Digital Sanskrit Buddhist Canon

अनुमोदनापरिमाणमनापरिवर्तो नाम षष्ठः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
VI

अनुमोदनापरिमाणमनापरिवर्तो नाम षष्ठः।



उक्ताः स्तुतिस्तोभप्रशंसाः। परिणामनामनस्कारो वक्तव्यः। तमधिकृत्य शास्त्रम्-



[51] विशेषपरिणामस्तु तस्य कारित्रमुत्तमम्॥

नोपलम्भाकृतिश्चासावविपर्यासलक्षणः॥२-२१॥



[52] विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः।

सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः॥२-२२॥



[53] त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा।

मृदुमध्योऽधिमात्रश्च महापुण्योदयात्मकः॥२-२३॥



सर्वसत्त्वानां दानशीलभावनामयात् पुण्यौघो विशिष्यते प्रकृष्यतेऽनेनेति 'विशेषः'। स पुनरस्याः सर्वसत्त्वानामग्रतायै सम्यक्संबोधिकरणता। "सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति तच्चानुपलम्भयोगेन" इति महत्योः पाठात्। तेन विशेषेण 'परिणामः'॥



तमाह। अथ खलु मैत्रेय इत्यादिना। बोधिसत्त्वस्येति। उत्पादितबोधिसचित्तस्य। यथोक्तविशेषविशिष्टत्वान्महासत्त्वः, परिणामना व्यवसायोऽस्येति महासत्त्वस्य। अनुमोदनासहगतं कुशलं अनुमोदना। सा चानुपलम्भपरिणामस्यादौ विस्तरेण वक्ष्यते। तस्याः परिणामना। तया सहगतम्। इदमेव इत्यस्य परेण पुण्यक्रियावस्तुशब्देन सम्बन्धः। तत इति सर्वसत्त्वानां दानादिमयात् पुण्यात् सकाशात्। अग्रमाख्यायते यावद् असमसममाख्यायते। तस्मादग्रादि। अग्रादिफलहेतुत्वात्। तदपि कुतः ? यथाक्रमं प्रमुदिताद्येकादशभूमिसंगृहीतस्वपरार्थसंपत्तिहेतुत्वात्। पर्यायत्वेपि सर्वेषामुपादानसामर्थ्यात्। असमाबुद्धास्तेषां साधारणो विशेषोऽसमसमः। समन्तप्रभासायां भूमौ। कथं धर्ममेघायामसमः ? असमसाधर्म्यात्। "दशभूमीश्वरस्तु बोधिसत्त्वो बुद्ध एव द्रष्टव्यो न तु सम्यक्संबुद्धः" इति वचनात्। तदेवमग्रादिपदेभ्यः पूर्वेण ग्रन्थेन विशेषपरिणाम उक्तः। अग्रादिपदैस्तस्यैव 'कारित्रमुत्तमं' इति विशेषपरिणामः सकारित्रः॥



एवमुक्त इत्यादिना अनुपलम्भपरिणाममाह। दशदिशोऽस्मिन्निति दशदिशि लोके, आकाशपरिमाणे भाजनलोके। सर्वत इति तासु सर्वासु दिक्षु। सर्वत्रगतयेति व्यापितया घनतयेत्यर्थः। अप्रमेयादिषु वीप्सा दिग्भिः प्रत्येकमभिसम्बन्धार्थम्। अनन्तापर्यन्तेष्वित्यनन्तानन्तेषु। तदियमर्थतो द्विरुक्तिर्न शब्दतः। तत्र दिग्देश्यानामपरिच्छेदात् अप्रमेयाः। संख्याया अपरिच्छेदात् असंख्येयाः। दिग्वैपुल्येनापरिच्छेदात् अपरिमाणाः। प्रत्येकं चिन्तयितुमशक्यत्वात् अचिन्त्याः। तास्वेव चिन्तास्वन्तगमनात् अनन्ताः। एवं साकल्येन प्रतिदिशमनन्तेषु त्रिसाहस्रेषु प्रतिदिशं य एकैकस्त्रिसाहस्रः। तस्मिन् अप्रमेयाप्रमेयाणां यावत् अनन्तापर्यन्तानां तथागतानामिति सम्बन्धः। इहाप्येकैकेन त्रिसाहस्रेण सम्बन्धार्थ वीप्सा। नन्वेकस्मिंस्त्रिसाहस्रे एक एव तथागतो नाप्रमेयादिरिति चेदाह। अतीतेऽध्वनि इति। एकदा त्रैकस्तथागतो न सर्वदा। अतीतः पुनरध्वा अनादित्वात् अप्रमेयः तत एकस्मिन्नपि लोकधातावतीतेऽध्वनि अप्रमेयास्तथागताः कालदैर्ध्येणापरिच्छेदात्। तावन्तश्च ते संख्यया अपरिच्छेदात् असंख्येयाः। मनसा तिर्यक्संनिवेश्य वैपुल्येनापरिच्छेदात् अपरिमाणाः। एकैकचिन्तया अचिन्त्याः। एकैकचिन्तायामन्तागमनात् अनन्ताः। ईदृशानां तथागतानां परिनिर्वृतानामिति न तु तिष्ठताम्। अरयः क्लेशास्तान् हतवन्त इति अर्हताम्। अविपरीतसर्वधर्मज्ञानात् सम्यक्सम्बुद्धानाम्। अनेन पदद्वयेन प्रहाणज्ञानसम्पदावुक्ते।



भवपथत्वाद्धर्मे अस्मिमाणो(नो) [वर्त्मनिः]। वृतेरनिप्रत्ययः। सरणिधरणिवत्। मुडागमश्च। वर्त्मनिस्तृष्णा भवपदवीत्वात्। यथोक्तं-"अस्मिमानः पिता उक्तो माता तृष्णेति चोच्यते" इति। तयोरून्मूलनात् छिन्नवर्त्मनां छिन्नवर्त्मनीनां च। प्रपञ्चो द्वयकल्पना, भवः संसारः। तयोर्नेत्र्यौ नायिके यथाक्रमं धर्मदृष्टिः पुद्‍गलदृष्टिश्च। तयोः परिक्षयात् छिन्नप्रपञ्चभवनेत्रीकानां पर्यात्तबाष्पाणामिति। पुनर्भवाभावे न पुनर्बन्धनो न शोको नाश्रु। ततः परिक्षीणबाष्पाणाम्। कण्टकसाधर्म्यात् कण्टकाः कुदृष्टयः। तेषां क्षोदनात् मर्दितकण्टकाः। शेषं निदान एव व्याख्यातम्। प्रथमचित्तोत्पादो यः पृथिवीसमः। तमुपादाय तत आरभ्य। एतस्मिन्नन्तर इत्येतावत्यवकाशे। शीलादिस्कन्धः शीलादिराशिः। बोधिसत्त्वानामपि बलादयः सन्ति। न तु ते पारङ्गताः। ततस्तद्‍व्यवच्छेदाय पारमिताग्रहणम्। अनाश्रवो मार्गः परिज्ञः। सर्वज्ञज्ञानं सम्यक्सम्बोधिः। पूर्वं बुद्धगुणादिभिः संप्रयुक्तानि। ये चेत्यादिना बुद्धगुणादिनप्याह। सम्यक्सम्बोधिरेव सुखमुपशमसुखत्वात्। सर्वधर्मेषु ऐश्वर्य वशिता। ऋद्धेरभिसंस्कार क्रिया। अनावरणं शुद्धत्वात्। असङ्गमनपेक्षत्वात्। अप्रतिहतं सर्वस्मिन् सर्वाकारज्ञेयप्रवृत्तेः। अनुपम तस्यानुमानाय विशेषदृष्टान्तभावात्। परितोऽवच्छेदः परिमान(णम्)। अशेषविशेषान्तरायात् रूपग्राहि प्रत्यक्षम्। तस्य तस्मिन् परेषामभावादपरिमेयम्। तथागतानां यथाभूतज्ञानसम्यग्ज्ञानम्। तदेव बलं सर्वाभिभूतत्वात्। यद्‍बुद्धज्ञानबलमिति। बुद्धज्ञानस्य बलं शक्तिर्निरवधिसर्वाकारविश्वार्थक्रियायै। बलानां यद्‍बुद्धैः ज्ञानदर्शनं प्राप्तिसाक्षात्करणम्। चतुर्वैशारद्येन सुपरिपूर्णोऽधिगमः स्वधर्माणां यश्च धर्माधिगम इति सम्बन्धः। स कथम् ? सर्वधर्माणां परमार्थस्य सम्यग्ज्ञानस्याभिनिर्हारेण निष्पादनेन। त्रिपरिवर्त द्वादशाकारं लोकोत्तरं ज्ञानं धर्मः। स एव चक्रं देवमनुष्येषु चंक्रमणात्। तस्य प्रवर्तनं दशसु दिक्षु। अयमुद्देशः। अस्य निर्देशो नवभिरङ्गैः। तस्यैव धर्मस्य द्योतनी वाग् धर्मोक्ता। तस्याः प्रग्रहणं मनसा व्यवस्थापनम्। सैव वाग् धर्मभेरी। तस्याः संप्रताडनं विनेयजयश्रावणम्। सैव वा धर्मशङ्खः। तस्य पूरणं विनेयैरेव ज्ञानम्। तस्य धर्मशङ्खस्य प्रव्याहरणम्। तमेवालम्ब्य तदर्थाकारेण मनसि कुर्वतां चिन्ताभावनयोः परिनिष्पत्तिः। भावानाबलादुत्पन्नं तदेव लोकोत्तरं ज्ञानं धर्मखङ्गः। तेन प्रहरणं क्लेशानां विध्वंसनम्। तस्यैव भूयसि जने प्रवृत्तिः धर्मवृष्टिः। तस्याः प्रवर्षणम्। स एव यज्ञो निरर्गडत्वात्। तस्य यजनम्। तस्य धर्मस्य दानेन सर्वसत्त्वानां सन्तपणं संप्रवारणं च परिवेषनं(णम्)। विनीताः स्मृत्युपस्थानैः सत्येष्ववतारणात्। शिक्षिताः सम्यक्प्रहाणर्द्धिपादैः। अधिमुक्ता इन्द्रियबलैरेकान्तनिश्चयात्। नियता अविनिवृत्तेः। बुद्धानां परिषदामिति व्यधिकरणे षष्ठि। परिनिर्वा[प]यतामिति ओखै शोषणे। बुद्धानामस्येति क्षेत्रीकृत्य मानसो भावनं रञ्जनम्। तस्मै हिता मनोभावनीयाः प्रसादकरा इत्यर्थः। निरवशेषमभिसंक्षिप्य अनवशेषमनुमोदेतेति सम्बन्धः। ऐकध्यमित्यैकराश्येन। अभिसंक्षिप्येत्यस्य विवरणं पिण्डयित्वेति तुलयित्वेति। समाहितेनेति मनसा निरूप्य। अनुमोदेतेति प्रीत्यालम्बनं कुर्यात्। अनुमोदनयेति प्रीत्योत्पादनया। अग्रयेति प्रकृष्टया। कथं तर्हि एकादशपदानि ? एकादशविधेप्यालम्बने तस्याः प्रकर्षात्। तत् कुतः ? मध्ये दशसु च दिक्षु ये तथागताः तेषां सपरिच्छदेन यानि कुशलमूलानि तदालम्बनत्वात्तस्याः। कथं परिणामयतीत्यत आह। बोधेराहारकं आकर्षकं भवत्विति।



तदेवमुक्त इत्यादिना विस्तरेण स्थविरसुभूतिर्यथानुमोद्य यथा बोधिसत्त्वः परिणामयति तदुक्तवान्। यथा तु तत्रानुपलम्भयोगः कर्तव्यस्तदुपदर्शनायार्यमैत्रेयं तत्रेत्यादिना पृच्छति। यैर्वस्तुभिरिति दशदिक् तथागतादिभिः। येरालम्बनैरिति तदीयैः कुशलमूलैः। येराकारेरिति शीलसमाधिस्कन्धादिभिः। तच्चित्तमित्यनुमोदनाचित्तम्। अपि त्विति किन्तु। उपलभ्येरन्निति शक्तौ लिङ्ग। उपलब्धुं शक्यत इति प्रश्नः। निमित्तीकरोतीति विकल्पयति। अन्यथा अनुमोदनापरिणामनयोरयोगात्॥



आर्यमैत्रेय आह। न तानीत्यादि स्थविर आह। एवन्तर्हि विपर्यासाः स्युरिति। असत एव निमित्तोद्‍ग्रहात् ग्रहणात् सन्तीरणाच्च यथोक्रमं संज्ञायाश्चित्तस्य दृष्टेश्च विपर्यासः। एषां साधनार्थ रागो दृष्टान्तः अथापीति परमतमाशङ्कते। यादृशो यक्षस्तादृशो बलिरिति भावः। चित्तमिति परिणामनाचित्तम्। सर्वधर्मा इत्युद्देशः। सर्वधातव इति निर्देशः।



यदि चेत्यादिना दोषमाह। कतमैर्वस्त्वादिभिरिति। अनुमोदनाचित्तसम्बन्धिभिः। चित्तमिति परिणामनाचित्तम्। तस्यापि निःस्वभावत्वात्। क्वेति कस्याम्। परिणामनैव न स्यादिति भावः॥



अत एवार्यमैत्रेय आह। नेदमित्यादि। यदपि हि स्याद् भवेत्। क्व ? अनुमोदनापरिणामनादौ। मात्रग्रहणमनुष्ठानव्यवच्छेदार्थम्। श्रद्धा संप्रत्ययः। प्रेम प्रीतिः। प्रसादो मनसः कालुष्यविगमः। गौरवं भक्तिः। उपस्तब्धः स्थिरीकृतः। अवलयश्चित्तस्याव[न]तिः। संलयः सन्नतिः। विषादः खेदः। वि[षा]दापत्तिः खेदप्रवाहः। त्रासोद्यम उत्त्रासः। समग्रस्त्रासः संत्रासः। तत्प्रवाहः संत्रासापत्तिः। एवं चेति। अवलयाद्यभावे। येनेत्यादि। यदित्यनुमोदकं चित्तम्। क्षीणमित्युद्देशः। निरुद्धं विनष्टत्वात्। विगतमस्थितत्वात्। विपरिणतं तदिति न किञ्चिन्निःस्वभावत्वात्।



समवधानं तुल्यकालता। चित्तं निरुद्धं चित्तधर्मता शाश्वती चेदाह। न चेत्यादि। तस्या असंस्कृतत्वेन परिणामायोगात्। सुगृहीतवचनं दुर्गुहीतस्य सुपरिणामितत्वायोगात्। आरभ्येत्यधिकृत्य। कथमित्याह। अधिष्ठानं प्रश्नाधिकरणं कृत्वेति। तत्कथम् ? इह मैत्रेयेति वचनात्। आमन्त्रयते स्मेति ब्रूते स्म। इह मैत्रेयेत्यत आरभ्य कथं संज्ञादिविपर्यासो न भवतीति यावत्। एवं आर्यमैत्रेय उत्तरमाह। स चेदित्यादि। येन चित्तेन यत्परिणामयतीति यच्चित्तं परिणामयति। तस्मिन्नित्युभ्यस्मिन्। एवमिति सुगृहीतत्वात्। परिणामितमिति सुपरिणामितम्। स्फुटीकर्त्तुमाह। यथेत्यादि। एवमित्यादिनोपसंहारः। कदा तर्हि विपर्यासः स्यादित्यत आह। अथेत्यादि। इयता विपर्यासप्रसंगे चोद्यं परिहृय प्रकृतानुपलम्भख्यापनायाह। स चेदित्यादि। एवं सञ्जानीत इत्युद्देशः। एवं समन्वाहरतीति निर्देशः। अविपर्यासेन मनसिकरोतीत्यर्थः। तदित्यादि। तत् चित्तमेवं समन्वाह्रियमाणमिति सम्बन्धः। क्षोणमित्यादिभिः पर्यायैर्मनसि करोति। न तच्छक्यमिति। असत्त्वाच्छशविषाणवत्। सव धर्मतेति निःस्वभावतैव। धर्मेष्विति बुद्धधर्मेषु। स चे दित्यादिनोपसंहारः। एवमित्यनुपलम्भेन। सर्वत्र शून्यतैकरसेन मनसिकारेणेत्यर्थः। इतीदमार्यमैत्रेयोऽतीतान् बुद्धानधिकृत्योक्तवान्। अनागतानधिकृत्याह पुनरपरमित्यादि। प्रत्युत्पन्नानधिकृत्याह पुनरपरमित्यादिभिः। अनुपलम्भपरिणामो द्वितीयः॥



पुनरपरमित्यादि। अत्र संक्षेपेण त्र्यैयध्विकबुद्धादीनां पुण्यानुमोदना। अग्रादित्वं पुर्ववत्। अत्राविपर्यासं दर्शयितुमाह। तस्य कथमित्यादि। एवं समन्वाहरतीति समन्वाहारः सम्यग्मनसिकारः। ते धर्मा इति ये परिणामयितव्याः। स च धर्मोऽक्षय इति। अनुत्तरा सम्यक्सम्बोधिः सुविशुद्धधर्मतालक्षणा। एवं परिणामितं भवतीत्यविपर्यासादिति भावः। न धर्मो धर्म परिणामयतीति निःस्वभावत्वात् सर्वधर्माणाम्। इत्यपीति। एवमपि पूर्ववत्। अत एवाह। एवं भदन्तेत्यादि। स चेदित्यादिना प्रकारान्तरमाह। अयमित्यादिनोपसंहारः। इत्यविपर्यासपरिणामस्तृतीयः॥



स चेदित्यादि। पुण्याभिसंस्कारः पुण्यकर्म। संज्ञानमभिनिवेशः। कथं तर्हि परिणामयतीत्याह। स चेदित्यादि। विविक्तः शान्तश्च यथाक्रमं स्वपरैः स्वपरलक्षणैश्च शून्यत्वात्। पुनः स चेदित्यादिनैतदाह। विविक्तशान्तत्वज्ञानेपि यदि तभ्दावाभिनिवेशः स्यात् तदा न सम्यक्परिणामयति। एवमित्यादिनोपसंहारः। प्रज्ञापारमितेति वचनम्। तयैव सम्यक्परिणामनादिति विविक्तपरिणामश्चतुर्थः॥



यदपीत्यादिना स्मरणम्। यादृश एवेत्यादिना निरूपणम्। यादृश एव स परिणाम इत्यनुत्तरा सम्यक्संबोधिर्धर्मधतुस्वभावा तादृशमेव तदिति लभ्यते नित्याभिसम्बन्धात्। धर्मधातुस्वभावमेव तदित्यर्थः। तादृशमेव तत्कुशलमूलमिति यदनुमोदनासहगतम्। येनापीति परिणामनाचित्तेन। तदपीति तदप्युभयम्। तज्जातिकमिति सैव जातिः सामान्यं यस्य। तल्लक्षणमिति तदेव सामान्यलक्षणं यस्य। तन्निकायमिति तद्रासि(शि)कम्। तत्स्वभावमिति तत्प्रकृतिकम्। स चेदेवं संजानीत इति। यद्यनेनापि तादृशत्वादिना तत्त्वेनाभिनिविशते तदा न सम्यक्परिणामयति।



यच्चातीतमित्यादिना अपरं तत्त्वविकल्पमाह। असंप्राप्तमनुत्पन्नम्। स्थितिर्नास्तीति प्रकृत्यैव नश्वरत्वात्। तस्मात् त्रयमपि नोपलभ्यते ततोऽसत्। ततो नैव निमित्तमकारणत्वात्। नाकारणं विषयः। स चेदित्यादि। एवमिति क्षीणत्वादिना तत्त्वेन। निमित्तीकरोतीत्युपलभते। तदा न समन्वाहरति न सम्यग्मनसिकरोति। तदा न सम्यक् परिणामयति।



यदा तर्ह्यनवबोधादस्मरणाद्वा न निमित्तीकरोति तदा सम्यक्परिणामः स्यादिति चेदाह। अथेत्यादि। एवमपीति। एवमनिमित्तीकरणेपि न परिणामयति। परिणामनामात्रस्याप्यभावादिति भावः। कदा तर्हि सम्यक्परिणामितं भवत्यत आह। अथेत्यादि। य(अ)थशब्दो यद्यर्थः। तदिति तादृशत्वादिकम्। अनिमित्तं सविषयत्वञ्च। निमित्तमिति सम्यग्ज्ञानालम्बनम्। समन्वाहरतीति सम्यग्मनसिकरोति। न च निमित्तीकरोतीति न सञ्जानाति नाभिनिविशते। एवमत्रेत्यादिनोपसंहारः। एवं बौद्धपुण्यौघस्य यः स्वभावो धर्मता तया अनुस्मरणम्। अनुमोद्यादीनामिति बौद्धपुण्यौघस्वभावानुस्मृतिपरिणामः पञ्चमः॥



इदं तदित्यादि। इवमिति यदेनदुभ[यं] तत्त्वस्य मनसिकारो न च निमित्तीकरणम्। तच्छब्दः प्रसिद्धौ। उपायकौशलं यत्प्रसिद्धमिदं तत्। य इत्यादिना अनुशंसमाह। अथास्मिन् उपायकौशले क उपाय इत्यत आह। अत्र चेत्यादि। इयमेवेति। सूत्रात्मिकैव। अश्रुतवतेति इमामस्यां वेति शेषः। प्रज्ञापारमिताया या परिणामना सैव पुण्यक्रिया। सेयं प्रवेष्टुमवगाहितुं न हि शक्येति सम्बन्धः। तत्रेति तथा सति। स मैवं वोचदिति स्याद्वचनीय। कोसावित्याह। य इत्यादि। इति सोपायपरिणामः षष्ठः॥



तत्कस्येत्यादि। इदं तदिति यदुक्तं तत्कुत इत्यर्थः। आत्मभावाः कायाः। संस्कारः कुशलमूलानि। अतश्च ते शान्ता विविक्ताः निःस्वभावा इत्यर्थः। अतश्च विरहिता उपलब्ध्या नोपलभ्यन्त इत्यर्थः।



अपि त्विति। यद्यपि नोपलभ्यन्ते तथापि यथाभूतमविपरीतं निरुद्धत्वादिकम्। निमित्तीकृत्येत्युद्‍ग्रहतः। विकल्प्य चेत्यभिनिवेशतः। अयथाभूते विकल्पप्रतिभासे यथाभूतनिरुद्धादिसंज्ञी। उपलम्भं आत्मीयं अनुपलम्भे सम्यक्संबोधौ परिणामयेत्। ततः किमित्याह। तस्येत्यादि। परिनिर्वाणमपीति। अपिशब्दोऽतिशयार्थः। तस्यात्यन्तं निमित्तीकरणाद्ययोगात्। सविषः सशल्यश्च ताद्धर्म्यात्। इत्यनिमित्तपरिणामः सप्तमः॥



तद्यथापीत्यादि। प्रणीतं वर्णादिप्रकर्षात्। किं चापीति यद्यपीत्यर्थः। अपि त्विति तथापीत्यर्थः। खलु पुनरिति वाक्यालंकारो मन्येतेति वर्णादिलाभात्। स्वादनं स्वादः परिभोगः। परिणामे चेति अवसाने च। विपाकफलम्। दुर्गहीतेनेति मिथ्याश्रुतेन। दुरुप[ल]क्षितेनेति दुर्वितर्कितेन। दुःस्वाध्यातेनेति दुरभ्यासेन। सुभाषितम्। इति करणसमाप्त्यर्थः। एवं स इति योयमुक्तः। सविषत्वादिति। अनर्थकरणशक्तिरत्र विषम्। तस्माद् इत्युपसंहारः।



कथमित्यादिना प्रश्नाः। इहेत्यादिकमुत्तरम्। अभ्याख्यानं निन्दा। अभूतवादितया ख्यापनात्। परिग्रहीतव्यादिपदेषु परिग्रहेणानुमोदना लक्ष्यते। नान्तरीयकत्वात्। बुद्धज्ञानेन ज्ञा(जा)नन्ति बुद्धचक्षुषा पश्यन्तीति सम्बन्धः। एवं चास्येत्युपसंहारः। निर्विषत्वादिकं सर्व कुत इत्याह अध्याशयेनेत्यादि। इति बुद्धानुज्ञातपरिणामोऽष्टमः॥



पुनरपरमित्यादि। शीलादीति तथागतः शीलादिस्कन्धः। अपर्यापन्नमनन्तर्भूतं। त्र्यध्वत्रैधातुकापर्यापन्नत्वादिति। अध्वत्रये धातुत्रये चानन्तर्गतत्वादित्यर्थः। धर्मधातुमात्रत्वात् तेषां शीलादीनामिति भावः। परिणामोपीति परिणामनापि। यत्रापि धर्म इति सम्यक्सम्बोधौ। अविनष्ट इत्यदुष्ट। अपर्यापन्नः। बुद्धानुज्ञातपरिणामयोर्धर्मधातुपरिणामत्वेन समतां दर्शयितुमाह। तत्रेत्यादि। अत्र द्वितीयादिशब्दात्परेण वार्थो गम्यते। योयं धर्मधातुपरिणामनया परिणामः। अयं सम्यक्परिणाम इति सम्बन्धः। कतमयेत्याह। अनयेत्यनन्तरोक्तया। अपर्यापन्नपरिणामनयेत्यर्थः। यथा बुद्धा भगवन्त इत्यादिकया बुद्धानुज्ञातपरिणामनयेवेत्यर्थः। एवं चेत्युपसंहारः। इत्य पर्यापन्नपरिणामो नवमः।



अथ खल्वित्यादि। यो ह्ययमिति योह्यपर्यापन्नाख्यः। अस्यामेवेत्यादिना परिणामयतीत्येतत्पर्यन्तेन बुद्धानुज्ञातपरिणामस्य निर्देशः। अत्रेत्यनयोर्धर्मधतुपरिणामनयोः। अग्रादित्वं प्रमु[दि]ताद्येकादशभूमिगतप्रकर्षहेतुत्वात्। शेषं सुबोधम्। यावत्पञ्चानामभिज्ञानां लाभिनो भवेयुरिति। इहोक्ते महापुण्योदये यच्छद्धादिकं स पूर्वकाद्विशेषहेतुरिति मृदुर्महापुण्योदयपरिणामो दशमः॥



तिष्ठत्वित्यादि सुबोधं यावत्प्रत्येकबुद्धा भवेयुरिति। इहोक्तपुण्यातिरेके श्रद्धादिकं पूर्वकाद्विशेषहेतुरिति मध्यो महापुण्योदयपरिणाम एकादशः॥



तिष्ठत्वित्यादि। ये सुभूत इत्यादिना दद्युरित्येतदन्तेनोद्देशः। एतेन पर्यायेणेत्यादिना दद्युरित्येतदन्तेन निर्देशः। एतेनेति वक्ष्यमाणेन। ग्लानं ग्लानिः। तत्प्रत्ययानि तद्धेतुकानि भैषज्यानि। परिष्काराः परिश्रावणादयः। सुखहेतवः सुखाः। तेषां उपधानैः ढोकनैः। सुखस्पर्शः सुखानुभवः। तेन ये विहाराः चंक्रमादयः। तान् सर्वसत्त्वानेककं परिकल्प्येति। उपस्थेयत्वेन पृथगवस्थाप्य। तांश्च सर्वबोधिसत्त्वानिति। एकैकं परिकल्प्येति वर्तते। उपस्थापकत्वेन पृथगवस्थाप्य। एकंको बोधिसत्त्व इति। उपतिष्ठदिति सम्बन्धः। किमुपतिष्ठेत् ? प्रकृतत्वात्तानेव सर्वसत्त्वान्। एकंकस्तेषां सर्वबोधिसत्त्वानामिति निर्धारणे षष्ठी। तेषां मध्ये एकैकः दानं दद्यादिति। तेभ्य एव सर्वसत्त्वेभ्यः। तावच्चिररात्रसञ्चितमिति। तावता दीर्घकालेन सञ्चितम्। तथा महाविस्तरसमुदानीतमिति। तावन्महाविस्तरेणोत्पादितम्। तिष्ठतु खलु पुनरित्यादि। पूर्वत्र गंगानदीबालुकोपमलोकधातुवीर्याः सर्वबोधिसत्त्वा उपस्थापकाः प्रत्येकं गंगानदीबालुकोपमलोकधातुवीर्यानां सत्त्वानाम्। तत्र यावन्त उपस्थेयाः सत्त्वा इह तावन्त उपस्थापका बोधिसत्त्वाः प्रत्येकं गङ्गानदीवालुकोपमा लोकधातुवीर्यानां सत्त्वानामिति विशेषः। तान्सर्वसत्त्वान् एकैकं परिकल्पितांश्च सर्वबोधिसत्त्वानिति पूर्ववत्। शेषं सुबोधम्। इत्यधिमात्रो महापुण्योदयपरिणामो द्वादशः॥



समाप्तश्च परिणामनामनस्कारः॥



अनुमोदनामनस्कारो वक्तव्यः। तमधिकृत्य शास्त्रम्-



[54] उपायानुपलम्भाभ्यां शुभमूलानुमोदना।

अनुमोदे मनस्कारभावनेह विधीयते॥२-२४॥



एतदाह। अथ खल्वायुष्मानित्यादिना। निरवशेष्येति निरवशेषीकृत्य। अग्रत्वादीनि चतुर्दशोक्ताः। कियता अग्रता भवतीति प्रश्नः। इयता भवतीत्युत्तरम्। कोत्राभिप्रायः ? अग्रत्वमेव दशदिग्मध्यत्र्यध्वकुशलालम्बनत्वाच्चतुर्दशविधं भवतीति। यत्र तर्हि त्रयोदशपदानि तत्रापि दशदिक्‍त्र्यध्वभेदात् त्रयोदशविधम्। तत्र कथं मध्यमलोकधातोः संग्रहः ? तन्मध्ये सूक्ष्ममवधिं कृत्वा दिशां ग्रहणात्। लोकधात्वेकदेशेष्वपि लोकधातुव्यपदेशात्। तद्यथा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूतेति। यदा हि त्रिंशद्रात्रा मासास्तदाऽष्टौ। यदा मासैकदेशोपि मासस्तदा नव। न गृण्हीते ग्राह्यत्वेनाप्रतिभासात्। न मन्यते वस्तुत्वेनाप्रतिभासात्। नोपलभते स्वरूपतो अप्रतिभासात्। न कल्पयति सामान्यलक्षणेन। न विकल्पयति विशेषलक्षणैः। न पश्यति दृष्ट्या अनभिनिवेशात्। न समनुपश्यति सन्ततमनभिनिवेशात्। कल्पना अभूतपरिकल्पः। तथा विठपिताः संदर्शिताः। अजाता निर्बीजत्वात्। अनिर्जाता अनिष्पत्तेः। अनागतिका अनागतादध्वनःपूर्वलोकाद्वा। अगतिका अतीताध्वनि परलोके वा। एवं यावत् नापि निरुध्यत इति। निःस्वभावत्वात्परिकल्पतत्वाद्वेति हेतुः। एवमिति परिकल्पितेन स्वभावेन। इत्थं भूतान् एतान् धर्मानिति परतन्त्ररूपान् कुशलान्। धर्मतेति बालबुद्धिगोचरैः स्वभावैः शून्यता। अनुमोदनाधिकारेपि तथा अनुमोद्य तथैव परिणामयतीति वचनमवश्यपरिणामनीयत्वात्। शेषं व्याख्यतमेव यावत् न क्षमत इति। इत्यनुपलम्भानुमोदना प्रथमा॥



पुनरपरमित्यादि। विमुक्तिर्निर्वाणम्। तच्च धर्मधातोः सर्वावरणविशुद्धिता परमार्थतस्तथैव सर्वं दानादीत्यर्थः। सङ्गस्तृष्णा। तदभावाद् असक्तानां तृष्णाहेतुकस्य जन्मनोऽभावाद् अबद्धानाम्। ततो अमुक्तानाम्। अपरिणामनायोगे तस्याप्यनुपलम्भात्। स कथमित्याह। असंक्रान्तितो अविनाशत इति। तथाह्यवस्थान्तरसंक्रान्तिः परिणामः पूर्वविनाशापरोत्पत्ती वा। न च धर्मधातोरवस्था। न च संक्रमो नापि विनाश इति।



समादायोति गाचरतः (?) सावधिकमादाय। आक्रुष्टः शप्तः। अभिहतस्ताडितः। परिभाषितो भूताभूतदोषस्थानैः। समान् इति सन्नित्यर्थः। स्त्यानं च मिद्धं च तेनाभिभूता इति सम्बन्धः। तत्र स्त्यानं चित्तस्याकर्मण्यता स्तैमित्यम्। स्तैमित्यलक्षणा या चित्तस्याकर्मण्यता स्वालम्बनप्रतीतये तत् खलु स्त्यानम्। मिद्धमस्वतन्त्रवृत्तिश्चेतसोऽभिसंक्षेपः। चेतसोऽभिसंक्षेपश्चक्षुरादीन्द्रियद्वारेणाप्रवृतिः। स चेदस्वाधीना। चेतसो वृत्तिस्तन्मिद्धम्। शेषं सुबोधमापरिवर्तसमाप्तेः। उपायो विमुक्तिसादृश्यम्। तेनेयं धर्मधातोरनुमोदनानुपलम्भेनेत्युपायानुमोदना द्वितीया॥



अनुमोदना च परिणामना च तस्याः। तयोरभिधायकः परिवर्तो अनुमोदनापरिणामनापरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां षष्ठः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project