Digital Sanskrit Buddhist Canon

मायोपमपरिवर्तो नाम षड्‍विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XXVI

मायोपमपरिवर्तो नाम षड्‍विंशतितमः।



उक्ता विवृद्धिः। निरूढिर्वक्तव्या। अतः शास्त्रम्-



[128] त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा।

अपरित्यक्त्वसत्त्वार्था निरूढिरभिधीयते॥५-३॥



त्रिभिः सर्वज्ञत्वैः संगृहीता धर्माः 'त्रिसर्वज्ञत्वधर्माः'। तारणमोचनाश्वासनपरिनिर्वापणानि 'सत्त्वार्थाः'। अतः सूत्रेऽथ खल्वित्यादि विहरन्तीति यावत्। चरन्नपीति क्व चरन् ? विवृद्धौ। किं चरन् ? दानादीन्। चित्तं क्रामतीति गच्छतीति प्रसीदतीत्यर्थः। चित्तमुत्पादितमित्यहो बताहमेनामधिगच्छेयमिति। उह्यमानानिति ह्रियमानान्। समे युक्ते निर्दोषे। पारिमे तीर इति निर्वाणे। समृध्यन्तां तेषामिति चित्तोत्पादा इति परेण सम्बन्धः। अभीप्सिताः प्रीतिकरत्वात्। परिचिन्तिताः पुनःपुनरुत्पादनात्। परिगृहीता अपरित्यागयोगेन। बुद्धधर्माणामिति बुद्धः सर्वज्ञः। तस्य धर्माणामित्ययमुद्देशः।



तस्य निर्देशस्त्रिभिः सर्वज्ञत्वैः सर्वज्ञभावैः यतः स सर्वज्ञो भवति सर्वज्ञता च स्वयम्भूंत्वं च, असंहार्यता च। तत्र सर्वाकारसर्वधर्मसम्यग्ज्ञानमिह सर्वज्ञता। स्वयमेव चित्तादेव भवन्त्यस्य धर्मा इति स्वयंभूः। सर्वधर्मवशवर्तीत्यर्थः। तस्य धर्माः स्वयंभूत्वेन ये संगृहीताः। नास्य संहारमस्तीति असंहार्यः। सवासनसर्वावरणनिर्मुक्त इत्यर्थः। तस्य धर्मा येऽसंहार्यत्वेन संगृहीतास्तेषां सर्वेषां परिपूरणाय भवन्त्विति इयता परिपूरिरुक्ता॥



सत्त्वार्थापरित्यागमाह। न मे भगवन्नित्यादिना। इमैरिति सौत्रो निर्देशः। अतो भिस ऐस् भवति। इदोऽनादेशश्च न भवति। इमैरित्युक्तम्। कतमैरित्याह। किमितीत्यादि। किमितिशब्दस्य कथं नामेत्यर्थः इति निरूढिः॥



चित्तस्य संस्थितिः। सा वक्तव्या। समाधिरित्यर्थः। अतः शास्त्रम्-



[129] चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः।

कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः॥५-४॥



सूत्रे पुण्यबहुत्वेन समाधिरुक्तो न साक्षात्। कथम् ? चतुर्द्विपकश्च लोकधातुः साहस्रश्च द्विसाहस्रकश्च त्रिसाहस्रकश्च तैरुपमाः कृत्वा। कतमेन ग्रन्थेन ? यस्तेषां भगवन्नित्यादिना अभिनिर्हृतानि भगवन्तीत्येतदन्तेन। तेषामिति सर्वेषाम्। तानिति प्रतिरूपान्। धर्मता धर्मसमूहः स्वभावो वा। पलाग्रेणेति पलप्रमाणेन प्रमाणं ग्रहीतुं इयन्ति पलानीति। अथ किं कस्यात्रोपमानम् ? पुण्यपरिमाणस्य जम्बूद्वीपादिपरिमाणम्। शास्त्र उपचारः कृतः। नन्वनुमोदनामात्रस्यैतत्पुण्यपरिमाणं न समाधेः? अनुमोदनापुण्यानुमोदनेन पुण्यबहुत्वेनेत्यभिप्रायाददोषः।



अनुमोदनायाः परिपूरणार्थं तामकुर्वतां च निन्दार्थमाह। एवमित्यादि। माराधिष्ठिता इति मारेण महापापेन निरुत्साहीकृताः। न शृण्वन्ति शब्दतः। न जानन्त्यर्थतः। न पश्यन्त्यादरतः। न समन्वाहरन्तीति नाभिमुखीकुर्वन्ति। मारपक्षे भवाः मारपाक्षिकाः। तद्वदेव महतः सत्त्वार्थस्य विघातकरणात्। मारभवनेभ्यश्च्युता इति। मारा एव अत्यन्तं तत्साधर्म्यात्। अभिनिर्हृता इति निष्पादिताः। कैरित्याह। यैरित्यादि। येषामित्यादि च।



एवमुक्त इत्यादिना अनुमोदितव्यान्तेन शक्रप्रशंसा।



यरित्यादिना यैरपीत्यतः प्राक्। महायानप्रस्थितानां अनुमोदनानुशंसाः।



यैरपीत्यादिना प्रथमचित्तोत्पादिकानामपि न केवलमनुमोदितानि स्वसन्ताने चावरोपितान्यभिनिर्हृतानि च भवन्ति। अनुमोद्य चावश्यं परिणामना कर्तव्या। यथा च ते कर्तव्ये तथाऽनुमोदनापरिणामनापरिवर्ताद्वेदितव्यम्। यथोक्तं महत्योभगवत्योः-'तानि कुशलमूलानि अनुमोद्यानुत्तरायां 'सम्यक्सम्बोधौ परिणामयितव्यानि। तथा च परिणामयितव्यानि यथा न चित्तं चित्ते चरति न चान्यत्र चित्तात्" इत्यादि। तदेवमनुमोदनासहगतं कुशलमूलमस्य समाधेरालम्बनं सम्यक्सम्बोधौ परिणामनमाकारः। चित्तसंस्थितिः स्वभावः। क्व संस्थितिः ? न चित्ते ग्राहकलक्षणेन न वान्यत्रेति न सर्वधर्मेषु। किं तर्हि ? सर्वधर्मतथतायामद्वयायामिति चित्तसंस्थितिः॥



दर्शनहेया विकल्पाः सप्रतिपक्षा वक्तव्याः। तानधिकृत्य शास्त्रम्-



[130] प्रवत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ।

ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ॥५-५॥



द्वौ तावद्विकल्पौ 'ग्राह्यौ' ग्राह्यस्य विकल्पनात्। कथं 'विकल्पौ' ? यतस्तयोरात्मा न यथाविषयं वितथः कल्पो विकल्प इति कृत्वा। तौ पुनः कस्मिन्विषये ? प्रवृत्तिपक्षे च। 'प्रत्येकं' इत्युभयोरपि पक्षयोः। 'नवात्मकौ' नवप्रभेदौ॥



[131] द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ।

पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ॥५-६॥



अपरौ द्वौ 'विकल्पौ ग्राहकौ' ग्राहकस्य विकल्पनात्। कथं द्वौ ? यथाक्रमं द्रव्यसतः प्रज्ञप्तिसतश्च सत्त्वस्य विकल्पनात्। तत्र प्रथमं पृथग्जनानां द्वितीयमार्याणाम्। तावपि 'प्रत्येकं नवात्मकौ'। कथं तौ ग्राहकविकल्पौ ? असत एव ग्राहकस्य कल्पनात्। वितथो हि कल्पो विकल्पः। एतदेवाह-



[132] ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ।

इति ग्राहकभावेन शून्यता लक्षणं तयोः॥५-७॥



'ग्राहकभावेन' इति ग्राहकसत्त्वरूपेण। 'तयोः' इति ग्राहकविकल्पयोः॥



चत्वारोप्यमी विकल्पा विषयभेदेन प्रत्येकं नवविधाः। अत आद्यमधिकृत्य शास्त्रम्-



[133] एष स्वभावे गोत्रे च प्रतिपत्समुदागमे।

ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः॥५-८॥



[134] स्वस्मिन्नधिगमे कर्ततत्कारित्रक्रियाफले।

प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः॥५-९॥



'कर्तृतत्कारित्रक्रियाफले' इति कर्तरि तत्कारित्रक्रियाफले चेत्यर्थः। स्वभावादिनवकं प्रवृत्तिपक्षः। बोधिसत्त्वोपादेयत्वात्। तदधिष्ठान एष विकल्पः। तस्मात्प्रथमः। अतः प्रथमं विकल्पमधिकृत्य सूत्रे नववाक्यानि।



तत्राद्यमधिकृत्य सूत्रम्। सुभुतिराह। कथं च भगवन् मायोपममित्यादि तद्यथापित्यतः प्राक्। मायाकारनिर्मितं गजादिकं माया। तद्वदन्यदपि यत् ख्याति नेहास्ति तत् मायोपमम्। त था च चित्तम्। ग्राहकलक्षणत्वात् ग्राहकस्य चासत्त्वात्। न ह्यसति ग्राह्ये ग्राहकं युक्तम्। ग्राह्याभावः कथमिति चेत्। यदि ज्ञानेनार्थः प्रकाश्येत स्याद्‍ग्राह्यत्वम्। न च प्रकाश्येत। अप्रकाशस्य प्रकाश्यविरोधात्। अथार्थः प्रकाशात्मैव। किं तस्य ज्ञानेन ? तस्मान्मायोपमं चित्तं तदसत् कथमभिसंबुध्यत इति प्रश्नः। उत्तरं तत्किमित्यादिना। नो हीदं नो दीदमित्यसत्त्वादिति भावः। अन्यत्रेत्यन्यम्। तं धर्ममित्यात्मानम्। नो हीदमिति तस्यात्यन्तमसत्त्वादिति भावः।



एतदेव स्फुटीकर्तुमाह। नाहमित्यादि। अस्तीति नास्तीति वा निर्देशं नोपैति। असतोऽविज्ञातरूपस्य विधिप्रतिषेधाभ्यामसम्बन्धादिति भावः। योपि धर्म इत्यादि सुगमम्। तस्मात्तर्हीत्यादि। तर्हिशब्दोऽक्षमायाम्। तस्मादिति ग्राहकलक्षणत्वात्। ग्राहकत्वस्य वायोगात्। अत्यन्तग्रहणेन चैतदाह। यथेयं स्वेन लक्षणेन ग्राहकत्वेन शून्य तथा सर्वैः संप्रयोगिभिः, तेषामपि ग्राहकलक्षणत्वात्। आलम्बनभूतैश्च सर्वधर्मैः, आलम्बनस्य ग्राह्यलक्षणत्वात्। धर्माणां च यथायोगं ग्राह्यग्राहकलक्षणत्वात्। कथं पुनर्ग्राहकौ न स्तः ? अभेदे ग्राह्यग्राहकत्वायोगात्, अङ्गुल्यग्रवत्। भेदे जडस्य परतोपि प्रकाशायोगात्। अजडस्य स्वयमेव प्रकाशात्। नासौ भावयितव्यः। न पुनःपुनर्बुद्धौ निवेश्यः खरविषाणवत्। नाप्यसावित्यादि। कस्यचिद्धर्मस्येति सम्यक्सम्बोध्यादेः। आवाहक आहारकः। निर्वाहको निष्पादकः। असतोऽकिञ्चित्करत्वात्। प्रतीत्यसमुत्पाद एष एनं प्राप्य बोधिसत्त्वः संबुध्यत इति चेदाह। कथं चेत्यादि। न ह्यसत् प्राप्यत इति भावः। अनुत्तरापीत्यादि। अत्यन्तविविक्ता प्रज्ञापारमितावत्। कथं भवतीति नैव भवति। अत्यन्तासतोः साध्यसाधनत्वायोगादिति भावः।



एवमुक्त इत्यादि। यत एव अत एवेति। हेत्वनुरूपत्वात्फलस्येत्यर्थः। स चेदित्यादिना हेतुं परिपूरयति। यदि हि संजानीते तदा विकल्पः स्यात् न प्रज्ञापारमिता। एवमित्यादिनोपसंहारः। नाप्यभिसंबुध्यत इत्यभिसंबोधेरविकल्पनादिति भावः। अभिसबुध्यते चेत्यादि। परिकल्पितेन हि रूपेण त्रयमिदं नास्ति तच्छून्येन तु विज्ञप्तिरूपेणास्तीति भावः। तथापि संवृत्तिरेषां यथा प्रतिभाससमत्वात्। शून्यता तु परमार्थः। गम्भीरेऽर्थे चरतीति यतोऽस्मिन्नर्थे न शक्यतेऽन्यैश्चरितुम्। दुष्करकारक इति। यतः स भगवान् साक्षात्कर्तुं शक्तोपि न साक्षात्करोति सत्त्वावेक्षया। भाषितस्यार्थमिति आभिप्रायिकमर्थम्। दुष्करमन्येषां सुकरं बोधिसत्त्वस्येति भावः। कुतः सुकरम् ? उपायकुशलत्वात्। स चोपायः प्रज्ञापारमितैव। अतस्तमेवाह तथाहीत्यादिना। य इति बोधिसत्त्वः। य इति गम्भीरोऽर्थः। येनेति प्रज्ञापारमिताख्येन। अथास्यां प्रज्ञापारमितायां चरतः सा चर्या कियता भवतीत्यत आह। स चेदित्यादि। न संसीदतीति न भज्यते। अयमुद्देशः। अस्य निर्देशः षोढा। नावलीयत इति नास्यां मध्यप्रेमा। न संलीयत इति नास्यां मृदुप्रेमा। न विपृष्ठीभवतीति नाप्रेमा। नोत्त्रस्यतीति नैनां त्यक्तुकामः। न संत्रस्यतीति न त्यजति। न संत्रासमापद्यत इति न प्रबन्धेन त्यजति। तदेवं षड्‍विधभङ्गप्रतिषेधादेतद्‍गम्यते योस्यामभिमुखीभूतायामत्यन्तं प्रीयते सोऽस्यां चरतीति। अपरमाह स चेदित्यादिना। अपरमाह। आसन्नेत्यादिना। अपरमाह दूरीकृतेत्यादिना। इह स्वभावादयो नवार्थाः। प्रवृत्तिपक्षे बोधिसत्त्वैरुपादेयत्वात्। तेषु विकल्पः सम्मोहोऽसम्यग्ज्ञानम्। तत्राद्यः स्वभावविकल्पः। स्वभावः स्वाभिप्रायः। अहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं तन्मार्गेणेति। बोधिचित्तमित्यर्थः। तस्मिन् विकल्पः। आकारो बोधेः प्रज्ञापारमितायाश्च शून्यतायां यदज्ञानमसमाहितज्ञानं च। समाहितज्ञाने च तिस्रो मन्यना। अहं चरामि आसन्ना मे महाबोधिरहं वा दूरे हीनबोधेः स्यामिति। अस्य प्रतिपक्षः कथं भगवन्मायोपमं चित्तमित्यत आरभ्य तद्यथापीत्यतः प्राक्। इति स्वभावविकल्पः॥



तद्यथापीत्यादि। आसन्ना मे महाबोधिर्दूरे हीनबोधी यतोहं बुद्धगोत्र इति सम्मोहः। अस्य प्रतिपक्षः। आकाशसमत्वाद्‍गोत्रस्य तद्वदविकल्पा प्रज्ञापारमितेति गोत्रविकल्पः॥



तद्यथापीत्यादि। अस्ति मे प्रतिपत्तिसमुदागमः। तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः। तस्य प्रतिपक्षः समुदागमस्य मायापुरुषोपमत्वादविकल्पा प्रज्ञापारमितेति प्रतिपत्समुदागमविकल्पः॥



तद्यथापीत्यादि। प्रतिभासः प्रतिबिम्बः। ज्ञानप्रतिभासस्य प्रतिभासत्वेनैव यद् ज्ञानं न त्वालम्बनस्य च। सेह ज्ञानस्यालम्बना भ्रान्तिः। सा मम जाता। तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः। तस्य प्रतिपक्षः प्रतिबिम्बवदविकल्पा प्रज्ञापारमितेति आलम्बनाभ्रान्तिविकल्पः॥



तद्यथापीत्यादि। प्रतिपक्षो हन्ता विपक्षो हन्तव्य इति संमोहः। अस्य प्रतिपक्षो यथा तथागतस्य प्रियाप्रियौ न स्तस्तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपीति प्रतिपक्षविपक्षविकल्पः॥



यथैव हीत्यादि अभूतकल्पनात् कल्पः। तस्य विगमकल्पनाद्विकल्पः। तौ प्रहीणौ यथा तथागतस्य तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपि। तत्र कल्पविगमो विकल्पः स्वाधिगमसंमोहः। तस्य प्रतिपक्षः कल्पविकल्पप्रहीणा प्रज्ञापारमितेति स्वाधिगमविकल्पः॥



तद्यथापीत्यादि। प्रज्ञापारमितामहं भावयामि। तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति कर्तरि सम्मोहः। तस्य प्रतिपक्षः। कर्तुस्तथागतनिर्मितोपमतत्तद्वदेव कर्तरि निर्विकल्पा प्रज्ञापारमितेति कर्तरि विकल्पः॥



तद्यथापीत्यादि। स च तथागतनिर्मितो यदर्थं निर्मितस्तच्च कृत्यं करोति। न च तां क्रियां विकल्पयति। तद्वद्‍बोधिसत्त्वः प्रज्ञापारमितां भावयति न च विकल्पयतीति प्रतिपक्षः। बोधिविकल्पनं क्रियाफलविकल्पः॥



तद्यथापीत्यादि [आ परिवर्ता]न्तात्। शिल्पिना यदर्थ दारुयन्त्रमयः पुमान्कृतः स तदर्थ करोति न विकल्पयति। तद्वद्‍बोधिसत्त्वो बोधये, न (तां) बोधिं प्राप्स्यति न च तां विकल्पयतीति प्रतिपक्षः। बोधिविकल्पनं क्रियाफलविकल्पः॥



मायोपमचित्तोपलक्षितः परिवर्तो मायोपमपरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षड्‍विंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project