Digital Sanskrit Buddhist Canon

अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XVII

अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः।



'मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः।' इति पूर्वमुद्दिष्टम्। तत्र द्वे उक्ते। तृतीयो वक्तव्यः। अतः शास्त्रम्-



[97] निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः।

ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः॥४-३८॥



'अत्र' इति महायाने। 'अवैवर्तिकगणः'। तल्लक्षणम्। विवर्ताय प्रभवति वैवर्तिकः। न तथेत्यवैवर्क्तिकोऽविनिवर्तनीयः। अथास्य निर्वेधभागीयेषु स्थितस्य कति लिङ्गानीत्यत आह।



[98] रूपादिभ्यो निवृत्याद्यलिङ्गर्विशतिधेरितैः।

निर्वेधाङ्गस्थितस्येदमवैवर्तिकललक्षणम्॥४-३९॥



अवैवर्तिकत्वपरिज्ञानमित्यर्थः। अथ कतमे रूपादिनिवृत्त्यादयः ?



[99] रूपादिभ्यो निवृत्तिश्च विचिकित्साऽक्षणक्षयौ।

आत्मानः कुशलस्थस्य परेषां तन्नियोजनम्॥४-४०॥



[100] पराधारं च दानादि गम्भीरेऽर्थेप्यकाङ्‍क्षणम्।

मैत्रं कायाद्यसंवासः पञ्चधावरणेन च॥४-४१॥



[101] सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि।

चीवरादिशरीरे च कृमीणामसमुद्‍भवः॥४-४२॥



[102] चित्ताकौटिल्यमादानं धुतस्यामत्सरादिता।

धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा॥४-४३॥



[103] परैरनेयता मारस्यान्यमार्गोपदेशिनः।

मार इत्यवबोधश्च चर्या बुद्धानुमोदिता॥४-४४॥



[104] ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः।

लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते॥४-४५॥



अत आह। अथ खल्वित्यादि। आक्रियन्ते व्यज्यन्त एभिरिति आकाराः। लिङ्ग्यन्ते गम्यन्त एभिरिति लिङ्गानि। निमीयन्ते निरूप्यन्त एभिरिति निमित्तानि। एकार्थत्वेपि त्रयाणामुपादान(नं) सत्त्वान्तरशङ्काया व्यवच्छेदार्थम्। पर्यायस्कन्धं (वचनं) अथवा अपरः पर्यायः। कथमित्यादि। अत एव वाशब्दः। कथं वे ति केन प्रकारेण जानीयाम इति सम्बन्धः।



अतिबहूनि लिङ्गानि तत्राद्यं तावदाह या चेत्यादिना। चतुर्धा भूमिः। पृथग्जनश्रावकप्रत्येकबुद्धबुद्धसम्बन्धात्। इयं चतुर्विधापि तथताभूमिरित्युच्यते। कुत इत्याह। सर्वाश्च इत्यादि। चशब्दो हेतौ। यस्मात्सर्वा एतास्तथतयाऽद्वयाः। रूपादीनां सर्वधर्माणां यथालक्षणमसत्त्वात् तथतैवैताः। तथता चैकैव न द्वे न बहव्यः। तस्मात्तथतयाऽद्वया अभिन्नाः अद्वैधीकारादच्छिन्नाः विकल्पस्वभावविरहात् अविकल्पाः। विकल्पागोचरत्वात् निर्विक्रल्पाः। इतीति। एवं लक्षणा या तथता तां तथतां धर्मतामवतरति। कथमवतरतीत्याह तथतायामित्यादि। स्थितस्तन्मात्रदर्शनात्। न कल्पयति सम्यक् न विकल्पयति वितथम्। एवमवतरतीत्येवं सत्यवतरति।..........त्याह। एवमवतीर्ण इत्यादि। उक्तेन क्रमेणावतीर्णः सन्। यथेति यया मात्रया श्रुत्वापीति श्रवणानन्तरमपि। ततोपि वातिक्रम्येति तत उत्तरकालमपि। न काङ्‍क्षतीति न बाधते। नैवमितीति सम्बन्धः। विविधा मतिः विमतिः। तन्न करोति एवं वा न वेति। अत एवाह न विचिकित्सतोति। न धन्धायतीत्यप्रतिपत्तेः प्रतिषेधः। किं तर्हि करोतीत्याह। अपि त्वित्यादि। तथतैव सर्वं न सन्ति रूपादय इत्यधिमुञ्चति श्रद्धया। अवगाहते प्रज्ञया। एतदेव ज्ञानं मुख्यं लिङ्गम्। अस्य परिच्छेदमाह। न चेत्यादिना। परिच्छेदापेक्षया बहुवचनं एभिर्लिङ्गैरिति। तथतैव सर्वमिति ज्ञानात् 'रूपादिभ्यो निवृत्तिः' निर्वेधाङ्गेष्ववैवर्तिकलिङ्गं प्रथमम्॥



पुनरपरमित्यादि। अन्येषामिति। इतो धर्माद्वाह्यानाम्। श्रमणानामिति प्रव्रजितानाम्। मुखमुल्लोकयति प्रणतः पश्यति। किमितीत्याह। इमे इत्यादि। जानन्ति लौकिकेन ज्ञानेन। पश्यन्ति लोकोत्तरेण। दातव्यमिति भक्तितो देयम्। व्यपाश्रयत इति सेवते शरणं वा गच्छति। सत्येषु रत्नेषु च विमतिर्विचिकित्सा। तस्याः क्षये सति सर्वमेतन्न करोतीति 'विकित्साक्षयो' द्वितीयं तेषु तल्लिङ्गम्॥



स खल्वित्यादि। अपाया नरकप्रेततिर्यञ्चः। स्वीभावः स्त्रीत्वम्। स चावशिष्टानामक्षणानामुपलक्षणमिति 'अक्षणक्षयः' तृतीयं तेषु तल्लिङ्गम्॥



पुनरपरमित्यादि। दशसु कुशलेषु स्वयं स्थित्वा 'परेषां' तेषु 'समादापनं' दृढीकरणं चेति चतुर्थं तेषु तल्लिङ्गम्॥



पुनरपरमित्यादि। यं यं धर्ममिति सूत्रगेयादिकम्। ददाति च परस्मै हिताय सुखाय चष भवत्विति तेषामेव हितसुखाय। इति अनेनाकारेण साधारणं करोति। यथा च धर्मदानं तथान्यदपि दानशीलादिकमिति 'पराधारं दानादि' पञ्चमं तेषु तल्लिङ्गम्॥



पुनरपरमित्यादिना न धन्धायतीत्येतदन्तेन 'गम्भीरेऽर्थेप्यकाङ्‍क्षणं' षष्ठं तेष्वेव तल्लिङ्गम्॥



'मैत्रं कायादि' इति कायादि कर्म। तदाह हितवचनश्चेत्यादिना। उपलक्षणत्वादिति 'मैत्रं कायादि' सप्तमं तेषु तल्लिङ्गम्॥



'असंवासः पञ्चधावरणेन वा' इति। पञ्च निवरणानि। कामच्छन्दो व्यापादस्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति। एभिरसंवासोऽसमन्वागमः। तमाह। अल्पस्त्यानमिद्धश्च भवतीत्युपलक्षणत्वात्। इति पञ्चभिर्निवरणैसंवासोऽष्टमं तेषु तल्लिङ्गम्॥



सर्व यथा भवति तथाऽनुशयस्य द्वेषानुबन्धस्य हानं 'सर्वानुशयहानम्'। तदाह निरनुशयश्च भवतीति। नवमं तेषु तल्लिङ्गम्॥



'स्मृतिसंप्रज्ञता' इतिस्मृतिसहितं संप्रजन्यम्। तदाह सोभिक्रामन्वेत्यादिना। अभिक्रमो गमनम्। अप्रतिक्रम आगमनम्। भ्रान्तं विक्षिप्तम्। न विलम्बितमिति विलम्बे विक्षेपात्। सहसेति असमीक्ष्य भूमिम्। उपलक्षणं चैतच्चंक्रमस्थाननिषद्याशयनेषु विक्षेपस्येति स्मृतिसंप्रजन्यं दशमं तेषु तल्लिङ्गम्॥



तस्य खल्वित्यादि यानीत्यतः प्राक्। यूकायोगाद् यूकिलः। पिच्छादित्वादिलच्। चौक्षः शुचिः। आबाधः पीडा। आदीनव उपद्रव इति 'शुचिचीवरादिता' एकादशं तेषु तल्लिङ्गम्॥



यानीत्यादि सुभूतिराहेत्यतः प्राक्। सम्भवन्ति जायन्ते कायस्य भक्षणाय। अभ्युद्‍गतानीति प्रतिविशिष्टानि। इति 'शरीरे क्रि(कृ)मीणामसमुभ्दवो' द्वादशं तेषु तल्लिङ्गम्॥



सुभूतिराहेत्यादि पुनरपरात् प्राक्। चित्ताल्पकृत्यता अल्पत्वादविक्षेपाच्च। चित्तस्य कौटिल्यं कुटिलता। यत्तु स्वदोषप्रच्छादनोपायस्तच्छाठ्यम् यत्परवञ्चनाय स वङ्कः। परवञ्चनार्थमभूतस्वगुणसंदर्शनं माया। एभिर्विरहाद्यथाक्रमं चित्ताकौटिल्यं चित्ताशाठ्यता चित्तावङ्कता चित्तामायाविता च। शेषं सुबोधम्। इति 'चित्तकौटिल्यं' त्रयोदशं तेषु तल्लिङ्गम्॥



पुनरपरमित्यादि। अत्र लाभादिगुरूकताप्रतिषेधेन धुतग्रहोत्प्युपलभ्यते। इति 'धुतगुणसमादनं' चतुर्दशं तेषु तल्लिङ्गम्॥



नेर्ष्यामात्मसर्यबहुलो भवतीति मात्सर्यग्रहणेन षट्‍पारमिताविपक्षा उपलक्ष्यन्ते। इति 'अमत्सरादिता' पञ्चदशं तेषु तल्लिङ्गम्॥



न च गम्भीरेष्वित्यादि पुनरपरात् प्राक्। संस्यन्दनं संयोजनम्। धर्मतया युक्तं सर्वमवगच्छतीति 'धर्मतायुक्तगामित्वं' षोडशं तेषु तल्लिङ्गम्॥



पुनरपरमित्यादि धारयितव्यान्तरम्। प्रतिदेशयेत्येयमत्ययतो देशय। प्रतिनिःसजेति प्रतिनियमेनात्यन्तिकत्वेन परित्यज। एवमिति बोधिचित्तत्यागे सति। एवमपीति। ईदृशेपि मायेणोक्तै। शेषं सुबोधम्। इति लोकानामर्थोऽस्मादिति 'लोकार्थं नरकैषणा' नरकस्वीकारः। सप्तदशं तेषु तल्लिङ्गम्॥



पुनरपरादि धारयितव्यान्तम्। यच्छ्रुतं प्रज्ञापारमितादि तत्प्रतिदेशय प्रत्याचक्ष्व। यद् गृहीतं बधिचित्तपारमिताचर्यादि तत्परित्यज। अभूतविचित्रवादी कविः। तस्य कर्म काव्यम्। अविनिवर्तनीयस्य धातुः प्रकृतिः। अप्रत्युदावर्तनीयधर्मेति परेण सम्बध्यते। शेषं सुबोधम्। इति 'परैरनेयता' ऽष्टादशं तेषु तल्लिङ्गम्॥



पुनरपरादि धारयितव्यान्तम्। संसारे चारिकेत्यादिना बोधिसत्त्वमार्गं दूषयति। इहैव त्वमित्यादिना श्रावकादिमार्गं ग्राहयति। अभिनिर्वृत्त इति क्षीणायुः। वाशब्दो विकल्पे। इहैवेत्यादिकं वा वक्ष्यति। अहो वतेत्यादिकं वा। चित्तं न कुप्यति न चलतीति मारभाषितस्य हीनमार्गस्य मारभाषितत्वेन ज्ञानात्। अत इदं मारस्यान्यमार्गोपदेशिनो 'मार इत्यवबोधः' ऊनविंशतितमं तेषु तल्लिङ्गम्॥



सा चेदित्यादि धारयितव्यान्तम्। विवेको महायानत्यागः। तदर्थानि वचनानि विवेकपदानि। तानि परतो मारादितः श्रुत्वा चित्तं न परिहीयते इति सम्बन्धः। न चलतीत्यर्थः। कुत इत्याह। धर्मताया इति धर्म एव धर्मता महायानचर्या ततः। न प्रत्युदावर्तत इति न विमुखीभवति। नान्यथाभाव इति न विपर्ययः। न हीनयाने बहुमान इत्यर्थः। तानीति विवेकपदानि। चशब्दो हेतौ। यस्मान्मारकर्माणि जानाति। अस्थानमिति परेण सम्बध्यते। तथेति यथा बुद्धानुवर्णितम्। शेषं सुबोधम्। इति 'चर्याबुद्धानुमोदिता' विंशतितम तेषु तल्लिङ्गम्॥



ऊष्मामूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः।

लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते॥



अयमुपसंहारः। ऊष्मादिषु निर्वेधभागीयेषु स्थिते य एभिर्विशत्या लिङ्गैर्लक्षितः स सम्बोधेर्न निवर्तते। सोऽविनिवर्तनीय इत्यर्थः॥



दर्शनमार्गे स्थितमधिकृत्य शास्त्रम्-



[105] क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे।

बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम्॥४-४६॥



दर्शनमार्गे स्थितस्य बोधिसत्त्वस्यावैवर्तिकं लिङ्गं वेदितव्यम्। किं तत् ? 'क्षान्तिज्ञानलक्षणाः' क्षान्तिक्षणाः ज्ञानक्षणाश्च। 'षट् च पञ्च पञ्च च' इति षोडशेत्यर्थः। कतमे षोडश?



[106] रूपादिसंज्ञाव्यावत्तिर्दाढ्‍र्य चित्तस्य हीनयोः।

यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः॥४-४७॥



[107] कायचेतोलघुत्वं च कामसेवाभ्युपायिकी।

सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता॥४-४८॥



[108] स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके।

समरे मत्सरादौ च नेति योगानुयोगयोः॥४-४९॥



[109] विहारे प्रतिषेधश्च धर्मस्याणोरलब्धता।

निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः॥४-५०॥



[110] धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः।

अवैवर्तिकलिङ्गानि दृङ्‍मार्गस्थस्य धीमतः॥४-५१॥



तत्राद्यमाह। पुनरपरमित्यादिना धारयितव्यान्तेन। अभिसंस्करोतीति उत्पादयतीत्यर्थः। तमपि धर्ममिति रूपादिकं नोपलभत इत्यादि। अत्र उपलम्भ एवाभिसंस्कारः। स एवोत्पादनम्। अनुत्पादज्ञाने क्षान्तिरस्येति बहुव्रीहिः। इति 'रूपादिसंज्ञाव्यावृत्तिः' दुःखे धर्मज्ञानक्षान्तिः। सा दृङ्‍मार्गे प्रथमं तल्लिङ्गम्॥



पुनरपरमित्यादि धारयितव्यान्तम्। विच्छन्क्‍यिस्यतीति विगतच्छन्दं करिष्यति। आज्ञास्यति लोकोत्तरेण ज्ञानेन। विहन्यसे क्लिष्यसे। विवेचनता बोधिचित्तत्याजनम्। तत्रेति सम्यक्सम्बोधौ। दृढचित्तेन इति सम्यक्सम्बोधौ 'चित्तदार्ढ्यय' दुःखे धर्मज्ञानम्। तद् दृङ्मार्गे द्वितीयं तल्लिङ्गम्॥



पुनरपरादि भवत्यन्तम्। इति 'हीनयानविनिवृत्तिः' दुःखेऽन्वयज्ञानक्षान्ति। सा दृङ्‍मार्गे तृतीयं लिङ्गम्॥



स आकाङ्‍क्षन्नित्यादि वेदितव्यान्तम्। इति 'ध्यानादीनामङ्गपरिक्षयः' कामोत्पत्तिविबन्धे दौर्बल्यं दुःखेऽन्वयज्ञानम्। तद् दृङ्मार्गे चतुर्थं तल्लिङ्गम्॥



पुनरपरादि स चेदित्यतः प्राक्। अत्र न नामगुरुक इत्यादिकं 'चेतोलघुत्वम्'। सोऽभिक्रामन्वेत्यादिकं 'कायलघुत्वम्'। तदुभयं समुदये धर्मज्ञानक्षान्तिः। सा दृङ्‍मार्गे पञ्चमं तल्लिङ्गम्॥



स चेदित्यादि प्रागनर्थिकात्। यथोक्तैव संज्ञाऽभ्युपायः तेन निर्वृत्ता 'कामसेवाभ्युपायिकी'। सा समुदये धर्मज्ञानम्। तद् दृङ्‍मार्गे षष्ठं तल्लीङ्गम्॥



अनर्थिका एव चेत्यादि धारयितव्यान्तम्। अत्यर्थं सौमनस्यजननात् प्रियरूपैः। अत्यर्थं सुखजननात् सातरूपैः। प्रशंसायां रूपप् वा। अनर्थिका एवेति नित्यमनर्थिकाः। न समविषमेणेति न युक्तायुक्तेन। कथमित्याह। धर्मेणैवेत्यादि। अपमर्दनं पीडा। पञ्चभिर्मोक्षभागीयैश्चतुर्भिर्निर्वेधभागीयैः सप्तभिश्च दर्शनक्षणैर्योगात् सत्पुरुषैरित्यादिनि षोडशपदानि। इति 'सदैव ब्रह्मचारित्वं समुदयेऽन्वयज्ञानक्षान्तिः। सा दृङ्‍मार्गे सप्तमं तल्लिङ्गम्॥



पुनरपरादि धारयितव्यान्तम्। मन्त्रजातिर्मन्त्राविशेषः ग्रहदेवतायाः। औषधिः पा(फ)लपाकान्ता। स्त्रीदेवताया मन्त्रो विद्या। भैषज्यमौषधम्। आदिशब्देन यन्त्रमन्त्रादिपरिग्रहः। विग्रहः कायेन कलहो विवादस्तु वाचा। इति 'आजीवपरिशुद्धिः' समुदयेऽन्वयज्ञानम्। दृङ्‍मार्गेऽष्टमं तालिङ्गम्॥



नवमात् प्रभृति पञ्चक्षणानधिकृत्य शास्त्रम्-



'स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके।

समरे मत्सरादौ च नेति योगानुयोगयोः॥

विहारे प्रतिषेधश्च'



इति। 'योगः' साभिनिवेशा वृत्तिः। 'अनुयोगो' निरभिनिवेशा वृत्तिः। ताभ्यां विहारस्तयोर्विहारस्तद्वान्समाधिः। तस्य 'प्रतिषेधः'। 'नेति' इति नञो सम्बन्धादित्यर्थः। स पुनर्विहारः 'स्कन्धादौ' प्रथमः। 'अन्तरायेषु' द्वितीयः। 'सम्भारे' तृतीयः। 'सेन्द्रियादिके समरे' चतुर्थः। 'मत्सरादौ' पञ्चमः। तत्र चतुरं तावदाह पुनरपरमित्यादिना न च ते कलहेत्यतः प्राक्। न ते स्कन्धायतनेत्यादि। योगाश्चानुयोगश्च योगानुयोगं तदनुयुक्तास्तेन सह युक्ताः। सहार्थेऽनुशब्दः। न विहरन्तीति सम्बन्धः। अत्रोपपत्तिर्महत्योभंगवत्योरुक्ता-"तथा हि स शून्यतायां स्थितो न कस्यचिद्धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति" इति। एनामस्यां वाक्यद्वयेनाह। संक्लेशपक्षो निःसारत्वेन सङ्गणिकारामताविषयत्वात् सङ्गणिकारामता। सैवासत्त्वेन कथामात्रत्वात् कथा। शेषं पूर्ववत्। उत्कृष्टत्वाद्राजसंक्लेशनिरोधः। स एव कथा असाक्षात्कृतत्वेन कथामात्रत्वात् कथा। एतावेव कथे द्वे। यथायोगमुत्तरत्रापीति स्कन्धादियोगानुयोगविहारविरहो निरोधे धर्मज्ञानक्षान्तिः। सा दृङ्‍मार्गे नवमं तल्लिङ्गम्॥



पञ्च निवरणानि चौराः कुशलद्रव्यहरत्वात्। शेषं पूर्ववत्। इति निरोधे धर्मज्ञानम्। तद् दृङ्‍मार्गे दशमं तल्लिङ्गम्॥



कुशलधर्मसम्भारः सेना। शेषं पूर्ववत्। इति निरोधेऽन्वयज्ञानक्षान्तिः। सा दृङ्‍मार्गे एकादशं तल्लिङ्गम्॥



तया सेनया विपक्षाणां बाधनं युद्धम्। शेषं पूर्ववत्। युद्धे सति निरोधः प्राप्यते। निरोधो निर्वाणं विमुक्तिः। कश्चासौ ? देहप्रतिष्ठाबोगप्रतिभासानां विज्ञप्तीनां परावृत्तिः। तस्माद्देहादीनामविकल्पनात् न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति। तत्र चक्षुरादि पञ्चकं देहः। स हि ग्राम इन्द्रियग्रामत्वात्। देहानामाधारत्वात् प्रतिष्ठा नगरम्। नियतेन्द्रियगम्यत्वात् निगमो भोगः पञ्चविषयाः। जनपदादयः प्रतिष्ठाविशेषाः। आत्मात्मीयविकल्पक्षये सति मोक्षः। तत आत्मविकल्पानधिकृत्याह। नात्मकथेत्यादि। आत्मीयविकल्पानधिकृत्याह। नामात्येत्यादि। इत उर्ध्वरूपाः कथास्ते यथायोगमात्मीयविकल्पा भोगविकल्पाः प्रतिष्ठाविकल्पा वा वेदितव्याः। यदि तथा तथा न विहरन्ति कथं तर्हि विहरन्तीत्याह। अपि न्वित्यादि। प्रज्ञापारमितैव कथ प्रत्यवेक्षा। शेषं पुर्ववत्। सर्वत्र धर्मतया समतायोगानुयोगमनुयुक्ता एव विहरन्तीत्यर्थः। सर्वज्ञताप्रतिसंयुक्तैरिति बोधिचित्तप्रतिसंयुक्तैः। युद्धेन्द्रियादिकथायोगानुयोगविहारविरहो निरोधेऽन्वयज्ञानम्। तद् दृङ्‍मार्गे द्वादशं तल्लिङ्गम्॥



'मत्सरादौ च' इति शास्त्रम्। यदाह महत्योः। "स दानपारमितायां चरन्न मात्सर्यकथायोगमनुयुक्तो विहरति यावत् प्रज्ञापारमितायां चरन्न दौष्ठुल्यकथायोगमनुयुक्तो विहरति" इति। तदस्यामाह। न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्तीति। विपक्षत्वात्कलहा मात्सर्यादयः। प्रतिपक्षत्वात्कलहा मात्सर्यादयः। प्रतिपक्षत्वाभ्दण्डनादयः। यदोभयेषां चेतसि चारस्तुल्यबलता च तदा विग्रहः। यदा तु प्रतिपक्षैर्विपक्षा दुर्बलीक्रियन्ते तदा विवादः। तावेव विग्रहविवादौ कथा विकल्पत्वात्। तस्यां योगानुयोगमनुयुक्ता न विहरन्ति। अभेदः समताज्ञानम्। भेदो नानात्वविकल्पः। मित्रकामाश्चेत्यादि धारयितव्यान्तं सुगमम्। इति मार्गे धर्मज्ञानक्षान्तिः। सा दृङ्‍मार्गे त्रयोदशं तल्लिङ्गम्॥



पुनरपरादि स चेदित्यतः प्राक्। अनेतैतदाह।



'धर्मस्याणोरलब्धता। निश्चितत्वं स्वभूमौ च' इति। सोऽणुमपि धर्म न समनुपश्यति यो विवर्ते, भवान् वा विवर्तेन। तथापि स्वस्यामविनिवर्तनीयभूमौ निःसंशयो भवति। विचिकित्सा संशयः। संसीदनं मन्दोत्साहता। आनन्तर्यचित्तेनेति। अनन्तर्यपश्चात्तापेन। प्रतिविनोदनं सर्वथात्यागः। विष्कम्भणं मन्दाकरणम्। अविनिवर्तनीयचित्तमात्मनोऽविनिवर्तनीयत्वनिश्चयः। असंहार्यमप्रत्यानेयम्। इत्यवैवर्तिकभूमौ'स्थिरनिश्चयत्व' मार्गे धर्मज्ञानम्। तद् दृङ्‍मार्गे चतुर्दशं तल्लिङ्गम्॥



'भूमित्रितयसंस्थितिः।' मारकर्म तथागतभाषितस्यान्यथात्वं भाविनी चात्मनः सम्यक्सम्बोधिरिति त्रीणि स्थानानि 'भूमित्रितयम्'। तस्मिन् 'संस्थितिः' आत्यन्तिको निश्चयः। तामाह। स चेत्खल्वित्यादिना धारयितव्यान्तेन। इहैवेत्यस्मिन्नेव जन्मनि। नायं तथागत इत्यस्मात्पूर्व इति शब्दः परो द्रष्टव्यः। तथा तन्नान्यथेत्युक्तेऽर्थाद्‍गम्यते भविष्यत्येव मेऽनुत्तरा सम्यक्सम्बोधिरिति। बुद्धाधिष्ठानं बुद्धनिर्माणम्। अद्धेति तत्त्वत इत्यर्थः। इति भूमित्रयसंस्थितिमार्गेऽन्वयज्ञानक्षान्तिः। सा दृङ्‍मार्गे पञ्चदशं तल्लिङ्गम्॥



पुनरपरमित्यादि आपरिवर्तान्तात्। आत्मनः परित्यागो विक्रयादि। जीवितस्य परित्यागो मरणम्। बुद्धैर्भगवभ्दिर्देशितो धर्मः सर्वधर्माः शून्या इति। तमेव मोहपुरुषाः प्रतिक्षिपन्ति। तस्य स्वयं परैश्च परिग्रहाय जीवितमपि त्यजति। स हि बुद्धेषु यत्प्रेमगौरवं तद्धर्मे करोति। धर्मकायास्तथागता इति ज्ञानात्। आत्मनश्च भाविबुद्धत्वदर्शनात्। श्रावकस्यापीत्युपलक्षणम्। बोधिसत्त्वस्यापि देवादेरपि। शेषं सुबोधमिति। 'धर्मार्थं जीवितत्यागः' मार्गेऽन्वयज्ञानम्। तद् दृङ्‍मार्गे षोडशं तल्लिङ्गम्॥



'इत्यमी षोडश क्षणाः। अवैवर्तिकलिङ्गानि दृङ्‍मार्गस्थस्य धीमतः'॥ इत्युपसंहारः॥



अविनिवर्तनीयस्य यान्याकारलिङ्गनिमित्तानि तद्‍द्योतकः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तदशः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project