Digital Sanskrit Buddhist Canon

निरयपरिवर्तो नाम सप्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Nirayaparivarto nāma saptamaḥ

VII

निरयपरिवर्तो नाम सप्तमः



लौकिको भावनामार्गस्त्रयो मनस्काराः। तदुक्तः। लोकोत्तरस्तु भावनामार्गो 'निर्हारः शुद्धिरत्यन्तं' इति पूर्वमुद्दिष्टः। तत्र निर्हारमधिकृत्य शास्त्रम्-



[55] स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः।

नोपलम्भेन धर्माणामर्पणा च महार्थता॥२-२५॥



पञ्चाङ्गानि निर्हारस्य। 'तस्य' इति भावनामार्गस्य प्रज्ञापारमिताविशेषस्य 'स्वभावः' सर्वज्ञज्ञानपरिनिष्पादकत्वादिधर्मचक्रप्रवर्तकत्वपर्यन्तः। 'श्रेष्ठता' षट् पारमितासु। अभिनिर्हारः सर्वधर्माणां 'अनभिसंस्कारः'। अनुपलम्भेन सर्वधर्मानर्पयतीति 'अर्पणा'। सर्वधर्मानुपलम्भेनैव बोधेः प्रापणात् 'महार्थता' इति। अत आह। अथ खल्वित्यादि। अस्य हि भावनामार्गस्य स्वभावः प्रज्ञापारमिता। कीदृशीत्याह। सर्वज्ञज्ञानस्य परिनिष्पत्तिः यतः सा तथोक्ता। सर्वज्ञत्वमिति सर्वावरणवासनानुसन्धिप्रहीणं ज्ञानम्। प्रहाणसम्पत्सहिता ज्ञानसम्पदित्यर्थः। तदपि सर्वज्ञत्वमेव। अत्रोपपत्तिरवभासकरोति। सर्वावरणतमःप्रहाणमवभासः। तत्करेति प्रहाणसम्पत्। सर्वधर्मपरमार्थप्रतिभासो वा अवभासः। तत्करेति ज्ञानसम्पत्। अतश्चैनां नमस्करोमि सांप्रतम्। नमस्करणीयेति। आयत्यां प्रतिक्षणम्। एकेन पदेन द्वे सम्पदावुक्ते। इदानीं पदद्वयेन प्रहाणमाह। अनुपलिप्तेति सर्वावरणमलक्षयात्। सर्वलोकनिरुपलेपेति त्रिधातुकमलक्षयात्। इदानीं पदत्रयेण ज्ञानमाह। सर्वधर्मपरमार्थप्रतिभास आलोकः। तत्करा। अत्र द्वौ हेतू पदद्वयेनाह। तिमिरमज्ञानम्। तद्विपर्ययो वितिमिरं ज्ञानमित्यर्थः। सर्व समग्रं त्रैधातुक त्रैधातुकपरमार्थः। तस्मिन्वितिमिरम्। तत्करा। इत्यालम्बनव्याप्तिः। क्लेशाश्च दृष्टयश्च ता एवान्धकाराः। सर्वे च ते ते च तेषां अपनेत्रीति सर्वविपक्षक्षयः। इयता सर्वेण स्वार्थसम्पत्तिरुक्ता। परार्थसम्पत्तिमधिकृत्याह। आश्रयणीयेत्यादि। आश्रयणीया सर्वपदप्रेप्सुभिः। अग्राणि पदानि स्त्रोत आपत्तिः सकृदागामित्वं यावत्प्रत्येकबोधिः। तत्करा। तेषामुपायः सप्तत्रिंशद् बोधिपक्ष्याः। तेषां क्षमकरी विघ्नहरणात्। यावन्न लोकोत्तरज्ञानं तावद् अन्धाः। तेषां तदुत्पादनाद् आलोककरी। सर्वभयोपद्रवैः प्रहीण आलोको लोकोत्तर एव भावनामार्गः। तत्करा। इयता हीनयानिकानामर्थ उक्तः।



बोधिसत्त्वार्थमधिकृत्याह। पञ्चचक्षुरित्यादि। ते हि परार्थप्रधानाः। तस्य सैव साधनमालम्बनभेदेन पञ्चचक्षुःपरिवारा। अभेदेन सैव चक्षु सर्वधर्मपरमार्थदर्शनात्। व्यापिनो दर्शनस्य त्रयो विबन्धाः। मोहतमरितमिराणि। तत्र मोहो अज्ञानम्। तमोन्धकारम्। तिमिरं चक्षुरोगः। तेषां विकरणी विध्वंसनी। संक्षेपतो वितिमिरकरणी तिमिरसामान्यात्। किमुत्पादयतीत्यत आह। सर्वधर्माणामकरणीति। सर्वधर्माः स्कन्धधात्वायतनानि। तेषां त्रयः स्वभावाः। कल्पितः परतन्त्रः परिनिष्पन्नश्च। तत्र कल्पितं न करोति तस्य यथालक्षणमसत्त्वात्। परतन्त्रो अभूतपरिकल्पः। तत्र करोति तत्प्रतिपक्षत्वात्। परिनिष्पन्नो धर्मधातुः। तमपि न करोत्यनादिनिधनत्वात्। सम्यग्ज्ञानं करोतीति चेत् ? न। अनादिनिधनचित्तसन्तानभ्रान्तिनिवृत्यैव सम्यग्ज्ञानसिद्धे। किं तर्हि करोतीत्यत आह। उत्पथेत्यादि। उत्पथो धर्माणां परिकल्पना तेन प्रयातानाम्। मार्गे धर्मनैरात्म्यज्ञाने अवतारणी। कस्य मार्गे ? सर्वज्ञतायाः। इयता सर्वज्ञज्ञानपरिनिष्पत्तिरिति यदुक्तं तत्परार्थेपि दर्शितम्। यदुक्तं सर्वज्ञत्वमिति तत्परार्थेप्याह। सर्वज्ञतैवेत्यादिना। यदा हि वासनानुसन्धिप्रहीणता तस्यास्तदासौ सर्वज्ञतेत्यर्थः। सा तर्हि प्रज्ञापारमिता उत्पादिका निरोधिका उत्पन्ना निरुद्धा च। नेत्याह। अनुत्पादिकेत्यादि। अनुत्पादिका सर्वधर्माणामिति वैयवदानिकानाम्। अनिरोधिका सर्वधर्माणामिति सांक्लेशिकानाम्। अनुत्पन्नानिरुद्धेति स्वयम्। परमार्थतो यथाप्रतिभासं चेति भावः। परमार्थो ह्येषां धर्मधातुः। तेनैषामनादिनिधनत्वाद्वालप्रतिभासिना रूपेणात्यन्त-। समत्वान्नैषामुत्पादनिरोधौ। अत एवाह। स्वलक्षणशून्यतायामुपादायेति प्रतीत्यसमुत्पन्नं पुनरेषां तृतीयं स्वभावमुपादायाह। मातेत्यादि। माता जननी। कुतः ? सर्वबुद्धधर्मा एव रत्नानि तेषां दात्रीत्वात्। तान्येव हि समग्राणि हेत्ववस्थानि बोधिसत्वानां शरीरम् तत इयं तद्दानात्तेषां जननी। बुद्धग्रहणाब्दुद्धजननीत्वमर्थाद्‍गम्यते। न पुनस्तावता बुद्धानामतिशयो गम्यते। अतो विशिष्टैर्गुणैः पुनस्तदाह दशबलेत्यादिना।



दश तथागतबलानि। तत्करा। कतमानि दश ? "स्थानास्थानज्ञानबलम्। कर्मविपाकज्ञानबलम्। नानाधातुज्ञानबलम्। नानाधिमुक्तिज्ञानबलम्। इन्द्रियपरापरज्ञानबलम्। सर्वत्रगामिनीप्रतिपज्ज्ञानबलम्। ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम्। पूर्वेनिवासानुस्मृतिज्ञानबलम्। च्युतोपपादज्ञानबलम्। आश्रवक्षयज्ञानबलं च" इति। लक्षणमेषां यथोक्तं महत्यो र्भगवत्योः। तत्र सम्भवासम्भवौ स्थानास्थाने। तद्यथा दुश्चरितानामनिष्टो विपाक [:] स्थानमिष्टोऽस्थानमिति। कर्म च विपाकश्च। नानाधातुः पुण्यापुण्यादिजनकोऽध्याशयः। नानाधिमुक्तिस्तद्यथा रागद्वेषादौ स्थितानां द्वेषरागादौ रुचिः। इन्द्रियाणि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाः। तेषां परापरत्वं विमात्रता। अयं मृद्विन्द्रियोऽयं मध्येन्द्रिय इत्यादि। सर्वत्रगामिनीप्रतिपत्। रागस्य प्रतिपक्ष इयं प्रतिपत्। इयं द्वेषस्येत्यादि। चतुर्णा ध्यानानां अष्टानां विमोक्षाणां त्रयाणां समाधीनां सवितर्कसविचारादीनां चतसृणामारूप्यसमापत्तीनां नवानां चानुपूर्वविहारसमापत्तीनाम् संक्लेशादिकम्। तत्र संक्लेश आस्वादनादिना। व्यवदानमनुपलम्भादिना। व्युत्थानं सिंहविजृम्भितेन वा अवस्कन्दकेन वा। पूर्वे निवासः पूर्वजन्म। तस्मिन्ननुस्मृतिः स्मरणम्। च्यु[त्यु]पपादौ सत्त्वानां मरणोत्पत्ती। आश्रवाः क्लेशास्तेषां यः क्षयो येन च मार्गेण क्षयस्तदुभयमाश्रवक्षयः। सत्त्वानाम्। एषां स्थानास्थानादीनां सर्वथा सर्वदा सम्यग्ज्ञानं तदिह स्थानास्थानादिज्ञानम्। तदेव बलमितरैरघृष्यत्वात्, तेषां वाभिभवनात्।



अनवमर्दनीयेत्यभिभवितुमशक्या। कुत इत्याह। चतुर्वैशारद्यकरीत्वादिति। सिंहवदत्यन्तनिःशंको युक्तवादी विशारदः। तस्य भावो वैशारद्यम्। चत्वारि वैशारद्यानि। अभिसंबोधिवैशारद्यम्। आश्रवक्षयवैशारद्यम्। आन्तरायिकध[र्म]वैशारद्यम्। नैर्याणिकधर्मवैशारद्यं च। अभिसम्बोधिस्तथागतस्य ज्ञानसम्पत्। आश्रवक्षयः प्रहाणसम्पत्। तदुभयं स्वार्थः। आन्तरायिका धर्मा निर्वाणस्य विबन्धकाः नैर्याणिका धर्मा निर्वाणस्य प्रापकाः। एतदुभयं परार्थः। परेभ्यस्तदाख्यानात्। तेषु वैशारद्यम्। तत्प्रतिज्ञाप्रतिष्ठापनेष्वित्यर्थः। तत्करा। अनाथाः सत्त्वा अनादौ दुःखसागरे भ्रमतामेषामद्यापि त्रातुरभावात्। तेषां नाथस्त्राता भगवान् बुद्धः। तत्करा। इयता सर्वज्ञज्ञानपरिनिष्पत्तिरेषेति समर्थितः। एषैव सर्वज्ञत्वमिति समर्थयितुमाह। संसारेत्यादि। संसारः साश्रवाः स्कन्धाः। तस्य प्रतिपक्षा हन्त्री। धर्मधातुरेव तस्य हन्तेति चेदाह। अकूटस्थतामुपादायेति। धर्मधातुर्हि कूटस्थो अनादिनिधनैकरूपत्वात्। स चेत्प्रतिपक्षः स्यात् तदा आदित एव संसारो न स्यात्। प्रज्ञापारमिता पुनरादिमती, उत्तरोत्तरगामिनी चेति सैव तस्य प्रतिपक्षः। अनेन प्रहाणसम्पदुक्ता। ज्ञानसम्पदमाह सर्वेत्यादिना। सर्वधर्माणां स्वभावः परमार्थः। तस्य विदर्शनी तत्प्रतिभासत्वात्। स्वस्य परेषाञ्च परार्थमधिकृत्याह। परिपूर्णेत्यादि। परिपूर्णमेकेनाप्यनूनत्वात्। त्रिपरिवर्तद्वादशाकारं च यद्धर्मचक्रम्। धर्मः शासनम्। तदेव चक्रं विनेयसन्तानेषु चंक्रमणात्। तस्य प्रवर्तनो प्रवर्तयित्री। बुद्धानां तथैव तस्य प्रवर्तनात्।



तत्र धर्मचक्रं सत्यचतुष्टयम्। तस्य त्रयः परिवर्ताः। इदं दुःखम्। अयं दुःखसमुदयः। अयं दुःखनिरोधः। इयं दुःखनिरोधगामिनी प्रतिपदिति। सत्यचतुष्टयस्य स्वभावपरिच्छेदः प्रथमः परिवर्तः। तस्यैव यथाक्रमं परिज्ञेयप्रहेयसाक्षात्कर्तव्यभावयितव्यत्वपरिच्छेदो द्वितीयः परिवर्तः। तस्यैवात्मना परिज्ञातप्रहीन(ण)साक्षात्कृतभावितत्वपरिच्छेदस्तृतीयः। तस्मात् त्रिपरिवर्तं तत्। दुःखसत्यस्य दुःखस्वभावः परिज्ञेयत्वं परिज्ञातत्वं चेति त्रय आकाराः। समुदयसत्यस्य तत्स्वभावः प्रहेयत्वं प्रहीणत्वं चेतिं त्रय आकाराः। निरोधसत्यस्य तत् स्वभावः साक्षात्कर्तव्यत्वं साक्षात्कृतत्वं चेति त्रय आकाराः। मार्गसत्यस्य तत् स्वभावो भावयितव्यत्वं भावितत्वं चेति त्रय आकाराः। तस्मात् द्वादशाकारं तत्।



ननु प्रतीत्यसमुत्पन्नेनापि स्वभावेनेयं [न] निरोधिका शां(सां)क्लेशिकानां विनाशहेतूनामकिञ्चित्करत्वात्। नाप्युत्पादिका वैयवदानिकानां मिथ्याज्ञाननिवृत्तौ चित्तमात्रादेव सम्यग्ज्ञानोत्पत्तेः। नैतदस्ति। बन्ध्यक्षणोत्पादनस्यैव सन्ताननिरोधत्वात्। अग्निना शीतनिरोधवत्। प्रज्ञापारमितयैव मिथ्याज्ञाननिरोधे सति भगवतः प्रागभूतस्य सम्यग्ज्ञानस्य तद्धेतुकत्वात्। निरोधस्य चावस्तुनो हेतुत्वायोगात्। चित्तस्यैव च निरुद्धविपक्षस्य सम्यग्ज्ञानत्वात्। अन्यथा हि सर्वभ्रान्तिनिवृत्तिकालेपि व्यापि सम्यग्ज्ञानं न स्यादिति भावनामार्गस्य स्वभावः॥



कथमित्यादिना सर्वज्ञतानुप्राप्तय इत्येतदन्तेन श्रेष्ठता। स्थातव्यमिति वर्तितव्यम्। पूजाभिः मनसिकर्तव्या गुणानुस्मरणैः। नमस्कर्तव्या कायवाक्‍चित्तैः। निदानं प्रस्तावः पृच्छायाः। हेतुस्तु भगवत्याः श्रेष्ठता। प्रज्ञापारमिताया यत्कौशल्यपरिगृहीतस्य बोधिसत्त्वस्यानुमोदनासहगतं पुण्यमौपलम्भिकानां पञ्च पारमितामयात् पुण्याद्विशिष्यत इतीदं निदानमनन्तरोक्तत्वात्। यत इयं तासां परिणायिका ततः श्रेष्ठेति हेतुः। अपरिणायकमिति परिणायकरहितम्। अभव्यमयोग्यम्। जात्यन्धभूतं जात्यन्धसदृशम्। शेषं सुबोधम्। इति श्रेष्ठता॥



अथ खल्वायुष्मानित्यादिना अभिनिर्हारो द्वितीयात् एवमुक्तात् प्राक्। प्रज्ञापारमितेति भावनामार्गः। यः पञ्चानां स्कन्धानां यावत्सर्वधर्माणामनभिसंस्कारोऽनुपलम्भः सोऽस्य अभिनिर्हारः परिनिष्पादनम्। अवयवार्थः सुबोधः। इत्यभिनिर्हारः॥



एवमुक्त इत्यादि यावत संख्यां गच्छतीति। कतमं धर्ममित्यनाश्रवः। न कश्चिद्धर्ममिति। धर्माणामर्पणायाश्चानुपलम्भादित्यर्पणा॥



अथ खलु शक्र इत्यादि शारिपुत्रवचनात् प्राक्। यदि न कञ्चिद्धर्ममर्पयति न तर्हि सर्वज्ञतामपीति मत्वा शक्र आह। किमियमित्यादि। अर्पयत्येव केनचित्पर्यायेण। यथा तु नार्पयति तद्‍भगवानाह न यथेत्यादि। उपलम्भो बालग्राहेण रूपेण। नाम संज्ञा। संस्कारः कल्पना। यथा त्वर्पयति तत्पृच्छति। कथं तर्हीत्यादिना। उत्तरं यथेत्यादिना। यथा नार्पयतीति धर्माणामर्पणायाश्चाविकल्पनात्। तथेति। अविकल्पनया। न कञ्चिदित्यादि। धर्माणामुत्पादादीनां चाविकल्पनादिति भावः। अनुत्पादायानिरोधायेति नोत्पादाय न निरोधायेत्यर्थः। असमर्थसमासत्त्वात्। अतश्च अनुपस्थितेत्यकिञ्चित्करत्वात्। एवमपीति सर्वज्ञतार्पकत्वेनापि। दूरीकरिष्यतीत्यसंमुखीभावात्। रिक्तीकरिष्यतीति संमुखीभूतस्य ज्ञानस्य तल्लक्षणाभावात्। तुच्छीकरिष्यतीति तत् फलाभावात्। न करिष्यतीति नोत्पादयिष्यति। अस्त्येष पर्याय इति यथा त्वयोक्तः। तत्कस्य हेतोरिति तद्‍दूरीकरणादिकं कुतः ? परिदीपितायामिति निर्दिष्टायाम्। न रूपं यावन्न बुद्धत्वमिति न किञ्चिद्धर्म इत्यर्थः। तस्मात् कञ्चिद्धर्म पश्यन् दूरीकरिष्यतीति। यावन्न करिष्यतीमाम्। कतमेन पर्यायेणेति। किं महार्थतयेति भावः॥



सुभूतिराह नेत्यादि। निःस्वभावेषु सर्वधर्मेषु द्वयाभावादिति भावः। असंक्षिप्ता विक्षिप्तेति। अद्वयत्वात्। एवमपीति महार्थतयापि। किम्पुनः शब्दादतिशयार्थः। एवमित्युक्त्वा। तदेवाह। एवमहमित्यादिना। निःष्यन्द इति तत्पृष्ठभावी निश्चयः। यः सत्त्वोपलम्भ इति सम्बन्धः। सत्त्वः पुद्‍गलद्रव्यं तद्वद् अस्वभावजातिकाऽस्वभावलक्षणम्। जातिरुत्पत्तिः। ताभ्यां रहिता। अस्यैव निर्देशः सत्त्वास्वभावतयेत्यादिना। परिशेषाद्‍गम्यते सत्त्वाजातिकतया अजातिकतेति। विविक्तता शून्यता। अचिन्त्यता चित्तानालम्बनता। अभिसंबोधनं साक्षात्‍क्रिया। तदभावाद् अनभिसंबोधनता। यथाभ। सद्‍भुतो अर्थः। तस्यानभिसंबोधनमग्रहणं सत्त्वः। तद्वत्प्रज्ञापारमिता। यथा सत्त्वस्य बलसमुदागमनं बलनिष्पादनं न किञ्चित् तथा तथागतस्य प्रज्ञापारमितयेति महार्थता॥



अभिनिर्हारस्य पञ्चाङ्गान्युक्तानि। षष्ठसप्तमेपि स्तः। अधिमोक्षहेतुः प्रतिपक्षहेतुश्च। तेऽधिकृत्य शास्त्रम्-



[56] बुद्धसेवा च दानादिरुपाये यच्च कौशलम्।

हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः॥२-२६॥



[57] माराधिष्ठानगम्भीरधर्मताऽनधिमुक्तते।

स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः॥२-२७॥



अत्राधिमुक्तिहेतवस्त्रय उक्ताः पादत्रयेण। धर्मव्यसनं प्रतिक्षेपः। तस्य चत्वारो हेतव इतरैः पञ्चभिः पादैः। 'अनधिमुक्तता' अनधिमुक्तिः। तत्राधिमोक्षोऽस्मिन्नेव भावनामार्गेऽधिमुक्तिः। तमाह। अथ खल्वित्यादिना न धन्धयिष्यतीत्येतदन्तेन। अधिमोक्षयिष्यतीति निश्चिते वस्तुन्येवमेव नान्यथेत्यवधारणमधिमोक्षः। तं करिष्यतीत्यर्थः। तत्करोतीति चुरादौ पाठाण्णिच्। तस्याधिमोक्षस्य लक्षणं त्रिभिः पदैर्गत्यन्तरप्रतिषेधायाह। तत्र कांक्षा बाधा। अबाध्यबाधनस्य कांक्षामात्रत्वात्। विचिकित्सा संशय एव। धन्धायनमप्रतिपत्तिरिति त्रीणि गत्यन्तराणि। धन्धोऽप्रतिपत्तौ। धन्धो भविष्यतीति धन्धायिष्यति। लोहितादेराकृतिगणत्वात् क्यष्। इत्यधिमोक्षः॥



अधिमोक्षस्य त्रयो हेतवः। तत्र द्वौ पृच्छति। कुतश्च्युत्वेहोपन्नः कियच्चिरचरितावी चेति। स इति योऽधिमोक्ता। अधिमुक्तोऽधिमुक्तिकारित्रेण लक्ष्यते। अतस्तदाह। य इत्यादिना। अर्थत इत्यष्टाभिरभिसमयैः। अर्थनयत इति यथास्वं तेषामेव वस्तुभिः। धर्मत इत्येभिरेव नामपदव्यञ्जनैः। धर्मनयत इति समासव्यासादिभिः। अनुगमिष्यंत्यनुसरणात्। अनुभोत्स्यते तथा ज्ञानात्। अनुबोधयिष्यति तथैव परान्।



तत्कस्य हेतोरिति कुतो लिङ्गात्। यः कश्चिदित्यादिना लिङ्गमाह। मे दृष्ट इति मया दृष्टः। सम्बन्धविवक्षायां षष्ठी। तद्यथा सुभाषितस्य शिक्षते, नाग्निस्तृप्यति काष्ठानामिति। अवदधाति सावधानं करोति। सत्कृत्येति भक्तितो रुचितो वा। नोपच्छिनत्ति विच्छेदाकरणात्।



चिरेत्यादिनोपसंहारः। चिरचरिताः पारमिता अवितुं शीलमस्येति चिरचरितावी। बहवो बुद्धाः पर्युपासिता येन स तथोक्तः। इति बुद्धसेवादानादिचर्या॥



तृतीयोऽधिमोक्षहेतुरुपायकौशल्यम्। तदाह। अथ खल्वित्यादिना स्थविरः सुभूतिरित्यतः प्राक्। शक्या पुनरिति कांक्षा प्रश्नः। श्रोतुं शब्दतः। उपलक्षयितुमर्थतः। समन्वाहर्तुं कालान्तरे स्मर्तुम्। उपपादयितुं चिन्ताकाले। उपधारयितुं भावनाकाले चेतसि स्थिरीकरणात्। इयमिति प्रतिभासमाना। इहामुत्र वेति प्रतिभासमाना धारा। अनेनेति प्रतिभासमानेन। आकारेणेति लक्षणेन। तद्यथा गौः सास्नादिमत्वेन। लिङ्गेनेति कृत्रिमेण चिन्हेन। तद्यथा गौर्घण्टादिना। निमित्तेनेति स्वाभाविकेन चिन्हेन। तद्यथा गौःशुक्लत्वादिना। निर्देष्टुं परस्मैः। श्रोतुं परस्मात्।



भगवानाह। उत्तरं नो हीत्यादि। स्कन्धादिश इति स्कन्धादिभिः। रूपस्कन्ध इति वा यावद्धर्मायतनमिति वेत्यर्थः। कुत इत्याह। सर्वधर्मैस्तैरेव विविक्तत्वादस्याः। तदपि कुतः ? निःस्वभावत्वात्तेषाम्। परिकल्पितेन धर्मस्वभावेनेति भावः। न चान्यत्रेति। न चान्या तत्परमार्थत्वादिति भावः। अत एव तदित्यादिना प्रश्नः। स्कन्धेत्यादिनोत्तरम्। विज्ञप्तिरूपं स्कन्धादिकमेव। शून्यं परिकल्पितेन स्कन्धादिस्वभावेन। सा तस्य तेन शून्यता विज्ञप्तिमात्रता प्रज्ञापारमिता। तस्मादद्वयमेतद्‍द्वंवीकारम्। ननु शून्यताया इदं लक्षणं न प्रज्ञापारमिताया इत्यत आह। शून्यत्वादित्यादि। नोपलभ्यते स्कन्धादि यथालक्षणम्। योनुपलम्भः सर्वधर्माणामिति तद्विविक्तप्रकाशमात्रोपलम्भलक्षणः। न तूपलम्भनिवृत्तिमात्रम्। "नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा" इति वचनात्। योऽनुपलम्भः सा प्रज्ञापारमिता प्रकृष्टज्ञानत्वात् पारगत्वाच्च। तथापि नासौ प्रज्ञापारमिता। स्याद्यदि स्कन्धादिशून्यतामनुभूय स्कन्धाद्यवसीयेत। रजताद्यवसाये शुक्तिदर्शनवत्। एतद्दर्शयितुमाह। यदेत्यादि। यदा तु यथानुभूतनिश्चयं जनयति न स्कन्धा न धातुर्नायतनमिति तदा प्रज्ञापारमितैव। तन्निस्यन्दत्वात् स्कन्धाद्यभावनिश्चयस्य। शुक्तिनिश्चये शुक्तिदर्शनवत्। प्रामाण्यात्। तद्येवं यद्यथास्ति यथा च नास्ति यथा च प्रज्ञापारमिता स्यान्न स्याद्वा तस्य सर्वस्य सम्यग्बोध उपायकौशलं तृतीयोऽधिमोक्षहेतुः।



धर्मव्यसनं वक्तव्यम्। स च सद्धर्मप्रतिक्षयः। कुतः ? धर्मव्यसनहेतुत्वात्। धर्मस्य व्यसनं विपत्। दीर्घदुर्गतिवासेन तस्य श्रवणाद्यभावः। दुर्गतिचिरवासहेतुत्वाद्धर्मव्यसनहेतुत्वम्। तस्माद्धर्मव्यसनम्। तदेव धर्मव्यसनसंवर्तनीयं कर्म। तत्संवर्ततेऽस्मादिति कृत्वा। तदेव प्रस्तौति स्थविर इत्यादिना। प्रज्ञापारमिता। एष एव भावनामार्गः। तस्यां योगापत्तिः समाधानप्राप्तिः।



विभज्येति। कथं विभज्य ? केषाञ्चि[च्चि]रचरिताविना(ता) भवति केषाञ्चिन्नेति। तत्कुतः ? इन्द्रियाणां श्रद्धादीनां विमात्रतया नानात्वेन। तामाह स्यादित्यादिना। अस्यामगौरवता तेषामभूदिति सम्बन्धः। बुद्धानामन्तिकादिति। अन्तिके दूरान्तिकार्थेभ्य इति पञ्चमी। तत्सन्निधावित्यर्थः। अगौरवता अशु(सु)शूषणता अश्रद्दधानता च। भगवत्यां अपर्युपासनता अपरिपृच्छनता च बुद्धेषु। तत इति श्रद्धावियोगात्। धर्मव्यसनसंवर्तनीयं कर्म सद्धर्मप्रतिक्षेपः। कृतं सकृत्‍करणात्। सञ्चितं पुनः पुनः करणात्। आचितं परिपूर्णम्। उपचितं विपाकदनशक्तिलाभात्। कायेन सामग्री श्रोतुमागमनम्। चित्तेन निर्विक्षेपता। वाचा अप्रस्तुतानभिधानम्। एवं सामग्रिमददाना इति सम्यगशृण्वन्तः। न जानन्ति ग्रन्थतः। न पश्यन्ति अर्थतः। न बुध्यन्ते स्वभावत्रयभेदेन। ततो न वेदयन्ते विपरीतबोधात्। अश्रद्दधाना इत्यादि तूक्तम्। तस्योपसंहार एवं त इत्यादिना। प्रत्याख्यानं मनसा परित्यागः। प्रतिक्षेपो वाचा। प्रतिक्रोशनं निन्दा। उपहत्येति दूषयित्वा। दग्धेति कुशलमूलदाहात्। छन्दो वशीभावः। विपर्ययाद्विच्छन्दः शिथिलः। अतो विच्छन्दयिष्यन्तीति शिथिलीकरणात्। विवेचयिष्यन्तीति मनसा त्याजनात्। विवर्तयिष्यन्तीति पुनरग्रहणात्। इयता प्रत्याख्यानमुक्तम्॥



प्रतिक्षेपमाह नात्रेत्यादिना। प्रतिक्रोषणमाह नैतदित्यादिना। अपक्रान्ताः परिमुक्ताः परिबाह्या इत्येकोऽर्थः। सर्व यथा भवन्ति तथा सर्वेण अङ्गेन। सर्व यथा भवति तथा सर्वः प्रकारः। कर्माभिसंस्कारः कर्म क्रिया। उपस्थापितेनेति कृतेन। समुत्थापितेनेत्युपचितेन। संवर्तनी प्रलयः। आ‍अवीचितलादा च ब्रह्मलोकाद्यस्यामग्निना क्षीयते सा तेजःसंवर्तनी। क्षेप्स्यन्ते अन्तराभवशरीरेण। उपपत्स्यन्ते उपपत्तिभवशरीरेण। समाना सन्तः। बहु वत दुःखं च तद्वेदनीयं यस्मात्तथोक्तम्।



प्रतिवर्णिकादिपदत्रयं समानार्थम्। 'लाभसत्कारं तेभ्य एव। यदर्थ ते दृश्येरण् (दूष्येरन्)। तत्कस्य हेतोरिति। तत्तेषामदर्शनादिकं कुत इत्यर्थः। कसम्बकं पूतिपूर्णम्। तदत्यक्तमन्यान्यपि पर्णानि नाशयति। जातिर्जातम्। कसम्बकवज्जातमेषामिति कसम्बकजाताः। कृष्णा तृणविशेषः। प्राकृतभाषया कण्डा। सापि क्षेत्रादनपनीता क्षेत्रं नाशयति। निर्जातिर्निष्पत्तिः। कृष्णावन्निर्जातिरेषामिति कृष्णानिर्जातिकाः। कृष्णो हि कृष्णसर्पः सविषः संश्रृ(सृ)ष्टान् दष्टो सविषीकरोति। अनयेनेति तेभ्यः श्रुतश्रद्धादिनाऽमार्गेण। व्यसनं निरयादिदुःखम्। आगाढमाबाधमिति महतीं पीडाम्। निगच्छेत् स्पृशेदिति प्राप्नुयादित्यर्थः। आलोकः प्रकृतस्य कर्मणो विपाकज्ञानम्। शुक्लांशः कुशलभागः। तद्योगात् शुक्लांशिकः। समवधानं योगः। शेषं सुबोधम्। इति धर्मव्यसनम्॥



एवमुक्त इत्यादि। अत्र माराधिष्ठित इत्यादिना माराधिष्ठानमुक्तम्। गम्भीरेषु धर्मेष्वनधिमुक्तिस्तेषु श्रद्धाप्रसादाभावेनोक्ता॥



पुनरपरमित्यादिना चतुरो हेतूनाह। आत्मोत्कर्षी परपंसको दोषान्तरप्रेक्षीत्येको राशिः। अत एवाह। एभिरपि चतुर्भिरित्यादि। तदत्र धर्मव्यसनहेतवः षडुक्ताः। शास्त्रे तु संक्षेपतश्चत्वारः। शेषाणां स्कन्धाद्यभिनिवेशेऽन्तर्भावात्। आत्मोत्कर्षणादिनां स्कन्धाद्यभिनिवेशे।



निर्हारपरिवर्तोऽयं सप्ताङ्गस्य निर्हारस्य द्योतनात्। तथापि निरयग्रन्थस्य बहुत्वान्निरयपरिवर्त इत्युच्यते॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project