Digital Sanskrit Buddhist Canon

शून्यतापरिवर्तो नामाष्टादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śūnyatāparivarto nāmāṣṭādaśaḥ

XVIII

शून्यतापरिवर्तो नामाष्टादशः।



निर्वेधाङ्गदृङ्‍मार्गयोरवैवर्तिकलिङ्गानि संख्यया विशेषतश्चोक्तनि। भावनामार्गस्तु गम्भीरः। ततो तान्युभयथापि वक्तुमशक्यानि। अतः शास्त्रम्-



[111] गम्भीरो भावनामार्गः



एतदाह। अथ खल्वित्यादिना प्रत्येकबुद्धैरित्येतदन्तेन। आश्चर्यं भगवन्नित्येकं चोद्यम्। किमाश्चर्यमित्यत आह। महागुणेत्यादि। महान् गुणसम्भारः परमगम्भीरतया कल्पासंख्येयद्वयनिरन्तरप्रयत्नलभ्यतया च। अत एव विशेषतो ज्ञातुमशक्यत्वादप्रमाणाः संख्यातुमशक्यत्वादपरिमिताः। बोधिसत्त्वो महासत्त्व इति भावनामार्गस्थोऽवैवर्तिकः। अविनिवर्तनीयेनेति भावनामार्गस्थेन। संख्यातिक्रमाद् अनन्तम्। परमोदारत्वाद् अपर्यन्तम्। असंहार्य सम्यगग्राद्यं सम्यग्ज्ञातुमशक्यं श्रावकप्रत्येकबुद्धैरपीति भावनामार्गस्य गाम्भीर्यम्॥



सुभूतिराहेत्यादि प्रतिबलः शक्तो निर्देष्टुम्। किन्तु सत्त्वा(र्वा)र्थो न स्यादिति भावः। ततः किमित्याह। अत एवेत्यादि। एवकारो भिन्नक्रमः। स्थानानीत्यतः परेण द्रष्टव्यः। सर्वाणि गम्भीराणीति वीप्सार्थः। स्थानानीति भावनामार्गालम्बनानि। प्रज्ञापारमितायां प्रतिसंयुक्तानि तदाधारणीत्यर्थः। सूचयितव्यानीति सूच्यन्तामित्यर्थः। इति सुभूतेरध्येषणा॥



एवमुक्त इत्यादि। आरभ्येति। आदौ निर्दिश्य। निगमयितुकाम इति भावनार्गे योजयितुकामः। इति भगवतोऽभ्युपगमः।



अथ शास्त्रम्-



गाम्भीर्यं शून्यतादिकम्।

समारोपापवादान्तमुक्तता सा गभीरता॥४-५२॥



'गम्भीरो भावनामार्गः' इत्युक्तम्। तस्य 'गाम्भीर्यं' गम्भीरभावः। यतः स गम्भीरो भवति तच्च शून्यतानिमित्तादिकम्। मार्गस्य गम्भीर्यमालम्बनगाम्भीर्यादिति भावः। तच्चालम्बनं 'शून्यतादि'। शून्यतादेरपि का गाम्भीर्यता ? याऽस्य समारोपान्तेनापवादान्तेन चारहितता। भगवानभ्युपगतं सूचयितुमाह। गम्भीरमितीत्यादि। सर्वधर्माणां यथाप्रतिभासभावो यथातत्त्वं च भावः शून्यता। सैवानिमित्तंतद्वेदने निमित्तनिरोधात्। सैवाप्रणिहितं तद्विदां त्रैधातुकेऽप्रणिधानात्। सैवानभिसंस्कारस्तेषां पुनर्भवाय कर्माकरणात्। सैवानुत्पादस्तेषां तेन कर्मणाऽनुत्पादात्। सैवाजातिस्तेषां प्रकृत्यजातताज्ञानात्। सैवाभावोऽद्रव्यत्वात्। सैव विरागशुद्धिः क्लेशानुशयसमुद्‍घातात्। सैव निरोधस्तेषां पुनर्भववि(नि)रोधात्। सैव निर्वाणं तेषां वासनासमुद्‍घातात्। सैव विगमस्तेषां साश्रवस्कन्धोपरमात्॥ इति शून्यतादिकम्॥



सुभूतिराहेति काक्वा पृच्छतीत्यर्थः। धर्माणामिति शून्यतादिनाम्। सर्वधर्माणामिति स्कन्धधात्वादीनाम्। बालग्राह्या रूपादयस्ते कथं गम्भीराः? अतः स्वयमेव पृच्छति कथं चेत्यादि। उत्तरं यथा तथतेत्यादि। कस्य तथतेति चेदाह तत्रेत्यादि। स्फुटीकर्तुमाह यथेत्यादि। यत्रेति यस्यां रूपादितथतायां वेद्यमानायां कल्पितं रूपादि न प्रख्याति इयं रूपादीनां गम्भीरता। परमार्थसता रूपेण तेषां प्रख्यानात्। सम्यग्देशनया तोषितः सुभूतिराह। आश्चर्यमित्यादि। सूक्ष्मेणेति निपुन(ण)वेद्येन। निर्वाणं च सूचितम्। भावनामार्गस्थस्यावैवर्तिकस्य सर्वेषां परिकल्पितानामप्रख्यानात्। रूपादिभ्यश्च निवारितः। तेषां परमार्थस्य प्रख्यानात्। तत्र निर्वाणेन रूपादिसमारोपान्तमुत्कता। इति शून्यतादिगम्भीरता॥



अथ शास्त्रम्-



[112] चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः।

निर्वे आङ्गेषु दृङ्‍मार्गे भावनामार्ग एव च॥४-५३॥



'अभीक्ष्णं' इति प्रबन्धेन। अतः प्राबन्धिकानि 'चिन्तातुलननिध्यानानि' स्वभावो भावनामार्गस्य अलम्बनं शून्यतादि। शून्यतादेराधारो निर्वेधभागीयदृङ्‍मार्गभावनामार्गाः(र्गः) कथं भावनामार्गस्या(श्चा)स्यैव विषय इति चेदाह-



[113] प्राबन्धिकत्वादिष्टोऽसौ



'प्राबन्धिको' हि भावनामार्गः। ततः प्राकृतो विषयः पश्चात्तमो विषयीति नास्ति विरोधः। अत्र सूत्रं भगवानाहेत्यादि। इमानीति यथोक्तानि शून्यतादीनि। प्रज्ञापारमिताप्रतिसंयुक्तानीति। विकल्पपारमित्तैव प्रज्ञा प्रज्ञापारमिता दर्शनमार्गो भावनामार्गश्च। निर्वेधभागीयानि तु तादर्थ्यात्प्रज्ञापारमिता। तस्यां त्रिविधायां प्रतिसंयुक्तानि सम्बद्धानि तदाधाराणीत्यर्थः। य इमानि चिन्तयिष्यति तुलयिष्यति उपनिधास्यतीति सम्बन्धः। कथमित्यत आह। एवं मयेत्यादि। स्थातव्यमिति चिन्तयैकान्तनिश्चयात्। शिक्षितव्यमिति तुलनेन शमथोत्पादनात्। प्रतिपत्तव्यमित्युपनिध्यानेन विपश्यनोत्पादनात्। आज्ञप्तं ग्रन्थश्रवणात्। आख्यातमर्थज्ञापनात्। उपदिष्टं रहस्यकीर्तनात् चतस्रो युक्तयः। अपेक्षायुक्तिः सर्वहेतूनपेक्ष्य कार्योत्पत्तेः। कार्यकारणयुक्तिः तेभ्यः प्रत्येकं कार्यविशेषोत्पत्तेः। उपपत्तिः साधनयुक्तिः। येन प्रमाणेन योऽर्थः सिध्यति। धर्मतायुक्तिः स्वभावनियमोधर्माणाम्। अग्नि एव दहत्याप एव क्लेदयन्तीत्यादि। आभिः समाध्यालम्बनस्य रहसि पर्यङ्कमारुह्य सत्कृत्य सातत्येन निरूपणं चिन्ता। तत्रैव नवाकारेण शमथेन चेतसः समीकरणं तुलनम्। धर्मान्विचिनोति प्रविचिनोति परिवितर्कयति परिमीमांसामापद्यत इति चतुराकारा विपश्यना उपनिध्यानम्॥ तत्र यथावभ्दाविकताज्ञानं विचयः। पञ्चैव स्कन्धा इत्यादि यथावभ्दाविकताज्ञानं प्रविचयः। सर्व एते शून्या इत्यादि निर्विकल्पेन मनसा प्रज्ञासहगतेन निमित्तीकरणं परिवितर्कः। सन्तीरणं परिमीमांसा। इति भावनामार्गस्य स्वभावः॥



नवधा च प्रकारतः।



स भावनामार्गः प्रकारभेदेन नवधा भवति। चकाराद्विपक्षो नवधा। कथमित्याह-



मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः॥४-५४॥



मृदुमृदुः। मृदुमध्यः। मृद्वधिमात्रः। मध्यमृदुः। मध्यमध्यः। मध्यधिमात्रः। अधिमात्रमृदुः। अधिमात्रमध्यः। अधिमात्राधिमात्रश्चेति। विपक्षाणामप्येत एव नव प्रकाराः। तत्रैते मार्गस्य प्रकारा अनुलोममुत्पद्यन्ते। तैः प्रतिलोमं विपक्षप्रकाराः क्षीयन्ते। अधिमात्राधिमात्रोऽधिमात्रमध्यो यावन्मृदुमृदुः। स च विपक्षो भावनाहेयः क्लेशविकल्पा यथायोगाम्। औदारिको हि मलश्चेलात्पुर्व निष्पीड्यते पश्चासूक्ष्मः। तद्वच्चित्तादपि।



तत्राद्यः तथेत्यादिना। द्वितीय एवमित्यादिना। ततः यथा पुनरपरादिभीः प्रसवत्यन्तैः ततः द्वावेकेन पुनरपरादिना सुभूतिराहेत्यतः प्राक्। तथेत्यादि। तथेति यथोक्तेन क्रमेण सम्पादयमानः शमथेन। उपनिध्यायन विपश्यनया। उपपरीक्षमाण उभाभ्याम्। प्रयुज्यमानः शमथवीर्येण। घटमानो विपश्यनावीर्येण। व्यायच्छमान उभयवीर्येण। स्वयमेव भगवान् पृच्छति कियत्कर्म करोतीति। उत्तरं स्वयमेवाह तद्यथापीत्यादिना। प्रसादा प्रभवन्तीति प्रासादिका गुणाः। मत्वर्थीयोऽच्। परपरिगृहीतेति परकीया न वशयेन् न शक्नुयात्। संसारादित्यागामिनो जन्मप्रबन्धात्। छोरयतीति त्यजति। विपृष्ठीकरोति। आगामिनोऽनागमनात्। व्यन्तीकरोतीत्यपरान्ततः पूर्वान्तनयनात्। यथाज्ञप्तमित्यादि पूर्ववत्। यथोद्दिष्टं यथा निर्दिष्टमित्युद्देशनात्। तिष्ठति चिन्तया संशयच्छेदात्। शिक्षते शमथेन। प्रतिपद्यते विपश्यनया। उपनिध्यायतीत्युभाभ्याम्। एवं योगं भावनामापद्यते। इयता एकं कर्मोक्तम्।



द्वितीयमाह तांश्चेत्यादिना सम्यक्सम्बोधेरित्येतदन्तेन। इति भावनामार्गो मृदुमृदुः॥



एवमित्यादि एवमित्यनन्तरोक्तवत्। तावत्कर्मेति बहुतरकल्पव्यन्तीकरणम्। सम्यक्सम्बोधिविनिवर्तकदोषविवर्जनं च। अधिकमाह यथेत्यादिना प्राक् पुनरपरात्। तत इति दायकात्। अयमेव विशिष्यते बहुतरपुण्यतया प्रकृष्यते। इत्यत आह। योयमित्यादि। इति भावनामार्गो मृदुमध्यः॥



पुनरित्यादि। दद्यादर्पणतः। प्रतिष्ठापयेदविप्रतिसारतः। इति भावनामार्गो मृद्धधिमात्रः॥



पुनरित्यादि। मनसिकारो विहारः। इति भावनामार्गो मध्यमृदुः॥



पुनरित्यादिना भावनामार्गो मध्यमध्यः॥



पुनरित्यादि। व्युत्थाय धर्म देशयेत् तच्च बोधौ परिणामयेदिति भावनामार्गो मध्याधिमात्रः॥



पुनरपरेत्यादि। तच्च धर्मदानं। प्रज्ञापारमितोक्तेन परिणामेन परिणामयेदिति भावनामार्गोऽधिमात्रमृदुः॥



पुनरित्यादि। तद्धर्मदानं प्रज्ञापारमितोक्तपरिणामेन परिणमय्य पुनः प्रतिसंलयने योगमापद्यते। इति भावनामार्गोऽधिमात्रमध्यः॥



यः पुनस्तत् प्रतिसंलयनमविरहितं करोति प्रज्ञापारमितया स तस्य भावनामार्गोऽधिमात्राधिमात्रः॥



सुभूतिराहेत्यादि। इह बहुतरं पुण्यं प्रसवतीति बाहुल्येनोक्तम्। अतः सुभूतेश्चोद्यम्। अभिसंस्कारो विकल्पः। तद्वत्पुण्याभिसंस्कारोपि। तस्माद्वहुतरं पुण्यमिति बहुतरो विकल्प उक्तः स्यादिति। उत्तरं भगवानाह सोपीत्यादिना प्रसवत्यन्तेन। इदानीमिति भावनामार्गकाले। यथालक्षणमसत्त्वाच्छून्यः। अज्ञातार्थे कप्रत्ययः। बालैरज्ञातः शून्यक इत्येव। एवमेव आख्याति प्रख्यातीति आख्यः। अनाख्ये आख्या भवति आख्यायते लोहितादेराकृतिगणत्वात् क्यष्। प्रख्यातीत्यर्थः। एवमुत्तरेष्वपि द्रष्टव्यम्। अस्वामिकत्वाद् रिक्तः। अग्राह्यत्वात् तुच्छः। ग्राहकाभावत्वाद् असरः। एवमिति शून्यतादिभिः। शेषं सुबोधम्। इति बहुतरंपुण्यंप्रसवचोद्यपरिहारौ॥



सुभूतिराहेत्यादि। उत्कर्षोपि विशेषः। छेदोपि नानाकरणम्। तयोर्व्यवच्छेदार्थमुभयोरुपादानम्। प्रमाणानीत्यौदार्यपरिच्छेदाः। संख्ययापीति गणनयापि न क्षपयितुं क्षयं नेतुम्। स्याभ्दगवन्नित्यादि सुगमम्। अधिकं वचनं अधिवचनं मुख्यं वाचकमित्यर्थः। अक्षया अपीति आकाशवत्। अप्रमेयातापीत्याकाशस्येव। अक्षयाप्रमेयशून्यतानिमित्तादीनां अभिलापाः शब्दाः। ननु शब्दा अपि विचत्राः कथमेकार्थे व्यवच्छेद्यभेद्यलेशादिति भावः। अत एवाह देशनाभिनिर्हार एष इति। देश्यतेऽनयेति देशना करुणा तस्याऽभिनिर्हारो निःष्यन्दः स चासौ निर्देशश्च। अत्र शास्त्रम्-



[114] असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः।

कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने॥४-५५॥



'न क्षमा' इति न युक्ताः। इत्यसंख्येयादिनिर्देशे चोद्यपरिहाराः॥



सुभूतिहाह। आश्चर्यमित्याद्यपि तु खल्वित्यतः प्राक्। अवाग्गोचरत्वाद् अनभिलाप्याः। पारमितार्थस्येति शून्यतालक्षणस्य। अत्र शास्त्रम्-



[115] हानिवृद्धी न युज्येते निरालापस्य वस्तुनः।

भावनाख्येन किं हीनं वर्त्मना किमुदागतम्॥४-५६॥



इत्यनभिलाप्यस्य हानिवृद्ध्यभावः॥



कथं तर्हि बोधिरित्यत आह। अपि तु खल्वित्याद्यापरिवर्तसमाप्तेः। स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पानिति यैर्दानं ददाति। तानि च कुशलमूलानीति यानि तैस्चित्तोत्पादैः संप्रयुक्तानि। यथा बोधिस्था परिणामयतीति। अन्यथा न सा परिणामना बोधये स्यात्। एवमुत्तरास्वपि द्रष्टव्यम्॥



यथाऽनुत्तरा सम्यक्सम्बोधिरित्युक्तम्। अतः पृच्छति। अथ खल्वित्यादिना। भगवानाह तथतैषा सुभूतेऽनुत्तरा सम्यक्सम्बोधिरित्यादि। अभीक्ष्णमिति पुनः पुनः। बहुलमिति प्रबन्धने। एवं खल्वित्यादिनोपसंहारः। अत्र शास्त्रम्-



[116] यथा बोधिस्तथैवासाविष्टस्याथैस्य साधकः।

तथतालक्षणा बोधिः सोपि तल्लक्षणो मतः॥४-५७॥



'असौ' इति 'सोपि' इति भावनामार्गः॥

शून्यताप्रधानः परिवर्तः शून्यतापरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टादशः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project