Digital Sanskrit Buddhist Canon

स्तुतिपरिवर्तो नाम नवमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Stutiparivarto nāma navamaḥ

IX

स्तुतिपरिवर्तो नाम नवमः।



[73] आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः।

मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः॥१-१२॥



समता

[74] भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा।

सर्वाकारभिसम्बोध एष सोपायकौशलः॥१-१३॥



आकाराः, प्रयोगाः, गुणाः, दोषाः, लक्षणानि, मोक्षभागीयं, निर्वेधभागीय, अवैवर्तिकसंघः, संसारनिर्वाणसमता, बुद्धक्षेत्रपरिशुद्धिः, उपायकौशलं चेत्येकादशवस्तूनि सर्वाकाराभिसम्बोधः। यथोद्देशं निर्देशात् प्रथमत आकाराणां निर्देशः।



[75] वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम्।

सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः॥४-१॥



'वस्तु' आलम्बनं चतुःसत्यादि। तस्य 'ज्ञानम्'। तस्य 'प्रकाराः'। यैः प्रकारैस्तत्परिक्षेपः तेषां 'आकारा' इति लक्षणत्वात्। 'सर्वज्ञतानां' इति जातौ वहुवचनम्। सर्वज्ञताया इत्यर्थः। कथं तस्यास्त्रैविध्यम् ? सर्वज्ञता मार्गज्ञता सर्वाकारज्ञता चेति। तत्रादौ सर्वज्ञताकाराः सप्तविंशतिः। शास्त्रम्-



[76] असदाकारमारभ्य यावन्निश्चलताकृतिः।

चत्वारः प्रति सत्यं ते मार्गे पञ्चदश स्मृताः॥४-२॥



असत्पारमितेयमिति असदाकारामारभ्य यावदचलपारमितेयमित्यचलाकाराः। तेषु चत्वारश्चत्वारो दुःखसमुदयनिरोधसत्येषु परिविष्टाः। पञ्चदश मार्गसत्ये। असदाकारपारमिता। असत्पारमिता। एवमुत्तरा अपि सर्वाः। तत्र दुःखे चत्वारः-असत्-समता-विविक्त-अनवमृद्य।



आकाशसमतामिति। आकाशवद्रूपादेरसत्ताम्। यथा ह्याकाशस्य रूपिद्रव्याभावो लक्षणं तथा रूपादीनां स्वलक्षणाभावः। सर्वधर्मानुपलब्धिसमतामिति। सर्वधर्मानुपलब्धिरेव सुखदुःखयोः समता। अत्यन्तशून्यतामिति। पुद्‍गलेन स्वभावेन च शून्यतामित्यर्थः। बाधकं दुःखं बाध्यत्वादवमृद्य आत्मा। अनवमृद्याऽनात्मा। तदाकारत्वात् अनवमृद्यपारमिता। सर्वधर्माणां बाध्यबाधकानामनुपलब्धितां निरूपलम्भतां [उपादाय]।



समुदये चत्वारः। तथा हि-पदं हेतुः प्राक्तनाः स्कन्धाः। स्वभाव आत्मनो भावः। कायकर्म। वचनं वाक्कर्म। नाम मनस्कर्म क्लेशाश्च। एषामभावो यथाक्रमं.....अस्वभावः। ......तदाकारत्वात्तत्पारमिता। अनामाशरोरतामिति। नाम अरूपिणः स्कन्धाः। शरीरं रूपस्कन्धः। तयोरभावोऽनामशरीरता। गत्यागती कायकर्म। तदभावोऽनागतिरगतिश्च। वाचां हेतुर्विकल्पः। तदभावोऽविकल्पता।



निरोधे चत्वारः। तथा ह्यसौ गमनं वा स्यात् ग्राह्यं वा क्षयो वा उत्पत्तिर्वा। एषामभावो यथाक्रमं अगमनं, असंहार्यं, अक्षयः, अनुपपत्तिः। तदाकारत्वात्तत्पारमिता। सर्वधर्माणामगमनता गत्यभावः। सर्वधर्माणामग्राह्यता। न हि धर्मो धर्मं गृण्हातीति। क्षय एव धर्मः। तेन योगः। तदभावादक्षयधर्मयोगता। अभिनिर्वृत्तिरुत्पत्तिः। तदभावादनिर्वृत्तिता।



मार्गे-पञ्चदश-अकारक-अजानक-अपश्यक-असंक्रान्ति-अविनय-स्वप्न-प्रतिश्रुत्क-प्रतिभास-मरीचि-माया-असंक्लेश-अव्यवदान-अनुपलेप-अप्रपञ्च अमनना-अचला। अकारकाद्याकारत्वात्तत्पारमिता। अकारको मार्गस्तेन कारकानुपलब्धेः। अजानकापश्यको मार्गस्तेन जानकपश्यकानुपलब्धेः। असंक्रान्तिर्मार्गस्तेन च्युत्युपपत्त्योरयोगदर्शनात्। अविनयो मार्गस्तेन त्र्यध्वसमाया धर्मप्रकृतेरविनयात्। स्वप्नादितुल्यत्वात् स्वप्नो मार्गः विनैव द्रष्टारमन्धःकारात् (?)। प्रतिश्रुत्को मार्गः। असति शब्दे शब्दोपलम्भात्। प्रतिभासः प्रतिबिम्बं स मार्गः। असत्यर्थेऽर्थदर्शनात्। मरीचिर्मार्गः। तज्जलस्कन्धवदसतो लोकधातोः प्रतिभासात्। माया मार्गो निमित्ताप्रतिभासात्। अनुत्पादविज्ञापनतामिति। यतः पञ्चभिरप्येभिरनुत्पादो मार्ग आदीप्यते। प्रतिभासहेतुमन्तरेण तथा तथा प्रतिभासात्। असंक्लेशो मार्गस्तेन रागाद्यनुपलब्धेः। अव्यवदानं मार्गस्तेन क्लिष्टसत्त्वानुपलब्धेः। अनुपलेपो मार्गः। आकाशवन्निरुपलेपस्य धर्मधातोस्तेन दर्शनात्। अप्रपञ्चो मार्गः प्रपञ्चप्रतिपक्षत्वात्। अमनना मार्गः। सर्वमननासमुद्धातित्वात्। अचलो मार्गः। धर्मधातुशरीरत्वेन शाश्वतत्वात्। इति सर्वज्ञताकाराः॥



अथ मार्गज्ञताकाराः षट्‍त्रिंशत्।



[77] हेतौ मार्ग च दुःखे च निरोधे च यथाक्रमम्।

अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः॥४-३॥



हेतुः समुदयः। अतः समुदयमार्गौ प्रथमत उक्तौ फलोपायत्वात्। दुःखनिरोधौ पश्चादुक्तौ फलत्वात् तेष्वाकारा यथाक्रमम्। 'अष्टौ सप्त पञ्च षोडशेति च कीर्तीताः' सूत्रे तत्र समुदयेऽष्टौ-विराग-असमुत्थान-शान्तनिर्दोष-निष्क्लेश-निःसत्त्व। कथं तदष्टौ ? यतो निर्दोषे त्रितयः-अराग-अद्वेष-अमोह। प्राक्तना हि पञ्चस्कन्धाः समुदयः। रज्यन्तेऽस्मिन्निति रागः। परिकल्पितः स्वभावो धर्माणाम्। विगतो रागोऽस्मादिति विरागः समुदयः। सर्वधर्माणामवितथतामिति। वितथेन कल्पितेन स्वभावेन शून्यताम्। समुत्थानं क्लेशहेतुर्विकल्पः। तस्यास्मिन्नभावादसमुत्थानः समुदयः। सर्वधर्माणां निर्विकल्पतामिति। अग्राहकत्वात्। शान्तः समुदयः। निरोध इत्यर्थः। तत्कुतः ? सर्वेषां धर्मनिमित्तानां धर्मप्रतिभासानां परमार्थप्रतिभासेऽनुपलब्धेः। अत एव अरागपारमिता अदोषपारमिता अमोहपारमिता च। गुणपारमितामिति रागदोषमोहक्षयपारमिताम्। सर्वक्लेशाभावान्निष्क्लेशः समुदयः। परिकल्पासत्तामिति ग्राहकासत्ताम्। अपि च सर्वत्र क्लिष्टः स्याद् दुःखी च (?)। तदभावान्निःसत्त्वः समुदयः। भूतकोटितामिति धर्मपुद्‍गलशून्यताम्।



मार्गे सप्तेति-अप्रमाण-अन्तद्वयाननुगम-असम्भिन्न-अपरमृष्ट-अविकल्प-अप्रमेय-असङ्ग। अप्रमाणो मार्गः। सर्वधर्माणां समुत्थानस्यासमुत्थानतामलोकत्वमुपादाय। अन्तद्वयाननुगमो मार्गः। सर्वधर्मेष्वनभिनिवेशतामिति। यथाप्रतिभासं भावस्य तच्छून्यतया वा भावस्याननुगमः। असम्भिन्नो मार्गः। असम्भेदनतामिति भेदानुपलब्धिम्। अपरामृष्टो मार्गस्तेन हीनयानास्पृहणात्। अविकल्पो मार्गः। विकल्पसमतामिति विकल्पानामनुपलब्धिम्। अप्रमेयो मार्गः। अप्रमाणधर्मतामुपादायेति। अप्रमाणधर्मतालम्बनत्वात्। असङ्गो मार्गः। सर्वधर्मेष्वसङ्गतामिति निरुपलम्भताम्।



दुःखे पञ्च-अनित्य- दुःख शून्य-अनात्म-लक्षण। सास्रवाः पञ्चस्कन्धा दुःखम्। तदत्रानित्यं भवत्येवेति (?)। सर्वधर्माणामसंस्कृततामिति यथाप्रतिभासमनुत्पन्नताम्। दुःखं दुःखं सुखविलक्षणत्वादाकाशवत्। शून्यं दुःखं सर्वधर्मानुपलब्धेः। अनात्मा दुःखं यथाप्रतिभासं सर्वधर्मेष्वभिनिवेशायोगात्। त्रीणि संस्कृतलक्षणानि। जातिर्जराऽनित्यता च। तदभावादलक्षणं दुःखम्। अनभिनिवृत्तितामिति यथाप्रतिभासं यथा परमार्थं चासंस्कृतताम्॥



निरोधे षोडश। तथा हि निरोधः शून्यतैव विशुद्धा। न च शून्यता भिद्यते भेदकानामनुपलब्धेः। तस्मादाकाशवदनन्तापर्यन्तो निरोधः। अनुक्रमेण विस्तारेण वा परिच्छेदाद्यथाक्रमं ततः षोडश शून्यताः सन्त्येकरसाः। अत आह। सर्वशून्यतापारमितेयमनन्तापर्यन्ततामुपादायेति। अध्यात्मशून्यतापारमितेयं बहिर्धाशून्यतापारमितेयं यावदभावस्वभावशून्यतापारमितेत्यादि। अतश्च निरोधसत्ये षोडशाकाराः। इति मार्गज्ञताकाराः।



सर्वाकारज्ञताकाराः दशोत्तरं शतम्। यतः शास्त्रम्-



[78] स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः।

शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम्॥४-४॥



[79] सप्तत्रिंशच्चतुस्त्रिंशत् त्रिंशन्नव च ते मताः।

त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः॥४-५॥



तानधिकृत्य स्मृत्युपस्थानादीत्यादिकं आपरिवर्तसमाप्तेः। स्मृत्युपस्थानादिबोधिपक्ष्यधर्मपारमितेयमिति। स्मृत्युपस्थानादयः सप्तवर्गा अनेकशो विभक्ताः सप्तत्रिंशब्दोधिपक्ष्या धर्मा भवन्ति। प्रत्येकं तेषामनुपलम्भात्तदाकाराः पारमिताः............



[स्तुतिपरिवर्तो नाम नवमः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project