Digital Sanskrit Buddhist Canon

तथतापरिवर्तो नाम षोडशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tathatāparivarto nāma ṣoḍaśaḥ

XVI

तथतापरिवर्तो नाम षोडशः।



अथ खल्वित्यादि। नायं क्वचित्प्रतिहन्यत इति सर्वत्रास्य बाधकाभावात्। अतश्च अप्रतिहतलक्षणोऽप्रतिहतस्वभावः। आकाशसमतयेति। यत आकाशसमं ततस्तद्वदेवाप्रतिघम्। कुतः समतेत्यत आह। सर्वपदानां सर्ववस्तूनां अनुपलब्धितः। अप्रतिमो निरुपमः अद्वितीयत्वादिति सदृशाभावात्। प्रतिबोधकं लक्षणमस्येति प्रतिलक्षणः। तदभावाद् अप्रतिलक्षणः। निष्प्रत्यर्थिकत्वादिति विरोधरहितत्वात्। इत्यप्रतिहतस्वभावः।



पदं प्रतिष्ठा सुगतिदुर्गतिनिर्वाणानि। तदभावाद् अपदः। अनभिनिर्वृत्तत्वादिति। न खल्वनभिनिर्वृत्तस्य क्वचित्प्रतिष्ठा। कुतोऽनभिनिर्वृत्तः ? यतोऽनुत्पाद उत्पादरहितः। कुतोऽनुत्पादः ? सर्वोत्पत्तीनामनुत्पत्तित्वात्। न हि सतामुत्पत्तिरुत्पत्तिलक्षणायोगात्। नाप्यसताम्। असत्त्वादेव खरविषाणवत्। दुर्गतिपथः सुगतिपथो निर्वाणपथश्चेति पन्थानः। तदभावाद् अपथः। अत एवाह। सर्वपथानुपलब्धित्वात्। इत्यपदस्वभावः॥



अथ खल्वित्यादि। अनुजात इति। अनुपूर्वो जनिः सकर्मकः। कर्मास्य जनकः। कर्ता जन्यः। अनुः सादृश्ये। तस्मादिह कर्तरि क्तः। कर्मणि षष्ठि। सम्बन्धविवक्षया भगवतोऽनुजातः सुभूतिः। तत्कस्येत्यादि तत्तस्यानुजातत्वं ? उत्तरं तथा हीत्यादिना। भगवत एष पुत्रः सदृशश्च शून्यतावादित्वादिति भावः। अथ खल्वित्यादि। अजातत्वादित्यनुजातत्वे हेतुमाह। अजातत्वेन पितापुत्रयोः सादृश्यादिति भावः। यद्यजातः तौ कथं पितापुत्रौ ? संवृत्येति भावः। अनुपा(जा)त इत्यादिना हेत्वन्तरमाह। अनुपा(जा)तोऽनुगतस्तथागतस्य तथताम्। ततोप्यनुजातस्तथागतस्य। अनुगम्य जातोऽनुजात इति भावः। असिद्धो हेतुरिति चेदाह। यथेत्यादि। अनागतेत्यनुत्पन्ना। अगतेत्यविनष्टा। किं पुनः प्राप्तेऽर्हत्त्वेऽनुपा(जा)तः किं वा पूर्वमेवेत्यत आह। आदित इत्यादि। अतथतेति। तथताशब्दानाभिधेयत्वात्। एवं हीत्यादिनोपसंहारः। गत्यगती(?) गतिः। तत्प्रतिषेधादगतिस्वभावः॥



अनुजातत्वे हेत्वन्तरमाह तथागतस्येत्यादिना। तथता हि धर्माणां स्थितिः। अनतिक्रमणीयत्वात्तथावस्थिता। हेत्वन्तरमाह। यथेत्यादिना। पूर्वस्वभावानुवृत्तेः अविकारा। स्वभावान्तरानुत्पत्तेः निर्विकारा। विकल्पस्वभावाभावाद् अविकल्पा। विकल्पाविषयत्वात् निर्विकल्पा। हेत्वन्तरमाह। यथाचेत्यादिना। न क्वचित्प्रतिहन्यत इति सर्वगतत्वात्। तत्कस्य हेतोरिति। तदप्रतिहतत्वं कुतः ? तथा हि यस्य या तथता तत्रैव सास्ति ततोऽन्यत्र प्रतिहन्यत एव। वस्त्वभावात्। उत्तरं या चेत्यादिना एवं हीत्यतः प्राक्। एकैवैषेति प्रतिज्ञा। तत्किमेकजातीयत्वादेका ? नेत्याह। अद्वयेति। द्वयं भेदस्तदभावादद्वयेत्येको शब्दस्यार्थः। एकमपि सम्बन्धिभेदाभ्दिद्यते। तद्यथा पूर्वाकाशमपराकाशमिति। तद्वद्रूपतथता वेदनातथता संज्ञातथतेत्येष भेदो भवतीति चेदाह। अद्वैधीकारेति। अतश्च अद्वयतथता। नित्यं तथैवेति तथता। अद्वया च स्वयमभेदात्तथता च परतोप्यभेदादित्यद्वयतथता। हेतुमाह। न क्वचिदित्यादिना। तत्खलु तस्य भवति यद्यदाधारं तद्धेतुकं वा। तद्यथा कूपोदकं यवाङ्कुर इति। तथता तु न क्वचित् नापि कुतश्चित्। तस्मात्केषुचिदप्रतिबद्धत्वान्न सा कस्यचित्। यतः सा न कस्यचित्ततः साऽद्वयाऽद्वैधीकाराऽद्वयतथता। ततो न क्वचित्प्रतिहन्यते। तस्मादनुजातः सुभूतिस्तथागतस्येति सिद्धम्।



हेत्वन्तरमाह। एवं हीत्यादिना। एवं हीति एवमपि। तदेवाह। अकृततथतयेति। अकृता चासौ नित्यत्वात्तथता च। न सा कदाचिन्न तथतेति नित्यं तथैव भावात्। ततः साऽद्वयेति कालभेदेनास्याभेदात्। तथागतमिति कर्मणि द्वितीया।



हेत्वन्तरमाह यथेत्यादिना। सर्वत्रेति सर्वलोकधातुषु। सर्वधर्मष्विति सर्ववस्तुषु। अविकल्पा तेषामविकल्पनात्। निर्विकल्पा तथैव सर्वविकल्पानां प्रहाणाम्। एवमेव चेति सर्वत्राविकल्पनिर्विकल्पतया। अलुप्तमित्यच्छिन्नम्। एवं हीत्यादिनोपसंहारः॥



हेत्वन्तरमाह यथेत्यादिना नान्यत्रेति नान्या भेदकत्वानुपलब्धेः। द्वितीयाभावादनन्या चासौ तथता चेति अनन्यतथता। तस्या अनुगमः। तेनोपगतस्तथतां संवृत्या। परमार्थमाह। न चेत्यादिना। अत्रेत्यस्मिन्नुपगमे। न कश्चित्सुभूतिरन्यो वा। न क्वचिदिति तथागतेऽन्यस्मिन् वाऽनुगतिमुपगतः। धर्मपुभ्दलनैरात्म्यदर्शनादिति भावः। एवं हीत्यादिनोपसंहारः।



हेत्वन्तरमाह यथेत्यादिना। एवं हीत्यादिनोपसंहारः। इत्यजातस्वभावः॥



तथागततथतयापीत्यादि इयं सेत्यतः प्राक्। अत्र सर्वतथाप्रभेदानामभेदं दर्शयन् भेदं प्रतिषेधतीति सर्वासां रूपादितथतानामनुपलम्भात्तथतानुपललम्भः षोडशः स्वभावः॥



अस्यास्तथताया माहात्म्यमाह। इयं सेत्यादिना। गमिर्ज्ञानार्थः तथतागताऽनेन तस्मात्तथागत इति भावः।



अस्यां देश्यमानायां यदभ्दुतमभूत्तदाह। अस्यामित्यादिना। षडविकारमष्टादशमहानिमित्तं यथा भवति तथा अकम्पत यावत् संप्रागर्जत्। अत्र त्रयो धातवश्चलनार्थाः। त्रयः शब्दार्थाः। मृदुमध्याधिमात्रक्रियाभेदादष्टादशमहानिमित्तानि भवन्ति। तत्र चलनमङ्गतः। कम्पनं साकल्येन। साकल्येनात्यन्तं कम्पनं क्षोभः। वेधः शब्दः। रणितं दण्डाहतकांसीवत्। गर्जनं नवमहामेघवत्। षड्‍विकारास्तद्यथा-"पृथिव्याः पूर्वा दिगुन्नमति पश्चिमाऽवनमति। पश्चिमा दिगुन्नमति पूर्वाऽवनमति। उत्तराऽवनमति उत्तरा दिगुन्नमति। दक्षिणाऽवनमति। मध्ये उन्नमति। अन्तेऽवनमति। अन्ते उन्नमति मध्येऽवनमति" इति। किंवदित्याह। तथागतस्य चेत्यादि। एवं हीति। तथागताभिसम्बोधाविवसुभूतेस्तथतानिर्देशे महानिमित्तप्रादुर्भावसमतया।



प्रकारान्तरमप्याह। पुनरपरमित्यादिना जायेरन्नित्येतत्पर्यन्तेन। न संविद्यन्त इति प्रतिज्ञा। नोपलभ्यन्त इति हेतुः। यैरिति स्वधर्मैः। अनुजायेतेति कर्तरि लिङ्। ये चेति ताथागता धर्माः। अनुजायेरन्निति कर्मणि लिङ्। एवं हीत्युपसंहारः। तथता कथं चर्या ? तन्मात्रेऽवस्थानात्। अस्मिन् खलु पुनरित्यादि सुगमम्।



किञ्चापीति यद्यपि त्रयस्त्रिंशत इत्यपादाने तसिः। जात्या पक्षिणः महाकायत्वाच्छकुनेः। अन्तरा चित्तस्येति द्यावापृथिव्योर्मध्यसंज्ञिनः। एवं भवतीति एष वितर्को भवति। शेषं सुबोधं विरहितो भवतीति यावत् ! इह ज्ञानविशेषकारित्रस्वभावलक्षणे उक्ते।



बोधिसत्त्वानां मोक्षभागीयं वक्तव्यम्। तच्च तद्विरहिणां बोधिसत्त्वानामर्हत्त्वप्राप्तिकारणनिर्देशेन सूचितं व्यक्तिकर्तुं शारिपुत्र आह। यथाहं भगवन्नित्यादि। प्रज्ञापारमिता भावयितव्येति सर्वधर्मपरमार्थज्ञानाय। चर्यमाणस्य च दानपारमितादेरनिमित्तीकरणार्थम्। उपायकुशलेनेत्युपाये कुशलेन। तत्रोपायः सर्वाकारज्ञताचित्तस्य नित्यमत्यागः। सर्वपुण्यानां च बोधौ सम्यक्परिणामना। सम्यक्परिणामनानुमोदने च तत्परिवर्तोक्ते अतः शास्त्रोक्तलक्षणमुक्तं भवति।



[91] अनिमित्तप्रदानादिसमुदागमकौशलम्।

सर्वाकारावबोधेऽस्मिन् मोक्षभागीयमिष्यते॥४-३२॥



तेस्य पञ्चप्रभेदा महत्योर्भगवत्योः। तथा च शास्त्रम्-

[92] बुद्धाद्यालम्बना श्रद्धा वीर्य दानादिगोचरम्।

स्मृतिराशयसम्पत्तिः समाधिरविकल्पना॥४-३३॥



[93] धर्मेषु सर्वैराकारैः ज्ञानं प्रज्ञेति पञ्चधा।

एतदेव भगवानाह। एवमुक्त इत्यादिना। अथ शास्त्रम्-

तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता॥४-३४॥



एतदेव अथ खल्वित्यादिना प्रस्तुवन्ति। कृच्छ्रेण सम्भवोऽस्या इति दुरभिसम्भवा। एतद्देवैरविशेषेणोक्तम्। अथ खल्वित्यादिना भगवान् पुद्‍गलविशेषेणाह। दुष्प्रज्ञैरित्यादि। दुष्प्र ज्ञादिपदैः सूचितो विशेषो मृदूनि मोक्षभागीयानि। तीक्ष्णैस्तु मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिः। अतस्तानि दर्शयितुकामः सुभूतिराह। यभ्दगवानित्यादि। एवमुक्त इत्यादिना भगवत उत्तरम्। सर्वधर्माणामसत्तया बोधेः स्वभिसम्भवत्वमुक्तं सुभूतिना तदयुक्तम्। यतो यद्येतावत स्वभिसम्भवा स्यात्तदा सर्वसत्त्वानामादित एव तथा स्यात्। तस्मात्प्रतिपत्तितः प्राप्तिः। सा च न तेषामस्ति येषां मृदूनि मोक्षभागीयानि। अतोऽसम्भवत्वादप्राप्तेर्दुरभिसम्भवेति ब्रूमः। नन्वभिज्ञास्ते श्रुतचिन्तादिबलेन सम्यक्सम्बोधौ तत्तेषां कुतोऽप्राप्तिरित्यत आह। असद्‍भूतत्वाददुरभिसम्भवेति। ते हि बालग्राह्यमेवार्थ बोधिं मन्यन्ते। स चासद्‍भूतत्वादलीकत्वान्न प्राप्यत इति भावः। तथा हि। विकल्पं वा बोधि मन्येरन्। विकल्पनिर्मितं वाऽर्थम्। पक्षद्वयमप्ययुक्तम्। अविकल्पत्वाद्विकल्पाविठपितत्वाच्च बोधेः। एतद्दर्शयितुमाह। अविकल्पत्वादित्यादि।



अथ खल्वित्यादिना स्थविरशारिपुत्रस्योत्तरम्। स हि मन्यते शून्यत्वात्स्वभिसम्भवेत्ययं विरुद्धो हेतुरिति। एवं चेति। आकाशसमतया च। आकाशसमा हीति हेतुः। यत्तत्वं येषां तेनैव तेषामभिसम्बोधादिति भावः। एवं विरुद्धत्वमुक्त्वा अनुमाने बाधां विवक्षुः प्रसङ्गं करोति यदि चेत्यादिना। न त्वेवेति नैव। यस्मादित्यादिना विपर्ययमाह। अथवा परस्य हेतौ दूषिते स्वपक्षसाधनमेवेदम्। एवमुक्त इत्यादिना विस्तरेण सुभूतिः प्रसङ्गं विघटयति। विवर्तितुः सम्बोद्धुः सम्बोद्धव्यस्य च विकल्पने। कतमः स धर्मो यो विवर्तत इत्युक्त्वा अविवर्तनमेव साधयितुमाह यस्तस्यामेवेत्यादि। सर्वधर्मास्थानयोगेनेति। सर्वधर्मष्वस्थानमेव योगो न्यायः। तेन धर्मतायां स्थितः। धर्मतैव शुद्धा बोधिः। सा च प्रकृत्यैव शुद्धेति भावः। एवमुक्त इत्यादि शारिपुत्रस्य वचनम्। धर्मनयजातिः धर्माणां तत्त्वप्रकारः। ये चेत्यादिना विशेषमाह। च शब्दस्तुशब्दस्यार्थे। अथ खल्वित्यादिना पूर्णः सुभूतिं स्मारयति। शेषं सुबोधमासिद्धान्तस्थापनाग्रंथात् अनुत्तरया बोध्यानिर्यास्यत्ययं बोधिसत्त्वो महासत्त्व इत्यस्मात्। अत इयता विस्तरेण समन्वितम्। तीक्ष्णैर्मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिरिति। उक्तानि मोक्षभागीयानि॥



मोक्षस्य भागो भजनं प्राप्तिः तस्मै हितानि मोक्षभागीयानि तदप्युक्तानि। निर्वेधभागीयानि वक्तव्यानि। निर्वेधः प्रतिवेधो दर्शनमार्गः। तस्य भागः प्राप्तिः। तस्मै हितानि निर्वेधभागीयानि। तानि चत्वारि। ऊष्ममूर्धाक्षान्तिरग्रधर्माश्चेति। तत्राद्यमधिकृत्य शास्त्रम्-



[94] आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते।

आकारः समचित्तादिस्तेष्वेव दशधोदितः॥४-३५॥



अत आह। अथ खल्वित्यादि यावदहं नाथ इति। स्थातव्यमिति स्पृहणतः। शिक्षितव्यमभ्यासतः। समं स्थातव्यमित्यादिना दशचित्तान्युक्तनि। समचित्तं मैत्रचित्तं निःशाठ्यचित्तं निहतमानचित्तं मातापित्रादिचित्तं पुत्रदुहितादिचित्तं चेति। नाथः सानाथ्यं कर्तुम्। ऊष्मगतम्॥



[95] स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च।

तयोनियोजनाऽन्येषां वर्णवादानुकूलते॥४-३६॥



[96] मूर्धगं



एतदाह स्वयं चेत्यादिना। पापानि दशकुशलानि। पापेभ्यो निवृत्तौ विरतौ। परिजयोऽभ्यासः। अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानमित्यादिरनुलोमः प्रतीत्यसमुत्पादः। अविद्यानिरोधात् संस्कारनिरोध इत्यादिः प्रतिलोमः। अन्येषामिति परेषां समादापकः सम्यग्ग्राहकः। वर्णवादी गुणवादी समनुज्ञोऽनुकूल इति मूर्धगतम्॥



स्वपराधरं सत्यज्ञानं क्षमा मता।

तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः॥४-३७॥



स्वयं स सत्यानां ज्ञानं परेषां च तस्मिन् समादापनं 'वर्णवादानुकूलता' इति च क्षान्तिगतम्। स्वयं च सत्त्वानां परिपाचनबुद्धक्षेत्रपरिशोधनादि परेषां च तत्समादापनं वर्णवादानुकूल[ते]ति चाग्रधर्मगतम्। एतदुभयमाह। एवं सत्येष्वित्यादिना। सत्येष्विति दुःखादिसत्यविषयेषु यथाक्रमं परिज्ञानप्रहाणसाक्षात्क्रियाभावनासु स्त्रोतआपत्त्यादिपञ्चफलज्ञानसाक्षात्क्रियायां यावद्‍बोधिसत्त्वन्यामावक्रान्तौ। तथा सत्त्वपरिमाचनादौ च स्थित्वा अन्येषामपि तत्र समादापने तद्वर्णवादिना तत्समनुज्ञेन भवितव्यमिति क्षान्तिगताग्रधर्मगते॥



तस्यैवमित्यादिना निर्वेधभागीयानां फलमाह। अनावरणं रूपं वेदना संज्ञा यावत् सद्धर्मस्थितिरनावरणा भविष्यतीति॥



तथताप्रधानः परिवर्तस्तथतापरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतरा(मा)नाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षोडशः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project