Digital Sanskrit Buddhist Canon

गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XIX

गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः।



अथ खल्वित्यादि प्रागेवमुक्तात्। न पूर्वेण चित्तेन बोधिर्न च पश्चिमेन तयोरसमवधानादिति चोद्यम्॥



एवमुक्त इत्यादि प्रागेवमुक्तात्। इयता दीपदृष्टान्तेन परिहारः। अत्र शास्त्रम्-



[117] पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा।



इति चोद्यम्।

दीपदृष्टान्तयोगेन

बोधिरिति वर्तते। अनेन परिहारः॥

अथ शास्त्रम्-



गम्भीरा धर्मताष्टधा॥४-५८॥



या बोधिरिति वर्तते। केवलाया बोधेस्तथतैव लक्षणमुक्तमष्टादशे। सपरिच्छदायास्तु बोधेर्लक्षणमष्टविधं गाम्भीर्यम्। तत्कथमष्टधा ?



[118] उत्पादे च निरोधे च तथतायां गभीरता।

ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले॥४-५९॥



'अद्वयं च उपायकौशल्यं च; इति समाहारद्वन्द्वः। अत एवमुक्त इत्यादिना प्रागेवमुक्ताद्‍गाम्भीर्य सुभूतिः प्रस्तौति। अन्यत्र तेभ्य इति विना तेभ्यः। एवमुक्ते भगवानित्यादिना परिजयं करोतीत्येतदन्तेनाष्टविधं गाम्भीर्यमाह। यच्चित्तमिति भ्रान्तमभूतपरिकल्पात्मकम्। निरुद्धमिति सन्तानक्षयात् क्षीणम्। नो हीति नैवेत्यर्थः। भ्रान्तिकारणस्य द्वयाभिनिवेशस्य क्षयादिति भावः। इत्युत्पादगाम्भीर्यम्॥



यच्चित्तमुत्पन्नमिति अभ्रान्तम्। भ्रान्तिक्षयाच्चित्ताधीनत्वाच्च चित्तोत्पत्तेरिति भावः। निरोधधर्मि भगवन्निति प्रतिक्षणमिति भावः। निरोत्स्यत इति सन्ताननिरोधेनेति भावः। नो हीदमिति स्वरसत उत्पत्तेः प्रणिधानादिभिश्च सविशेषमक्षयीकृतत्वादिति भावः। यच्चित्तमनुत्पन्नर्मित्युत्पादगाम्भीर्ये यदुक्तम् यन्न निरोधधर्मीत्यनन्तरमेव यदुक्तं यन्निरोधधर्मीत्यस्मिंस्तेषां पुनरुक्तता स्यात्। यच्चित्तमिति यच्चित्तसन्तानः। अनुत्पादानिरोधधर्मीत्यनादिनिधनम् यो धर्म इति निर्वाणाख्यः। निरोधोनिरुद्धम्। तत्स्वभावोऽस्येति स्वभावनिरुद्धः। धर्मतेति शून्यता। इति निरोधगाम्भीर्यम्।



तथैव स्थास्यतीति यावदाकाशम्। मा कुटस्था भूदिति तथतावत्। नो हीदमिति प्रवाहनित्यत्वादिति भावः। गम्भीरा तथतेति सम्यग्ज्ञानादपि सूक्ष्मत्वादितयतागाम्भीर्यम्॥



तथतायां चित्तमिति तद्वेदित्वात्तस्या आधेयम्। नो हीदमिति ज्ञानाभ्देदे वेद्यत्वायोगात्। चित्तं तथतेत्येकलक्षणादिति भावः। अन्यत्तथताया इलिक्षणभेदादेव। नो हीदमिति लक्षणभेदेपि तादात्म्यात्। तदेवमग्राह्यत्वेपि वेद्या तथतेति ज्ञेयगाम्भीर्यम्॥



समनुपश्यसि त्वमिति चित्तरूपम्। नो हीत्यग्राह्यत्वात्। तदेव ग्राह्यमपि चित्तं वेत्तीति ज्ञानगाम्भीर्यम्॥



गम्भीरे चरतीति प्रज्ञापारमितार्थे। समुदाचारा आलम्बननिमित्तानि। प्रवर्तन्ते न भवन्ति। न समुदाचरन्ति न प्रख्यान्तीति चर्यागाम्भीर्यम्॥



निमित्ते चरतीति द्वयनिमित्तेऽद्वयनिमित्ते वा। नो हीति न द्वयनिमित्ते नाद्वयनिमित्ते। निमित्तमिति द्वयाद्वयनिमित्तम्। अविभावितमप्रहीणम्। नो हीति नाप्रहीणम्। प्रहीणमेवेत्यर्थः। इत्यद्वयगाम्भीर्यम्॥



अपि न्विति किन्नु। निमित्तं विभावितं भवतीत्यप्रतिपूर्णेषु सर्वबुद्धधर्मेषु इति भावः। सुभूतिरुत्तरमाह। न स भगवन्नित्यदिना। इहैवेति। अस्मिन्नेव जन्मनि। कुत इत्याह। स चेदित्यादि। श्रावको भवदिति न सम्यक्सम्बुद्धः। एतत्तदित्यादिनोपसंहारः। यल्लक्षणं यन्निमित्तमिति यद्धर्मनिमित्तं यच्च धर्मतानिमित्तं तत्सर्वं जानाति। परिजयमभ्यासमात्रं करोति। इत्युपायकौशलगाम्भीर्यम्॥



तत्राष्टमं गाम्भीर्यं विप्रकृष्टम्। बोधे शेषाणि सन्निकृष्टानीत्युक्तविधं गाम्भीर्यम्। उक्तश्च 'शैक्षौऽवैवर्तिको गणः'॥



'समता भवशान्त्योः' वक्तव्या। अतः शास्त्रम्-



[119] स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना।



एष संसार एतन्निर्वाणमिति भेदकल्पना। संसारनिर्वाणयोः समताज्ञानं भावनामार्गे। स्वप्नोपमान्सर्वधर्मान् पश्यतस्तयोर्भेदकानुपलम्भात्। नन्वभूतपरिकल्पः संसारः स च भ्रान्तिमात्रं भ्रान्तिक्षयस्तु निर्वाणम्। कदा तयोः समताज्ञानम् ? भावनामार्गे संमुखीभूते सर्वधर्मनैरात्म्यसंवेदनादिति चेत्। दर्शनमार्गेप्येतदस्तीति भावनामार्गस्य कोऽतिशयः ? तस्मात्ततो व्युत्थितस्य समताज्ञानं ग्राह्यम्। तच्चायुक्तम्। व्युत्थितस्य हि ज्ञानं भ्रान्तं स्वप्नोपमत्वात् स्वप्नः। भावनामार्गस्तु सम्यग्ज्ञानं दिवसोपमत्वाद्दिवसः। तत्र कदा युक्तं स्यात् ? यदि दैवसिकादभ्यासातिशयात्, स्वप्नेति प्रज्ञापारमिता विवर्धेत। अतः सूत्रेऽथ खल्वित्यादिना विवर्धत इत्येतदन्तेन प्रश्नः। सुभूतिराहेत्यादिना भावितव्योन्तेनोत्तरम्। अविकल्प इति। विकल्पो विशेषः। अविकल्पो निर्विशेषः। प्रज्ञापारमिताभ्यासत इति भावनामार्गाभ्यासतः। इति संसारनिर्वाणसमता॥



शारिपुत्र आहेत्यादि। इह स्वप्नशब्देन स्वप्न एवोच्यते। क्षयसंज्ञेति क्षयो निर्वाणं तस्य संज्ञा उद्‍ग्रहः। भुतार्थकल्पनं कल्पः। वितथकल्पनं विकल्पः। एवमेवेति। आकाशवत्तथागतवद्वा। चित्तं चेतना बुद्धिर्विकल्पः इत्येकोऽर्थः। विविक्तानीति निःस्वभावानि। विप्लुता हि बुद्धिरविद्यमानमेव निमित्तीकृत्यारम्बणी करोति। चेतनापीत्यादि सुगमम्। कायसाक्षीति काय आश्रयः। तत्परावृत्त्या कायेन साक्षात्कारी कायसाक्षी एनमर्थमित्येतच्चोद्यं विसर्जयिष्यतीति परिहरिष्यति। अजितो मैत्रेय इति पर्यायौ। यो धर्मो विसर्जयेदिति मैत्रेयः। विसर्जयितव्य इति प्रश्नः। येन धर्मेणेति वाचा। यस्य धर्मस्येति शारिपुत्रस्य। उत्पित्सुः त्रास उत्त्रासः। संभूतस्त्रासः सन्त्रासः। तस्य प्रवाहः सन्त्रासापत्तिः। बलाधानं भावना बलवासना। अत्र शास्त्रम्-



कर्माभावादिचोद्यानां परिहारा यथोदिताः॥४-६०॥



इति संसारनिर्वाणसमतायां चोद्यपरिहाराः॥



'कृतिशुद्धिरनुत्तरा' वक्तव्या। अतः शास्त्रम्-



[120] सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्धयुपहारतः।

तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता॥४-६१॥



एकदा यत्रैक एव बुद्धो जायते तद्‍बुद्धक्षेत्रम्। तस्य शुद्धता परिशुद्धिः। सा कुतो भवति ? 'सत्त्वलोकस्य ' दृश्यते 'याऽशुद्धिः' व्याडकान्तारादिता। तस्याः स्वबुद्धक्षेत्रपरिशुद्धादुपसंहारात्। मम बुद्धक्षेत्रे सर्वथैवं मा भूदिति। एषा विस्तरेण महत्योरुक्ता। इह तु संक्षेपतः। पुनरपरमित्यादिना अथ खलु तत्रेत्यतः प्राक्। उत्त्रासादिनिषेध उक्तो वक्तव्यश्च तदपेक्षया पुनरपरशब्दाः। दुर्गता भूमिः कान्तारम्। व्याडैः कान्तारं व्याडकान्तारम् पानीयवर्जितकान्तारं पानीयकान्तारम्। यदिचेच्छब्दो यद्यर्थे। दिव्योपभोगेत्यादि। समबुद्धक्षेत्रसत्त्वा इति वर्तते। रुधिराद्याहारव्युदासाय चैतदुक्तम्। सर्वस्वपरित्याग एव कुशलम्। यदेतेषां लोक इति भाजनलोके सुखसमङ्गिलः। सुखं समर्पितमाहितमेषामिति सुखसमर्पिताः। सर्वत इति सर्वत्र। व्याधिकान्तारं रोगोपसर्गः। इयतीति चित्तक्षणपरिमाणा। अपूर्वेति भाविनी। यदुताकोटीरिति नहि निरंशस्य क्षणस्य कोटिरस्ति। या सेत्यर्था(त्यपूर्वा) भुत्। अपूर्वा कोटीर्यत्राभिसंभोत्स्ये। इति बुद्धक्षेत्रपरिशुद्धिः॥



अथ खल्वित्याद्यापरिवर्तान्तात्। अनेन यत्तस्यां देशनायां संवृत्तं तदाह। असक्तानि अलग्नानि। अन्तरिक्षे विहायसीति केवल एवाकाशे। परिनिष्पत्तिरिव परिनिष्पत्तिर्वशीभावः। प्रमाणबद्धः प्रमाणनियतः। असातकान्ताराणि दुष्कान्ताराणि। शेषं सुबोधम्॥



गङ्गदेवाभगिन्या लक्षितः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकोनविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project