Digital Sanskrit Buddhist Canon

कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XXII

कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः।



अथ खल्वित्यादिना आसु खलु पुनरित्यतः प्राक्। प्रज्ञापारमितैवेति प्राधान्यादवधारणम्। यथा च सैका तया सहिताः षट्। अत आह। सर्वा एव चेत्यादि। कुत इत्याह। षडेवेत्यादि। ता एव निष्ठां गताः शास्ता यः परमं फलम्। ततः पूर्वान्त एव मार्गः। आलोको लोकोत्तरं ज्ञानं प्रमुदितायां सोपि ता एव। उल्का प्रयत्नवाही मार्गो विमलादिभूमिषु षट्‍सु सोपि ता एव। अवभासो दिवसालोकः। स चायत्नवाही मार्गोऽचलादिषु भूमिषु सोपि ता एव। अतश्च ता एव त्रीणि रत्नानि। तस्मात्ता एव शरणं यावत् दीपः। पदार्थः पूर्ववत्। ता एव माता धारणात्पोषणाच्च। ता एव पिता बिजाधानात्। ज्ञानायेति दर्शनाय। बोधायेति भावनामार्गाय। तक्तस्य हेतोरिति कुतः प्रज्ञापारमितैव यथोक्तगुणा नेतरा इत्यर्थः। अत्र हीत्यादिना परिहारः। त्रैयध्विकबुद्धानां च सर्वज्ञता तत्प्रसूतैवेत्याख्यातुमाह। येपीत्यादि। निर्जाता निष्पन्ना। अन्तर्गता इति यथायोगमन्तर्भूताः। बुद्धज्ञानादिपदानि पूर्वमेव व्याख्यातानि। सर्वभूतानां उपकारिभूतो भवतीति सम्बन्धः। कदेत्याह यदेत्यादि। इति कल्याणमित्रसेवा नवमं लिङ्गम्॥



आसु खल्वित्यादि सुभूतिराहेत्यतः प्राक्। यस्मात् इयमेव प्रणायिका तस्मात् अपरप्रणेयता इत्यादि। तस्मादपरप्रणेयता दशमं लिङ्गम्॥



सुभूतिराहेत्यादि। संक्लेशो व्यवदानं च प्रज्ञायत इति यावत्। असङ्गलक्षणेत्यनुपलम्भलक्षणा। सर्वधर्मस्वलक्षणानां तस्यामनुपलम्भात्। तथा रूपादयोपि शून्यत्वाद्विविक्तत्वात्। यदित्यादिना चोद्यं न चोद्यं न हीत्यर्थः। उदग्रहो निमित्तस्य अभिनिवेशो वस्तुत्वेन ग्राहः। तदेवमसङ्गलक्षणा भगवती धर्माश्च। तथाप्यस्ति संक्लेशोऽस्ति व्यवदानमित्येकादशमं लिङ्गम्॥



सुभूतिराहेत्यादि स चेत्पुनरित्यतः प्राक्। अनवमर्दनीय इत्यसंहार्यः। अनेनापीति सर्वधर्मेष्वविविक्तेष्वित्यादिना अनवमर्दनीयत्वलाभो द्वादशं लिङ्गम्॥ इत्युक्तानि लिङ्गानि॥



विवृद्धिर्वक्तव्या। अतः शास्त्रम्-



[127] जम्बूद्वीपजनेयत्ताबुद्धपूजाशुभादिकाः (काम्)।

उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिकां॥५-२॥



षोडशप्रकारा विवृद्धिरुक्ता सूत्रे। किं कृत्वा ? 'उपमां कृत्वा'। कीदृशीम् ? जम्बूद्वीपे ये जनाः सत्त्वास्तेषामियत्तया सूत्रोक्तेन माहात्म्येन मनुष्यभावचित्तोत्पादलक्षणेन या बुद्धपूजा तया यच्छुभं पुण्यं तदादिर्यस्या उपमायाः, ताम्। आदिशब्दं (ब्दात् ?) लब्धर (?)कारि(?)महामणिरत्नादिपरिग्रहः। बुद्धभूमिर्बहुभिः प्रकारैरुक्ता विनाप्युपमाम्॥



तत्राद्या स चेत्पुनरित्यादिना तद्यथापीत्यतः प्राक्। यावज्जीवमिति यावदायुः। तद्दानमिति यद्‍बुद्धेभ्यो सर्वसत्त्वेभ्यः। मनसिकारैः विहरतीति विवृद्धिसंगृहीतैः। स्थापयित्वेति त्यक्त्वा। तत्तेषां स्थापनं कस्य हेतोः ? वध्यगतानिवेति वध्यस्थानगतानिवा(व)। विरागयत इत्यप्राप्तवतः। इतिप्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानां नयनात् प्रथमा विवृद्धिः॥



तद्यथापीत्यादि न च परिहीयत इति यावत्। प्रज्ञापारमितेति तावदन्वेष्टव्येति सम्बन्धः। कीदृशेन ? अविरहितसर्वज्ञताचित्तेन। अविरहितात्पूर्वं मनसिकारशब्दः क्वचित् पठ्यते। सा वान्या वेति पुस्तकभेदात्। प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः क्षणमप्यविरहाद् द्वितीया विवृद्धिः॥



सुभूतिराहेत्यादि नेतत्स्थानं विद्यत इति यावत् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भाद्व्याकरणलाभ इति तृतीया॥



सुभूतिराहेत्याद्या परिवर्तान्तात्। व्याकरणेऽभिसम्बोधे च निर्मानत्वाच्चतुर्थी॥



कल्याणमित्रादिः परिवर्तो कल्याणमित्रपरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वाविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project