Digital Sanskrit Buddhist Canon

पुण्यपर्यायपरिवर्तो नाम पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Puṇyaparyāyaparivarto nāma pañcamaḥ

V

पुण्यपर्यायपरिवर्तो नाम पञ्चमः।



उक्तं 'कारित्रमधिमुक्तिश्च'। 'स्तुतिस्तोभितशंसिताः' वक्तव्याः 'स्तुतं' सुतिः। 'स्तोभितं' स्तोत्रः। सुब्धातोर्भावे क्तः। शंसनं शंसः। सोऽस्यास्तीति शंसी। तभ्दावः 'शंसिता' प्रशंसेत्यर्थः। अतः शास्त्रम्-



[50] स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति।

अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते॥२-२०॥



प्रज्ञापारमिताया योऽधिमोक्षः पूर्वमुक्तः स्वार्थोभयार्थपरार्थभेदेन त्रयोधिमुक्तिनवका इत्यर्थः। तस्य गुणोभ्दावनं 'मात्राणां' प्रभेदानां 'त्रिभिर्नवकैः' यथाक्रमम्। 'स्तुतिः स्तोभः प्रशंसा च' 'इष्यत' इत्येकवचनं स्तुत्यादिभिः प्रत्येकमभिसम्बन्धात्। तत्र गुणोभ्दावनस्य मृदुमध्याधिमात्रभेदाः स्तुतिस्तोभप्रशंसाः। तासामपि मृदुमृद्वादयोऽधिमात्राधिमात्रपर्यन्ताः प्रभेदास्त्रयो नवका इत्यर्थः। तासां द्वौ हेतू बोधिसत्त्वस्य परार्थकरणशक्तिः परार्थप्रधानता च।



तत्रादौ पुनरपरमित्यतः प्राक् प्रथमा। अस्यां परार्थकरणशक्तिस्त्रिषु वस्तुष्वधिमोक्षो दृढतरः। कर्तव्योपदेशे भगवतीगुणे स्वयं च तस्याः कर्तव्यतयादौ शक्र आह। य इत्यादिना अधिमुञ्चेदित्येतदन्तेन। यो भगवन् कुलपुत्रो वा कुलदुहिता वाधिमुञ्चेदिति सम्बन्धः। किमधिमुञ्चेदित्याह। इमामित्यादि सर्वम्। इमां प्रज्ञापारमितामध्याशयतः शृणुयादुद्‍गृण्हीयात्। यावन्नेत्र्यवैकल्येनेति। कथमित्याह। बोधाय बोधये चित्तमुत्पाद्य। कीदृशः प्रसन्नचित्तोऽस्यामेव। कथम् ? अधिमुच्य। इमामविपरीतत्वेनात्यन्तमवधार्य। तच्च श्रद्धयेति दर्शयितुमाह। अभिश्रद्दधदवकल्पयन्। इमामेव। हेतौ शतृप्रत्ययः। अस्यामेव श्रद्धयेत्यर्थः। आसे(शे)रते कुशला धर्मा अस्मिन्नित्याशयः। जलाशयवत्। स पुनः श्रद्धाच्छन्दौ। अधिकः प्रकष्ट आशयो अध्याशयः। तेन शृणुयाद् ग्रन्थतोऽर्थतश्च। उद्‍गृण्हीयाद् आवर्तयेत्। धारयेदिति हृदये स्थापयेत्। वाचयेत् पाठयेत्। पर्यवाप्नुयादिति सर्वथा अवगच्छेत। इयता स्वार्थो उक्तः।



प्रवर्तयेदिति परेषु सञ्चारयेत्। अयमुद्देशः। परो निर्देशः। देशयेद्‍ग्रन्थतो भाषणात्। उपदिशेद् अर्थतः। उद्दिशेदित्यववदेत्। इयतो परार्थः।



स्वाध्यायेदिति सुतरामभ्यसेत्। पुनः पुनः स्वार्थकरणात्। परेभ्यश्च सम्प्रकाशयेदिति सन्ततं प्रकाशयेद्‍ग्रन्थतः। विस्तरेणेति बहुभ्यः प्रकाशनात्। विवृणुयादिति विस्तरेणेति वर्तते। मनसाऽन्ववेक्षेतेति चित्तेनानुबुध्य संयोज्य पश्येत्। स(श)मथोत्पादनात्। परिमीमांसामिति विचाराणां विपश्यनोत्पादनात्। इयता चर्योक्ता।



अस्या अभावे पक्षान्तरमाह। पुस्तकेत्यादिना। अत एव अन्तशःशब्दः। पुस्तकगतामिति। इमामेव धारयेदिति। अविनश्वरी कुर्यात्। स्थापयेदिति स्वगृहादौ। तिसृभिराशंसाभिः। सन्त आर्याः। तेषां धर्ममार्ग इति सद्धर्मः। तस्य चिरस्थितिः। तद्धेतोः तदर्थम्। इयं हि साधारणः। सद्धर्म इति प्रथमेयमाशंसा सर्वार्यानधिकृत्य। बुद्धाश्च लोकगुरवस्तेषां च कृतज्ञैरस्माभिर्भवितव्यम्। तेषामियं नेत्री बोधेः प्रापिका प्रज्ञा। तैस्त्रिकल्पासंख्येया परिश्रमेणोत्पाद्य सम्यगनागतजनतार्थाय स्ववंशेऽवस्थापिता। यावदस्मानुपगता। ततो मा बुद्धनेत्री समुच्छेदोभूद् इत्यपीमां स्थापयेत्। इति द्वितीयेयमाशंसा बुद्धानधिकृत्य। बोधिसत्त्वानां चानुग्रहोपसंहारः करणीयः। स च कृतो भविष्यति। अनया स्थायितया नेत्र्यवैकल्येन। इत्यपीमां स्थापयेदिति तृतीयेयमाशंसा बोधिसत्त्वानधिकृत्य। इति शब्दः पूर्वत्रापि सम्बध्यते मा भूदिति। इयता द्विविधः कर्तव्योपदेश उक्तः।



इमं निर्देशमिति कर्तव्योपदेशम्। एवं महार्थिकेत्यादि। महान् अर्थकार्यमस्या इति महार्थिका। अयमुद्देशः। परो निर्देशः। महानुशंसा यथोक्तरैणु(नु)शंसः। महाफला स्त्रोतआपन्नत्वेन, सकृदागामित्वेन, अनागामित्वेन, अर्हत्त्वेन, प्रत्येकबोध्या, सम्यक्सम्बोध्या च। महाविपाका सर्वाभिश्चर्याविभूतिभिः। बहुमहागुणसमन्वागतेत्युपसंहारः। इयता भगवतीगुण उक्तः।



अपरित्यजनीया परिग्रहादनुत्सर्गाच्च। रक्षितव्या अग्निमूषिकादिभ्यः। गोपायितव्या चौरादिभ्यः। यस्मात् परमदुर्लभा। इयता स्वयं कर्तव्यमुक्तम्।



इतीति। एतद्वस्तुत्रयमधिमुञ्चेत्। एवमेवेत्यवधारयेत्। असत्यां च प्रवृत्तौ नाधिमोक्षो दृढः स्यात्। तत इयता परार्थकरणशक्तिरुक्ता। तस्यां सत्यां यः परार्थ स्वल्पमपि न करोति स्वल्पं वा करोति सोऽल्पपुण्यः। इतरस्तस्मात् बहुतरपुण्यः। तस्यैता स्तुतिस्तोत्रप्रशंसाः। अतः स्वयमेव चेत्यादिना द्वितीयप्रसवतिपर्यन्तेन स्तुतिः प्रथमा॥



स्वयमेव चेति चकारो य इत्यस्यानुकर्षणार्थः। न तु परां(रैः) पूजाः(जां) कारयतीत्येवकारार्थः। संपूज्येति सर्वपूजाः कृत्वा। अर्थनमर्थः। पूजायामिच्छा तद्योगादर्थिकाय। अतिशयेन तद्योगाच्छन्दिकाय। याचमानायेति पूजयितुं भगवतीं प्रार्थयमानाय। दद्यादित्यभ्युपगच्छेत्। उपनामयेत् सन्निपातयेत्। निर्यातयेत् ग्राहयेत्। परित्यजेद् अविप्रतिसारात्। अन्तशः इति यावदित्यर्थः। पुस्तकगतामपि कृत्वेति स्वयं लिखित्वा तेन वा लिखित्वा तन्मूल्येन वा स्वमूल्येन वा लेखयित्वा परित्यागो दानं तस्मै बुद्धिरिच्छा अस्येति तद्‍बुद्धिः। संप्रकाशयेदिति गुणतः स्वरूपतश्च। दद्यात् पूजनाय। संविभजेदिति स्फरतामधिकानां वा दानात्। विस्तारो वैपुल्यम्। तेन चरतीति वैस्तारिकी। प्रत्यात्ममित्यात्मनैव। शेषं सुबोधम्। इति मृदुमृद्वी स्तुतिः।



पुनरपरादिः प्राक् पुनरपरात् द्वितीया। तत् इति प्रथमस्तुतात्। इति मृदुमध्या स्तुतिः॥



पुनरपरादि तिष्ठन्तुशब्दात् प्राक् तृतीया। समादापयेदिति सम्यक् ग्राहयेत्। प्रतिष्ठायेत् अनतिक्रमात्। अभिश्रद्दधदिति भगवतीगुणान्। अन्यथा न सम्यक् दाता स्यात्। अभिश्रद्दधत इति। अन्यथा न स दानपात्रं स्यात्। एवमुत्तरेष्वपि वेदितव्यम्। किलासिता कुसीदः। अकिलासिता वीर्यम्। तया सम्पादयेद् यथोक्तं कार्यम्। उद्युक्तोऽभियुक्तः सन्नमुं बोधिसत्त्वं भगवतीं ग्राहयेत्। बोधिसाधनत्वेन प्रतिपादयेद्वाचा। तथैव सन्दर्शयेद् युक्तिभिः। ततः समादापयेद् वाचनार्चनादिषु प्रवृत्तेः। प्रवृत्तं समुत्तेजयेद् उत्साहयेत्। वीर्यकौसीद्ययोर्गुणदोषाख्यानात्। आरब्धवीर्य स्तुतिभिः संप्रहर्षयेत्। विपर्यस्तो लोकस्ततो नेदं शक्यमिति चेदाह। वाचेत्यादि। त्रिविधो लोकः श्राद्धो विमुख उदासीनश्च। तत्र श्राद्धं वाचैव नेष्यति। स हि संभावितस्य वाचैव गच्छति। विमुखं विनेश्यति। कुदृष्टीनां युक्तिभिर्बाधनात् उदासीनमनुनेष्यति। अनुरञ्जयिष्यति भगवत्या तद्‍गुणाख्यानात्। एवं पात्रीकृतो य अर्थमस्या अस्मै संप्रकाशयिष्यति। एवं चेति प्रकाशिते वाऽर्थेऽस्यचित्तं शोधयिष्यति। कुद्दष्टीनां बाधनात्। तथापि संशयिनं निर्विचिकित्सं करिष्यति युक्त्यन्तरैः। शिक्षस्वतिसृभिः शिक्षाभिः। अत्र हीत्यादिना त एवाह। शिक्षमाणः चिन्तया। चरण(न) समर्थेन (शमथेन) व्यायच्छमानो विपश्यमानया। सत्त्वधातुः सत्त्वराशिः। आत्यन्तिकत्वाद् अनुत्तरे। उपधयः स्कन्धाः सास्रवाः सास्रवानास्रवा वा। तेषां संक्षयः समस्तक्षयः। तन्निमित्तम्। अभिविनेश्यसि सर्वावरणक्षयात्। भूतकोटिप्रभावनता तन्मात्रशेषता। परित्यागबुद्ध्येति सर्वाकारया त्यागबुद्धया। तत इति द्वीतीयायां स्तुतात् दशकुशलप्रतिष्ठापकाच्च। इति मृद्धधिमात्रा स्तुतिः॥



इत ऊर्ध्व पञ्चानां स्तुतीनां तिष्ठन्त्वादिः प्रतिष्ठापयेदन्तः पूर्वो भागः। तत ऊर्ध्व तत्किं मन्यस इत्यादि पुनपरात् प्राक् पश्चिमो भागः। आसु च सूत्रोक्ते पुण्यातिरेकैः श्रद्धादिकं सामर्थ्यगम्यश्च मात्रातिरेकश्चर्यातिरेकः। एतेन पर्यायेणेति प्रकारेण वस्तुत्रयाधिमोक्षे स्थित्वेत्यर्थः। इति यथाक्रमं मध्यमृद्धी मध्यमध्या मध्याधिमात्रा अधिमात्रमृद्वी अधिमात्रमध्या च स्तुतिः॥



पुनरपरादि पुनरपरात्प्राक् पञ्च तिष्ठन्तुका नवमी। एकस्या एव नवम्याः क्रमेणाभिधानात्। तथाप्यष्टमीतो महदन्तरमिति चेत्। नायं दोषः। एकलोकधातुकातो गंगावालुकोपमात् लोकधातुवत्। सूत्रोक्तपुण्यातिरेकैः श्रद्धादिकं चर्यातिरेकः। ऊनपाठाः पूर्वापरैः पूरणियाः।



चतुर्षु ध्यानेष्विति। अत्र सूत्रम्-'विविक्तं कामैर्विविक्तं पापकरैकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति। स वितर्कविचारणां व्युपशमादध्यात्मं संप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति। स प्रीते विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं च कायेन प्रतिसंवेदयते। यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानमुपसम्पद्य विहरति। स सुखस्य च प्रहाणात् दुःखस्य च पूर्वमेव प्रहाणात् सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति" इति॥



विविक्तं कामैरिति। क्लेशकामस्यासंप्रयोगात्। वस्तुकामानामनालम्बनात्। विविक्तं पापकैरकुशलैर्धमैरिति। क्लेशकामहेतुकैः कामवाङ्मनोदुश्चरितैः। सवितर्क सविचारमिति। कामप्रतिपक्षाभ्यां वितकविचाराभ्यां संप्रयोगात्। विवेकजमिति। कामविवेकाज्जातम्। प्रीतिसुखमिति। ईप्सितार्थसिद्धितः कायचित्तप्रश्रब्धितश्च प्रीतिसुखसहगतम्। प्रथमं ध्यानमुपसंपद्येति समापद्य। विहरतीति प्रत्यनुभवति। स इति। स एव योगी। वितर्कविचारेषु चित्तक्षोभकरत्वदोषदर्शनात्तेभ्यश्चित्तं व्यावर्त्य समादधानः। वितर्कविचाराणां व्युपशमादिति समाधिबलेन। चेतस एकोतीभावादिति वितर्कविचाराणां निरन्तरमप्रवृत्तेः। अवितर्कमविचारमिति तेषां सर्वेण सर्व प्रहाणात्। प्रीतेर्विरागादिति। औदारिकात्तस्याः। उपेक्षक इति। वितर्कविचारप्रीतिनामुपेक्षणात्। स्मृतिमान् संप्रजानन्निति। प्रीतेरनकवकाशदानाय प्रज्ञाबहुलीकारात्। सुखमिति। वेदितसुखं प्रश्रब्धिसुखं च। कायेनेति। रूपकायेन मनःकायेन च। आर्या इति। श्रावका बुद्धाश्च। यावत्सुखविहारीति। एष एवासौ ध्यायीति शेषः।



तत्र सुखस्य प्रहाणं चतुर्थेन ध्यानेन। दुःखस्य प्रथमेन। अत एवाह। पूर्वमेवेति। सौमनस्यस्य तृतीयेन। दौर्मनस्यस्य द्वितीयेन। पूर्वमेवेत्यनुवृत्तेः। उपेक्षैवात्र वेदना। तत आह। अदुःखासुखमिति। तयोरिहात्यन्तं विशुद्धिलाभात्॥



तत्र प्रथमस्य ध्यानस्य पञ्चाङ्गानि। वितर्कविचारौ प्रतिपक्षाङ्गः(ङ्गम्)। प्रीतिसुखे अनुशंसाङ्गः(ङ्गम्)। चितैकाग्रता तदुभयसन्निश्रयाङ्गः(ङ्गम्)॥ द्वितीयस्य चत्वार्यङ्गानि। अध्यात्मं संप्रसादः प्रतिपक्षाङ्गम्। शेषे अङ्गेपूर्ववत्॥ तृतीयस्य पञ्चाङ्गानि। उपेक्षास्मृतिः संप्रजन्यं च प्रतिपक्षाङ्गम्। सखमनुशंसाङ्गम्। निश्रयाङ्गः(ङ्गं) पूर्ववत्॥ चतुर्थस्य चत्वार्यङ्गानि। उपेक्षापरिशुद्धिः प्रतिपक्षाङ्गः(ङ्गम्)। अदुःखासुखा वेदना अनुशंसाङ्गः(ङ्गम्)। निश्रयाङ्गः(ङ्गं) पूर्ववत्॥



एतेषु चतुर्षु ध्यानेषु प्रतिष्ठापयेत्। शेषं पूर्ववत्। इत्यधिमात्राधिमात्रा स्तुतिः॥



पुनरपरादिः प्रभवनतान्तः प्रथमः स्तोभः। ऊनपूरणं पूर्ववत्। चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतुर्ष्वारूप्यसमापत्तिषु पञ्चस्वभिज्ञासु यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्यभिज्ञासु प्रतिष्ठापयेदिति।



उक्तानि ध्यानानि। मैत्र्यादयः कामावचराः सत्त्वालम्बनाश्चत्वारो ब्रह्मविहाराः। अप्रमाणसत्त्वालम्बनाश्चत्वार्यप्रमाणानि। मैत्री करूणा मुदिता उपेक्षा च। अहो वत सर्वसत्त्वाः सुखेन युज्येरन् दुःखेन वियुज्येरन् सुखेन मा वियुज्येरन् संक्लेशान्मुञ्चेरन्नित्येभिराकारैः सुखसंयोगाशयो दुःखवियोगाशयः सुखावियोगाशयोऽसंक्लेशाशयश्च। अधिमुक्तिचर्याभूमौ चतस्त्रोपि सत्त्वालम्बनाः। प्रमुदितासु सप्तसु तथतालम्बनाः। अचलादिष्वनालम्बनाः।



अप्रमाणेषु सूत्रम्-"मैत्रीसहगतेन चित्तेन विपुलेन महद्‍गतेनाद्वयेनाप्रमाणेनावैरेणासम्पन्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकं दिशं स्फरित्वोपसंपद्य विहरति। यावद्दशदिशः स्फरित्वोपसंपद्य विहरति। एवं करुणासहगतेन। एवं मुदितासहगतेन। एवमुपेक्षसहगतेन" इति॥



तत्र मैत्रीसहगतेन चित्तेनेति गुणिनो निर्देशः। शेषेण गुणानाम्। विपुलेनेत्याशयतो महत्त्वम्। महद्‍गतेनेति वर्धनतः। अप्रमाणेनेत्यालम्बनतः। अद्वयेनेति एकात्मकेन निर्विकल्पत्वात्। अवैरेणेति विपक्षप्रहाणात्। तत्र मैत्र्यादीनां विपक्षो यथाक्रमं। व्यापादो विहिंसा अरतिः, अनुनयप्रतिघौ च। असंपन्नेनेति स्त्यानमिद्धोपशमात्। अनावरणेनेत्यौद्धत्यकौकृत्योपशमात्। अव्याबाधेनेत्येभिरेव त्रिभिश्चेतसो अकालुष्यात्। सर्वत्रानुगतेनेति मित्रोदासीनशत्रुषु त्रिष्वपि प्रवृत्तत्वात्। सुभावितेनेति त्रिष्वपि समप्रवृत्तत्वात्। उक्तेन प्रकारेण स्फरित्वेति व्याप्य। लोकमिति सत्त्वलोकम्। सर्वावन्तमिति देवनागयक्षादिभेदैः सर्वैर्युक्तम्। एकं दिशमिति एकदिग्गतम्। क्वेत्याह। लोक इति भाजनलोके धर्मधातुपरम इति। धर्मधातुवदनन्ते आकाशधातोरिव पर्यवसानमस्येति तथोक्ते। उपसंपद्य विहरतीति चित्तं समाधाय विहरत्यार्यविहारेण। दशदिश इति दशदिग्गतान्। शेषं सुबोधम्॥



आरूप्यसमापत्तयश्चत्वार आरूप्याः। तेषु सूत्रम् "सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनसिकारात् अनन्तमाकाशमिति आकाशानन्त्यायतनं उपसम्पद्य विहरति। स सर्वश आकाशानन्त्यायतनसंज्ञासमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति। स सर्वश विज्ञानानन्त्यायतनसंज्ञासम्‍तिक्रमात् नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरति। स सर्वश आकिञ्चन्यायतनसंज्ञासमतिक्रमात् नैवसंज्ञा नासंज्ञायतनमुपसम्पद्य विहरति" इति॥



रूपसंज्ञा नीलपीतादिसंज्ञाः। तासु विरक्तस्य सर्वत्राकाशसंज्ञा भावनात्। तासामतिक्रमात् अप्रतिभासात्। प्रतिघसंज्ञानामिति भित्तिप्राकाराद्यावरणसंज्ञानाम्। नानात्वसंज्ञानामिति प्रासादोद्यानगिरिसरिच्चन्द्रसूर्यादिसंज्ञानाम्। अनन्तमाकाशमित्येवमाकाशानन्त्यायतनमालम्वनमस्येति तथोक्तम्। कथमाकाशानन्त्यायतनसमतिक्रमः ? स येन ज्ञानेनाकाशानन्त्यायतनमधिमुक्तवांस्तदेवानन्तमधिमुच्य सर्वत्राकाशसंज्ञाव्यावर्तनात्। विज्ञानानन्त्यायतनसमतिक्रमादिति। स तस्मादुच्चलितो न किञ्चिदालम्बनं पश्यति नार्थं न विज्ञानम्। सोऽकिञ्चनतामेवालम्बनीकृत्य समापद्यते। आकिञ्चन्यायतनसमतिक्रमादिति। स आकिञ्चन्यसंज्ञायामपि विरक्तस्तामपि व्यावर्तयति। किञ्चनसंज्ञा तु प्रागेव निवृत्ता। ततो नैव संज्ञा। सूक्ष्मा तु संज्ञा प्रवर्तत एव ततो नासंज्ञा। नैव संज्ञा नासंज्ञा यस्मिन्नायतने समाधाने तत्तथोक्तम्।



पञ्चाभिज्ञाः। ऋद्धिविधिज्ञानम्। दिव्यश्रोत्रम्। परचित्तज्ञानम्। पूर्वेनिवासानुस्मृतिज्ञानम्। दिव्यचक्षुश्चेति। अत्र सूत्रम्-"सोऽनेकविधमृद्धिविधं प्रत्यनुभवति। पृथिवीमपि कम्पयति। एको भूत्वा बहुधा भवति। बहुधापि भूत्वा एको भवति। आविर्भात्रं तिरोभावमपि प्रत्यनुभवति। तिरः कुड्यं तिरः प्राकारं तिरःपर्वतमप्यसक्तो गच्छति। आकाशमपि क्रामति। पृथिव्यामपि उन्मज्जननिमज्जनं करोति। उदकेपि पृथिव्यामिव गच्छति। धूमायत्यपि प्रज्वलत्यपि" इति विस्तारः॥ "स दिव्येन श्रोत्रधातुना अतिक्रान्तमानुष्यकेन शब्दान् शृणोति दिव्यान् मानुषकांश्च। स परसत्त्वानामपि परपुद्‍गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। एवं [सरागं] विगतरागं सदोषं वीतदोषं समोहं वीतमोहं चित्तमिति यथाभूतं प्रजानाति यावदनुत्तरं चित्तमिति यथाभूतं प्रजानाति। स एकां जातिमनु स्मरति। द्वे तिश्रो (स्रो) यावज्जातिकोटीनियुतशतसहस्राण्यप्यनुस्मरति। एकं दिवसं द्वे त्रीणि यावत्कल्पकोटीनियुतशतसहस्राण्यप्यनुस्मरति। अमुत्राह मासमेवं नामा एवं गोत्र एवं जातिरेवमाहार एवं चिरस्थितिक एवमायुष्यपर्यन्तः। सोहं ततश्च्युतः सन्नमुत्रोपपन्नो यावत्ततश्च्युत इहोपपन्न इति यावत् साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वेनिवासमनुस्मरति॥ स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति। च्यवमानानुपपन्नानपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति। अमी भवन्तः सत्त्वाः कायसुचरितेन वाक्सुचरितेन मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः। तेन कायवाङ्मनःसुचरितहेतुना कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते। इमे पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन वाग्दुश्चरितेन मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयश्च मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात्परंमरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते। इति हि दिव्येन चक्षुषा अतिक्रान्तमानुष्यकेन दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षङ्गतिकानां सत्वानां च्युतोपपादं यथाभूतं प्रजानाति" इति॥



एतासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु व्यस्तसमस्तासु प्रतिष्ठापयेदिति सम्बन्धः। शेषं सुबोधमिति प्रथमः स्तोभः॥



इत ऊर्धं तिष्ठत्वादयः प्रतिष्ठापयेदन्ताः प्रत्येकं परेण तत्किं मन्यस इत्यादिना प्रभावनतान्तेन सहिता यथाक्रमं द्वितीयतृतीयचतुर्थ पञ्चमषष्ठः स्तोभः।



इति मृदुमध्यो मृद्वधिमात्रः मध्यमृदु मध्यमध्यो मध्याधिमात्रश्च स्तोभः॥



पुनरपरादि पुनरपरात् प्राक् सप्तमः। भगवत्योः परेभ्यो दानं पूर्वकेष्वप्यस्ति। इह तु स्वयं च वाचनं परेभ्यश्च लिखित्वा दानं चर्यातिरेक इत्यधिमात्रमृदुस्तोभः॥



पुनरपरादि पुनरपरात् प्रागष्टमः। अर्थमस्या विवृणुयादिति यत्पूर्वमुक्तं तत्पारमितादीनामौदारिकं रूपं प्रतिहतानां प्रसादकरमभिप्रेत्य। इह तु कोटित्रयानुपालम्भादिकं परमार्थमभिप्रेत्याह। अर्थकुशलादित्यादि। तत्रार्थकुशलस्य वाचनं तमेवार्थं मनसिकृत्य वाचनात्। सार्थामिति तेनैवार्थेन सहिताम्। सव्यञ्जनामिति तस्यैवार्थस्य वाचका व्यञ्जना। उपदिशेत् तस्यार्थस्य सूत्रेण संस्यन्दनात्। परिदीनीपयेद् युक्तिभिः। अयमष्टमे चर्यातिरेकः। अयं इत्यष्टमे वर्तमानः। तत इति सप्तमे वृत्तात्। इयमप्युपदेष्टव्येति काक्वा शिरःकायेन वा प्रश्नः। नैवोपदेष्टव्या परिस्फुटादिति भावः। अबुध्यमानस्येति जडधियः। तस्य युक्त्यागमाभ्यां सम्यग्‍ग्राहितस्य परवाचा चलनात्। कः पुनरेनं चालयिष्यतीति। एतदाह तत्कस्य हेतोरिति। अत्रोत्तरम्। उत्पत्स्यते हित्यादि। भगवतीदेशकेनैव या तस्या विपरीतार्थवर्णना सा तस्याः प्रतिवर्णिका। तयैव जडस्य श्रद्धालोर्वञ्चनात्। उत्पत्तौ ण्वुच् पर्यायार्हर्णोत्पत्तिषु ण्वुजिति वचनात्। तत्रेति तथा सति। मा प्रणंक्षीदिति संबोधिमार्गात् प्रणष्टो भ्रष्टो मा भूदित्यर्थः। णस (श) अदर्शने रधादिः। पुषादिश्च। तस्मा [त].......अयं प्रयोगः। तथाप्यङ्वृद्धी न भवतः। परस्मैपदेषु तयोर्विधानात्। संज्ञापूर्वकस्य च विधेरनित्यत्वात्। यथा चास्याः प्रतिवर्णिका भवति यथा च न भवति तदुभयं महत्योर्भगवत्योर्विस्तरेणोक्तं- "यो रूपं वेदनां यावत्सर्वाकारज्ञतामनित्यदुःखनात्मशून्याशुभाकारैर्निमित्तयोगेन उपलम्भयोगेन भावयति स प्रज्ञापारमितां भावयति। स प्रथमां बोधिसत्त्वभूमिं यावद्दशमीं यावदनुत्तरां सम्यक्सम्बोधिमधिगमिष्यतीति। य एवमुपदेक्ष्यति स प्रतिवर्णिकामुपदेक्ष्यति॥ कथं नोपदेक्ष्यति ? रूपं स्वभावेन शून्यम्। यश्च रूपस्य स्वभावः सोऽभावः। यश्चाभावः सा प्रज्ञापारमिता। तस्यां रूपमेव नास्ति कुतो नित्यमनित्यं वा भविष्यतीत्येवमादि। य एवमुपदेक्ष्यति नासौ प्रतिवर्णिकामुपदेक्ष्यति" इति॥ अत इहापि कथं भगवन्नित्यादिना प्रतिवर्णिकापरिज्ञानाय शक्रस्य प्रश्नः। भविष्यन्ति कौशिकेत्यादिना भगवत उत्तरम्। रूपीणी पञ्चेन्द्रियाणि कायसंगृहीतत्वात् परमाणुसञ्चयत्वाद्वा कायाः। ते अभाविता अनभ्यस्तसंवरत्वाद्येषां ते तथोक्ताः। असंवृतेन्द्रियत्वात् अभावितशिलाः। ततोऽभावितचित्ता अनभ्यस्तसमाधयः। ततो अभावितप्रज्ञाः समाहितचित्तस्यैव यथाभूतप्रज्ञानात्। ततो दुष्प्रज्ञा विपरीतदृष्टयः। तत एडमूकाः सूक्तीनामश्रवणात्। ......प्रज्ञापरिहीणाः सम्यग्दृष्टिभङ्गात् रूपानित्यतेत्युपलक्षणम्। दुःखतादयोपि द्रष्टव्याः। नित्यं न भवतीत्यनित्यता महायाने। तद्‍व्यवच्छेदार्थ विनाशग्रहणम्। विनाशलक्षणा अनित्यतेत्यर्थः। न हि सतां विनाशो नाप्यनुप (त्प)-न्नानाम्। तस्माद्विनाशदर्शी तान्वस्तुधर्मानुपलभेत। सत्ता (ता)मुत्पादविनाशौ च। तदेवं नित्यतादिचतुर्विपर्यासप्रतिपक्षेण हिनयानसंगृहीतायाः सम्यग्दृष्टेः प्रज्ञापारमितात्वेन या देशना सा तस्याः प्रतिवर्णिकेत्युक्तं भवति।



अथैषां रूपादीनामनित्यतादुःखादिभावना बोधिसत्त्वेन भावयितव्या न चेत्यत आह। न खलु पुनरित्यादि। द्रष्टव्येति भावयितव्येत्यर्थः। यदि भावयेत्को दोषः स्यादत आह। स चेदित्यादि। प्रतिवर्णिकायामिति हीनयान इत्यर्थः। एवमस्यां भगवत्यां समासतः प्रतिवर्णिकां दर्शयित्वा तस्या चर्या प्रतिषिद्धा। यथा तु प्रतिवर्णिका न भवति तत्प्रथमत एव सूचितं अर्थकुशलो वाचयेदित्यादिना। यः पुनः शून्यतानिःस्वभावतादिपदेषु माहायानिकम्मन्यानां विपर्यासस्तत्प्रतिपक्षेण धर्मकायकारित्रप्रकरणेऽविपर्यासकारित्रं महत्योर्भगवत्योरुक्तम्। अस्यामपि भगवत्या मध्येऽविपर्यासः प्राप्तिनिर्वाणे सर्वाकारज्ञतानिर्याणेऽष्टविधे च गाम्भीर्ये परिस्फुटमुक्तः। तस्मात्तत एवावधारणीयः॥ इत्यधिमात्रमध्यस्तोभः॥



पुनरपरादिः पुनरपरात्प्राक् पञ्चतिष्ठतुर्नवमः। स्त्रोतआपत्तिफल एवं प्रभाव्यत इति तावत्सत्त्वेषु निष्पाद्यते। इत्यधिमात्रस्तोभः।



पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुः प्रथमा। सकृदागामिनः फलम्। इति मृदुमृद्वी प्रशंसा॥



पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुद्वितीया। अनागामिनः फलम। इति मृदुमध्या प्रशंसा॥



पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुस्तृतीया। अर्हत्वमर्हतो भावः। इति मृद्धधिमात्रा प्रशंसा॥



पुनरपरादिस्तिष्ठतोः प्राक् चतुर्थी। स्वयमभिसंबोधाब्दुद्धः, एकमात्मानं प्रतिबुद्धः प्रत्येकबुद्धः। इतिमध्यमृद्वी प्रशंसा॥



तिष्ठत्वादिपञ्चकेन पञ्चमी। इति मध्यमध्या प्रशंसा॥



पुनरपरादिस्तिष्ठतोः प्राक् षष्ठी। कश्चिदेवेति प्रथमः। यश्चेति द्वितीयः। यो वेति तृतीयः। उपनामयेदिति दद्यात्। केनाशयनेत्याह। अत्रैवेत्यादि। वृद्ध्यादिकं गतः प्राप्तः। अयमिति तृतीयः। तस्मादिति प्रथमाद् द्वितीयाच्च। इति मध्याधिमात्रा प्रशंसा॥



तिष्ठत्वादिपञ्चमेन सप्तमी। इत्यधिमात्रमृद्धी प्रशंसा॥



पुनरपरादिस्तिष्ठतो प्रागष्टमी। संख्यापि भगवन्नित्यादि। तत्र संख्या पूर्वकात्पुण्यादुत्तरं पुण्यं शतगुणं सहस्रगुणं इत्यादि। गणना दशगुणितशतगुणमित्यादि। उपमा गङ्गानदीवालुकागुणमित्यादि। औपम्यं दशगङ्गानदीवालुकागुणमित्यादि। उपनिशा दशगुणितशतगङ्गानदीवालुकागुणमित्यादि। परिमाणस्यात्यन्तमसम्भवात्तदर्थ या उपनिषत् समीपे निषदनम्। सापि न सुकरा कर्तुम्। इत्यधिमात्रमध्या प्रशंसा॥



तिष्ठत्वादिपञ्चकेन नवमी। यथायथेत्यादिना कौशिकः पुण्यातिरेकोपपत्तिमाह। साधु साध्वित्यादिना तं सुभूतिः सोपपत्तिकं प्रोत्साहयति। इत्यधिमात्राधिमात्रा प्रशंसा॥



पुण्यस्य पर्याया भेदास्तद् द्योतकः परिवर्तस्तत्परिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project