Digital Sanskrit Buddhist Canon

विशुद्धिपरिवर्तो नामाष्टमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Viśuddhiparivarto nāmāṣṭamaḥ

VIII

विशुद्धिपरिवर्तो नामाष्टमः।



लोकोत्तरस्य भावनामार्गस्य निर्हारः सप्तमपरिवर्तेनोक्तः। शुद्धिरष्टमस्यादौ वक्तव्या। तस्याः शुद्धेर्दुरधिमोचतां तावदाह। अथ खल्वित्यादिना। अनर्थिकेनेति मन्दच्छन्देन। उपस्तब्धो विस्मितः। अशुश्रूषणा-अपरिपच्छकजातीयेनेति कल्याणमित्रेषु सुभूतेः प्रश्नः। कियदगम्भीरेत्यादि। कियता गम्भीरा यतो दुरधिमोचेत्यर्थः। भगवत उत्तरं रूपं सुभूत इत्यादिना। रूपादयो रूपादीनां च पूर्वापरमध्यान्ता अबद्धा अमुक्ताः स्वभावेनाध्वत्रयेण च निःस्वभावत्वादित्यर्थः। परमदुरधिमोचेति परमगम्भीरत्वादिति भावः। प्राक्‍प्रवृत्तो हि बन्धः प्रागशुद्धिः पश्चात्तन्निवृत्तिलक्षणो मोक्षः शुद्धिरिति प्रसिद्धम्। इह तु बन्धमोक्षयोरत्यन्ताभावः शुद्धिरिति परमगम्भीरं विशुद्धिलक्षणं शास्त्रे-



[58] फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः।

अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदिरिता॥[2-26]॥



'फलशुद्धिः' साध्या। सा च 'रूपादिशुद्धिरेव'। यस्मात् 'तयोः' 'अभिन्नाच्छिन्नता' 'इति शुद्धिरुदीरिता'। शुद्धेर्लक्षणमुक्तं सुत्रे। कतमस्याः शुद्धेः ? यस्यादुरधिमोचत्वमुक्तम्। तत्कस्य हेतोरित्यादि। तदस्या दुरधिमोचत्वं कुत इत्यर्थः। उत्तरं येत्यादिना। यत इदं तस्या लक्षणमिति भावः। अद्वयं तादात्म्यात्। अद्वैधीकारमव्यभिचारात्। अनयोरेव निर्देशो अभिन्नमच्छिन्नमिति। येत्यनुवादः सेति विधिः। अनूद्यमानश्च धर्मो विधीयमाने नियत इति ख्यापितः। अतः सामान्याधिकरणादभिन्नमुभयम्। अन्योन्यनियमादन्योन्याव्यभिचारः। तस्मादच्छिन्नमुभयम्। तदेवं यैव स्कन्धानामेकशो विशुद्धिः सैव फलविशुद्धिः। यैव फलविशुद्धिः सैवेतरा। अन्योन्याव्यभिचारात्। अन्योन्यलिङ्गता। स चाव्यभिचारस्तादात्म्यात्। अत आह। फलविशुद्धित इत्यादि पुनरपरमित्यतः प्राक् इति विशुद्धिलक्षणम्।



विशुद्धिभेदाश्वत्वारो महत्योर्भगवत्योरुक्ताः सर्वसंग्रहार्थम्। अस्यां तु नोक्ता बोधिसत्त्वमार्गाधिकारात्। मार्गस्य विशुद्धिरुच्यते। स च भूमौ भूमौ नवविधो मृदुमृद्वादिभेदादधिमात्राधिमात्रादिभेदात्। नवविधस्यैव दोषस्य प्रतिपक्षेण भूमयस्तु शुद्धेस्ताश्चैव नव। कामधातुरष्टौ च रूपारूप्याः। अतः शास्त्रम्-



[59] मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु।

अभिमात्राधिमात्रदेर्मलस्य प्रतिपक्षतः॥२-३०॥



अतो नवविधं मार्गमाह। पुनरपरमित्यादिना अत्यन्तानुपपत्तिरित्यतः प्राक्। सर्वज्ञतेति सर्वाकारज्ञता। तस्या विशुद्धिर्द्विविधा। या स्कन्धानामेकशो विशुद्धिः पारमितानां च सा सर्वाकारज्ञताविशुद्धिः। या च तस्याः सा तेषामित्येका सर्वाकारज्ञताविशुद्धिः। अध्यात्मशून्यतादीनां स्कन्धादीनां च यावदावेणिकबुद्धधर्माणमेकशो या विशुद्धिर्या च प्रज्ञापारमिताया या च सर्वाकारज्ञतायाः सर्वमेतदभिन्नमच्छिन्नमिति द्वितीया सर्वाकारज्ञताविशुद्धिः। तदस्यां न पठ्यते उपलक्षणत्वात्तद्‍ग्राह्यम्। इति मृदुमृदुमार्गो मृदुमध्यश्च॥



अथ खल्वित्यादि। इतः प्रभृति प्रज्ञापारमितेति प्रज्ञापारमिताविशुद्धिरित्यर्थः। सा गम्भीरा दुरवगाहा सर्वधर्माणां विशुद्धत्वादत्यन्तशून्यत्वादिति मृद्वधिमार्गः॥



साऽवभासकरी तमोपहा विशुद्धत्वात्सर्वधर्माणामिति मध्यमृदुमार्गः॥

सा आलोको दर्शनं विशुद्धत्वादिति मध्यमध्यो मार्गः॥

सा अप्रतिसन्धिरसंक्रान्तिर्भवान्तरे विशुद्धत्वादिति मध्याधिमात्रो मार्गः॥

सा असंक्लेशो विशुद्धित्वात् प्रकृत्यसंक्लिष्टत्वात्सर्वधर्माणामित्यधिमात्रमृदुमार्गः॥

सा अप्राप्तिरनभिसमयो विशुद्धत्वात् सर्वधर्माणामप्राप्तेरनभिसमयाच्चेत्यधिमात्रमध्यो मार्गः॥

सा अनभिनिर्वृत्तिर्विशुद्धत्वात् अनभिनिर्वृत्तत्वात् सर्वधर्माणामित्यधिमात्राधिमात्रो मार्गः॥

आह। अत्यन्तानुपपत्तिरित्यादिकमामार्गज्ञतापरिसमाप्तेः। अतः शास्त्रम्-



[61] त्रिधातुप्रतिपक्षत्वं समता मानमेययोः।

मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः॥२-३१॥



तस्यां 'त्रिधातुप्रतिपक्षत्वं' यदाह। अत्यन्तानुपपत्तिः प्रज्ञापारमिता। कामधात्वादिषु विशुद्धत्वात्। कामधात्वादिष्वभावानुपपत्तेः इति त्रिधातुप्रतिपक्षत्वम्।



अत्र च 'समता मानमेययोः'। यदाह। आहेत्यादि। न जान तीति न गृण्हाति। न संजानीत इति न विकल्पयति। स्फुटीकर्तु प्रश्नः किं पुनरित्यादि। उत्तरं रूपमित्यादि। विशुद्धत्यादित्यत्यन्तसमत्वात्। तदेवं यथा स्याज्ज्ञेयं ग्राह्यं न भवति तथैषापि तस्य ग्राहिका न भवतीति ज्ञेयमानसमता।



योयं विशुद्धिलक्षणो भावनामार्ग उक्तो न स युक्तः। यतोऽस्मिन्नष्टौ दोषा इत्यत आह। 'मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः।' चकारोऽवधारणे। भिन्नक्रमश्च। चोद्यस्येति जातावेकवचनम्। भावनामार्ग एव स इष्यते तदीयचोद्यानामित ऊर्ध्वं परिहारादित्यर्थः। अत्र च सिद्धान्त एव काक्वा कुत एतदिति हेतुसापेक्षाश्चोद्यसूचनाद्यानि। सिद्धान्तहेतवः परिहाराः। तत्र द्वे चोद्ये शारिपुत्रस्य षट् सुभूतेः।



नापकारं करोति न चोपकारमिति सिद्धान्तः। स कुतः ? यदि ह्यकिंचित्करी कथं सा मार्ग इति चोद्यम्। विशुद्धित्वादिति परिहारः। सर्वज्ञता हि धर्मधातुविशुद्धिः स च विशुद्धः प्रकृतिशुद्धः। ततः सा अस्याकिञ्चित्करी। केवलमागन्तुकावरणक्षयं [प्रति] व्याप्रियते। न गृण्हाति न त्यजतीति सिद्धान्तः। स कुतः ? यदि ह्यसौ गृण्हाति विकल्पः स्यात्। अथ न गॄण्हाति प्रज्ञैव न स्यादिति चोद्यम्। विशुद्धत्वादि परिहारः। यथा हि यत एवासौ धर्मान् धर्मलक्षणैर्न पश्यत्यत एव धर्मतया पश्यति। अत एव विशुद्धः। विशुद्धत्वात् न गृण्हाति न च त्यजतीति। स्कन्धविशुद्धितः फलविशुद्धिः सर्वज्ञताविशुद्धिश्चोक्ता। सा च तेषां विशुद्धिरात्मविशुद्‍ध्या। यथा ह्यात्मनो विशुद्धिरत्यन्तमसत्ता तथा तेषामपीति सिद्धान्तः। स कुतः ? यदि हि स्कन्धफलसर्वज्ञतानामत्यन्तमसत्ता तदैता(ते)न किञ्चिदिति चोद्यम्। अत्यन्तविशुद्धित्वादिति परिहारः। अत्यन्तमसन्त एव धर्माः स्वलक्षणैः। अत एव तच्छून्यतालक्षणया धर्मतया सन्तीत्यर्थः। आत्मविशुद्धितो न प्राप्तिर्नाभिसमय इति सिद्धान्तः। चोद्यं पुर्ववत्। अत्यन्तविशुद्धत्वादिति परिहारः। यत एव धर्मलक्षणैर्धर्मा अत्यन्तमसन्तः तत एव धर्मतया सन्तः। सा च प्रकृत्यैव शुद्धा तच्छुद्धिरेव च सर्वज्ञतेति न तस्याः प्राप्तिर्नाभिसमय इत्यर्थः। आत्मापर्यन्ततया रूपवेदना दीनामपर्यन्ततेति सिद्धान्तः। स कुतः। दृश्यते हि स्कन्धादीनां पर्यन्तस्तत्कथमपर्यन्ता इति चोद्यम्। अत्यन्तविशुद्धत्वादिति परिहारः। यथा ह्यात्मनोऽत्यन्तमसत्ता तथा रूपादीनामपि स्वलक्षणैः। ततोऽसतां तेषां कः पर्यन्तः ? धर्मतया सन्तीति चेत् .............पर्यन्तः। सर्वधर्मसामान्यलक्षणत्वात् रूपादिकस्य। न, भेदस्यापरमार्थत्वात्। तस्माद्यैव रूपादिविशुद्धिः सैव फलविशुद्धिः सर्वज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिश्चेत्यर्थः॥



य एवमत्यन्तासत्तया सर्वधर्माणां अवबोधः स प्रज्ञापारमितेति सिद्धान्तः। स कुतः ?....................बोधो न तर्हि साऽत्यन्तविशुद्धिरिति चोद्यम्। अत्यन्तविशुद्धित्वादिति परिहारः।



एवं समाप्ता अष्टावत्यन्तभावनामार्गमार्गज्ञताधिकाराः॥



प्रथमपरिवर्तेन सर्वाकारज्ञतोक्ता। इतोऽर्धसप्तमैः परिवर्तैर्मार्ज्ञता। अष्टमनवमयोः परिवर्तयोरर्धाभ्यां सर्वज्ञता वक्तव्या। तस्य अष्टौ वस्तूनि। यथोक्तं प्राक्



[61] प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः।

अनुपायेन दूरत्वमुपायेनाविदूरता॥१-१०॥



[62] विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च।

दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते॥१-११॥



इति। अत्र शास्त्रम्-

[63] नापरे न परे तीरे नान्तराले तयोः स्थिता।

अध्वनां समतायोगात्प्रज्ञापारमिता मता॥३-१॥



'प्रज्ञापारमिता' इति सर्वज्ञता। 'नापरे तीरे' इति संसारे। 'न परे तीरे' इति निर्वाणे। नापि तयोरन्तराले स्थिता'। त्रयं नोपलभ्यत इत्यर्थः। कुत इत्याह। 'अध्वानां समतायोगाद्' इति। धर्मतयाप्यध्वसमत्वात्। धर्माणां च यथालक्षणमनुपलम्भत्। एतदाह। आयुष्मान् इत्यादिना। सेति समाधानं पूर्वमुक्तत्वात्। इयमिति सर्वज्ञताख्येन विशेषेण वक्तव्यत्वात्। अत एवाह। विप्रकृतेति। विशेषेण प्रकृतत्वात् वर्तमानत्वाद्वा। अथवा कुतो न स्थिता ? यतो विप्रकृता त्रयानुपलम्भेन बाधिता। भगवान् हेतुमाह। अत्यन्तविशुद्धत्वादिति। स्वैर्लक्षणैरसतां धर्माणां धर्मतालक्षणेन नित्यविशुद्धत्वादित्यर्थः। श्रावकास्तु स्वदुःखक्षयमात्रैषिणः संसारं परिकल्प्य तेनात्यन्तमुद्विग्ना निर्वाणं परिकल्प्य तस्मिन्नतीवोत्कण्ठिता लघु लध्वेव परिनिर्वान्ति। नैवं बोधिसत्वाः, सर्वसत्त्वार्थं निरुत्तरबोधिकामा इति संसारनिर्वाणाप्रतिष्ठता॥



शास्त्रम्-



[64] अनुपायेन दूरं सा सनिमित्तोपलम्भतः।



'सनिमित्तं उपलम्भोऽनुपायः'। तेन सा दूरीभवति। तदाह। आयुष्मानित्यादि। एवमपीति नामतोपि निमित्ततोपि। रिञ्चिष्यति त्यक्ष्यति नामतः। दूरीकरिष्यति निमित्ततः। इति दूरीभावः।



उपायकौशलेनास्याः सम्यगासन्नतोदिता॥३-२॥



निःसङ्गा वृत्तिः सम्यगुपायकौशलम्। तेनासन्नीभवति। तदाह। एवमुक्त इत्यादिना। सङ्गः सक्तिरभूतपरिकल्पः। सा नामतो स्यान्निमित्ततोपि। तयोरपि भूतेऽर्थेऽभावात्। आख्याता षोडशभिर्दृष्टिमार्गलक्षणैः। सुनिर्दिष्टा द्वादशभिः प्रयोगैः। सुपरिनिष्ठिता संसारनिर्वाणयोरप्रतिष्ठानात्। सुपरिशुद्धा सङ्गकोटीनां विवर्जनात्। यत्र हीति वाक्यालङ्कारे। नामेत्याश्चर्ये। इमेपि सङ्गा इति सङ्गाऽपि वक्ष्यमाणाः। अतः सङ्गवर्जनमुपायकौशलमित्या सन्नीभावता।



ते पुनः सङ्गाः सामान्येनोक्ताः। विशेषतो वक्तव्याः। अतः शास्त्रम्-



[65] रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च।

दानादौ बोधिपक्षेषु चर्या संज्ञा विपक्षता॥३-३॥



रूपादीनां सर्वधर्माणां स्कन्धो राशिः। तस्य शून्यतायां त्रैयध्विके परधर्मेसु पारमिता बोधिपक्ष्यविषयायां च चर्यायां या 'संज्ञा' नामतो निमित्ततो वा सा 'विपक्षता'। स्वार्थे तल् देवतावत्। स विपक्षः स सङ्ग इत्यर्थः।



एतदाह। अथ खल्वित्यादिना। अस्यां भगवत्यां'चर्यासंज्ञा' न पठ्यते। सा पठितानामुपलक्षणत्वान्नोच्यते। दानपारमितां यावत्प्रज्ञापारमितां स्मृत्युपस्थानानि यावदार्याष्टङ्गमार्ग चरामीति सञ्जानीते सङ्ग इति। अस्यामधिकसङ्गमाह। इयन्तमित्यादिना। ये सङ्गास्त उक्ताः। यथा ते सङ्गास्तन्नोक्तम्। ततः शक्रस्य प्रश्नोऽथ खल्वित्यादिना। पर्यायेणेति प्रकारेण। इदं तु प्रथमं बोधिचित्तमिति। एष विकल्पः प्रथमः सङ्गः। बोधौ परिणामयामीति। एवं विकल्प्य परिणामना द्वितीयः। कथमिमौ सङ्गौ ? तस्य चित्तस्यातीतत्वेनासत्त्वात्। बोधेश्चानागतत्वेन। चित्तप्रकृतिः सदास्तीति चेदाह। न चेत्यादि। न शक्या इति नित्यस्य परिणामायोगात्। तस्मादुभौ विकल्पौ। अभूतकल्पनात्। शेषास्तु यथा सङ्गास्तथा पुर्वमेवोक्तम्।



सङ्गाः तेषां वर्जनमर्वागुक्तं भवति। अतः शास्त्रम्-



[66] दानादिष्वनहङ्कारः परेषां तन्नियोजनम्।

सङ्गः कोटी निषेधोऽयं



'दानादिष्वनहंकारः' सामर्थ्यात्। पूर्वमुक्तः। 'परेषां तन्नियोजनं' आह तस्मात्तर्हीत्यादिना। तस्मादिति स्वयं सङ्गविवर्जनात् कारणात्। तर्हीति परेषां सन्दर्शनादिकाले। सन्दर्शयतेति पूर्वमश्रुतवतः रोचयता। समादापयतेति। अनुष्ठानाय सम्यग् ग्राहयता। सम्प्रहषयतेति मन्थरान् प्रोत्साहयता। सम्प्रहर्षयतेति। आरब्धवीर्यान् साधुकारैः। भुतानुगमः सङ्गत्यागात्। एवं समादाय तेष्वपराद्धं (?) दर्शयितुमाह। एवमित्यादि। न क्षिणोतीति बुद्धेष्वपराद्धं न करोति। स्वयम्भूतानुगमेऽनुशंसमाह। इमाश्चेत्यादिना। तदेवं यन्न 'दानादिष्वनहङ्कारो' यन्न 'परेषां तत्र नियोजनं', एष द्विविधः सङ्गकोटीनां स्थूलानां निषेधः।



शास्त्रम्।



सूक्ष्मः सङ्गो जीनादिषु॥३-४॥



बुद्धादौ यः सङ्गः स सूक्ष्मः। तमाह अथ खलु भगवानित्यादिना। न सा शक्या परिणामयितुमिति त्र्यध्वप्रसङ्गात्। न निमित्तीकर्तुं नारम्बणीकर्तुमिति। अपूर्वत्वेनाकारणत्वात्। दुर्बोधत्वाच्च। यतो न सा दृष्टश्रुतमतविज्ञात चक्षुषा श्रोत्रेण घ्राणजिव्हाकायैर्मनसा वाऽप्रतीतत्वात् यथा क्रमम्। गम्भीरा प्रज्ञापारमिता विविक्तत्वात्। प्रकृतिगम्भीरा प्रकृतिविविक्तत्वात्। अतश्च नमस्करणिया। सर्वधर्मा अपि प्रकृतिविविक्ताः। या तेषां प्रकृतिविविक्तता सा प्रज्ञापारमिता। यतोऽकृतास्ते भगवताऽभिसम्बुद्धाः। यतस्ते प्रकृत्यैव न किञ्चित्। या चैषां प्रकृतिः साऽभावः। यश्चाभावः सैषां प्रकृतिः। एकलक्षणत्वात् यदुतालक्षणत्वात्। एवमशेषाः सङ्गकोटयो विविर्जिता भवन्ति। अचिन्त्या चिन्तातीतत्वात्। नहि सा रूपं न वेदना यावन्न बुद्धधर्माः। शेषं सुबोधम्।



नापि सा दृष्टश्रुतमतविज्ञातेत्यादिना यदुक्तं। अत्र शास्त्रम्



[67] तद्‍गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः।

एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम्॥३-५॥



[68] दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता।

रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते॥३-६॥



'विवेकाद्' इति विविक्तत्वात्। 'धर्मपद्धतिः' धर्मराशिः। धर्माणां ज्ञानमिति सम्बन्धः। एका तेषां प्रकृतिः ख्यातिर्यस्मिंस्तथोक्तम्। तन्न विपक्षप्रतिपक्षौ वक्तव्यौ। सङ्गासङ्गौ कस्मादुक्तौ ? अतः शास्त्रम्-



[69] एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये।

अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः॥३-७॥



'एवं कृत्वा' इति सङ्गासङ्गव्यपदेशं कृत्वा। 'यथोक्तं' इति। यथोक्तो विभागः 'सर्वज्ञतानये'। सर्वोऽयं 'विपक्षप्रतिपक्षयोः' वेदितव्यः। तथा हि। सङ्ग उपलम्भो विकल्पः। असङ्गोऽनुपलम्भः प्रज्ञापारमिता। तस्मात्सङ्गो विपक्षोऽसङ्गः प्रतिपक्षः इति विपक्षप्रतिपक्षौ॥



प्रयोगस्तत्समता च वक्तव्या। अतः शास्त्रम्-



[70] रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः।

तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः॥३-८॥



[71] अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा।

यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च सः॥३-९॥



[72] अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः।



'तदनित्यादौ' इति। रूपादेरनित्यत्वनित्यत्वादौ। इट् रधादिभ्य इति इञ्चापरिपुरिः। परिप्रपूरेः भाव इति परिप्रपूरः असङ्गः। विवक्षावशात् तच्छब्देन सङ्गो गृह्यते। समाहारद्वन्द्वः। सङ्गासङ्गत्वयोरित्यर्थः। एकशेषस्तु न भवत्यन(?)भिधानात्। 'रूपादौ' रूपादेरनित्यत्वनित्यत्वादौ। रूपादेरपरिपूर्णत्वपरिपूर्णत्वयोः। रूपादेः सङ्गासङ्गयोश्च। या 'चर्या' चरणं तत्प्रतिषेधेन प्रज्ञापारमितायां चरणं 'प्रयोगो' रूपाद्यादिषु। अमी च चत्वारः। उत्तरे चाष्टौ। 'अविकारोऽकर्ता'। [उद्देश] दुष्करः कारित्रदुष्करोऽबन्ध्योऽपरप्रत्ययः सप्तधाख्यातिवेदकश्चेति द्वादशविधः प्रयोगः। अतस्तं पृच्छति। आह। तेन हीत्यादिना कथं चरितव्यमिति। कथं प्रयोगः कर्तव्यः ? अत्र रूपादयः सर्वधर्माः। स्कन्धास्तूपलक्षणम्। रूपे यावद्विज्ञाने न चरतीति रूपादीन्न सञ्जानीत इत्यर्थः। तदा चरति प्रज्ञापारमितायामिति रूपादिप्रयोगः॥



स चेद्रूपमनित्यं यावद्विज्ञानमनित्यमिति न चरति। तथा नित्यमिति सुखमिति शून्यमित्यशून्यमिति आत्मेति अनात्मेति शुभमिति अशुभमिति न चरति तदा चरति प्रज्ञपारमितायामिति रूपाद्यनित्यत्वादिप्रयोगः॥



स चेद्रूपं यावद्विज्ञानं अपरिपूर्ण परिपूर्ण वा। तदेव रूपादेरपरिपूर्णत्वं परिपूर्णत्वं तदेव रूपादि इति न चरति। तदा चरत्यस्यामित्यपरिपुरिपरिपूरिप्रयोगः॥



एवमुक्त इत्यादिना चतुर्थं प्रस्तौति। भगवांस्तमाह। रूपं ससङ्गमित्यादिना चरितव्यान्तेन। अत्रैव एवं चरन्नित्यादिनाऽनुशंसमाह। असक्तेत्यादि। सर्वसङ्गाभावादसक्ता। ततो न बद्धा क्लेशैस्त्रैधातुके। ततो न मुक्ता क्लेशैः। न समतिक्रान्ता त्रैधातुकम्। एवं हीत्यादिनोपसंहारः। इति रूपादिसङ्गासङ्गप्रयोगः॥



सुभूतिराहेत्यादिना परिहाणिर्भवेदित्येदन्तेन पञ्चमः। हानिवृद्धयोरभावादविकारता। आकाशवत्। वर्णो गुणः। इत्यविकारप्रयोगः॥



तद्यथापीत्यादिना स्थविरशब्दात् प्राक् षष्ठः। संक्लिश्यते शब्दस्यार्थः प्रतिहन्यत(?) इति। द्वितीयस्यानुनीयत इति। देशनया हानिवृद्धयोरकरणादकर्तृप्रयोगः॥



स्थविर इत्यादिनाऽभिसम्बोद्धकामान्तेन सप्तमः। त्रिविधां दुष्करतां वक्तुं भगवती भावनादुष्करतामनुषङ्गादाह। तस्यामेव स्थितानामुद्देशादेर्दुष्करत्वात्। चरन्निति शमथेन। न संसीदति लयेन। नोत्प्लवते औद्धत्येन। न प्रत्युदावर्तते निवर्तते। आकाशभावना। एकलक्षणताप्रतिभासात्। अयं सन्नाह इति यः सर्वसत्त्वार्थाय सम्यक्सम्बोधौ। आकाशेनेति। आकाशनिभेन योगेन तदत्यागात्। ततो दुष्करता सत्त्वानामनुपलम्भादनन्ताच्च। विश्वार्थमुद्दिश्य बोधेः। स चोद्देशः सन्नाह इत्युद्देशदुष्करताप्रयोगः॥



आकाशमित्यादिना सन्नह्यत इत्येतदन्तेनाष्टमः। उच्चैर्गतिर्विबन्धपातनं(?) परिमोचनम्। उच्चैर्नयनमुत्क्षेपः। एतावान्सत्त्वार्थाय प्रयोगः। स च दुष्करः। आकाशवत्सत्त्वराशेरनन्तत्वादरूपित्वादद्रव्यत्र्वाच्चेति प्रयोगदुष्करताप्रयोगः॥



अथ खल्वित्यादिनाऽथ खल्वित्यतः प्राङ्‍नवमः। प्रयोगस्य फलं कारित्रम्। सांक्लेशिकधर्मप्रहाणं वैयवदानिकधर्मोत्पादनं च। तदुभयं दुष्करं भगवत्या तयोरकरणादिति कारित्रदुष्करताप्रयोगः॥



अथ खल्वित्यादिनाऽथ खल्वित्यतः प्राग्दशमः। य एवं योगमापत्स्यत इति हेत्ववस्थायाम्। क्व स इति फलावस्थायाम्। आकाश इति आकाशं तारापथम्। इह तु तत्साधर्म्यादनुत्तरा बोधिः। अभ्यवकाशं भूमेरूपरिष्ठादच्छन्नमरूपिष्ठानम्। इह तु तत्साधर्म्याद्धीनबोधिः। तदुभयं फलम्। तस्य यथाभव्यं प्राप्तेरवन्ध्यप्रयोगः॥



अथ खल्वित्यादिना अवतारमित्येतदन्तमेकादशः। शक्रस्तस्य बोधिसत्त्वस्य रक्षावरणगुप्तिं कर्तुकामः। रक्षावरणाभ्यां सहिता गुप्तिस्तथोक्ता। तं सुभूतिराह। किमेनं प्राप्स्यसीति। स आह नेति। ततः किमित्याह एवमित्यादि। एवमिति। सर्वधर्मानुपलम्भेन। शेषं सुगमम्। एवमन्वयव्यतिरेकाभ्यां प्रज्ञापारमिताधीनैव तस्य रक्षा न पराधीनेत्यपरप्रत्ययप्रयोगः॥



अपि चेत्यादिना परिजानातीत्येतदन्तेन द्वादशः। महत्योर्भगवत्योः सप्तधा ख्यातिः पठ्यते। "मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरोपमाः सर्वधर्माः" इति। या च सप्तधा ख्यातिः सा सर्वाऽप्यन्वाख्यातिः। द्वयशून्येन स्थितानां सर्वधार्माणां परतन्त्रस्वभावानां द्वयेन ख्यातिः। सा एकेनापि दृष्टान्तेन शक्या दर्शयितुम्। यथा हि शब्देऽसति प्रतिशब्दोऽसम्प्रख्याति। तथा सति द्वयशून्ये स्वभावे धर्मा असता द्वयरूपेण प्रख्यान्तीति। तस्मादस्यां भगवत्यां प्रतिश्रुत्कोपमतैव पठ्यते। अत एनां प्रति शास्त्रपाठोऽन्यथा कर्तव्यः। 'योऽपरो ख्यातिवेदकः' इति। द्विविधा प्रज्ञापारमिता लोकोत्तरा शुद्धा लौकिकी च। यथोक्तं द्रुमविकल्पप्रवेशायां धारण्याम अविकल्पधातुप्रतिष्ठितो बोधिसत्त्वो ज्ञेयनिर्विशिष्टेन ज्ञानेन आकाशसमतलान्सर्वधर्मान् पश्यति। तत्पृष्ठलब्धेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बोदकचन्द्रनिर्मितसमान्सर्वधर्मान्पश्यति" इति। अतो लोकोत्तरमधिकृत्याह। आकाशस्येत्यादि।



शुद्धलौकिकीमधिकृत्याह। तत्किमित्यादि। परिजानातीति। ततः किं तस्य रक्षणीयं प्रतिभासानामलीकत्वादिति भावः। इत्यन्यथाख्यातिवेदकप्रयोगः॥



उक्ताः प्रयोगाः। प्रयोगसमता वक्तव्या। तामधिकृत्य शास्त्रम्-



चतुर्धाऽमनना तस्य रूपादौ समता मता॥३-१०॥



रूपाद्यधिष्ठानं चतुर्विधममननं प्रयोगसमतेत्यर्थः। यथोक्तं महत्योः। "रूपं न मन्यते। रूपेण न मन्यते। रूपं ममेति न मन्यते। रूपेपि न मन्यते। एवं वेदनादिषु" इति। इमां तु भगवतीं प्रति शास्त्रपाठोऽन्यथा कर्तव्यः-



अष्टधाऽमननं तस्य रूपादौ समता मत।



चतुर्धा ग्राहकस्य चतुर्धा च ग्राह्यस्याकल्पनं प्रयोगसमतेत्यर्थः। तदाह अतश्चेत्यादिना अथ खल्वित्यतः प्राक्। अतश्चेति यतः प्रतिश्रुत्कोपमाः सर्वधर्माः। अतश्च तानिति सर्वधर्मान् न मन्यते भावाभिनिवेशेन। न समनुपश्यति दृष्ट्या। न जानाति ग्रहणेन। न सञ्जानीते कल्पनया। इति चतुर्विधं ग्राहककल्पनम्। तथैव ग्राह्यविकल्पनमाह ते चेत्यादिना। न वेद्यन्त इति सत्त्वेन न मन्यन्ते। न संदृश्यन्त इति न दृश्यन्ते। न संविद्यन्त इति न गृह्यन्ते। नोपलभ्यन्त इति न विकल्प्यन्ते। इत्येवमष्टधा ग्राह्यग्राहकयोरकल्पनेन विहरतीति सर्वधर्मेषु चरति। ततः किं स्यादित्याह स चेदित्यादि सुबोधम्। इति प्रयोगसमता।



प्रयोगसमतानुसङ्गाद्देशनासमतायामप्यस्यां देशनायामभिसम्प्रत्ययार्थमाह। अथ खल्वित्यादिना आपरिवर्तसमाप्तेः। लोकधाताविति..........।



[विशुद्धिपरिवर्तो नामाष्टमः परिवर्तः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project