Digital Sanskrit Buddhist Canon

लोकसंदर्शनपरिवर्तो नाम द्वादशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
XII

लोकसंदर्शनपरिवर्तो नाम द्वादशः।



उक्ता दोषाः। लक्षणं वक्तव्यम्। तदधिकृत्य शास्त्रम्-



[81] लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत।

ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते॥४-१३॥



'येन लक्ष्यते' तल्लक्षणमिति ज्ञेयम्। करणे ल्युट्। तच्च विविधं 'ज्ञानं विशेषः कारित्रं' चेति। यश्च लक्ष्यते तदपि लक्षणम्। कर्मणि ल्युट्। स च 'स्वभाव' एवेति चतुर्विधं लक्षणम्। तत्रादौ ज्ञानं वक्तव्यम्। तत्र सर्वज्ञताकारेण तावत्।



[82] तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके।

सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ॥१-१४॥



[83] अक्षयाकारतायां च सरागादौ प्रविस्तृते।

महद्‍गतेऽप्रमाणे च विज्ञाने चानिदर्शने॥१-१५॥



[84] अदृश्यचित्तज्ञानं(ने) च तदुन्मिञ्जादिसंज्ञितम्।

पुनस्तथताकारेण तेषां ज्ञानमतः परम्॥१-१६॥



[85] तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम्।

सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः॥४-१७॥



ज्ञानग्रहणं सप्तम्यन्तैः सहः संबध्यते। 'तथागतस्य निर्वृत्तौ' इति भगवत्याः सकाशात्तथागतस्य निष्पत्तौ ज्ञानम् तदाह। अथ खल्वित्यादिना अथ खल्वित्यतः प्राक्। तत्रादौ दृष्टान्तः। एवमेवेत्यतः प्राक्। मातुर्ग्लानाया इति मातरि ग्लानायाम्। स्पर्शविहार इति स्पर्शप्रचारः। अमनआप इति अमनोज्ञः दुःखहेतुत्वात्। सुधृता धारयेयुरिति सुपुष्टां पुष्टीयुः। तथा पुष्टीयुः यथा सुपुष्टा स्यात्। गोपायनं रक्षणम्। केलायनं सोधनं व्याधिहरणात् केलाशब्दः। कण्ड्‍वादिदुःखो वा स्पर्श इति। विषयेन्द्रियविज्ञानसन्निपातजश्चैत[सि]कः स्पर्शः। स च दुःखहेतुर्दुःख। चक्षुष इति पञ्चमी। आपातोऽमनुष्याणाम्। उत्पातो विद्युदादिः। ममकारेण ममा [ये]युः। समन्वाहरन्तीत्येतत् कुत इत्याह। येपि ते लिखन्तीति तामेव। तथागतस्येति शाक्यमुनेः। येपीति न केवलं शाक्यमुनिः। तिष्ठन्तीति सन्ति। ध्रियन्त इति अवतिष्ठन्ते। यापयन्तीति यावदायुरवतिष्ठन्ते। औत्सुक्यमापद्यन्ते। कथमित्याह। किमितीत्यादि। किदृशी मातेत्यत आह। जनयित्रीति। अस्याः सर्वज्ञतायाः। दर्शयित्रीति प्रापिका। एवमिति जनकत्वेनैव। इति तथागतस्य निर्वृत्तौ ज्ञानं प्रथमम्॥



लोकस्य सन्दर्शयित्रीत्युक्तम्। अतः पृच्छत्यथ खल्वित्यादिना। एवमुक्त इत्यादि उत्तरम्। लोक इत्याख्याता इति लुजो विनाशे। लुज्यन्ते प्रलुज्यन्ते क्षणिकत्वात् सन्ताननिरोधाच्चेति लोकाः। कर्त्तुर्युच्। नैरुक्तो वर्णव्यत्ययः। कथं लोक इति दर्शिता इति। यदि लुञ्जन्त इति लोकाः। तदाऽस्याः कोऽतिशय इति भावः। विश्वादर्शितमिति(?)लुजत्वादन्यत्(?)। यतोऽतिशयः स्यादित्यर्थः। न लुज्यन्त इत्यादि। ननु तथापि व्याहतमे[त]त् न लुज्यन्ते न प्रलुज्यन्ते तस्माल्लोक इति ? नास्ति व्याघातः। यस्यायमत्र सम्बन्धः। लोक इति पञ्चस्कन्धाः। ते भगवत्या प्रज्ञापार[मि]तया न लुज्यन्ते न प्रलुज्यन्त इति दर्शिताः। तत्कस्य हेतोरित्यादिना प्रश्नः। शून्यतेत्यादिनोत्तरम्। यथा शून्यता एवमनिमित्तादय इत्याह न चेत्यादिना। कथमिति पृष्टम्। अत एवं इत्यादिनोपसंहारः। इति लोकज्ञानं द्वितीयम्॥



सत्त्वानां चित्तचर्यास्वित्यनेनाप्रमेयाणां सत्त्वानां चित्तचरितज्ञानं निर्दिष्टम्। तच्च न विनाशत्वाप्रमेयताज्ञानेन। ततः पुनरपरमित्यादिना सत्त्वाप्रमेयताज्ञानमुक्त्वा योपीत्यादिना तच्चित्तचरितज्ञानमाह। तत्र कथं सत्त्वानामप्रमेयताज्ञानम् ? यतस्तेषां निःस्वभावतया न प्रमाणं न संख्या। कथं तच्चित्तचरितानां ज्ञानम् ? सत्त्वासत्तया तेषामप्यसत्त्वात्। लोकस्य सन्दर्शयित्रीति सत्त्वानामपि लोकत्वात्। इत्यप्रमेयसत्त्वचित्तचरितज्ञानं तृतीयम्॥



'तत्संक्षेपे बहिर्गतौ' इति। बहिर्गतिर्विक्षेपः। तस्य चित्तस्य संक्षेपसहिता बहिर्गतिस्तत्संक्षेपबहिर्गतिः। अतश्चित्तस्य संक्षेपविक्षेपज्ञानं पुनरपरगद्यद्वयेनाह। स संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानातीति। संक्षेपो हि चित्तस्य प्रकृतौ स्थानम्। तच्चास्य क्षय एव। स चाक्षयश्चित्तप्रकृतेरक्षयत्वात्। तस्मात्स तथागतः संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानाति। धर्मतात इत्यादि। ल्यब्‍लोपे पञ्चमी। चित्तधर्मतामपेक्ष्य तानि विक्षिप्तानि बहिर्मुखत्वात् प्रजानाति। स्वलक्षणापेक्षया कीदृशानीत्याह। अक्षीणानीत्यादि। न क्षीणानि नाप्यंशतः क्षीणानि ततो न संक्षिप्तानि। अविक्षिप्तानीति नापि विक्षिप्तानि। कुत इत्याह। अलक्षणानि हीति। यस्मात्स्वलक्षणैः शून्यानीत्यर्थः। इति चित्तसंक्षेपविक्षेपज्ञानं चतुर्थम्॥



'अक्षयाकारतायां च' इति क्षयपाठो महत्यौ प्रति। इमां तु प्रति 'अमेयाक्षयतायां च' इति पाठः। अस्यां हि पठ्यते अप्रमेयाक्षयानि चित्तानीति। तदाह। पुनरपरमित्यादिना। कथं चेति प्रश्नः। उत्तरं तस्येत्यादिना। अधिष्ठितमिति न कदाचिन्न स्थितमनादिनिधनमित्यर्थः। धर्मतयेति भावः। अत एव संस्कृतलक्षणाभावाद् अनिरोधमनुत्पादमस्थितम्। अनाश्रयं षण्णामपीन्द्रियाणां तस्मिन्नव्यापारात्। प्रमाणाभावाद् अप्रमेयम्। क्षयाभावाद् अक्षयम्। येनेति येनाधिष्ठितत्वादिना। आकाशेत्यादि। यथा आकाशस्याप्रमेयताक्षतया तथा चित्तस्य। एवमित्यादिनोपसंहारः। इति अप्रमेयाक्षयताज्ञानं पञ्चमम्॥



अप्रमेयाक्षयतायां चेति चकारोऽनुक्तसमुच्चयार्थः। तेन संक्लिष्टासंक्लिष्टज्ञानं लीनप्रगृहीतज्ञानं साश्रवानाश्रवज्ञानं च परिगृह्यते। तत्राद्यं पुनरपरगद्यद्वयेनाह। असंक्लेशसंक्लिष्टानीति संक्लिष्टिः संक्लेशः क्लेशोपक्लेशैर्मलिनीकरणम्। न संक्लेशोऽसंक्लेशः। तेन संक्लिष्टानि। यतोऽसंकेतानि। कित् निवासे। चित्तधर्मता(त)या न सम्यक्स्थानं तेषामागन्तुकत्वात्। प्रकृतीत्यादि। चित्तधर्मता हि प्रकृत्यैव प्रभास्वरा निर्मला नित्यमसंक्लिष्टेति संक्लिष्टासंक्लिष्टचित्तज्ञानं षष्ठम्॥



द्वितीयं पुनरपरगद्यद्वयेनाह। अनालयलीनानीति। अनालयोऽलयनम्। अलयनेनैव लीनानि। चित्तं हि लीनं न चित्तप्रकृतिः। न हि चित्तप्रकृतिर्न मह्यं न मेति वा। अग्राह्याणि तानि चित्तानि न प्रग्रहीतव्यानीति। अग्रहणं प्रग्रहः। प्रशब्दस्य प्रतिषेधार्थत्वात्। प्रस्थानवत् प्रवासवच्चेति भावः। इति लीनप्रगृहीतचित्तज्ञानं सप्तमम्॥



पुनरपरगद्यद्वयेन तृतीयमाह। अस्वभावानीत्यादि। आत्मन्येव भावः स्वभावः। तदभावादस्वभावानि। विसरत्येभिश्चित्तमित्यास्रवा असंकल्पाः। तद्योगात्सास्रवाणि। कुतः? यतोऽसत्संकल्पानि। असतां कामरूपारूप्यभवानां कल्पनात्। अभावगतिकानीत्यादि। अभावः शून्यता। सा गतिरेषामिति तथोक्तानि। तस्माद् अनाभोगानि कामरूपारूप्यभवेषु विसरणात्। ततोऽनास्रवाणीत्यर्थः। इति सास्रवानास्रवचित्तज्ञानमष्टमम्॥



'सरागादौ' इति। सरागवीतरागज्ञानं सदोषवीतदोषज्ञानं समोहवीतमोहज्ञानं च। तत्रादौ पुनरपरगद्यद्वयेनाह। या चित्तस्य सरागतेत्यादि। चित्तस्य सरागता न चित्तप्रकृतेः। तस्माद्विनैव रागं सरागाणीत्यर्थः। यश्चित्तस्य विगम इत्यादि। विगमः शून्यता। न सा सरागतेति सैव वीतरागतेत्यर्थः। इति सरागवीतरागचित्तज्ञानं नवमम्॥



पुनरपरगद्यद्वयेन द्वितीयम्। तत्सुबोधम्। इति सदोषवीतदोषचित्तज्ञानं दशमम्॥



ततः पुनरपरगद्यद्वयेन तॄतीयम्। इति समोहवीतमोहचित्तज्ञानमेकादशम्॥



"प्रविस्तृते महद्‍गतेऽप्रमाणे च" इति शास्त्रम्। प्रविस्तृतं विपुलमनन्तं कामधात्वालम्बनं ब्रह्मविहारादि। महद्‍गतं रूपधात्वालम्बनम्। कामाद्रूपस्य प्रकृष्टत्वादारूप्यधात्वालम्बनम्। त्रिधात्वालम्बनमनालम्बनं चाप्रमाणम्। अतस्त्रीणि ज्ञानानि महत्योः। विपुलचित्तज्ञानं महद्‍गतचित्तज्ञानमप्रमाणचित्तज्ञानं च। इमां तु भगवतीं प्रति 'अप्रमाणे च' इति चकारोऽनुक्तसमुच्चयार्थश्चाद्ययोरभिसम्बध्यते। विपुलेऽविपुले च। महद्‍गतेऽमहद्‍गते च। अप्रमाणे चेति। तस्मादस्यां त्रीणी ज्ञानानि। अविपुलविपुलज्ञानम्, अमहद्‍गतमहद्‍गतज्ञानम्, अप्रमाणज्ञानं चेति। तत्राद्यं पुनरपरगद्यद्वयेनाह। असमुत्थानेत्यादि समुत्थानं विस्तारः। तद्योगप्रतिषेधाद् असमुत्थानयोगानि। अतिप्रसारप्रतिषेधाद् असमुत्थानपर्यापन्नानि धर्मतया। तस्माद् अविपुलानि। न हीयन्त इत्यादि। न हीयन्ते नापचीयन्ते तस्मान्नाविपुलानि। न विवर्धन्ते तस्मान्न विपुलानि न विगच्छन्तीति न विशेषं गच्छन्ति। तस्मान्न विपुलानि नाविपुलानि। अविगमत्वादेवेति निर्विकारत्वादेव चित्तानामिति चित्तधर्मतायाः इति विपुलाविपुलचित्तज्ञानं द्वादशः॥



पुनरपरगद्यद्वयेन द्वितीयमाह। अनागतिकानीत्यादि। दूरादन्तिके गतिरागतिः। अन्तिकाद्‍दूरगतिर्गतिः। परितो गतिः पर्यापन्न



[लोकसन्दर्शनपरिवर्तो नाम द्वादशः॥]



[अचिन्त्यपरिवर्तो नाम त्रयोदशः॥]



[औपम्यपरिवर्तो नाम चतुर्दशः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project