Digital Sanskrit Buddhist Canon

उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XX

उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः।



क्षेत्रपरिशुद्धिरुक्ता। उपायकौशलं वक्तव्यम्। अतः शास्त्रम्-



[121] विषयोऽस्य प्रयोगश्च सा(शा)त्रवाणामतिक्रमः।

अप्रतिष्ठो यथावेधमसाधारणलक्षणः॥४-६२॥



[122] अश(स)क्तोऽनुपलम्भश्च निमित्तप्रणिधिकृतौ।

तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम्॥४-६३॥



अस्य ह्युपायकौशलस्य 'विषयः' सूत्रे प्रथमं वक्तव्यः। ततः 'प्रयोगः' प्रथमाभ्यासः। ततो दश प्रभेदाः सा (शा)त्रवातिक्रमादयः। 'निमित्तप्रणिधिकृतौ' ताभ्यामिति तथोक्तौ निमित्तकृतः प्रणिधिकृतश्च।



अथ खल्वित्यादि। अत्रादौ भूतकोटिमित्येतदन्तेन विषय उक्तः। शून्यतासमाधिनैवानिमित्ताप्रणिहितयोर्बोधिपक्षादीनां चोपलक्षणात्। शून्यतायामिति शून्यतासमाधौ। सन्ततिः प्रवाहः। कथं प्रत्यवेक्षमाण इत्याह रूपं शुन्यमितीति। तामिति शून्यताम्। धर्मतामिति धर्मप्रकृतिम्। धर्मतयेति धर्मसारतया। भूतकोटिरिति शून्यतैव कैवल्यं गता भूतकोटिः। इत्युपायकौशलस्य विषयः॥



एवमुक्त इत्यादि तद्यथापीत्यतः प्राक्। असमाहित एवेति साक्षात्कर्तव्यतयाऽनध्यवसित एव। अत्रान्तरा इति यावद्‍बुद्धधर्मा अस्य न परिपक्वाः। एवमित्युक्तेन क्रमेण। आरूढ उपार्जिताः। शेष सुबोधम्। इत्युपायकौशलस्य प्रयोगः॥



तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। शूरो निर्भीः। वीर्यमुत्साहः। प्रतिष्ठानं स्थैर्यम्। प्रतिभानमभ्यूहः। प्रतिपत्तिरनुष्ठानम्। यस्मिन्कालादौ यद्युक्तं तज्ज्ञानात् कालादिज्ञः। गतिः कायवाक्‍चित्तकर्मण्यता। तां गतः प्राप्तः। प्रहरणावरणं कवचादि। स्मृतिः स्मरणम्। मतिरभ्यूहः। गतिर्ज्ञानम्। धृतिर्धारणम्। नीतिर्नीतिज्ञानम्। विशारदः पण्डितः इति शत्रव एव 'शात्रवा' अन्तरायाः। तेषामतिक्रमश्चतुर्भिरप्रमाणैरिति प्रथममुपायकौशलम्॥



तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। चरतीति गच्छति। न च भूमौ पततीति पातप्रतिषेधः स्थितिः। न च कञ्चिन्निश्रित्येति प्रतिष्ठाप्रतिषेधः। निश्रित्येत्यास्पदीकृत्य। विहरतीति तिष्ठति। न च तत्रापीति विहरणेपि निश्रितः। पतत्यपरिपूर्णैरिति। अत्र न पततीति न प्रतितिष्ठतीत्यर्थः। प्रतिष्ठाविरहादप्रतिष्ठ उपायः॥



तद्यथापीत्यादि प्रागेवमुक्तात। वारयेदिति। आकाश एव स्थापयेत्। पतनं न दद्यादिति पतितुं न दद्यात्। उद्धर्व क्षिप्तस्य स(श)रस्येव शरान्तरैश्चिरमपाताय य आवेधस्तद्वदाबुद्धधर्मपरिपाकम(कं) साक्षात्करणाय चित्तस्य चित्तान्तरैर्य आवेधः। तदनतिक्रमेण वृत्तिर्यथावेधमुपायः॥



एवमुक्त इत्यादि प्राक् पुनरपरात्। चरति शमथेन। विहरति विपश्यनया। समाधिसमापत्तिरुभाभ्याम्। ममेति मया। अभिनिर्हरतीति निष्पादयति। समाधिश्चासौ विमोक्षश्च मुक्तिद्वारत्वात्। चित्तोत्पादश्चित्ताभिनिर्हारः। अनेनायं दुष्करकारकः। एष च सर्वश्रावकप्रत्येकबुद्धैरसाधारणत्वादसाधारण उपायः॥



पुनरपरादि प्राक् पुनरपरात्। सत्त्व आत्मा पुरुषः। इन्द्रियाणि पञ्च श्रद्धादीनि। बलान्यपि पञ्चैव। बोध्यङ्गानि सप्त। मार्गोऽष्टाङ्गः। सत्त्वदृष्टिः सक्तिः। तत्प्रहाणाय सत्त्वानामभिसम्बुद्धः। सत्त्वान् देशयिष्यामीति सञ्चिन्त्य शून्यतादिसमापत्तिरसक्तिः। तद्योगादसक्त उपायः॥



पुनरपरादि प्राक्पुनरपरात्। धर्मसंज्ञा स्कन्धधात्वादिसंज्ञा। स उपलम्भः। तत्प्रहाणायेत्यादि पूर्ववत्। एवं शून्यतादिसमापत्तिरनुपलम्भः। तद्योगादनुपलम्भ उपायः॥



पुनरपरादि पुनरपरात्प्राक्। स्त्री पुमान् रूपं शब्द इति निमित्तसंज्ञा। तत्प्रहाणायेत्यादि पूर्ववत्। एवमनिमित्तसमापत्तिरानिमित्तम्। तद्योगादानिमित्त उपायः॥



पुनरपरादि यो हीत्यतः प्राक्। देवः शक्रश्चक्रवर्त्ती स्यामित्यादिर्भवभोगाभिलाषः प्रणिहितम्। तस्य मूलं विपर्यासाः। तस्माच्चतुर्विपर्यासप्रहाणायेत्यादि पूर्ववत्। एवमप्रणिहितसमाधिरप्रणिहितम् तद्योगादप्रणिहित उपायः॥



यो हि कश्चिदित्यादि नैतत् स्थानं विद्यत इति यावत्। अनुपलम्भादीनामुपाया विमोक्षमुखत्रयं विषय उक्तः। सांप्रतमेषामनभिसंस्कारादिकमधिकं विषयममोघतां च ब्रवीति। अनभिसंस्कारे पतेदिति हीनबोधौ। त्रैधातुकेनेति संसारेण॥



एवं हीत्यादि सुभूतिराहेत्यतः प्राक्। सम्यक्सम्बोधिकामेन बोधिसत्त्वेन विज्ञो बोधिसत्त्वः प्रष्टव्यः। सम्यक्सम्बोधये किं भावयेयं कथं च भावयेयमिति। स चेदाचक्षीत शून्यतादिकमेव भावय तच्च परिजयं मातुः साक्षात्कार्षीः। तत्रोपायः सर्वसत्त्वापरित्यागचित्तादिरिति। एतत्तस्याख्यातुरवैवर्तिकत्वे लिङ्गम्। तस्मात्तस्य लिङ्गमस्मिन्निति तल्लिङ्ग उपायः॥



सुभूतिराहेत्यादि सचेत्पुनरित्यतः प्राक्। बहवो बोधाय चरन्ति तेष्वल्पकास्ते य एवं विसर्जयन्ति। व्याकृतास्तेऽवैवर्त्तिकत्वेऽसंहार्याः सदेवमानुषासुरेण लोकेन। यतस्तेऽल्पका अतोऽल्पप्रमाणा इत्यप्रमाण उपायः॥



तदेवं नवमस्य पश्चार्द्धात् प्रभृति विंशतितमस्य पूर्वार्द्धं यावदेकादशपरिवर्ताः सर्वाकाराभिसंबोधिः॥



इत ऊद्धर्वं मूर्द्धाभिसमयो वक्तव्यः। तस्योद्देशः पूर्वमुक्तः श्लोकद्वयेन षडक्षराधिकेन-



[123] लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः।

चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः॥१-१४॥



[124] प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि।

आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः॥१-१५॥



[125] मूर्धाभिसमयः



तस्याष्टौ वस्तूनि। 'लिङ्गविवृद्धिः निरूढिश्चित्तसंस्थितिः'। दृङ्‍मार्गे विपक्षप्रतिपक्षाः भावनामार्गे विपक्षप्रतिपक्षा आनन्तर्यसमाधिविप्रतिपत्तयश्चेति।



तत्र लिङ्गमधिकृत्य शास्त्रम्-



[126] स्वप्नान्तरेपि स्वप्नाभा सर्वधर्मेक्षणादिकम्।

मूर्द्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम्॥५-१॥



'मूर्धप्राप्तस्य' इति प्रकर्षप्राप्तस्य। 'योगस्य' इति त्रिसर्वज्ञताप्रयोगस्य। स चेत्पुनरित्यादि वेदितव्या। स्वप्नान्तरगतोपि स्वप्नोपमान् सर्वधर्मान् पश्यति न च साक्षात्करोतीति प्रथमं लिङ्गम्॥



पुनरपरादि वेदितव्यान्तम्। स्वप्नान्तरगतोपि श्रावकभूमौ प्रत्येकबुद्धभूमौ त्रैधातुके च स्पृहां न करोतीति द्वितीयम्॥



पुनरपरादि वेदितव्यान्तम्। स्वप्नान्तरगतो महत्यां परिषद्युभयसङ्घपरिवृतं तथागतमात्मानं पश्यतीति तृतीयम्॥



पुनरपरादि वेदितव्यान्तरम्। स्वप्नान्तरगतो वैहायसमभ्युद्‍गम्य सत्त्वेभ्यो धर्म देशयति व्यामगतं चात्मानं संजानीते। भिक्षूंश्च निर्मितीत ये लोकधात्वन्तरेषु बुद्धकृत्यं कुर्वन्तीति चतुर्थम्॥



पुनरपरादि वेदितव्यान्तम्। स्वप्नान्तरगतोप्यात्मनः परेषां वा वधबन्धनशिरश्छेदादीन् दृष्ट्वा नोत्त्रस्यति। विबुद्धस्य चैवं भवति स्वप्नोपमं सर्व त्रैधातुकं मया चाभिसंबुध्यैवं धर्मो देशयितव्य इति पञ्चमम्॥



पुनरपरादि वेदितव्यान्तम्। स्वप्नान्तरगतस्य नैरयिकादीन् सत्त्वान् दृष्ट्‍वा एवं भवति। तथा करिष्यामि यथा मेऽभिसम्बुद्धस्य बुद्धक्षेत्रे त्रयोऽपायाः सर्वथा न भविष्यन्तीति षष्ठम्॥



पुनरपरादि पुनरपरात् प्राक्। स्वप्नान्तरगतो यदि ग्रामदाहादौ वर्तमाने प्रतिविबुद्ध एवं समन्वाहरेत्। यथा मया स्वप्नेऽवैवर्तिकलिङ्गान्यात्मनि दृष्टानि तेन सत्येनायं ग्रामदाहादिः शाम्यत्विति। स चेच्छाम्यति तत्सप्तमं लिङ्गम्॥



पुनरपरादि आपरिवर्तसमाप्तेः। यदि कश्चित्सत्त्वोऽमनुष्येण गृहीतोऽधिष्ठितः आविष्टो वा अन्तःप्रवेशात्। तत्र बोधिसत्त्वः सत्याधिष्ठानं कुर्यात्। यद्यहं व्याकृतः पूर्वबुद्धैरनुत्तरायां बोधौ यदि च मे परिशुद्धोऽध्याशयस्तामभिसम्बोद्धं यथा च नास्ति बुद्धानां किञ्चिदज्ञातम्। अनेन सत्येनायममनुष्योऽपक्रामत्विति स चेत्तस्मात् सत्याधिष्ठानात् अपक्रामति तदष्टमं लिङ्गम्॥



उपायकौशल्यानां मीमांसा परिज्ञानं तदर्थः परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां विंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project