Digital Sanskrit Buddhist Canon

मारकर्मपरिवर्तो नामैकादशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mārakarmaparivarto nāmaikādaśamaḥ
XI

मारकर्मपरिवर्तो नामैकादशमः।



दोषाः प्रयोगान्तरायकराः। ते वक्तव्याः। तमधिकृत्य शास्त्रम्-



दोषाश्च षड्‍विबोद्धव्याश्चतुर्भिर्दशकैः सह॥४-१२॥



दोषाः षट्‍चत्वारिंशदित्यर्थः। अत आह। अथ खल्वित्यादि। केचिदिति प्रश्नः। काङ्‍क्षाकिमर्थगतेः। अथवा चिच्छब्दो न पठितव्यः। बहूनीति सामान्येनोक्ते विशेषजिज्ञासया प्रश्नः। कियद्रूपाणोति। तेषामित्याद्युत्तरम्। वक्ष्यमाणानि षट्‍चत्वारिंशदिति भावः। भाषमाणादिपदानि सर्वचर्याणामुपलक्षणानि। चिरेण प्रतिभानमुत्पत्स्यत इति चिरेण पारमितानां पूरणम्। ततश्चिरेणैव बोधिः स्यात्। इति चिरप्रतिभानदोषः॥



तदपि चेत्यादि। विक्षेप्स्यत इति। उद्धतं भविष्यति। अनुपायकुशलस्य क्षिप्रतरं तदुत्पत्तौ मानोत्पत्तेः। ततोऽन्यान् बोधिसत्त्वानवमन्यमानस्य नीचकुलेषूत्पत्त्या चिरेणैव बोधिः स्यादित्याशुप्रतिभानदोषः॥



जृम्भमाणा इति सदर्पकायप्रसाराः। हसन्त इति अट्टहासान् कुर्वन्तः। उच्चवग्घयन्त इति दर्पादुत्तिष्ठन्तः। इति कायकर्मवैगुण्यम्॥



विक्षिप्तचित्ता इत्यसमाहिता। अन्योन्यविज्ञानसमङ्गिन इति परैः स्मरयितव्याः। स्वयं तु स्मृतिं न प्रतिलप्स्यन्ते। भिन्नेष्वपीर्यापथेषूद्देशविस्मरणाद्वेति चित्तवैगुण्यदोषः॥



परस्परमित्यादि। उच्चग्घमाना इति परस्परमुच्चग्घयन्तः। विक्षिप्तचक्षुष इतस्ततः। विसामग्रीति यावतामागमने पुस्तकमाकृष्यते तावतामसमग्रतेत्ययोगविहितस्वाध्यायादिता दोषः॥



न वयमित्यादि पुनरपरमित्यतः प्राक्। चित्तोत्पादैस्तथा तथेति पूर्वोक्तम्। न निर्जायन्ते न निष्पद्यन्ते। इति वैमुख्यनिमित्तग्राहिता दोषः॥



पुनरपरमित्यादि तद्यथापीत्यतः प्राक्। विवर्ज्य चेतसा। उत्सृज्य कायवाग्भ्याम्। निर्याणं शिक्षापर्यन्तगमनम्। इति हेतुभ्रंशदोषः॥



तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। पिण्डमाहारः। छोरयित्वा त्यक्त्वा। कवडं ग्रासम्। पत्रः पल्यसम्पत्समूहः। पलाशोपमप्रतिपन्न इति पलाशोपमेषु सूत्रान्तेष्वभियुक्ताः। दमयिष्यामः पञ्चेन्द्रियदमनात्। शमयिष्यामः चेतसो दमनात्। परिनिर्वापयिष्यामः पुनर्भवक्षयात्। कुशलमूलानामभिसंस्कारो निष्पादनानि तदर्थाः प्रयोगव्यापाराः। न च तैर्मन्तव्यमिति। तेषामात्मनश्चानुपलम्भादिति प्रणीतास्वादभ्रंशदोषः॥



तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। प्रकाशमिति सालोकम्। उपनिध्यायेदिति पश्येत्। वर्णसंस्थान इति वर्णाकारौ। इत्युत्तमयानभ्रंशदोषः॥



तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। केवलमात्मदमशमथमेवेति। संवर्णत इति वर्तते। इत्यपीत्यादि। प्रतिसंलयनं समाधिः। तदपि इत्येवम्। आत्मदमशमथार्थमेव संवर्ण्यते। इत ऊर्ध्वं इतीत्यादि सुगमम्। इति दृष्ट एवेत्यादि। दृष्टे धर्मे प्राप्ते जन्मनि। अनुपादायेति न किञ्चित्परिगह्य। नित्यकालमित्याबोधेः। सततं चैतत् प्रतिजन्मभावात्। समितं च प्रत्यहं भावादिति सततसमितम्। शेषं सुबोधम्। इत्युद्देशभ्रंशदोषः॥



इति प्रथमं दशकम्॥



तद्यथापीत्यादि तद्यथापित्यतः प्राक्। पलगण्डः सूत्रधारः। मेरुपृष्ठे सुदर्शनं नाम शक्रस्य सौवर्ण नगरम्। तन्मध्ये शक्रस्य वैजयन्तो नाम प्रासादः। प्रतिपार्श्वं योजनशतद्वयं सार्धम्। एकत्वेन योजनसहस्रम्। सूर्याचन्द्रमसोस्तु मेरोरर्द्धाद्वहिराकाशगामिस्फाटिकं वर्तुलं विमानम्। यथाक्रममेकपञ्चशत्पञ्चाशच्च योजनानि मध्यसूत्रेण। तन्मध्ये यस्तयोः प्रासादो बहुभूमेस्तदिह तयोर्विमानं वक्तव्यम्। तच्च वैजयन्तादतीवाल्पप्रमाणम्। निर्माणं विशेषवती क्रिया। उपनयन्ति प्रापयन्तीत्युपा[य]संमोहदोषः॥



तद्यथापीत्यादि। भगवानाह। तद्यथापीत्यतः प्राक्। लोके चक्रस्य प्रवर्तनात् चक्रवर्ती। तत्पुनश्चक्रमपौरुषमाकाशगामि सहस्रारं सनाभिकं सनेमिकं आयसं ताम्रं रौप्यं सौवर्ण वा यथायोगम्। वर्णो जाम्बुनदनिभः। संस्थानं द्वात्रिंशन्महापुरुषलक्षणोपेतम्। तेजः सर्वमभिभूः प्रभावः प्रभामण्डलश्च। ऋद्धिः सम्पत्तिः। विशेषतः सप्तरत्नानि-चक्ररत्नं हस्तिरत्नं अश्वरत्नं परिणायकरत्नं गृहपतिरत्नं मणिरत्नं चेति। धन्धयति मोहयत्यपरिस्फुटत्वादल्पत्वाच्चेति धन्धकः। यस्माद्धेतोर्बोधिसत्त्वः समुदेति स बोधिसत्त्वसमुदागमः। अवाप्य लाभमात्रेण। समासाद्य श्रवणादिभिः। विवर्ज्य त्यक्त्वा। विवर्त्य पराङ्‍मुखीभूय। इति चक्रवर्तिसाधर्म्यान्निर्माणकायभ्रंशदोषः॥



भगवानाह। तद्यथापीत्यादि तद्यथापीत्यतः प्राक्। रसाः षट्। द्रव्यभेदात् परस्परसांकर्याच्च शतं भवति। ततः शतरसं भोजनम्। षष्टिकाः षष्टिरात्रेण पच्यन्ते तेषामोदानः षष्टिकोदनः। शकन्ध्वादिषु दर्शनात्पररूपम्। उत्सृज्य चेतसा। विवर्ज्य कायेन। इति शतरसभोजसाधर्म्यात् सम्भोगकायभ्रंशदोषः॥



तद्यथापीत्यादि प्राक् पुनरपरशब्दात्। गम्भीरं परमार्थशेखरत्वात्। प्रभास्वरं परमनिर्मलालोकत्वात्। इत्यनर्ध्यमणिरत्नस्य धर्माद्धर्मकायभ्रंशदोषः॥



इत ऊर्ध्वं गद्यद्वयेन भगवत्यां पञ्च विपर्यासाः प्रतिशे(षे)ध्याः (?)। पुनरपरमित्याद्येवमुक्ते इत्यतः प्राक्। बहूनि प्रतिभानानीति रूपादीनां सर्वाकारज्ञतापर्यन्तानां प्रतिभानानि। भगवत्यामसंविद्यमानत्वाच्चित्तविक्षेपकराणीति तत्तभ्दावप्रतिभानदोषः॥



एवमुक्त इत्यादि पुनरपरात् प्राक्। ये केचित् प्रज्ञापारमिता लिखितेति, असतीति, अक्षराणीति, अनक्षरेति वा मन्यन्ते सर्वं तन्मारकर्म। तथा हि न सा लिखिता अपगन्धादिविरहात्। नासती परमार्थसत्त्वात्। नाक्षराणि सर्वधर्माणामनक्षरत्वात्। नानक्षरा तन्निष्यन्दत्वादेषामक्षराणाम्। एभिरेव च तस्याः सूचनात्। एतान्येव च तेनार्थेनालम्ब्य तस्या अधिगमात्। तदेवं लिखनाभिनिवेशोऽसत्त्वाभिनिवेशोऽक्षराभिनिवेशोऽनक्षराभिनिवेशश्चेति चत्वारो दोषाः॥



पुनरपरमित्यादि। देशो मालवादिः। शतेन सहस्रेण वा संख्यातगृहोऽनाढ्यानां निवासो ग्रामः। सहस्रेण लक्षेण वा संख्यातगृह आढ्यानां निवासो नगरम्। नगरमेव च वस्तुभूयिष्ठं निगमः। मण्डलं काश्यादि जनपदः। तत्समूहो राष्ट्रम्। राजाध्युषितं नगरं राजधानी। आख्यानं गद्यकाव्यम्। गुल्मो घहाः(ट्टः?)। विशिखा रथ्या। शिविका याप्ययानम्। जीवितार्थाः परिष्काराः जीवितपरिष्काराः। इतिहासः पुरावृत्तम्। शेषं सुबोधम्। इति गन्तव्यादिनानार्थमनसिकारविक्षेपदोषः।



इति द्वितीयं दशकम्॥



पुनरपरमित्यादिना द्रष्टव्यराजादिमनसिकारविक्षेपदोषः॥

पुनरपरमित्यादिना प्राप्तव्याग्न्यादिमनसिकारविक्षेपदोषः॥



पुनरपरमित्यादि प्राक् पुनरपरात्। अन्तराया विघाताः। लाभश्चीवरादिप्राप्तिः। सत्कार आदरः। श्लोको यशः। तैरास्वाद उद्धर्षः। चित्तोत्पीडा चीवरादिविघातैः। इत्युत्पीडास्वाददौषौ॥



पुनरपरमित्यादि प्राक् पुनरपरात्। किञ्चापीति यद्यपि। उपायकौशल्यमिति येन हीनबोधौ न पतेदिति। उपायकौशल्यरहितस्य गम्भीरसूत्रान्ते अतन्मार्गणदोषः॥



इति ऊर्ध्वं वैधुर्याणि बाहुल्येन वक्तव्यानि। तानि धर्मभाणकेन सह धार्मश्रवणिकानां विसामग्री। धर्मस्य भान(ण)को वक्ता गुरुः। धर्मश्रवणं प्रयोजनमेषामिति धार्मश्रवणिकः शिष्यः। समग्रभावः सामग्री। विपर्यासात् विसामग्री। तत्रादौ पुनरपरवाक्यद्वयम्। किलासं कौसीद्यम्। बहुकृत्यता गृहिणाम्। सपि कौसीद्यमिति च्छन्दकिलासवैधुर्यम्।



ततः पुनरपरवाक्यद्वयम्। अन्तश इत्यधिकमेव लिखितुकामः। गतिमान् शब्दज्ञानात्। मतिमान् अर्थज्ञानात्। स्मृतिमान् उभयोर्धारणात्। क्षेप्स्यत इति कर्मे कर्त्तरिप्रयोगः। गमिष्यतीत्यर्थः। उदघटितज्ञः सामान्योक्ते विशेषज्ञानात्। विपञ्चितज्ञः किञ्चिदप्युक्तौ विशेषपरिज्ञानात्। अनभिज्ञः पदपरमः। स हि यदुच्यते तदेव जानाति नाधिकम्॥



इमानि चत्वारि वैधुर्याणि। च्छन्ददेशान्तरगमनवैधुर्यम्। उद्‍घाटितज्ञतेतरतावैधुर्यम्। अभिज्ञतेतरतावैधुर्यम्॥



तृतीयं दशकम्॥



पुनरपरमित्यादि आमिषं द्रव्यम्। तद्‍गुरुकबहुमानादस्येति आमिषगुरुकः। एवं लोभादिगुरुकः। यावता स्वयं वर्तते तावदिच्छतीति अल्पेच्छः। सन्तुष्टो अधिकानिष्टेः। प्रविविक्तो गृहस्थैरसंस्तुतत्वात्। इयता प्रव्रजितस्य दानाशक्तिरुक्ता। अर्थवा न दातुकाम इति सन्तमप्यर्थ गृहीमात्सर्यात्। इत्यामिषार्थितादानानार्थितावैधुर्यम्॥



पुनरपरमित्यादि पुनरपरात् प्राक्। श्राद्धो भविष्यति। ततः श्रोतुकामः शब्दतः। अवबोधु(द्ध)कामोऽर्थतः। अर्थ दातुकामः परित्यक्तुकाम इति निरक्षेपदानात्। धर्मभाणकस्तु न वक्ष्यति। अश्राद्धत्वात्, धनैरण(न)र्थिकत्वात्, धर्ममात्सर्याद्वा। इमानि त्रीणि वैधुर्याणि। श्राद्धेतरतावैधुर्य दानार्थिताग्रहणानर्थितावैधुर्य श्रोतुकामताधर्ममात्सर्यवैधुर्य च॥



पुनरपरमित्यादि। तानि सूत्राणीति यानि श्रोतुकामः। धर्मान्तरायो धर्मव्यसनम्। तदस्यास्ति पूर्वजन्मसद्धर्मप्रतिक्षेपादिति धर्मान्तरायिकः। तत्तया तभ्दावेन न सम्भविष्यन्ति न भविष्यन्ति। नावतरिष्यन्ति नान्यत आगमिष्यन्ति। अप्राप्तधर्मभाणिन इत्यप्राप्तधर्मभाणकस्य। प्रतिवाणी प्रत्याख्यानम्। इति सूत्रान्तरा[य]सम्भवतदर्थितावैधुर्यम्॥



पुनरपरमित्यादि। न श्रोतुकामो भविष्यतीति धर्मान्तरव्यग्रतया। अत इदं च्छन्दकिलासवैधुर्यादन्यच्छन्दवैधुर्यम्॥



ततः पुनरपरवाक्यद्वयेन मिद्धगुरुकच्छन्दिकतावैधुर्यम्॥

पुनरपरवाक्येन दुर्गतिदुःखभयाभ्दववैमुख्यदोषः॥

पुनरपरवाक्येन सुगतिसुखानामपि दुःखत्वाभ्दववैमुख्यदोषः॥



ततः पुनरपरवाक्येन एकाकिता पर्षद्‍गुरुकतावैधुर्यम्। अनुबन्धुकामता अनवकाशदानवैधुर्यम्। दुर्भिक्षादिदिग्गमनागमनवैधुर्यं च। तत्रैकाकितापर्षद्‍गुरुकतावैधुर्यान्तं चतुर्थं दशकम्॥



एकेन पुनरपरवाक्येन सभयदिग्गमनागमनवैधुर्ये॥



पुनरपरमित्यादि कुलावलोकनबहुकृत्यतया धार्मश्रवणिकानां प्रत्याख्यानदोषः॥



इति हीत्यादिना मारकर्मणां बाहुल्यं बुद्धाविवर्जनीयतां मारस्य च तेष्वभियोगकारणमाह। पुनरपरमित्यादि। श्रमणवेशागतेन मारेण संशयप्रक्षेपदोषः॥



पुनरपरमित्यादि। निर्मितभिक्षुसङ्घेन स्वयं बुद्धवेषेण मारेण गम्भीरधर्मचारिणां हीनबोधिव्याकरणदोषः॥



एवं सुभूत इत्यादिना आपरिवर्तान्ताच्चतुरोऽर्थानाह। मारमर्मणां बाहुल्यं तत्कारणं तेभ्यश्च विना तामल्पबुद्धित्वादिकम्। यथा च मारस्य तेष्वभियोगस्तथा सर्वबुद्धानां बोधिसत्त्वपरिग्रहेष्विति षट्‍चत्वारिंशदन्तरायाः॥



मारकर्माण्यते एवान्तरायाः। तद्‍द्योतकः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्चिकायां रत्नाकरशान्तिविरचितायामेकादशः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project