Digital Sanskrit Buddhist Canon

शिक्षापरिवर्तो नाम पञ्चविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śikṣāparivarto nāma pañcaviṁśatitamaḥ
XXV

शिक्षापरिवर्तो नाम पञ्चविंशतितमः।



अथ खल्वित्यादि पारं गच्छतीति यावत्। क्व शिक्षमाणः सर्वज्ञतायां शिक्षत इति प्रश्नः। क्षयेऽनुत्पादेऽनिरोधेऽजातौऽभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाण इत्युत्तरम्। अत्रोपपत्तिः। या हि तथागतस्य तथता ययासौ तथागतः न सा क्षीयतेऽक्षयत्वात्[अ ?] क्षयस्य। न च सा उत्पद्यते व निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा आकाशीभवति वा धर्मीभवतीति वा निर्वाति वा। एवं शिक्षमाणः प्रज्ञापारमितायां शिक्षत इत्यनेन मार्गमाह॥



बुद्धभूमौ शिक्षत इत्यनेन फलमाह। अमृतधातुर्मोक्षधातुः। नाथकामा इति नाथत्वकामाः। अभ्युद्‍गततेत्युत्कृष्टता। शकुनीन् ध्नन्ति शाकुनिकाः। निषादा मृतपा (? मृगयवः)। धीवराः कैवर्ताः। उरभ्रा मेषाः। तान् ध्नन्तीति औरभ्रिकाः। अन्धोऽचक्षुः। बधिरोऽश्रोत्रः। काण एकाक्षः। कुण्ठो वक्रबाहुः। कुब्जो भग्नपृष्ठः। कुणिः करविकलः। लड्गः संहतजानुः। खञ्जो विकलगतिः। जडो निष्प्रतिभः। लोलोऽस्थिरपदः। लल्लोऽकर्मण्यजिव्हः। कल्ल उच्चैः शब्दश्रावी। हीनाङ्गो निन्दिताङ्गः। विकलाङ्ग ऊनाङ्गः। विकृताङ्गो मनुष्यविसदृशाङ्गः। निगच्छतीति निष्पादयति। तामनुप्राप्नोतीति बलादिपरिशुद्धिम्। जानमिष्यामः पश्ययिष्याम इति। शत्रन्तात्करोत्यर्थे णिच्। टिलोपः। शेषं सुबोधं यावत् पारं गच्छन्ति। इति नवमी विवृद्धिः॥



तद्यथापीत्यादि पुनरपरात्प्राक्। सुवर्णजातरूपादयः गोबलीवर्दन्यायेन। ऊषराः सक्षारमृत्तिकाः। उज्जङ्गला उच्च(?)निर्जलाः। तृणं वीरणादि। खाण्डः सु(शु)ष्कतरुकीलकः। कण्टकाधानः कण्टकीमदनादिर्विविधास्ते येषु। शेषं सुबोधम्। इति दशमी॥



पुनरपरादि पुनरपरात्प्राक्। चक्रवर्तिराज्यं संवर्ततेऽस्मादिति तत् संवर्तनीयम्। इत्येकादशी॥



पुनरपरादि पुनरपरात्प्राक्। शक्रः संवर्ततेऽस्मादिति तत्संवर्तनीयम्। इति द्वादशी॥



पुनरपरादि पुनरपरात्प्राक्। ब्रह्मा संवर्ततेऽस्मादिति तत्संवर्तनीयम्। इति त्रयोदशी॥



पुनरपरादि जीवितेन्द्रियवाक्यात्प्राक्। कुशलसस्यप्ररोहविरोधिनो रागद्वेषमोहाः खिलाः। विचिकित्सा सत्यरत्नेषु विमतिः। ईर्ष्या परसम्पत्तौ व्यारोषः। शेषाः षट् पारमिताविपक्षाः। शेषं सुबोधम्। इति चतुर्दशी॥



तद्यथापीत्यादि स चेत्पुनरित्यतः प्राक्। अज्ञान इति प्रज्ञापारमिताविपक्षे। पुण्याग्रः पुण्यैरग्रः। तदेव दर्शयितुमाह तत्किमित्यादि। बुद्धविषयो बुद्धधर्मसाकल्यम्। वशवर्ती वृषभिः। तभ्दावस्तत्ता। विक्रीडितं ऋद्धिप्रातिहार्येण। सिंहनादनदनमनुशासनीप्रातिहार्येण। बुद्धानां सम्पत्तिरुभयार्यसंघैश्चर्यम्। व्यवचारयति परिज्ञानात्। न च प्रतिवहति तेष्वनवस्थानात्। शेषं सुबोधम्। इति पञ्चदशी॥



स चेत्पुनरित्याद्यापरिवर्तान्तात्। अथ तामपि न सञ्जानीते। कथमित्याह इयं सेत्यादि वाशब्दान्तम्। एवमपीत्येभिरेव त्रिभिराकारैः। स चेदेवं चरतीति तथैवासंजानन्नसमनुपश्यन्। इति षोडशी विवृद्धिः॥



शिक्षाया वाचकः परिवर्तः शिक्षापरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चशिंतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project