Digital Sanskrit Buddhist Canon

धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
X

धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः।



......बोधिर्धर्मचक्रप्रवर्तनपर्यन्ता नाहेतुत्वादिति फलरत्नप्रदाताप्रयोगः॥



शुद्धराशिरित्यादि प्रगाश्चर्यात्। तेषामेव फलानामाकाशवद्विशुद्धिदर्शनादिति शुद्धकः प्रयोगः॥



आश्चर्यमित्यादि। अथ खल्वायुष्मानित्यतः प्राक्। लिख्येतेति लिखितुं शक्यते। लिखितर्व्यैवेति तावतैव कालेन लिखितव्या भवेत्। दृढसमादानस्य विघ्नाभावादिति भावः। तत्कस्य हेतोरिति कुत इदमासं (शं)कितमित्यर्थः। एवं हीत्यादिनोत्तरम्। धर्मतेयमिति भावः।



किञ्चापीति यद्यपि। न प्रसहिष्यत इति न प्रभविष्यति। अच्छिद्रसमादानस्यत्यखण्डसमादानस्य इत्यवधेरण(न)तिक्रमात् सावधिः प्रयोगः॥



उक्ताः प्रयोगाः। गुणा वक्तव्याः। तानधिकृत्य शास्त्रम्-



[80] माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः।



गुणाः प्रयोगानुशंसाः मारशक्तिव्याघातादयश्चतुर्दश। तत्रादौ अथ खल्वित्यादि न हि शारिपुत्रेत्यतः प्राक्। बुद्धानां आनुभावेनेति। तेन मारशक्तिव्याघातादिति भावः। प्रसत्तेः(?)अदर्शनात् पृच्छति। तत्कस्य हेतोरिति। समन्वाहरिष्यन्तीति स्मरिष्यन्ति। परिग्रहीष्यन्तीत्यानुकूल्ये चावस्थानादिति मारशक्तिव्याघातगुणः॥



न हि शारिपुत्रेत्यादि। एवमुक्त इत्यतः प्राक्। इति बुद्धसमन्वाहारज्ञानगुणः॥



एवमुक्त इत्यादि बुद्धचक्षुषेति यावत्। अनुभावः प्रभावः। अधिष्ठानमधिकशक्त्याधानम्। परिग्रहः स्वीकारः। कुतस्तेषां बुद्धाधिष्ठानं बुद्धपरिग्रहो वेत्यत आह ज्ञातास्त इत्यादि। ज्ञाताः समन्वाहृताः। अधिष्ठिताः स्वीकृताः। दृष्टा मांसचक्षुषा। व्यवलोकिता बुद्धचक्षुषा। इति बुद्धावलोकितत्वगुणः॥



ये ते बोधिसत्त्वा इत्यादि येपीत्यतः प्राक्। तथत्वायेति सम्यक्सम्बोध्यासन्नीभावगुणः॥



येपोत्यादि। इमे खल्वियतः प्राक्। महार्थिक आयत्यां बोधिसत्त्वभूमिभिः। महानुशंसो बोधिसत्त्वसम्पत्तिभिः। महाफलः पश्चादनुत्तराया बोध्याः। महादिपाकः चरमभवभाविनीभिः कुलगोत्रलक्षणादिसम्पत्तिभिः। परिश्रमः क्लमथः। परिष्प(स्प)न्दो व्यापारः। इति महार्थतादिगुणः॥



इमे खल्वित्यादि न सन्त्रासमापद्यन्त इति यावत्। सूत्रान्ता इति प्रज्ञापारमिताप्रभृतयः। अत्ययेनेति परिनिर्वाणेन। वर्तन्यामिति पूर्वदेशे। ननु मध्यदेशे षोडशेषु महानगरेषु भगवता धर्मो देशितः। तस्य कथं ततोऽन्यत्र प्रचार इत्यत आह। नवमण्ड इत्यादि। नवमण्डोऽभिनवः सारः। स प्राप्तो विनेयैरस्येति तथोक्ते धर्मविनये। धर्मश्चासौ देशनाधर्मत्वाद्विनयश्च क्लेशविनयादिति धर्मविनयः। भगवति परिनिर्वृते सद्धर्मस्य लोकेऽवस्थानं पञ्चवर्षसहस्राणि ततोऽन्तर्धानकालः। तत्समये सन्निधाने। ततः किमित्याह। समन्वाहृता इत्यादि। उत्तरस्यां दिशीति दिगन्तराणां व्यवच्छेदः। उत्तरे दिग्भाग इति। तस्या अपि भागान्तराणां विस्तारेण चरतीति वैस्तारिकी। उत्तरापथ इति वचनं दक्षिणापथादेर्व्यवच्छेदाय।



बहव इत्यल्पकपक्ष्यस्य सुबहव इति बहुत्वप्रकर्षाय। किञ्चापीति यद्यपि। शेषं सुबोधम्। अत्र चतुर्भिः कारणैः शासनापचय उक्तः। भगवतोऽत्ययेन। नवमण्डप्राप्तत्वेन। अन्तर्धानकालसन्निपातेन। प्रवर्तकाल्यत्वेन च। तथापि शासनं तानबलंब्य प्रवर्तिष्यत इति शासनावलम्बत्वगुणः॥





चिरयानेत्यादि यावत्सम्बोधिमारभ्येति। प्रश्नः पृच्छा। तत्करणात् परिपृष्टाः परिज्ञातपृच्छाः परिपृच्छाः। तथा करणात् परिपृच्छिताः। परिहतप्रश्नाः कृताः परिपुरिप्रश्नोकृताः। शीलेष्विति बहुवचनमाद्यर्थं शीलादिष्वित्यर्थः। शेषं सुबोधम्। इति शुक्लधर्मपरिपूरणगुणः॥



तत्कस्येत्यादि सम्यक्सम्बोधिमारभ्येति यावत्। जातिव्यतिवृत्तानामपीति तां तदुत्तरां च जातिमतिक्रान्तानामपि समुदाचाराः प्रयोगाः। अभिनन्दनमभिलाषः शेषं सुगमम्। इति कथापुरुषतागुणः॥



तेषु चेत्यादि यावत्सम्यक्सम्बोधाविति। छन्दतो मन्त्रतो वेति। अभिप्रायेण व्यवचारेण वा। शेषं सुबोधम्। इति अभेद्यतागुणः॥



तां चेत्यादिना सम्यक्सम्बोधावित्येतदन्तेन बहुजनकुशलमूलोत्पादनगुणः॥



तत्कस्येत्यादि एवं चेत्यतः प्राक् प्रस्थापयिष्याम इति प्रस्थानमात्रेण। सम्प्रभावयिष्याम इति भावनाप्रकर्षसंपादनात्। प्रतिष्ठापयिष्याम इति स्थिरीकरिष्यामः। शेषं सुबोधम्। इति प्रतिज्ञातपरार्थसंपादनगुणः॥



एवं चेत्यादि भविष्यन्तीति यावत्। एवं चेति यथोक्ते परार्थसंपादने सति। उदाराधिमुक्तिका भविष्यन्तीति। यथोक्तं महत्योस्तदेव संक्षिप्य ब्रूमः। "ते खलु उदाराधिमुक्तिका भविष्यन्ति। रूपशब्दगन्धरसस्पर्शधर्मेषु त उदाराणि दानानि दत्वा उदाराणि कुशलमूलान्यभिसंस्कृत्य उदारं विपाकं परिगृह्य सत्त्वानामर्थाय विपाकाद्विपाकं परिगृहीष्यन्ति" इति उदारफलपरिग्रहगुणः॥



यदित्यादि एवमुक्त इत्यतः प्राक्। यदिति यस्मादुदाराधिमुक्तिकत्वात्। अध्यालम्बितव्यानीति संक्रमितव्यानि। शेषं सुबोधम्। इति वैस्तरिकपरार्थसंपादनगुणः॥



एवमुक्त इत्याद्यापरिवर्तसमाप्तेः। पारमितानां कृतश इति तदर्थम्। तासां परिशुद्धये। अर्थायेति हिताय। अन्वेषिष्यन्ते प्रज्ञापारमिता क्वैषा लभ्यतामिति। पर्येषिष्यन्त इतस्ततो गत्वा गवेषिष्यन्ते। इह लप्स्यत इति श्रुत्वा। अभिवदनी (न्ती) ति सम्यग्वदन्ति। उपगमिष्यन्ति सन्निधानतः। उपपत्स्यन्ते प्रयत्ने सति लाभात्। उपनंस्यन्ते अयत्नेनैव लाभात्। शेषं सुबोधम्। इति षट्‍पारमितानियतलाभगुणः॥



इत्युक्तो गुणः॥

यथोक्तेषु प्रयोगेषु चेतसः स्थापनं धारणम्। तस्य गुणा अनुशंसाश्चतुर्दश। तेषां परिकीर्तनश्चासौ परिवर्तश्च।



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां दशमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project