Digital Sanskrit Buddhist Canon

मारकर्मपरिवर्तो नामैकविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XXI

मारकर्मपरिवर्तो नामैकविंशतितमः।



तत्र खल्वित्यादि। अयमेकविंशतितमः परिवर्तो मारकर्मणाम्। कस्तेषां प्रस्तावः ? नवयानसंप्रस्थितस्य बोधिसत्त्वस्य सत्याधिष्ठानफलसम्पादनादिना मिथ्यामानोत्पादनाय बहुधा माराः। पराक्रमत इत्ययमेषां प्रस्तावः। तत्रेत्यनन्तरोक्ते सत्याधिष्ठाने। औत्सुक्यमिति प्राप्तावसरस्य कर्मणः करणार्थ मुत्साहः। बलमुत्साहशक्तिः। तेजः प्रभावशक्तिः। कथं तेजोवत्तरमिति यावत्। तसौ मत्वर्थ इति भत्वास्पदत्वं नास्तीति भत्वेन न भवितव्यम्। तद्यथा आयुष्मान् सरस्वान् इति। एवं तर्हि दीप्त्यर्था[द्]द्रवतेः शत्रन्तात् तरप्। तेजसा दीप्ततरं तेजोवत्तरमिति। औत्सुक्यमिति। आत्मनि बहुमानम्। आवमंस्यत इत्यादि। अवमानोऽनादरः। उच्चग्घानमन्तर्हासः। उल्लापनं मनसान्यत्करणम्। कुत्सनं दोषदर्शिता। तंसनं दोषवादिता। सम्बोधावितीति। इतिशब्दो हेतौ। मानं जनयिष्यतीत्यादि। अत्र सशब्दस्य सर्वत्रेत्यर्थः। जननमुत्पादनम्। वधंनं पुरःसरीकरणम्। स्तम्भनं स्थिरीकरणम्। बृंहण परिपुष्टिः। उत्पादनमच्चैर्नयनम्। मानेनेत्यादि। अन्येभ्योऽधिकत्वेन चित्तस्योन्नतिः सामान्येन मानः स पूर्वमुक्तः। इह तु तद्विशेषा उच्यन्ते। या तस्य हीनादुन्नतिः स मानः। यादृशादेव सोऽतिमानः। यो पुनः प्रकृष्टात् स मानातिमानः। अप्राप्तेऽवैवर्तिकत्वे प्राप्तं मयेति सोऽभिमानः। या पुनरभूतैरवैवर्तिकगुणैर्गुणवानस्मीति स मिथ्यामानः। तथा रूपानिति महाभूतान् बोधिसत्त्वान् दृष्टवेति परेण सम्बन्धः। शेषं तेषामेव विशेषणम्। भजिष्यत इत्यत्र भजेरिट्‍प्रतिषेधो भवति संज्ञापूर्वकस्य विधेरनित्यत्वात्। तदेव मारबन्धनमिति मानम्।



पुनरपरमित्यादि। नामापदेशः संज्ञाकथनम्। मृदुको मृद्विन्द्रियः। आरण्यकत्वादयो धुतगुणाः। ग्रामाद्वहिः क्रोशात्परमरण्यम्। तत्रैव स्थानात् आरण्यकः। पिण्डपातस्यैव भोजनात् पिण्डपातिकः। पांसुकूलस्येव प्रावरणात् पांसुकूलिकः। मध्यान्हस्योपान्त एव भोजनात् खलु पश्चाभ्दक्तिकः। एकासन एव भुङ्‍क्ते एकासनिकः। सकृदास्तीर्णे नित्यं शयनात् याथासंस्तरिकः। त्रिचीवरादधिकत्यागात् त्रैचीवरिकः। श्मशानसमीप एव स्थानात् श्माशानिकः। वृक्षमूल एव स्थानात् वृक्षमूलिकः। निषद्यया रात्रिनयनान् नैषद्यिकः। अच्छन्नोऽवकाशोऽभ्यवकाशः। तत्रैव स्थानात् आभ्यवकाशिकः। और्णकशानकादेरेव प्रावरणात् नामन्तिकः। अल्पैषणात् अल्पेच्छः। तावतैव सन्तोषात् सन्तुष्टः। एकाकित्वात् प्रविविक्तः। दृष्टे धर्मे तस्मिन्नेव जन्मनि भवो दृष्टधार्मिकः। तेन आदेक्ष्यति व्यपदेक्ष्यति। कथमित्याह पूर्वमपीत्यादि। यच्छब्दस्तस्मादर्थे। अधिष्ठानमाविष्करणम्। धुतगुणैः संलेखः कर्षणं धनुलेखनवत्। मन्यां करोतीति णिच्। यच् मन्यना मान इत्यर्थः। शेषं सुबोधं धुतगुणाः संविद्यन्त इति यावत्।



तस्य खल्वित्यादि। नामाधिष्ठानेनेति किमत्र नाम ? अविनिवर्तनीयशब्दस्तद्‍गुणशब्दश्च। स्तम्भाभिभूत इति स्तम्भो गुरुष्वगौरवम्। कतमन्नामधेयमित्यत आह। यदेवेत्यादि। तेनेति बोधिसत्त्वेन। अनुवर्तितमित्यनुविचिन्तितम्। अस्यैव निर्देश उत्तराभ्याम्। अनुवितर्कितं किं मे नाम भवेदिति। अनुविचारितमिदं मे नाम भवेदिति। व्याकरिष्यतीत्यायाख्यास्यति मारः। अनुवर्तितमाकाङिक्षतम्। समेतीति संवदति। किं केन संवदतीत्यत आह नाम्ना नामेति। ततः किमित्याह व्याकृत इत्यादि। संधाव्य संसृत्येति तासु तासु दुर्गतिषूत्पद्य। यदि चेति चकारः समुच्चयार्थः सूक्ष्मसूक्ष्माणीति दुर्लक्ष्याणि।



अरण्यं च यथोक्तम्। वनप्रस्थं च गिरिगुहा च श्मशानं च पलालपुञ्जश्चेति द्वन्द्वः। आदिशब्दाद्‍वृक्षमूलादि। आरण्यकानीत्यरण्ये भवानि। अत एव प्रान्तानि विजनपदानीति विजनस्थानानि। विविक्तानि शून्यानि। विविक्तो रहितः ग्रामस्यान्तः समीपमेकदेशो वा। मनसिकारविवेक इति मनसिकारेभ्यो विवेकः। मृदुना अभिनिवेशेन निश्रितः। मध्येन आलीनः। अधिमात्रेण अध्यवसितः। तेनैवात्मोत्कर्षणात् अध्यवसायमापन्नः। संकीर्णो गृहिप्रव्रजितैः। आकीर्णः प्रव्रजितैरेव बोधिसत्त्वचण्डालः तैरसंवास्यत्वात्। बोधिसत्त्वदूषी स्वदोषेण तेषां दूषणात्। बोधिसत्त्वप्रतिरूपको देहसाम्यात्। बोधिसत्त्वप्रतिवर्णिको नामसाम्यात्। बोधिसत्त्वकारण्डवकः हंसेष्विव तेष्वकृष्णेषु कृष्णत्वात्। चौरः श्रमणवेषेण धर्मग्रहणात्। चौरो बोधिसत्त्वानामसम्मतत्वात्। चौरः सदेवकस्य लोकस्य मिथ्यादक्षिणीयत्वात्। तज्जातीय इत्यादिना तावद्वशस्य सभ्दिरसेव्यतां विस्तरेणाह। स्थाम बलम्। अनार्याः पापाः। उद्विग्नं भीतम्। तत्रापि तावदिति तादृशेपि। मंत्रायमाणेनेत्यादिना मैत्र्यादिचतुष्टयविषयभेदानाह। एवं चेत्यादिना प्रणिधानम्। अयमपीति। यस्य खलु पुनरित्यादिकः सर्वः। अभिज्ञायेति। अत्युत्क[टः] पराक्रमः पुरुषकारः। इदमपीत्यादिना पश्चिममारकर्मोपसंहारः॥



मारकर्मणामभिधायकः परिवर्तस्तथोक्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project