Digital Sanskrit Buddhist Canon

अप्रमेयगुणधारणपारमितास्तूपसत्कारो नाम तृतीयः

Technical Details
III

अप्रमेयगुणधारणपारमितास्तूपसत्कारो नाम तृतीयः।



'मैत्र्यादि' इति शास्त्रम्। मैत्री करुणामुदितोपेक्षाश्चत्वार्यप्रमाणानि मैत्र्यादि। तदात्मकं दर्शनमष्टमः क्षण इत्यर्थः। तद्देशना निदानम्। अथ खलु भगवानित्यादिना आमन्त्रयते स्मेत्येतदन्तेन संगीतिकार आह। साक्षीकरणमष्टमे क्षणे हीनयानपतनप्रतिपक्षगौरवातिशयोत्पादनाय। तमेव क्षणम्। भगवानाह। यो हीत्यादिना प्रज्ञापारमितामिति प्रकरणाद्दर्शनक्षणः। प्रज्ञा सैव पारंगतेति पारमिता। कस्य पारम् ? हीनयानपतनभूमेः। का चासौ ? या चतुर्(र्णां) अप्रमाणात्मकं दर्शनम्। तथाहि तत्प्राप्तो बोधिसत्त्वः सर्वसत्त्वेष्वात्मसमतादर्शी तानशरणान् हित्वा नात्मनः केवलस्य हितमीहते येन हीनयाने निपतेत्। तस्मान्मैत्र्यादिरूपं दर्शनमत्र प्रज्ञापारमिता। सैव चाष्टमः क्षणः। तां यः कश्चिद् ग्रहीष्यति यावत् पर्यवाप्स्यति साक्षात्करणात्। प्रवर्तयिष्यतीति परेभ्यः प्रकाशितायास्तस्यास्तैरुद्‍ग्रहणात्। यावत्प्रवर्तनात्। न तस्येत्यादिरनुशंस्तः (सः) प्रवर्तयिष्यतीति यावत्। इति समुदये अन्वयज्ञानम्।



'शून्यताव्याप्तिः' इति शास्त्रम्। षोडशानां शून्यतानां दर्शनेन या व्याप्तिः सर्वासां दर्शनं स नवमः क्षणः इत्यर्थः। तमाह। न च खल्वित्यादिना। इहापि दर्शनक्षणः प्रज्ञापारंगतेति पारमिता। कस्य पारम् ? शून्यतानां षोडशानामपि। तासां दर्शनात्। अत्रानुशंसः। आद्वितीयादथ। खलु शब्दात्। अच्छन्नः प्रदेशो अवकाशः। निपन्नः शयितः। भविष्यति प्रबन्धेन प्रवक्ष्यति। रक्षावरणसहिता गुप्तिः। तत्र शस्त्रादिना रक्षा रक्षनियोगादावरणम्। स्वयमुपसंक्रम्य तस्याधिष्ठानात् गुप्तिः। अथवा शरीरस्य सर्वसुखोपसंहरणं रक्षा। बाह्योपक्रमनिवारणमावरणम्। आध्यात्मिकरोगादिनिवारणं गुप्तिः। तेषां संविधानं सम्यक् प्रयोगो वा वा मनसा वा। इति निरोधे धर्मज्ञानक्षान्तिः॥



'बुद्धत्वस्य परिग्रहः' इति। बुद्धस्य भावो बुद्धत्वम्। येन बुद्धो भवति तस्य परिग्रहलक्षणः प्रभास्वरसमाधिधारणासम्पत्। अबुद्धकेषु च बुद्धक्षेत्रेषु बुद्धरूपस्यात्मनः संदर्शनम्। तमाह। अथ खलु शक्र इत्यादिना। इमां प्रज्ञापारमितामितिं दर्शनक्षणम्। इमान् गुणानिति लक्षणसम्पदादीन्। इयत इत्यभ्युन्नतान्। दृष्टधार्मिकानिति दृष्टो धर्मः प्राप्तं जन्म। तत्रभवान्। प्रतिलभत इत्युद्देशः। परिगृण्हातीति निर्देशः। इति निरोधे धर्मज्ञानम्॥



'सर्वस्य व्यवदानस्य' इत्येकादशः। व्यवदायन्त्यनेनेति व्यवदानम्। दानपारमितादि। तस्य सर्वस्य परिग्रहः। तमाह। किं पुनरित्यादिना पुनरपरमित्यतः प्राक्। इति निरोधे अन्वयज्ञानक्षान्तिः।



'सर्वाधिव्याधिशातनं' इति। आधयो व्यसनानि। तीर्थिकैराभिमानिकैश्च सह विग्रहविवादनि(वि)रोधास्तेषां शातनम्। तथा च तच्छतनं यथा तेषां पश्चात्तत इमां श्रुतवतां त्रिभिर्यानैः क्लेशदुर्गतिसंसारारुया व्याधयः क्षीयन्ते। तस्मात् सर्वाधिशातनम्। दर्शनं द्वादशः क्षणः। तमाह पुनरपरमित्यादिना संस्थाप्यन्त इत्येतदन्तेन। धर्ममिति शासनम्। विग्रहीतव्यं ताडनेन। विवदितव्यं कलहेन। विरोधयितव्यं परस्परद्वेषेण। तेऽभिप्राया इति विग्रहाद्यभिप्रायाः। एवं ह्येतभ्दवतीति। एषैव हि धर्मतेत्यर्थः इमामिति द्वादशक्षणलक्षणाम्। [ओषधी] ओषः प्रभावः। स धीयतेऽस्यामिति दधातेः क्विप् प्रत्ययः। जातिरेषा तत ओषधेरजातावित्यण भवति। स्त्रीलिङ्गश्चायं ततः कृदिकारादक्तिङ् इति दीर्घविकल्पः। आशीः सर्पस्य दंष्ट्रा। तस्यां विषमस्येति आशीविषः सर्पः। जन्तुर्देही। प्राणकजात इति तिर्यग्विशेषः। तेजसेति प्रभावेन। बलेनेति बाधकत्वेन। स्थामत इत्यबाध्यत्वेन। बलाधानेनेति तद्योगेन सामर्थ्याधानात्। इति निरोधे अन्वयज्ञानम्।



'निर्वाणग्राहशान्तत्वं' इति। ग्राहोऽभिनिवेशः। एतदाह तत्कस्य हेतोरित्यादिना। प्रज्ञापारमितेति त्रयोदशः क्षणः। इति मार्गे धर्मज्ञानक्षान्तिः॥



'बुद्धेभ्यो रक्षणादिकं' इति बुद्धेभ्यो रक्षणम्। आदिशब्दाद्देवादिभ्यः। एतदाह। चत्वारश्चेत्यादिना भविष्यतीत्येतदन्तेन। प्रज्ञापारमि[तामि]ति चतुर्दशक्षणः। इति मार्गे धर्मज्ञानम्॥



'अप्राणिवधमारभ्य सर्वाकारज्ञता नये।

स्वयं स्थितस्य सत्त्वानां स्थापनं'



इति प्राणातिपातविरतिरप्राणिवधः। तमादिं कृत्वा यत्पारमितादौ यावत्सर्वाकारज्ञतायां स्थितस्य तत्रैव यत्परेषां स्थापनं स पञ्चदशक्षणः। एतदाह पुनरपरमित्यादिना। प्रज्ञापारमितादीनां परेभ्य उपदेशो वचनम्। आदेयं ग्राह्यम्। तदस्य स्वयमपि तेषु स्थितत्वादित्यादेयवचनः। मृदु प्रियं वचनमस्येति मृदुवचनः। दानादीनां तेषु च स्थितानां वर्णभाषणात्। मितवचनो हितस्यैव वचनात्। अप्रकीर्णवचनो हितस्याप्यहितमिश्रस्यावचनात्। इति मार्गे अन्वयज्ञानक्षान्तिः॥



'परिणामनं' 'दानादीनां च सम्बोधौ' इति षोडश क्षण। तमाह। न च क्रोधाभिभूत इत्या[र]भ्य स्वाध्यास्यतीत्येतदन्तेन। परिदमयति क्रोधासंशमनात्। परिणामयति उन्नतिलक्षणस्य मानस्य क्षयनयनात्। उपनाहो वैरम्। व्यापादः सत्त्वविद्वेषः। अनुशयो वैरानुबन्धः। स्मृतिर्मैत्री चेति। तयोः स्मृतिमाह। तस्यैवमित्यादिना। तेनेति व्यापादेन। परिभेदो विकारः। धक्ष्यत इति दहेः प्रयोगः। एतेन सपरिवायोर्द्वेषमानयोः प्रहाणमुक्तम्। द्वेषेण हि परेषामनुग्रहं न कुर्वीत। तस्मात्तावुभौ प्रहाय दानादीनामात्मनः कुशलानामनुत्तरायां सम्यक्‍संबोधौ त्रिभिर्यानैः सर्वसत्त्वपरिनिर्वापणाय परिणामेन परं दर्शनं षोडश क्षण इत्युक्तं भवति। इत्युक्तो बोधिसत्त्वानां दर्शनमार्गः॥



लोकोत्तर एव दर्श[न]मार्गो भावनामार्गस्तु द्विधा लौकिको लोकोत्तरश्च। तावुभौ यथाक्रमं पश्चाद्वक्तव्यौ। आदित एव लोकोत्तरस्य भावनामार्गस्य कारित्रं ग्रन्थलाभवादभिधेयम्। तत्र शास्त्रम्-



[47] सर्वतो दमनं नामः सर्वतः क्लेशनिर्णयः।

उपक्रमाविषह्यत्वं बोधिराधारपूयता॥२-१७॥



नमनं 'नामः' सर्वत इति वर्तते। 'सर्वतः' इति परिशुब्दार्थः। परिदमनं परिणमनं चेत्यर्थः। ते उभे यथाक्रमं द्वेषमानयोः परिक्षयात्। ते द्वे। एवमुक्ते शक्र इत्यादिना महासत्त्वानामित्येतदन्तेनाह। एषु षट्सु कारित्रेषु प्रज्ञापारमिताशब्देन बोधिसत्त्वानां भावनामार्ग उच्यते। यथेयमित्यर्थः। इति परिदमनपरिणामनकारित्रे।



'सर्वतः क्लेशनिर्जयः' इति। स्वपरक्लेशानामत्यन्तजयात्। तमाह भगवानित्यादिना नैतत् स्थानं विद्यत इत्येतदन्तेन। जीवितान्तरायो वेति। तत्रैव शस्त्रसम्पाते परोपक्रमेण वेति। मृगयादिमध्यगतोपि परस्यैष उपक्रमः। परेषां तेन। स्वपरक्लेशार्जनया भगवत्या तेन निर्जितास्तस्यैष निष्यन्द इति भावः। इति क्लेशनिर्जयाकारित्रम्॥



जीवितान्तरायाय कृताः परैरुपक्रमास्तस्मिन्न प्रभवन्तीति 'उपक्रमाविषह्यत्वम्"। तदाह। सचेदित्यादिना नोभयव्याबाधाय चेतयत इत्येतदन्तेन। तत्रेति शरीरे। तत्कस्य हेतोरिति तदपतनं कुतः ? उत्तरं महाविद्येत्यादिना। सर्वकालं सर्वत्र देशे सर्वविपक्षेषु वाप्रतिहतप्रभावत्वाद्यथाक्रमं महती। अप्रमाणा अपरिमाणा च। ततोऽधिकाभावाद् अनुत्तरा। समाभावाद् असमा। समेन समः समसमः। किञ्चिदूनजाती[य]त्वात् समसमा। तस्या अप्यभावाद् असमसमा। आत्मनो आबाधः। उपघातः। एवं परेषामुभयस्य च तदर्थ न चेतयते। न चित्तं व्यापारयति। तस्मात्परोपक्रमैरविषह्यत्वमस्याः कर्मेति। उपक्रमाविषह्यत्वकारित्रम्॥



'बोधिः' इति। अनुत्तरा सम्यक्‍संबोधिः। पञ्चमं कारित्रम्। तदाह। अचैतन्येषु सर्वज्ञज्ञानेन। व्यवलोकयिष्यतीति। विनयनाद्यर्थम्। तत्कस्य हेतोरिति तत् सर्वज्ञज्ञानं कुतः ? न तक्तिञ्चिदस्ति यन्न प्राप्तमिति। सर्वे हि बुद्धधर्माः प्राप्तव्याः। ते च प्रत्यात्मवेद्याः। ततो यद्यनेन प्राप्ता न स्युर्नायं सर्वविभ्दवेत्। तस्मान्न तत्किञ्चिदस्ति यदस्य न प्राप्तं स्यात्। ततः प्राप्यमितरच्च सर्वं जानातीति न तत्किञ्चिदस्ति यदस्य न ज्ञातं स्यात्। प्रकर्षगतं च साक्षात्कारिज्ञानमिह गृह्यते। तत आह। न किञ्चिदस्ति यदसाक्षात्कृतं स्यात् ? इति वाशब्दाः परस्परापेक्षया विकल्पार्थाः। तस्मादसौ सर्वज्ञः। तस्य ज्ञानं सर्वज्ञज्ञानम्। सैव सम्यक्सम्बोधिः। तथा हि सम्यग्ज्ञानं सम्बोधिः। सम्यगिति साक्षात्। सैव बोधिविवक्षातः सर्वोत्कर्षगतः सम्यक्सम्बोधिः सर्वज्ञानं चेति। व्यवहारतो भेदो न वस्तुतः। अभिसंभोत्स्यत इति प्रतिलप्स्यते। इति सम्बोधिकारित्रम्॥



'आधारपूज्यता' इति। द्विविध आधारः। एक पुस्तकगतायाः तस्या अपर उद्‍गृह्यमानाया यावदुद्दिश्यमानायाः तस्य पूज्यता तद्वदेव द्विविधा। तत्र गतानां सत्त्वानां परैरविहेठनीयता। ते द्वे यथाक्रमं पुनरपरबाह्यद्वयेन परिगृण्हातीत्येतदन्तेनाह। अन्तश इति परमापचये। न सत्करिष्यत इति स्थापनादूर्ध्वम्। अवतारो रन्ध्रमवकाशः। स्थापयित्वेति बहिष्कृत्य। पूर्वजन्मनोऽपरपर्यायवेदनीयं नियतविपाकमकुशलं पूर्वकर्म। तस्य विपाकोऽनिष्टफलम्। इममिति यथोक्तम्। तद्यथेत्यादिना दृष्टान्तः। एवमेवेत्यादिना दार्ष्टान्तिकः। बोधिमण्डगत इति। मण्डः सारः। बोध्यर्थे मण्डो बोधिमण्डः। तस्मिन्निषध बोधेरधिगमात्। कस्य सारः? काञ्चनमय्याः पृथिव्याः। तथाहि विवर्ति(र्त) स्यादौ। काञ्चनमय्यां पृथिव्यामभिनिर्वृत्तायां चतुरत्नमये मेरौ सप्तसु काञ्चनपर्वतेषु सप्तसु सितासु बाह्यमहोदधौ, अयमेव चक्रवाते(व्ठे) अभिनिर्वृत्ते, काञ्चनमय्याः पृथिव्याः सारो वज्रमयः समभ्युद्‍गतः। यो मृन्म (ण्म)येषु चतुर्षु द्वीपेष्वष्टासु चान्तरद्वीपेष्वभिनिर्वृत्तेषु जम्बूद्वीपस्य नाभिः संवृत्तः स च वज्रमयत्वाद्वोधासनत्वाच्च वज्रासनमित्युच्यते। स बोधिमण्डः। तं गताः प्राप्ताः। समन्ते भवः सामन्तः। वेष्टनपरिसामन्तः परिवेष्टः। अभ्यन्तरं मध्यम्। बोधाय वृक्षो बोधिवृक्षः। तन्मूले निषध बोधेरधिगमात्। तस्य मूलं मूलाभिनिवेशपरिच्छिन्नः प्रदेशः। तद्‍गतः। वाशब्दाः परस्परापेक्षया विकल्पार्थाः। विहेठयितुमिति विहिंसितुम्। व्यापादयितुमिति निहंतुम्। आवेशयितुमिति भूतपिशाचादिप्रवेशनात्। भयादिप्रतिपक्षत्वात्। अभयमवैरमनुत्त्रासं महामैत्रीनामेकमप्रमाणम्। प्रभावयन्तीति निष्पादयन्ति प्रकाशयन्तीति ससैन्यस्य मारस्य विघ्नतोपि क्रमणात्। चैत्यभूत इति। चायृ पूजायाम्। चाय्यते देवता अस्मिन्निति चैत्यम्। कृत्यल्युटो बहुलमित्यधिकरणे ण्यत्। आय एद्‍भावश्च स्तूप इत्यर्थः। तद्‍भूतस्तत्तादृशः। निर्माल्यादेरकर्षार्हत्वात्। अपचायनीयः। यतश्चैत्यभूतस्तमन्ये न हिंसन्ति। यतः शरणादिस्ततस्तत्रगता अवध्या भवन्ति। तत्र सन्निहितं त्रायत इति त्राणम्। अभ्युपगच्छतो भयं शृणातीति शरणम्। अभया लीयन्ते अस्मिन्निति लयनम्। परमयनं परायणं परा गतिः। इति षष्ठमाधारपूज्यताकारित्रम॥



लौकिको भावनामार्गः। आदौ वक्तव्य आद्यत्वात्। स च त्रिविधः। अधिमुक्तिमनस्कारः परिणामनामनस्कारोऽनुमोदनामनस्कारश्च। तत्राधिमुक्तिमनस्कारमधिकृत्य शास्त्रम्-



[48] अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका।

परार्थिकैवेति



स्वस्यैव स्वपरयोः परस्यैव चार्थः प्रधानमाशयतो यस्यां सा यथाक्रमं 'स्वार्था' 'स्वपरार्था' परार्थैव' च। ततः शास्त्रम्-



एषा च प्रत्येकं त्रिविधेष्यते॥२-२८॥



[49] मृद्वी मध्याधिमात्रा च



'एषा' इति स्वार्थादिः। 'त्रिविधा' मृद्वयादिभेदेन। ततः शास्त्रम्-



मृदुमध्यादि भेदतः।

सा पुनस्त्रिविधा



मृद्वयादीनां प्रत्येकं मृद्वयादिभेदात्। तद्यथा स्वार्थादिमृदुमृद्वी मृदुमध्यामृद्वधिमात्रा। मध्यमृद्वी मध्यमध्या मध्याधिमात्रा। अधिमात्रमृद्वी अधिमात्रमध्या अधिमात्राधिमात्रा च। एवं स्वपरार्था। एवं परार्था च। तत शास्त्रम्-



इत्येवं सप्तविंशतिधा मता॥२-२९॥



'इत्येवं' त्रीणि वाराणि त्रिभिर्भेदात् 'सप्तविंशतिधा' इष्यते।



अधिमुक्तिः श्रद्धाछन्दौ संप्रत्ययाभिलाषलक्षणौ क्वाधिमुक्ति ? सूत्रसूत्रार्थरूपायां भगवत्यां तच्चर्यायां च लेखनादिकायां तत्पूजायां च पुष्पादिभिर्बहुविधात्ताभिः। चर्यापूजोभ्दवे च पुण्ये यथा सूत्रम्। तत्र प्रथमा। एवमुक्ते शक्र इत्यादिना यः प्रज्ञापारमितायै पूजां करिष्यतीत्येतदन्तेन। लिखित्वेति स्वयम्। पुस्तकगतां वा कृत्वेति परेण। दिव्याभिरिति विशिष्टाभिः। जवान्क(?)पुष्पादिवर्जनात्। पुष्पाणि मुक्तकुसुमानि। माल्यानि स्रजः। गन्धा गन्धदारूणि। विलेपनानि स (त)माल भवानि। चूर्णा अगरुचन्दनादीनाम्। चीवराणि वस्त्राणि। पूजाभिरिति निवेद्यादिभिः। बहुविधाभिरिति भक्ष्यलेह्यादिभेदात्। पुष्पादिभिः सत्कुर्यादिति सम्बन्धः। पूजयेदित्यर्थः। गुरुकुर्यादिति गौरवेण। मानयेदिति प्रेम्ना(म्णा)। पूजयेदिति प्रणामाञ्जलिस्तुत्यादिभिः। अर्चयेदिति दक्षिणावर्तैः। अपचायेदिति निर्माल्याद्यपनयनैः। शरीराणीति धातून। स्तूपेष्विति चेत्येषु प्रतिष्ठापयेदवस्थापयेत्। परिगृण्हीयात् करण्डादीन् कृत्वा। धारयेद्वा करण्डादिवहनात्। तांश्चेति स्तूपकरण्डादीन्। योयं सर्वज्ञतात्मभाव इति सर्वज्ञतैवात्मभावः। स निर्वर्तितः। कतमस्यां प्रतिपदि शिक्षमाणेन यावत्सम्यक्सम्बुद्धेन। का पुनः सर्वज्ञतेत्याह। अनुत्तरासम्यक्सम्बोधिः सर्वज्ञतेति। अभिनिर्वर्तितार्थः। क इत्याह। अस्याप्यर्थमाह। प्रतिलब्धेति। इहैवेति अस्यामेव। आत्मभावश्चासौ आत्मप्रज्ञप्तेः शरीरं च रूपकायस्तथागतो गच्छति। किं गच्छति तथागत इति। संख्यां गणनाम्। प्रज्ञापारमिता च उपायकौशल्यं च ताभ्यां निर्जातः सन्। प्रभावनान्ताश्चत्वारो निर्देशाः। लोके प्रतीतिः प्रभावना। अयमेवैति भगवतीपूजकः। तत्र इति तथागतशरीरपूजकात्। शेषं सुबोधम्। इति स्वार्थाधिमुक्तिः मृदुमृद्वी॥



एवमुक्ते शक्र इत्यादिना हीनप्रज्ञैरित्येतदन्तेन द्वीतिया। लिखिष्यन्ति यावत्पर्यवाप्स्यन्तीति स्वार्थः। तत ऊर्ध्व परार्थः। तत्र प्रवर्तयिष्यन्तीत्युद्देशः। त्रिभिर्निर्देशः। देशयिष्यन्तीत्यर्थतः। उपदेक्ष्यन्तीतित्यवदिष्यन्ति। उद्देक्ष्यन्तीति ग्रन्थतः। स्वाध्यास्यन्तीति स्वाध्यान(य)म(मि)त्यभ्यासः। महार्थिका महाफला। सा कृता सती एवं भविष्यतीति महाफलैव भविष्यतीति। न ज्ञास्यन्तीति न श्रोष्यन्ति शब्दतः। न वेत्स्यन्तीति पुस्तकं न लप्स्यन्ते। न वेदयिष्यन्तीति। वेदनं वेदः अर्थज्ञानम्। तत्करोतीतिणिच्। अर्थं न ज्ञास्यन्तीत्यर्थः। उतेति प्रकारान्तरम्। अवेत्येति लोकोत्तरेण ज्ञानेन सत्यान् ज्ञात्वा। प्रसादः चित्तगतो धर्मः। येन चित्तमत्यन्तमकलुषीक्रियते। उदकमिव दकप्रसादेन मणिना। श्रोतस आपत्तिः सैव फलम्। सकृदागामिनोऽनागामिनश्च फलम्। अर्हतो भावोऽर्हत्वं चतुर्थफलम्। आत्मानमेकं प्रति बोधिः प्रत्येकबोधिः। उपवृंहयित्वेति ल्यप् कस्मान्न भवति ? उपबृहंनमुपबृंहः तं कृत्वेत्येके। तथापि प्राप्नोति। चुरादौ संग्रामयतिपाठस्य नियमार्थत्वात्' संग्रामयतेरेव सोपसर्गात् नान्यस्मादिति। तस्मात् प्रादिप्रतिरूपको यन्न प्रादिः प्रदत्तादिवत्। अविनिवर्तनाय हिता अविनिवर्तनीया। दुरभिसम्भेवेति दुर्लभा। वीर्यं कुशले कर्मण्युत्साहः। कुत्सितकर्मणि सक्तः कुसीदः। सीदतेः सप्रत्ययोऽरविन्दवत्। सत्त्वं धैर्यः। चित्तं समाधिः। संज्ञा स्मृतिः। अधिमुक्तिः श्रद्धा। तत्त्वप्रविचयः प्रज्ञा। श्रद्धादिन्द्रियाणां दौर्बल्यं हीनवीर्यादिपदैरुच्यते। तत्र हीनवीर्यः कुसीदैरिति विर्येन्द्रियस्य हीनसत्त्वैः। हीनचित्तैरिति समाधीन्द्रियस्य। हीनसंज्ञैरिति स्मृतीन्द्रियस्य। हीनाधिमुक्तिकैरिति श्रद्धेन्द्रियस्य। हीनप्रज्ञैरिति प्रज्ञेन्द्रियस्य। भगवत्या दुरभिसम्भवत्वज्ञानं सोपत्तिकं चर्यातिरेकः। पुण्यातिरेक ऊह्यः। शेषं पूर्ववत्। इति स्वार्थाधिमुक्तिर्मृदुमध्या॥



तस्मात्तर्हीत्यादिना प्रतिसर्तव्यान्तेन तृतीया। अभीक्ष्णं श्रवणादि परिप्रश्नश्च संशयच्द्देदार्थः। प्रतिसर्तव्यतायाश्च सोपत्तिकं ज्ञानमन्ते चर्यातिरेक ऊह्यः। शेषं पूर्ववत्। इति स्वार्थाधिमुक्तिर्मृद्वधिमात्रा॥



तस्मात्तर्हीत्यादिना द्वितीयप्रसवतिपर्यन्तेन चतुर्थी। सप्तरत्नानि तद्यथा सुवर्ण रूप्यं वैडूर्य मुसारगल्वं। अश्मगर्भः लोहितिका मुक्ता कर्केतनं च। तन्निदानमिति तद्धेतुकम् भगवत्यां श्रद्धधिमोक्षप्रसादाः। चित्तोत्पादोऽध्याशयतः। श्रवणादिकं अर्थविवरणं मनसा अन्ववेक्षा परिमीमांसा च। पुस्तकगतां वा कृत्वा सद्धर्मचिरस्थिति हेतोर्नेत्र्य वैकल्याय च। अवस्थापनं चर्यातिरेकः पुण्यातिरेकः। यथापाठं शेष पुर्ववत्। इति स्वार्थधिमक्तिर्मध्यमृद्वी॥



तिष्ठन्तु खल्वित्यादिना द्वितीय प्रसवतिपर्यन्तेन पञ्चमी। एष एव द्वितीयो मूरजफलेन महता जम्बुवृक्षेण लक्षितत्वात् जम्बूद्वीपः। ततो निदानमुत्पत्तिरस्येति तथोक्तम्। शेषं सुबोधम्। इतः प्रभृति यत्रानुशंसः पठ्‍यते न चर्यातिरेकस्तत्र यद्यथोक्तानुशंस श्रद्धादिकं स चर्यातिरेकः। इति स्वार्थाधिमुक्तिर्मध्यमध्या॥



तिष्ठन्त्वित्यादिना द्वितीयप्रसवत्यन्तेन षष्ठी। चत्वारो महाद्वीपा आस्मिन्निति चातुर्महाद्वीपः। स्वार्थे अण। लोकधारणात् लोकधातौ। शेषं तथैव। इति स्वार्थाधिमुक्तिर्मध्याधिमात्रा॥



तिष्ठन्त्वित्यादि द्वितीयप्रसवतिपर्यन्ता सप्तमी। चतुर्द्वीपकानां सहस्रं परिमाणमस्येति साहस्रः। स एव परिपुर्णत्वेन चूडायोगात् चूडिकः। इति स्वार्थाधिमुक्तिरधिमात्रमृद्वी॥



तथोभयान्ता अष्टमी। द्वीःसाहस्रं परिमाणमस्येति द्विसाहस्रः साहस्रसहस्रमित्यर्थः। स च मध्यमः साहस्रमहासाहस्रयोर्मध्यत्वात्। इति स्वार्थधिमुक्तिरधिमात्रमध्या॥



तथैवान्तौ नवम्याम्। त्रिःसहस्रं परिमाणमस्येति त्रिसाहस्रम्। द्वि(त्रि)साहस्राणां सहस्रमित्यर्थः। स एव महासाहस्रः। इति स्वार्थाधिमुक्तिरधिमात्राधिमात्रा॥



तिष्ठन्त्वादिर्भवतिपर्यन्ता दशमी। त्रिसाहस्र एव लोकधातुः। किन्तु तस्मिन् सर्वसत्त्वा मनुष्या भवेयुः। न पूर्वं न चरममस्मिन्नित्यपूर्वाचरमम् सहेत्यर्थः। अतो ज्ञायत इह सत्त्वा एव सत्त्वाः पूर्वत्र मनुष्या एवेति। परिकल्पः कल्पना। यावज्जीवं चैत्यपूजा सर्वासु। इह तु कल्पं वा कल्पावशेषं वा। अस्यां च सर्वगीतवाद्यैः सर्वपुष्पादिभिश्चैत्यपूजातिरेकः। भगवतीपूजापुण्यातिरेकोपपत्तिज्ञानमन्ते। सोऽस्यां चर्यापूजातिरेक। इति परार्थधिमुक्तिर्मृदुमृद्वी॥



तिष्ठन्त्वित्यादिना प्रज्ञापारमिता महासमुद्रादित्येतदन्तेनैकादशी। गङ्गानदीवालिकोपमेषु त्रिसाहस्रेष्विति स्तुपसत्कारे विशेषः। शेषं दशमीवत्। भगवतीचर्यापूजासु सोपपत्तिकमनुशंसविस्तर परिज्ञानमतिरेकः। इदृशत्वेन चित्तातिक्रमाद् अचिन्त्या सदृशाभावाद् अतुल्यम्। पुण्याभिसंस्कारः पुण्यकर्म। शततमीमपीत्यादि। आदावन्ते च कलां नोपैतीति वचनं मध्येपि सम्बन्धार्थम्। अत्र च भागः कला। नोपैतीति नार्घति। न लभत इत्यर्थः। न केवलं कलां नोपैति तुलनार्थम्। किं तर्हि संख्यामपि कलामपि गणनामपि। अपिशब्दैः परस्परापेक्षया समुच्चयः। उक्तं यथा कलां नोपैति। कथं संख्या ? संख्याभिरेकै [र] प्यतुलनात्। पूर्वकस्य पुण्यस्य शतमपि सहस्रमपि यावत्कोटीशतसहस्रमपि पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति। गणना गणितं प्रत्युत्पन्नादिः। तां कथं नोपैति ? तदतिरेकेप्यतुलनात्। पूर्वकस्य पुण्यस्य पञ्चगुणापि विंशतिर्दशगुणमपि स (श)तं यावल्लक्षगुणापि कोटी पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति। उपमामप्यौपम्यपि उपनिशामपि न क्षम [त] इति परेण सम्बन्धः। उपमितिरूपमा। सैव औपम्यम्। 'स्वार्थे प्यञ्। उपनिशानमुपनिशा। तत्राभिन्नमुपमानमुपमा संख्यातमुपमानमौपम्यम्। गणितमुपमानमुपनिशा। तदपि त्रयं तुलनाय न क्षमते। तद्यथा कलाप्रसृतोपमेनापि पूर्वकेण न शक्यमुत्तरं तुलयितुम्। दशप्रसृतोपमेनापीति। उपनिषदमपि न क्षमत इति। एवमत्यन्ततुलनाभावात् तुलनार्थया उपनिषत् समीपनिषदनं पार्श्वतोऽवस्थितिः, तामपि नार्हतीत्यर्थः। मार्षेति आमन्त्रणम्। आर्येत्यर्थः। समुदाचारा अभिप्रायाः। समन्वाहारः स्मरणम्। स्वाध्यायो मनो जापः। महाविद्यादिपद त्रयं व्याख्यातम। अतोऽधिकाया विद्याया अभावान्निरुत्तरा। अतोधिकस्य धर्मस्याभावादनुत्तरा। तुल्यविद्यान्तराभावा दसमा। असमैस्तथागतैः समत्वादसमसमा। प्रभाव्यन्त इति प्रकाशन्ते। सप्तभिर्बोध्यङ्गैः सम्प्रयुक्तानि तं निश्रयत्वात्। तैः परिगृहीता अधिष्ठिताः। बुद्धानां ज्ञानं स्वयं भावात् स्वयम्भू। चित्तातिक्रमादचिन्त्यम्। पूर्वश्रुतेनेति पूर्वश्रुतोभ्दवेन। औषधीतार इति औषध्यश्च ताराश्च। अवभासयन्तीत्यवभासं कुर्वन्ति। धर्मो निर्वाणं सर्वधर्मोत्कृष्टत्वात्। स एव समः यानत्रयस्य धारणत्वात्। स एव स (श)मः क्लेशदुःखोपसमत्वात्। तस्मै चर्या। कुशलं सुचरितं तस्य चर्या। विषमो मृत्युहेतुः। तस्यापरिहारो विषमापरिहारः। अयमुद्देशः। शेषो निर्देशः। दण्ड उपवासनादिः। परिगृहीतत्वं प्रत्युपस्थितेति। तत्स्वभावेन तथाभावात्। व्याडाः चण्डमृगाः। सरीसृपाः सर्पाः कुटिलं गमनात्। तेषां कान्तारः। स्थापयित्वेत्यादि यत्पूर्वकर्मविपाकेन तं बहिष्कृत्य। समन्वाहारो मनसिकरणम्। प्रतिहतचित्ता इति सद्वेषचिताः। विचक्षुः विमनाः। बलकायो बलसमूहः। तस्य चत्वार्यङ्गानि गजवाजिपत्तिरथाः। व्यूहः सन्निपातः। बिम्बिसारो मगधाधिपः। प्रसेनजित् स्रावस्तीपतिः। शाक्याः शाक्यकुलजाः क्षत्रियाः। लिच्छवयो वैशालकाः। प्रत्यु[दा]वृत्तो निवृत्तः। विहायसान्तरीक्षगता इति आकाशेनाकाशङ्गताः। चिरस्येति चिरेण। उपावृत्तेति पुनरायाता। अवरकेणेति अल्पकेन। यथा प्रज्ञापारमिता तथाभावं तथात्वम्। प्रज्ञापारमितैव महासमुद्रः। इति स्वपरार्थाधिमुक्तिः मृदुमध्या॥



अथ खल्वित्यादिना द्वितीय परिणायिकान्तेन द्वादशी। षट्‍पारमितानायिकत्वादिज्ञानं सोपत्तिकश्चर्यातिरेकः पुण्यातिरेक उक्तः। शेषं पूर्ववत्। वर्णः स्तोत्रं गुणा वा। पूर्वङ्गमेति अग्रेश्वरी। नायिकेति संग्राहिका। परिणायिकेति संवर्धिका। प्रज्ञापारमिता हि स्वयेमेव परमत्वात् पारमिता। इतरास्तयैव सर्वज्ञतायां परिणामितत्वेन। शेषं सुबोधम्। इति स्वपरार्थधिमुक्तिर्मृद्वधिमात्रा।



अथ खल्वित्यादिना गुणान् वदामीत्येतदन्तेन त्रयोदशी। योप्येनां पुस्तकगतां सद्धर्मचिरस्थितिहेतोः स्थापयित्वा पूजयेत्। तस्यापि सर्व एतेऽनुशंसा इति ज्ञानमत्र चर्यधिक्यम्। इति स्वपरार्थाधिमुक्तिर्मध्यमृद्वी।



एवमुक्त इत्यादिर्द्वितीयपुनरपरात् प्राक् चतुर्दशी। र्यातिरेको यथाभूतम्। इति स्वपरार्थाधिमुक्तिर्मध्यमध्या।



पुनरपरमित्यादिना यत्र खलु पुनरित्यतः प्राक् पञ्चदशी। प्रत्यनुयोगः प्रश्नः। इति स्वपरार्थाधिमुक्तिर्मध्याधिमात्रा॥



यत्र खल्वित्यादिना एवमुक्त इत्यतः प्राक् षोडशी। सर्वदेवोपसंक्रमणश्रद्धा तेभ्यश्च धर्मदानचर्यातिरेकः। इति स्वपरार्थाधिमुक्तिरधिमात्रमृद्वी॥



एवमुक्त इत्यादिना दृष्टधार्मिकान् गुणान् परिगृण्हातीत्येतदन्तेन सप्तदशी। देवाद्यागमनार्चनज्ञानात् प्रहर्षो भगवतीप्रभावेन श्रद्धादिकं चर्यातिरेकः। संजानीत इति संलक्षयति। निष्ठेति निश्चयः। गन्तव्येति कर्तव्या। अमानुषं सत्त्वमिति मनुष्येषु भवो मानुषः। न तथा अमानुषः। अशुच्यभावात् चौक्षः। पुष्पादियोगात् शुचिः। अपक्रमणमपमरणम्। क्लमथः पीडा। उदारो महान्। प्रतिभोत्स्यत इति बुध्यतेः प्रयोगः। गृद्धिः अभिलाषः। संज्ञा स्मृति। इति स्वपरार्थाधिमुक्तिरधिमात्रमध्या॥



पुनरपरमित्यादिना आपरिवर्तसमाप्तेरष्टादशी। चर्यातिरेको यथासूत्रम्। इति स्वपरार्थाधिमुक्तिरधिमात्राधिमात्रा॥



अप्रमेयेत्यादि। अत्र स्तूपश्चैत्यम्। पारमिता प्रज्ञापारमिता। धारणं द्विविधम्। पुस्तकगतां कृत्वा यदस्याः सद्धर्मचिरस्थितये बहिःस्थापनम्। यच्चोद्‍ग्रहणधारणादिभिरध्यात्ममेव स्थापनम्॥



अप्रमेयगुणधारणं यस्याः सा तथोक्ता। तथोक्ता च सा परामिता च सा च स्तूपश्चेति द्वन्द्वः। तयोः सत्कारः पुष्पादिभिः पूजा। तदभिधायी परिवर्तोऽप्रमेयगुणधारणस्तूपसत्कारपरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां तृतीयः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project