 'पुण्यबहुत्वेन'। तदपि कथमुक्तम् ? शुभं पुण्यं तदेवोपमा। तां कृत्वा। कथं तच्छुभम् ? त्रिसाहस्रजनं त्रिसाहस्रलोकधातवीर्या(या)न् सत्त्वान् 'प्रतिष्ठाप्य'। क्व ? 'शिष्यखड्‍गाधिगमसम्पदि बोधिसत्त्वनियामे च। ' शिष्याः श्रावकाः खड्‍गाः प्रत्येकबुद्धास्तेषाम्। अर्थाद्‍गम्यते बोधिसत्त्वस्य च प्राङ्‍नियामावक्रान्तेरधिगमसम्पत्तौ बोधिसत्त्वनियामे च। क्व पुनरेवमुक्तं पुण्यबहुत्वम् ? महत्योर्भगवत्यो। अस्यां कथमुक्तम् ? औपलम्भिकबोधिसत्त्वोयां (त्त्वस्य) गंगानदीवालुकोपमकल्पकृताद्दानमयात्पुण्यादेनं समाधिमन्तशोऽच्छटासंघातमात्रमपि समापद्यमानस्य बहुतरपुण्यत्वेन। एतत्कारिकायां कथमुक्तम् ? विनापि तेन चार्थगतेश्चकारस्यानुक्तसमुच्चयार्थत्वात्। 'सर्वाकारज्ञता च तत्' इति। तच्च बुद्धत्वं सर्वाकारज्ञतालक्षणम्॥



[164] आलम्बनमभावोस्याः (स्य) स्मृतिश्चाधिपतिर्मतः।

आकारः शान्तता चा [त्र]



आनन्तर्यसमाधेः 'आलम्बनमभावः' सर्वधर्माणां स्मृतिरधिपतिप्रत्ययः। 'आकारः शान्तता' सर्वधर्माकारास्तगमः। 'अत्र' सर्वाकारज्ञतायाम्-



जल्पाजल्पिप्रवादिनाम्॥५-३९॥



वादिनां जल्पैश्च जल्पैश्च प्रहृत्य युद्धं वृत्तं 'जल्पाजल्पि'। यथा दण्डादण्डि। अतः सूत्रम्। सर्वोपायकौशल्यानि परिग्रहीतुकामेनेत्यादि। उपेयत इत्युपायः सर्वाकारज्ञता। तस्मिं कौशल्यानि विप्रतिपत्तीनामपोहनानि। तानि लब्धुकामेन प्रज्ञापारमितायामिति। आनन्तर्यसमाधिलक्षणायाम्। चरितव्यं प्रयोगतो निर्हारतश्च। निर्हृत्य भावयितव्या। भावितायां तस्यामनन्तरमेव सर्वाकारज्ञतालाभे सर्वविप्रतिपत्तीनां क्षयादिति भावः। अभिनिर्हरतीति यथालम्बनं यथाधिपति यथाकारं च संमुखीकरोति। अभिनिर्हर्तव्या इति स्वरसवाहिनः कर्तव्याः। अत्ययेनेति। अत्ययोऽवधिः। अभव्यश्चेत्यादिना तथागतसमन्वाहृतस्यानुशंसमाह नन्त्वानन्तर्यसमाधिसमापन्नस्य। न हि तस्य भूयो दुर्गतिः सुगतिर्वा। अनन्तरमेव बोधिप्राप्तैः। शेषं सुगममापरिवर्तसमाप्तेः।



विप्रतिपत्तीरधिकृत्य शास्त्रम्-



[165] आलम्बनोपपत्तौ च तत्स्वभावावधारणे।

सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ॥५-४०॥



[166] प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः।

विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः॥५-४१॥



[167] लक्षणे भावनायां च मता विप्रतिपत्तयः।

सर्वाकारज्ञताधाराः षोढा दश च वादिनाम्॥५-४२॥



'षोढा दश' चेति षट्दश च षोडशेत्यर्थः। कुतः षोडश ? यतस्ताः षोडशस्वर्थेषु आलम्बनोपपत्त्यादिषु। कथं तर्हि 'सर्वाकारज्ञताधाराः' आलम्बनादिस्तासां विषयः ? विषयसम्बन्धात्तु सर्वाकारज्ञतायां विषयत्वोपचारः। तद्यथा राजपुत्रेऽपराद्धो राजन्यपराद्धो भवति। विप्रतिपत्तयोपि प्रायेण प्रतिपक्षपाठादुन्नेतव्याः।



तत्राद्या विप्रतिपत्तिः। यदि सर्वाकारज्ञताया अभाव आलम्बनं स तर्हि कतमः ? यदि धर्माणां परिकल्पितः स्वभावस्तदेवं भ्रान्तिः स्याद्वालविज्ञानवत्। अथ परतन्त्रः स कथमभावः ? अत्र परिहारः। यस्य स्वभावो नास्ति सोऽभावः। नास्ति सांयोगिकः स्वभावो धर्माणां स्वयमभावात्। अपि च तथता स्वभावो धर्माणां सा चाभाव इत्यालम्बनोपपत्तौ विप्रतिपत्तिः॥



यद्यभावाः सर्वधर्माः केनोपायकौशल्येनादिकर्मिको दानादिषु चरति ? देयदायकदानादीनामभावस्वभावावधारणमेव तस्योपायकौशल्यमिति तत्स्वभावावधारणे विप्रतिपत्तिः॥



दृष्टसत्यस्य तर्हि किमुपायकौशल्यम् ? स आर्येण चक्षुषा धर्मान् व्यवलोकयन् भावमपि परतन्त्रं स्वभावं नोपलभते। संयोगिकेन स्वभावेन परिकल्पितेन वा तस्याप्यभावात्। किं पुनरभावं परिकल्पितं स्वभावं, तस्यात्यन्तमसत्त्वात्। स दानादौ चरन् देयदायकदानादीन् प्रत्येकमभाव इति संजानीते। भावाभावानुपलम्भे कथमभावं संजानीते ? संवृत्या न तु परमार्थेन। इह दानादयः सर्वे मार्गप्रकाराः सर्वाकाराः। तेषु ज्ञाता(तो) भावाभावानुपलम्भः। ततो ज्ञानं कोटिष्वभावसंज्ञेति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः॥



या संवृतिः स एव परमार्थः। एत एकैव तयोस्तथता। अपि तु स्कन्धेषु भावसंज्ञिनां तत्परिहारार्थमभाव इति संवृत्या निर्दिश्यतेऽभावसंज्ञिनां भाव इति। परमार्थतो न भाव उपलभ्यते नाप्यभाव इति सत्यद्वये विप्रतिपत्तिः॥



प्रयोगश्चर्या। कथं चर्या ? शून्याः सर्वधर्मा इति। सर्वासु च शून्यतासु दानादौ च सर्व त्रकोटित्रयानुपलम्भेनेति प्रयोगे विप्रतिपत्तिः॥



बुद्ध इति कर्मणि निष्ठा। ततो ज्ञातः सर्वो बुद्धः स्यात्। अथ बुद्धवानिति बुद्धः केन कर्तरि क्तः ? सर्वश्च चेतनो बुद्धः स्यात्। अत्रोत्तरम्। भूतार्थ इति बुद्धः। भूता न्य(य)स्य धर्मा अभिसंबुद्धा इति वा। भूतो अस्यार्थः प्रतिविद्ध इति वा। अभिसंबुद्धा यथावत् सर्वधर्मा अस्येति वा। चतुर्ष्वपि पक्षेषु बहुव्रीहौ कृते नैरुक्तविधिः कर्तव्यः। भूतार्थ इत्यर्थो ज्ञेयः। तत्सम्बन्धाद्वोधः। समासार्थः-भूतमेवार्थो यस्य बोधस्य स बुद्धः। अन्येषामवश्यं क्वचिद्‍भ्रान्तेः। भूतार्थः कथं बुद्धः ? भूतस्य बुभ्दावो अर्थस्य सत्त्वं इति भावः। भूता अस्य धर्मा अभिसम्बुद्धा इति भूताः। भूतैरर्थैः पुरुषस्य सम्बन्धो ज्ञानकृत एव। इह तु प्रकर्षगतेरभिसम्बोधः कृत इति प्रदर्शनार्थमभिसम्बुद्धग्रहणम्। अस्येति समासार्थः। समासस्तु द्वयोरेव पदयोः। तत्र भुतशब्दस्य बुभ्दावो ध्रमस्य द्वितीयाक्षरलोपः। भूतोऽस्यार्थः प्रतिविद्ध इति। प्रतिविद्धः प्रत्यक्षार्थः। त्रिपदो बहुव्रीहिः। द्धशब्दात्पूर्वस्य शब्दस्य चुरादेशः। अभिसम्बुद्धा यथावत्सर्वधर्मा अस्येति। मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः। क्तस्य च वर्तमान इति कर्तरि षष्ठि। अत्राद्यस्य पदस्य बुशब्दः। अथ द्वितीयस्य तकारः। तृतीयस्य धशब्द इति बुद्धरत्ने विप्रतिपत्तिः॥



अथ धर्मरत्नं कतमत् ? बोधिः। सर्वधर्मोत्कृष्टत्वात्। तत्र यदि धर्मता धर्मात्पृथगेव गण्यते, 'द्वयमिदं धर्मधर्मतासंग्रहात्' इति वचनात्, तदा ताथागतं ज्ञानं बोधिः। इणजादिभ्य इति बुधेर्भाव इण। अथ धर्मतापि धर्माधर्मप्रकृतित्वात्। तदास्यैव धर्मरत्नं भूतकोटित्वात् तत्त्वशिखरत्वादित्यर्थः। तदा च कर्मणि बुधेरिण। उभयथापि बुद्धिस्ताथागते ज्ञाने प्रवर्तते प्रकर्षगतेः। तत्र धर्मतापक्षमधिकृत्याह। "बोधिः शून्यता तथता भूतकोटिर्धर्मता धर्मधातुः" इति। तत्र शून्यता लक्षणतः। तथता निर्विकारत्वात्। भूतकोटिस्तत्त्वशिखरत्वात्। धर्मता धर्मप्रकृतित्वात्। धर्मधातुरार्यधर्माणां हेतुत्वात्। पुनराह। "नामधेयमात्रमेतत् बोधिरिति" इति। इतिशब्दो भिन्नक्रमः। नामधेयमात्रमेतदिति योऽर्थः सोऽर्थो बोधिरित्यर्थः। नामधेयानामर्थशून्यता बोधिरिति यावत्। पुनराह। "अभेदार्थो बोध्यर्थः" इति। सर्वज्ञज्ञानतथतामात्रप्रख्यानात्। ज्ञानपक्षमधिकृत्याह। "बोधिस्तथताऽवितथताऽनन्यतथताऽनन्यथाभावो बोधेः" इति। तत्र बोधेस्तथतेति बोधस्य तथता। तथैव बोधरूपेणैव भावो नालीकेन रूपेण। अवितथतेत्यभ्रान्तता। अनन्यतथतेति बोधादन्योऽलीकस्तस्य तथता बोधरूपता। असता तेन रूपेण बोधस्यैव प्रख्यानात्। तद्विरहोऽनन्यतथता। अनन्यथीभाव इति। बोधस्य प्रकृतिः स्वेनात्मना प्रकाशः। तस्यान्यथीभावोऽलीकेनात्मना प्रकाशः। तद्विरहोऽनन्यथीभावः। सर्वविभ्रमविवेको ज्ञानस्य बोधिरित्यर्थः। पुनराह। "नामनिमित्तमात्रमेतद्वोधिरिति" इति। इतिशब्दो भिन्नक्रमः। नामनिमित्तमात्रमेतदिति यो बोधः सा बोधिरित्यर्थः। प्रयोग एष बोधेर्बोधिं सूचयति। न त्वयं बोधिरविकल्पत्वात्तस्याः। तत्र नामेत्यरूपिणः स्कन्धाः। तेषामलीकोऽर्थसदृश आकारो निमित्तम्। पुनराह। "बुद्धानां बोधस्तस्मद्वोधिः" इति। प्रकर्षगतेरिति भावः। पुनराह "बुद्धैरभिसम्बुद्धा तस्माद्वोधिः" इति। अर्थः प्रधानमस्मिन्वचने न शब्दः। बुद्धानामधिगतस्तस्माद्वोधिरित्यर्थः। षष्ठीसमासे कृते पूर्वपदस्य बोभावः। उत्तरपदस्य धिशब्दः शेषः। उमाशब्दवन्नियोग इति धर्मरत्ने विप्रतिपत्तिः॥



संहतत्वात् संघः। अभेद्योऽच्छेद्य इत्यर्थः। कस्मादभेद्यः। केन वा। सम्यक्सम्बोधेरभेद्यः। सदेवकेन समारकेन लोकेन हीनबोधेराहारकैर्धर्मैरकुशलैश्चेति संघरत्ने विप्रतिपत्तिः॥



'सोपाये समये मुनेः इति कारिकापाठे उपायकौशलमुपाय उक्तः। विषयेण विषयिणो निर्देशात्। अभिसमयः समयः इत्युक्तः। अयो बोधः। स(सं)शब्दः संमुखार्थः। मिथ्याज्ञानमज्ञानमेवेति भावः। मुनेरिति भावप्रधानम्। बुद्धत्वस्येत्यर्थः। उपायकौशल्यं बोधेरभिसमयं चेति समुदायार्थः। "अविरहितसर्वज्ञताचित्तो दानादिषु चरति कोटीत्रयानुपलम्भेन। न च दानादीनां विपाकमात्मनि स्पृहयति। किन्तु सर्वसत्त्वपरिमोचनाय सम्यक्सम्बोधौ परिणामयति" इत्यादिकमुपायकौशल्यं विस्तरेणेत्युपायकौशल्ये विप्रतिपत्तिः॥



अस्त्यभिसमयो निःप्रपञ्चेत्यत्र न भावो नाभाव इत्यभिसमये विप्रतिपत्तिः॥



सूत्रे प्रपञ्चशब्दः पठ्यते। शास्त्रे विपर्यासशब्दः। उभयोरेकार्थत्वात्। रूपं नित्यमनित्यं रूपं सुखं दुःखं रूपमात्मानात्मेत्यादयो विपर्यासस्यातिबहवः। संक्षेपतो यावान्विकल्पः स सर्वः प्रपञ्चः। अप्रपञ्चान्न प्रपञ्चयतीति प्रतिपक्षः। अप्रपञ्चो धर्मधातुर्निर्विकल्पत्वात्। तन्न प्रपञ्चयतीति न विकल्पयतीति विपर्यासे विप्रतिपत्तिः॥



इह बोधिसत्त्वेन दुर्गतिमार्गा ज्ञातव्याः सहेतुफलैस्तेभ्यश्च सत्त्वा निवारयितव्याः। एवं नरकिनन्नरगरुडगन्धर्वादिमार्गाः। एवं चातुर्महाराजिकानां त्रायस्त्रिंशानां यावन्नैवसंज्ञानासंज्ञायतनानाम्। एवं श्रोतआपन्नमार्गो यावदर्हन्मार्गः प्रत्येकबुद्धमार्गो बोधिसत्त्वमार्गो बुद्धमार्गश्च ज्ञातव्यः सहेतुः सफलः। ये च यस्मिन् पले व्यवस्थापनीयास्तांस्तेषु व्यवस्थापयति यावबुद्द्धत्वे। स्वयं तु हीनयानभूमीः सर्वा (र्व ?) ज्ञानेन चातिक्रम्य बोधिसत्त्वयानमवक्रामतीति मार्गे विप्रतिपत्तिः॥



इह सर्व एवार्यपुद्‍गलाः क्लेशोपक्लेशैः कामरूपारूप्यधातुभिर्बोधिपक्षैः पारमितादिभिस्तत्फलैश्च सर्वार्यधर्मेर्न संयुक्त्‍वा न विसंयुक्त्‍वा अरूपिणोऽनिदर्शना एकलक्षणा यदुतालक्षणाः। य एवं न जानन्ति तान् प्रति संवृस्या निर्दिश्यते बोधिपक्षा धर्मा बोधेराहारका बोध्यावरणानामपहारका इति विपक्षप्रतिपक्षयोर्विप्रतिपत्तिः॥



विस्तरेण भगवता धर्माणां लक्षणं देशितं सत्त्वानामवतारणाय संवृत्या परमार्थतस्तेन लक्षणे शिक्षितव्यं नालक्षणे। यतः स्थित एवैष नित्यं लक्षणधातुरिति लक्षणे विप्रतिपत्तिः॥



यद्यलक्षणाः पारमितादयो धर्माः कथमलक्षणानां तेषां भावना भवति ? "नास्ति सुभूतेऽभावस्वभावेषु धर्मेषु भावसंज्ञिनः प्रज्ञापारमिता भावनाविपर्यासात्। अपि तु सर्वासां धर्मसंज्ञानां भावनाविभावने प्रज्ञापारमिता। एवं यावन्नास्ति भावसंज्ञिनो दानपारमिता भावना। एषोहमस्मै इदं ददामीत्येवं संज्ञिनः।" एवं बोधिपक्षादिषु वक्तव्यम्। दृष्टसत्यास्तु धर्माणां केवलमभावस्वभावतां भावयन्ति न भावसंज्ञया नान्यभावसंज्ञया। संज्ञा हि प्रपञ्चः प्रज्ञापारमिता तु निःप्रपञ्चेति भावनायां विप्रतिपत्तिः।



अवकीर्णकुसुमनामानो बोधिसत्त्वा इह परिवर्ते बोधौ व्याकृताः। अतस्तैरुपलक्षितः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project