Digital Sanskrit Buddhist Canon

सारपरिवर्तो नाम सप्तविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sāraparivarto nāma saptaviṁśatitamaḥ

XXVII

सारपरिवर्तो नाम सप्तविंशतितमः।



मायोपमपरिवर्तस्यान्ते प्रथमो ग्राह्यविकल्प उक्तः। इतरे त्रयो विकल्पा इह सारपरिवर्ते वक्तव्याः। तत्र द्वितीयं ग्राह्यविकल्पमधिकृत्य शास्त्रम्।



[135] भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च।

परिग्रहस्याभावे च वैकल्ये प्रतिपद्‍गते॥५-१०॥



[136] परप्रत्ययगामित्वे समुद्देशनिवर्तने।

प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः॥५-११॥



[137] पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः।

निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः॥५-१२॥



अधिगमन्यूनतादौ दोषे बोधिसत्त्वप्रहेये[ऽ]भावान्निवृत्तिपक्षाधिष्ठानो नवविधश्च श्रावकादीनां मनोभवस्तैरहेयत्वात्। एतानाह अथ खल्वित्यादिनाऽथ खलु भगवानित्यतः प्राक्। तत्र शारिपुत्र एकमाह। ततः सुभूतिरेकं ततो देवपुत्रास्त्रीन्। पुनः सुभूतिश्चतुरः। इहापि प्रतिपक्षाः पठ्यन्ते। तद्विपर्ययेण विकल्पा गम्यन्ते। सारे बतायमिति बतशब्दो हर्षे। उत्कृष्टं फलं सम्यक्संबोधिः। सोऽनुसारः। तन्निमित्तं बोधिसत्त्वश्चरति। कतम इत्याह। य इत्यादि। प्रज्ञापारमिता चात्र उभयनैरात्म्यज्ञानमुच्यते। तस्यां चरतः संसारे नात्यन्तमुद्वेगो निर्वाणे नात्यन्तमुत्कण्ठा। उभयोरनुपलम्भत्वात्। ततोयमनुत्तरां सम्यक्सम्बोधिमधिगच्छेदिति प्रतिपक्षः। अन्यथा तु संसारे वा पतेत्पञ्चभिः पारमिताभिः। निर्वाणे वा पुद्‍गलनैरात्म्यज्ञानात्। अत एव च विना प्रज्ञापारमितया बोधिसत्त्वो बोधिसत्त्वाख्यां न लभते। तद्यथा सम्यगभिषिक्तोपि चक्रवर्तिनः पुत्रश्चक्रवर्तिशब्दं विना सप्तभी रत्नैरित्यधिगमन्यूनताविकल्पः॥



सरणं सारः। कर्म धर्मः। गम्यता सुधर्षणतेत्यर्थः। विपर्ययादसारो दुर्द्धर्षणता। अतः पारमितानां दुर्द्धर्षणत्वे स चरति यश्चरति प्रज्ञापारमितायाम्। सा हि तासां परिग्रहसमर्था। तद्यथा स्त्रीणां सधूर्तके नगरमार्गे शस्रपाणिपुरुष इति प्रतिपक्षः। अन्यथा सुधर्षणाः स्युरिति परिग्रहाभावविकल्पः॥



एतदभवदिति नमस्कर्तव्या इत्याद्यथ खल्वित्यतः प्राक्। नमस्कर्तव्यास्त इति कुतः ? प्रतिपत्तिसाकल्यादपराधीनत्वादुद्देशानिवृत्तेश्च। अत एवाहुः यैरित्यादि। सर्वमभिनिर्हृतानीति प्रतिपत्तितः पञ्चभिः पारमिताभिः। इहेत्युभयनैरात्म्यवेदिन्याम्। अत एव गम्भीरायामिति प्रतिपक्षः। तस्यामचरतां प्रतिपत्तिवैकल्यं स्यात्। ततस्ते मारादिभिः सुयोधनाः स्युः। अक्षतकवचा इव योधाः प्रतियोधैरिति प्रतिपत्तिवैकल्यविकल्पः॥



तथेत्यादि। ये चेति वर्तते। तथेति प्रज्ञापारमिताप्रधानासु पारमितासु चरन्त इति हेतौ शतृप्रत्ययः। तथा चरणादित्यर्थः। ततः किमित्याह। भूतकोटिरित्यादि। यथा हि चक्रवर्ती प्रधानं महाप्रभावत्वात्, कोद्रारातीः (? कोट्टराजानः) तदनुवर्तिनस्तथैव प्रज्ञापारमिता प्रधानं तया संसारनिर्वाणयोरनुपलम्भात्। यथा ते पारमिताभिः संसारे न पात्यन्ते तथा पुद्‍गलनैरात्म्यज्ञानवशेन भूतकोटिं न साक्षात्कुर्वन्ति। यदि तु प्रज्ञापारमिता प्रधानं न स्यात् तदा हीनबोधिं भूतकोटिं साक्षात्कुर्युरेवेति परप्रत्ययगामित्वविकल्पः॥



अनेनापीत्यादि। अनेनेति वक्ष्यमाणेन। तमेवाहुर्य इत्यादिना न साक्षात्कुर्वन्तीति। कुतः? उद्देशः सम्यक्संबोधौ लित्सा। कुतस्तस्मादनिवृत्तिः ? यतो न तावत्प्रज्ञापारमिता ततो निवर्तते तदर्थमेव तस्यां चरणात्। नापीतराः। तदनुप्रविष्टानां तासामप्यनिवृत्तेः। तद्यथा सर्वाः कुनद्यो महानदीमनुप्रविश्य समुद्रमेव गच्छन्ति न निवर्तत इत्युद्देशनिवृत्तिकल्पः॥



नवाप्येते विकल्पा महत्योर्भगवत्यो स्वार्थसम्पत्तिमधिकृत्य योजिताः। अतः प्रादेशिकत्वनानात्वविकल्पौ यथा तयोरुक्तौ तथा तावद् ब्रूमः। पारमितापञ्चकं वामहस्तवत्। षष्ठी दक्षिणहस्तवत्। उभाभ्यां सर्वकृत्येषु व्यापारसिद्धेरिति प्रतिपक्षः। यदि तु दक्षिणहस्तप्राया षष्ठी न स्यात्तदा प्रादेशिकः स्याद्व्यापार इति प्रादेशिकविकल्पः॥



यथा हि नानारसाः कुनदीमहानद्यो महासमुद्रमनुप्रविश्यैकरसा भवन्ति तथा नानारसाः पञ्च पारमिताः षष्ठीमनुप्रविश्यैकरसा भवन्तीति प्रतिपक्षः। नानारसाः तथैव ताः सम्यक्सम्बोधावपीति नानात्वविकल्पः। अस्यां तु भगवत्यां परार्थसन्नाहमधिकृत्य द्वाविमौ विकल्पौ सुभूतिराहेत्यादिना। अथ खल्वित्यादिना तत्र सन्नह्यन्त इत्यनेन दुष्करत्वं दर्शितमनन्तानां सत्त्वानामर्थस्य कर्तुमशक्यत्वात्। तथाप्येवमेव सन्नाहः कर्तव्य ईदृशीं महाशयतामन्तरेण स्वपरार्थयोः कर्तुमशक्यत्वादिति प्रतिपक्षः। सर्वसत्त्वानामर्थस्य केनचिदकरणादात्मविनेयानामर्थाय सन्नाहः कर्तव्य इति प्रादेशिकत्वविकल्पः॥



नानात्वविकल्पप्रतिपक्षः समता। तामेव विवक्षुः परमदुष्करत्वमाह ते चेत्यादिना। वैनयिका इति विनयार्हाः सत्त्वाः। तथापि कस्य दुष्करतेत्यत आह। एवं चेत्यादि। दृष्टान्तेन दृढीकर्तुमाह। आकाशमित्यादि। तत्कस्य हेतोरिति कुतः साधर्म्यादित्यर्थः। अत उत्तरं आकाशेत्यादि। अनेनेत्युपसंहारः। पुनद्‍र्दृढीकर्तुमाह। आकाशेनेत्यादि। आकाशोपमैः सत्त्वैरित्यर्थः। कुतो विवाद इत्याह। अयं चेत्यादि वेदितव्यान्तम्। चशब्दो हेतौ। विवादः कलहः। सत्त्वानयं विनेतुकामस्ते चासत्त्वात्परिहरन्तीति कलहः। वैनयिकेत्यादि। यथा च विनेया न सन्ति तथा विनयितापि। तत उभयासत्तया सुतरां परमदुष्करता। एवमियं बोधिसत्त्वेन सर्वसत्त्वात्मसमता द्रष्टव्या यतः शक्नुयात् स्वपरार्थौ कर्तुम्। स पुनरस्यां चरन् कथं ज्ञेय इत्याह। स चेदित्यादि। न संसीदतीति न खिद्यते सुतरां प्रीयत इत्यर्थः। तत्कस्य हेतोरिति। मत्तस्य प्रज्ञापारमितायां चरणं कस्य हेतोर्नैव कस्यचित्। धर्मनैरात्म्याऽदर्शनादिति भावः। अत उत्तरं सत्त्वविविक्ततयेत्यादि। एवमित्यादिना द्रष्टव्यान्तेनोपसंहारः। विविक्तता हि सर्वधर्माणां समतेति विस्तरेण प्रतिपक्षः। नाना सत्त्वा नाना धर्मास्ततो नास्त्येकरसा प्रज्ञापारमितेति नानात्वविकल्पः॥



एवं देवपुत्रा इत्यादि। एव भाष्यमाणायामिति। एवमिदानीं मया देश्यमानायां सर्वधर्मविविक्ततायामिति चर्याकाले देश्यमानायां बोधिसत्त्वो न संसीदतीति सम्बन्धः। न संसीदतीति स्थानप्रस्थानयोर्न मुह्यति। केन गन्तव्यं क्व वा स्थातव्यमिति। तयैव सर्वधर्मसमतासंवेदिन्या प्रज्ञापारमितयोरसंमोहात्। तथाहि। येन बोधिस्तेन गन्तव्यं बोधौ स्थातव्यम्। ते च गतिस्थिती तस्या एव स्वाधी ने हेतुफलावस्थे। ततो येन सा गच्छति यत्र वा तिष्ठति तत्परिणामिता अपि पञ्च पारमितास्तेनैव गच्छन्ति तत्रैव तिष्ठन्ति। तद्यथा चक्रवर्तिनश्चक्ररत्नं येन गच्छति यत्र वा तिष्ठति सर्वो बलकायस्तेनैव गच्छति तत्रैव तिष्ठतीति प्रतिपक्षः। अविज्ञाः पञ्चपारमिताः षष्ठी निराभासा। ततः स्थानप्रस्थानयोरनिश्चयः स्थानप्रस्थानं(न)सम्मोहविकल्पः॥



यत इत्यादि न संसीदतीति प्रसादितमेतत्। यतश्च न संसीदति ततो गम्यते चरति प्रज्ञापारमितायां पूर्वमेवेति शेषः। अन्यथा कुतो न संसीदेत्। तद्यथा चक्रवर्तिनश्चक्ररत्नमग्रतो गच्छति पश्चाद्‍बलकाय इति प्रतिपक्षः। उदारविषयत्वात्पञ्चपारमिताः प्राक् प्रवर्तन्ते। सूक्ष्मविषयत्वात् पृष्ठतः षष्ठीति पृष्ठतो गमनविकल्पः॥



इत्युक्तो द्वितीयो ग्राह्यविकल्पो नवविधः॥



प्रथमं ग्राहकविकल्पमधिकृत्य शास्त्रम्-



[138] ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षण।

मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च॥५-१३॥



[139] स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः।

श(स)क्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ॥५-१४॥



द्रव्यसन्नात्मा 'प्रथमो ग्राहकः'। स चास्ति प्रज्ञापारमितावत्। सा हि किञ्चिद्‍गृण्हाति किञ्चिन्मुञ्चतीति ग्रहणमोक्षणविकल्पः। सापि न गृण्हाति न मुञ्चतीति प्रतिपक्षः॥



गृह्यन्त एव धर्मास्तेषां मनसिकारादिति मनसिकारविकल्पः। न स धर्मान्मनसिकरोतीति प्रतिपक्षः॥



मनसिकरोत्येव धर्मास्त्रैधातुके श्लेषादिति त्रैधातुकश्लेषविकल्पः। नासौ त्रैधातुके श्लिष्यतीति प्रतिपक्षः॥



त्रैधातुके स्थितः कथं तत्र न श्लिष्यतीति स्थानविकल्पः। नासौ क्वचित्तिष्ठतीति प्रतिपक्षः॥



सत्यभिनिवेशे कथं न तिष्ठतीति अभिनिवेशविकल्पः। नासौ किञ्चिदभिनिविशत इति प्रतिपक्षः॥



अस्ति बोधिसत्त्वस्य धर्मवस्तूनां प्रज्ञप्तिः। दानपारमिता शीलपारमिता यावत् सर्वाकारज्ञतेति सर्ववस्तुप्रज्ञप्तिविकल्पः। साप्यस्य नास्तीति प्रतिपक्षः॥



श(स)क्त एव सम्यक्सम्बोधौ तामभिसम्बुध्यते। अन्यथा वैमुख्यादिति श(स)क्तिविकल्पः। अश(स)क्ताः सर्वधर्मा अपरिगृहीताः। न चाश(स)क्तः किञ्चिदभिसम्बुध्यते। स चेदेवं चरति चरति प्रज्ञापारमितायामिति प्रतिपक्षः॥



दानपारमिताऽशून्या शीलपारमिताऽशून्येत्येवमादि प्रतिपक्षविकल्पः। सोपि बोधिसत्त्वस्य नास्तीति प्रतिपक्षः॥



सर्वाकारैः सर्वधर्माणामनुपलम्भे यथेच्छगमनं तस्य क्षतिः। सा बोधिसत्त्वस्यास्तीति यथेच्छगमनव्याघातविकल्पः। सोपि तस्य नास्तीति प्रतिपक्षः।



अमी नव प्रभेदा महत्योर्भगवत्योरुक्ताः। अस्यां तु सामान्येन द्रव्यसद्‍ग्राहकविकल्पं सप्रतिपक्षमाह। अथ खल्वित्यादिना नापीत्यतः प्राक्। जानन्नेवेति न हि भगवतः किञ्चिदज्ञातमस्ति। बोधिसत्त्वो महासत्त्व इति लोकप्रसिद्धितो द्रव्यसत्पुद्‍गलरूपः स केन कारणेन न संसीदतीति द्रव्यसद्‍ग्राहकविकल्पः। तस्य प्रतिपक्षोऽनुपलम्भः। तमेवाह। विविक्तत्वादित्यादिना। असत्त्वादित्यर्थः। स हि स्वयमसत् कुतः संसीदतीति।



द्वितीयं ग्राहकविकल्पमधिकृत्य शास्त्रम्-



[140] यथोद्देशमनिर्याणे मार्गामार्गावधारणे।

सनिरोधे समुत्पादे वस्तुयोगवियोगयोः॥४-१५॥



[141] स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः।

प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः॥४-१६॥



एते नव विकल्पाः पृथग्जनानां प्रथमस्यैव भावान्न तेषां धर्माः। तैरप्रहेयत्वात्। तेषां प्रतिपक्षः षष्ठी यथा सूत्रम्। यथा सारथिरश्वानां सन्मार्गेण यथोद्देशं नेता तथा षष्ठी पञ्चानामिति प्रतिपक्षः। षष्ठ्यभावान्नियन्तुरभावाद्यथोद्देशानिर्याणविकल्पः।



सर्वाकारज्ञतामार्गो बोधिसत्त्वानां मार्गः। हीनबोधिमार्गस्तेषाममार्गः। तयोरवधारणं षष्ठ्यैवेति सैव प्रतिपक्षः। तदभावे मार्गामार्गावधारणविकल्पः।



नैषा कस्यचिद्धर्मस्योत्पादिका निरोधिका वा धर्मतां प्रमाणीकृत्येति प्रतिपक्षः। उत्पादिका बुद्धधर्माणां निरोधिका तदावरणानामित्युत्पादनिरोधविकल्पः।



सर्वधर्मा न संयुक्ता न विसंयुक्त इति प्रतिपक्षः। संयुक्ता विसंयुक्ता वेति संयोगवियोगविकल्पः।



रुपादौ यावत्सर्वाकारज्ञतायां न स्थास्यतीति योगः करणीयः। सर्वधर्माणां क्वचिदप्यस्थितत्वादिति प्रतिपक्षः। रूपे यावत्सर्वाकारज्ञतायां स्थास्यतीति स्थानविकल्पः॥



यथा हि फलकामो बीजमवरोप्य सम्यक् सवर्ध्य यावत्फलानि परिपाच्य भक्षयति। एवं महाबोधिकामः पारमितासु शिक्षित्वा ताभिः सत्त्वाननुगृह्य संसारान्मोचयतीति प्रतिपक्षः। बोधौ चित्तमुत्पाद्य सत्त्वानुपेक्षत इति गोत्रविप्रणाशविकल्पः॥



प्रार्थितोऽर्थः प्रार्थना। सर्वधर्मवशवर्तितामनुप्राप्तुकामेन षष्ठ्यां शिक्षितव्यमिति प्रतिपक्षः। तच्च शिक्षमाणे सा न स्यादिति प्रार्थनाभावविकल्पः॥



षष्ठी हेतुः सर्वधर्माणां समुद्र इव सर्वरत्नानां तया परिभाविता हि शुक्लधर्मा बुद्धधर्मा भवन्तीति प्रतिपक्षः। षष्ठ्यभावे हेतुर्न स्यादिति हेत्वभावविकल्पः॥



प्रज्ञापारमितायां चरन्तं त्रैयध्विका बुद्धाः समन्वाहरन्ति। न च रूपादितो यावन्न सर्वाकारज्ञतातः। अपि तु यत्र न रूपादि यावद्यत्र न सर्वाकारज्ञता तथा समन्वाहरन्तीति प्रतिपक्षः। रूपादितो यावत्सर्वाकारज्ञतातः समन्वाहरन्तीति प्रत्यर्थिकधर्मोपलम्भविकल्पः॥



एतेपि न व प्रभेदाः महत्योर्भगवत्योरुक्ताः। अस्यां तु सामान्येनैव प्रज्ञप्तिसंग्राहकविकल्पं सप्रतिपक्षमाह। नापीत्यादिना अपि तु खल्वित्यतः प्राक्। कश्चिद्धर्म इति आत्मप्रज्ञप्तिविषयः स्कन्धादिः। न संसीदतीति स्वयमसत्त्वात्। अत एवाह। तत्कस्येत्यादि। कश्चिद्धर्म इति स्कन्धादि चित्तं वा। सोपीत्यादि। येन धर्मेणेति चित्तेन यो धर्म इति बोधिसत्त्वः। एवमेतदित्यादिरभ्युपगमः। इयता प्रतिपक्ष उक्तः।



मा भूद् द्रव्यसत्सत्त्वः। अहंकारविषयः स्कन्धादिश्वत्तं वा बोधिसत्त्व इति प्रज्ञप्तिसंग्राहकविकल्पश्चतुर्थः॥



एवं भगवता चतुर्विधाविकल्पप्रतिपक्षभूता भगवती विस्तरेण देशिता। बोधिसत्त्वस्तु तस्यां चरन् यथा ज्ञेयस्तदाह। अपि तु खल्वित्यादि। भाष्यमाणे ग्रन्थतः। देश्यमाने अर्थतः। निर्देश्यमाने निर्विशेषं कथनात्। उपदिश्यमाने रहस्यकथनात्। न संसीदति न मन्दीभवति। न विषीदति खेदात्। न विषादमापद्यते सन्ततखेदात्। नावलीयते चित्तनमनात्। न संलीयते सन्ततं तन्नमनात्। विपृष्ठं वैमुख्यात्। भग्नपृष्ठं पुनरसांमुख्यात्। नोत्त्रस्यति त्रासोन्मुखत्वात्। न संत्रस्यति सम्यक् त्रासात्। नैनमापद्यते सातत्येन। तदा वेदितव्यं चरत्यस्यां प्रज्ञापारमितायामिति। अस्यामचरतः संसीदनादीनामवश्यंभावात्।



सुभूतिराहेत्यादिना पारमितान्तेन सुभूतेरभ्युपगमः। एवमित्यादिना। अस्यां चरतोऽनुशंसातिशयानाह। अनुगृण्हन्ति विशेषाधानतः। समन्वाहरन्ति स्मरणतः। तेपि तस्य बुद्धा भगवन्तो धर्म देशयन्तीति सम्बन्धः। कीदृशा इत्याह। भिक्षुसंघेत्यादि। कीदृशस्येत्याह। प्रज्ञापारमितायां चरत इत्यादि। नाम चेत्यादि। नाम संज्ञा। गोत्रं गार्ग्यादि। बलं कायबलं बुद्धिबलं च। वर्णः परिशिष्टा गुणाः। रूपं वर्णसंस्थाने। एतानि परिकीर्तयमानाः प्रकर्षेण प्रकर्षरूपम्। उदानमिति गुणहर्षोभ्दवां गाथां उदानयन्त्युदाहरन्ति। कस्य गुणा इत्याह तस्येत्यादि। तद्यथापीत्यादिना दृष्टान्तमाह। एवमेवेत्यादिना दार्ष्टान्तिकम्। किं सर्वेषामित्यादिना प्रश्नः। उत्तरं नो हीदमित्यादिना। सर्वसंगाः सर्वेऽभूतोपलम्भाः। सन्ति भगवन्नित्यादिना पुनः प्रश्नः। उत्तरं सन्तीत्यादिना। इमे त इत्यादिनोपसंहारः। अपरानप्याह येपीत्यादिना। इमेपीत्यादिनोपसंहारः।



पुनरपरमित्यादिना अविनिवर्तनीयानां वशिता तस्याः प्राप्तिः। तामवक्रान्ताः प्रविष्टाः। बुद्धैर्नामादिपरिकीर्तनस्यानुशंसमाह। येषां खल्वित्यादिना पुनरपरमित्यादि। कथमधिमोक्ष्यन्तीत्याह। एवमेतदित्यादि। तेषां चेति न केवलमक्षोभ्यस्य केषामित्याह। ये चेत्यादि तेषां चेति। अक्षोभ्य-तब्दोधिसत्त्वानाम्। एवमित्यादिना श्रवणानुशंसमुपसंहृत्य तथात्वप्रतिपत्त्यादीनामनुशंसोत्कर्षमाह। एवमनुशंसातिशयेषूक्तेषु प्रकृतायाः प्रज्ञापारमिताया विशेषनिर्देश आपरिवर्तान्ताभ्दविष्यति। तं प्रस्तोतुं सुभूतिराह यदा भगवन्नित्यादि। तथताविनिर्मुक्त इति। तथतामात्रस्येव प्रख्यानात्। परिकल्पितस्य नानाविधस्याप्रतिभासनात्। न कश्चिद्धर्म उपलभ्यते। तदा कोयमित्यादि सुगमम्। तथतैव तावन्नोपलभ्यत इति तस्या अग्राह्यत्वात्। यः स्थास्यतीति बोधिसत्त्वः।



सज्जतीति विहन्यत इत्यर्थः। आरभ्येति अधिकृत्य। धर्मवादीति युक्तिवादी। धर्मस्येति बुद्धनिर्वाणस्य। अनुधर्ममनुकूलं मार्गः। व्याकुर्वन् आचक्षाणः। व्याकरोम्याचक्षे। सर्वधर्माणां विविक्तं विवेकः शून्यता। तस्मिन्विहारः समाधिः सर्वधर्माणां अनुपलम्भः। तस्मिन्विहारः यः खलु पुनरित्यादिना सुभूतेर्विहाराद्वोधिसत्त्वविहारस्योर्त्ष दर्शयति। उपपत्तिमाह। तथागतविहारं हीत्यादिना। चरतः समाधिनिष्पत्तये। विहरतो निष्पन्नेन समाधिना। शेषं सुबोधम्। दुर्बोधं तु प्रागेव व्याख्यातम्॥



सारादिः परिवर्तः सारपरिवर्त्तः।



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project