Digital Sanskrit Buddhist Canon

गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
IV

गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः।



अधिमुक्तयोऽधिकृताः। तत्र नव स्वार्था नवैव च स्वपरार्था उक्ताः। अस्मिंस्तु परिवर्ते नवैव परार्था वक्तव्याः। तत्रादौ तथागतशरीरेष्वित्येतदन्तेन ऊनविंशतितमी। प्रज्ञापारमितैव धर्मकायत्वादत्यन्तपूज्या। तथा रूपकायः सत्यकायत्वादित्येतस्मिन्नर्थे यौ श्रद्धाप्रसादौ सामर्थ्यगम्यश्च मात्रातिरेकः स इह चर्यातिरेकः। तथागतानां शरीराणि धातवः। करणे षष्ठी। तैः परिपूर्णः। किं व्याप्तिमात्रेण ? नेत्याह। चूडिकाबद्ध इति। दीयेत इति उपन्यस्येत। एकतरेण प्रवार्यमाण इति। अनयोरेकं गृहाणेति निमन्त्र्यमानः। चित्रीकारो गौरवातिशयः। गुरुतरा हि भगवती तेभ्यः। एतद्धि शरीरमिति। या प्रज्ञापारमिता। भूतार्थस्तथ्यार्थः। तद्योगात् भूतार्थिकम्। सीदतीति सत्। अनित्यः। सच्चासौ कायश्चेति सत्कायो रूपकायः। धर्मकायपरिनिष्पत्तित इति। अत्रार्यमार्गो धर्मः। स च प्रकर्ष गतः प्रज्ञापारमितैव। नानित्यः प्रवाहनित्यत्वात्। भूतकोटिप्रभावित इति। भूतानि तत्त्वानि तेषां कोटिरग्रम्। ततोऽधिकस्य तत्त्वस्याभावात्। तस्यामेव प्रभावितो व्यहृतस्तादात्म्यात्। कतमः काय इत्याह। यदुतेत्यादि। तथतामात्रपरमार्थं तद्दर्शनी प्रज्ञापारमिता न ततो भिद्यत इति भावः। तत्किं तथागतधातुष्वगौरवमेव ? नेत्याह। न खल्वित्यादि सुबोधम्। इति परार्थाधिमुक्तिर्मृदुमृद्वी॥



अपि त्वित्यादिना तिष्ठतु खल्वित्यतः प्राग्विंशतितमी। अपितुशब्दो विशेषार्थः। यद्यपि तेषु मे गौरवं तथापीत्यर्थः। पुनःशब्दस्तु पूर्वमपि विशेषयोक्तत्वात्। निर्जातानीति विशेषणत्वेपि हेतुत्वं गम्यते निर्जातत्वादित्यर्थः। तद्यथापीत्यादिना दृष्टान्तः देवसभाधिकरणत्वात् देवसभा महती शाला यस्यां शक्रस्त्रयस्त्रिंशेभ्यो धर्म देशयति। अत एव सा सुधर्मेत्युच्यते। [अ] स्य च सुदर्शनस्य देवनगरस्य दक्षिणपश्चिमदिग्भाग इति। ईषो (शो) महापुरुषः। तस्याख्या प्रतिभासो रूचिः। महती शाखा अस्येति महेशाख्यः। महान्मना इत्यर्थः। स चेह ज्ञानात्मा सम्यक्संबुद्धः। तस्य हेतुप्रत्ययभूतो हेतुस्वभावो प्रत्ययस्वभावो च। अत एवाह। तथागतस्येत्यादि। तत्र सर्वज्ञज्ञानं शक्रवत्। तथागतधातवो नास्य हेतुप्रत्ययभूताः। शक्रस्य तदासनवत्। पूर्वत्र कायस्याधारभूतो रूपकाय एवोक्तः। इह तु महेशाख्यस्य ज्ञानकायस्यासनस्थानीयः। इत्यस्मिन्नर्थे यौ श्रद्धाप्रसादौ स चर्यातिरेकः। इति परार्थाधिमुक्तिर्मृदुमध्या॥



तिष्ठत्वित्यादिना तथागतशरीरेष्वित्येतदन्तेन एकविंशतितमी। इहोक्तभगवतीमाहात्म्ये यौ श्रद्धाप्रसादौ स एव चर्यातिरेकः। इति परार्थाधिमुक्तिर्मृद्ववधिमात्रा॥



अपि त्वादि तथागतशरीरान्तात् द्वाविंशतितमी। तथागतो हि सर्वलोका (के) भ्युद्‍गतत्वात् पूज्यतरः पूज्यतमः स च सर्वज्ञज्ञानम्। ततो यदि धातवस्तदाधारत्वात् पूज्यास्तदा तज्जननी ततोपि पूज्यतमा का कथा धातूनामित्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः। इति परार्थाधिमुक्तिर्मध्यमृद्वी॥



अपि त्वित्यादिना भाजनभूतान्यभूवन्नित्येतदन्तेन त्रयोविंशतितमी। प्रज्ञापारमितायाः सर्वज्ञज्ञानस्य च गुणा इहोक्तमणिरत्नानुसारेण वेदितव्याः। यथा चोद्धृतेपि तस्मिं मणिरत्नकरण्डकः स्पृहणीयो भवति। एवं बुद्धस्तन्मात्रो गुणैः परिनिर्वृतेपि भगवति धातवः पूज्या भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः। इति परार्थाधिमुक्तिर्मध्यमध्या॥



यथा च भगवा(व)नित्यादिना तथागतशरीरेष्वित्येतदन्तेन चतुर्विशतितमी। यथा प्रज्ञापारमितानिर्जातत्वाद्देशनाधर्मः परैरपि निर्देश्यमानः पूज्यो भवति। राजपुरुषश्च राजानुभावादकुतोभयः सर्वत्र पूज्यः। एवं प्रज्ञापारमितानिर्जातत्वात्तदनुभावाच्च धातवः पूज्या इत्यस्मिन्नर्थे पुण्यातिरेके च श्रद्धादिकं चर्यातिरेकः। इति परार्थाधिमुक्तिर्मध्याधिमात्रा॥



अपि त्वित्यादिना पूजा कृता भवतीत्येतदन्तेन पञ्चविंशतितमी। भगवतीपूजया त्रैयध्विकतथागताः पूजिता भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः। इति परार्थाधिमुक्तिरधिमात्रमृद्वी॥



पुनरपरमित्यादिना द्वितीयं पश्यतिपर्यन्तेन षड्‍विंशतितमी। त्रैयध्विकतथागतानां धर्मतया दर्शयित्री भगवत्येवेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः। धर्मता धर्मकायः स च प्रज्ञापारमितैवेति भावः। अपरिसमाप्ते एव शक्रवाक्ये भगवानाह एवमेतदित्यादि। अहमप्यभिसंबुद्ध इति यावत्। आगम्येति प्राप्य हेतुंकृत्य। इयतापि भगवत्याः सम्यक्संबोधिकारणत्वमुक्तं न तु धर्मकायत्वम्। तदुपसूचनाय पुनः शक्र आह। महापारमितेत्यादि। सम्यक्‍प्रजानातीति निष्प्रपञ्चेन ज्ञानेन वेत्तीत्यर्थः। संपश्यतीति सर्वाकारं पश्यतीत्यर्थः। स्फुटीकर्त्तु भगवानाह। एवमेतदित्यादि। इति परार्थाधिमुक्तिरधिमात्रमध्या॥



अथ खलु शक्र इत्यादिना आपरिवर्तसमाप्तेः सप्तविंशतितमी। सर्व महायानं पारमिताभिः संगृहीतम्। तासु भगवती प्रधानं पूर्वङ्गमत्वात् संग्राहकत्वाच्चेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः। उपायकौशल्येन परिगृहीतानामित्युद्देशः। प्रज्ञापारमितया सर्वाकारज्ञतायां परिणामितानामिति निर्देशः। तत्र प्रकृतिपारमितानां दृष्टान्ता नानापुष्पादिका वृक्षाः। एकरसा तु छाया तेषामुपायकौशल्यपरिगृहीतानां दृष्टान्तः। इति परार्थाधिमुक्तिरधिमात्राधिमात्रा॥



प्रकृतत्वात्प्रज्ञापारमितायाः ये गुणास्तेषां परिकीर्तनः परिवर्तस्तथोक्तः।



आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां चतुर्थः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project