Digital Sanskrit Buddhist Canon

शक्रपरिवर्तो नाम द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śakraparivarto nāma dvitīyaḥ

II

शक्रपरिवर्तो नाम द्वितीयः।



उक्ता सर्वाकारज्ञता। इतः प्रभृति मार्गज्ञता वक्तव्या। तस्यामेकादशवस्तूनि। यतः शास्त्रम्-



[31] ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ।

महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः॥१-७॥



[32] कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसितः(ताः)।

पारिणामेऽनुमोदे च मनस्कारावनुत्तमौ॥१-८॥



[33] निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः।

विज्ञानां बोधिसत्वानामिति मार्गज्ञतोदिता॥१-९॥



'ध्यामीकरणतादि' श्रावकमार्गः। 'महानुशंसो' बोधिसत्त्वस्य दर्शनमार्गः। भावनामार्गस्य 'कारित्रम्'। 'अधिमुक्ति'मनस्कारः। 'स्तुतस्तोभितसं(शं)सिताः'। 'परिणामना'मनस्कारः। 'अनुमोदना'मनस्कारः। 'अभिनिर्हारः'। 'अत्यन्तशुद्धिश्चे'ति। एकादशवस्तूनि 'मार्गज्ञता' सा च 'बोधिसत्त्वानां' इत्यर्थः।



तत्रोदौ ध्यामीकरणतादीनि यतः शास्त्रम्-



[34] ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति।

विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च॥२-१॥



अस्यां 'योग्यतां' चित्तोत्पादः द्वितीयो (प्रथमो)ऽर्थः। 'तां प्रति' तदर्थम्। 'ध्यामीकरणता' मन्दच्छायीकरणं 'देवानाम्'। 'भाभिः' इति भगवतः प्रकृतिप्रभया सा द्वितीयोऽर्थः। 'विषयो नियतः' इति। तस्या एव विषयप्रतिनियमस्तृतीयोऽर्थः। विषय'व्याप्ति'श्चतुर्थः। 'स्वभावः' पञ्चमः। 'कारित्रं' षष्ठः। यद्यमी षडर्थाः कथमेतदेकं वस्तु ? इह मार्गज्ञताया मूलं चित्तोत्पादः। तद(द्) रहितानां तस्यामयोग्यत्वात्। अत एवासौ योग्यतोच्यते। तत एवासौ प्रधानम्। शेषस्तस्याः परिच्छेदः। प्रधानेन च व्यपदेशादेकवस्तूच्यते।



तत्र ध्यामीकरणतामधिकृत्याह। तेन खलु पुनरित्यादि। तेन समयेनेति तस्मिन् काले। विवक्षातः कारकाणि भवन्तीति करणत्वम्। खलु शब्दो वाक्यालङ्कारे। पुनः शब्दो विशेषार्थः। अभिसमयभेदो विशेषः। सन्निपतितः समागमात्। सन्निषण्णो निषदनात्। त्रयस्त्रिंशानां कायो निकायः। तस्मिन् भवा इति ठल्। चत्वारो महाराजा वैश्रवणधृतराष्ट्रविरूढकविरूपाक्षा चतुरादिषु दिक्षु। तेषां कायः। तस्मिन् भवाः। एष एव त्रिसाहस्रो लोकधातुः सहा। तस्याः पतिः। ब्रह्मणः कायस्तस्मिन् भवाः। इह तूत्तरपदवृद्धिः। चतुर्थस्य ध्यानस्याश्रयं च शुद्धावासाः। अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्चेति। कुतः शुद्धावासाः ? आर्याणामेव तेषूत्पादात्। तेषां पञ्चानां निकायानां पञ्चैव सहस्त्राणि। एतावन्त एत रूपिणो देवनिकाया यथोध्वमुत्कृष्टाः प्रभाप्रभावादिभिः। योपीत्यादि। तेपि सन्निषण्णाः। योपि तेषां अवभासः सोप्यभिभूतो ध्यामीकृतोऽभूत्। समकालमेवेति योपिसोपि शब्दार्थः। योग्यता हि चित्तोत्पादस्तदर्थ ध्यामीकरणम्। सर्वाभिभूर्भगवानिति विदित्वा तभ्दावे स्पृहोत्पादनात्। अवभासः प्रभा। स्वकर्मणो विपक्तिर्विपाकः। तस्माज्जातः सहजो नाभिसंस्कारिक इत्यर्थः। केन कारणेनाभिभूतः ? बुद्धाधिष्ठानेन बुद्धसन्निधानेन। केन कर्त्रा ? बुद्धतेजसा बुद्धस्य भगवतः प्रकृतिप्रभया। ननु तेपि महानुभावाः कस्मान्न प्रतिचक्रुरित्यत आह बुद्धानुभावेनेति। बुद्धानुभावेन सर्वानुभावः प्रतिहन्यतः इति भावः। ध्यामीकरणता॥



अथ खल्वित्यादि। अन्तिकादिति सकाशात्। प्रज्ञापारमितामिति बोधिसत्वानां महासत्वानामित्यनेन सम्बन्धः। मार्गज्ञतामित्यर्थः। उपदिश्यत इति उपदेशः। तस्या एवार्थस्यावगमाय वादोऽववादः तदनुबन्धाय शासनी तत्सहिता सेति समासः।



स्थातव्यं श्रुतमय्या प्रज्ञया। शिक्षितव्यं चिन्तामय्या। योगमापत्तव्यं भावनामय्या।



आनुभावादयः प्रभावपर्यायाः। तदानुभवेनेत्युद्देशः। इतराभ्यां निर्देशः। तेजसेति प्रतिभानशक्ते रोधाय। केन प्रभावेन ? अधिष्ठानेनेति प्रबोधकेन। इयता ग्रन्थेन योग्यतायाः प्रस्तावनां कृतायां तामाह। यैरित्यादिना उत्पादितव्यान्तेन इति योग्यता॥



येत्वित्यादि। हीनमार्गलभ्यं निर्वाणं सम्यक्त्वम् तस्मिन् नियमः सम्यक्त्वनियामः। तं अवक्रान्ताः प्राप्ताः। बद्धसीमानो बद्धसेतवः। तद्यथा श्रोतआपन्नसप्तक्तभ्दवपरमः। द्वित्रिजन्मा कुलंकुलः। अनुत्तरा (र)सम्यक्संबोधिनिमित्तं यत् पुनः पुनः संसरणं तस्मै चित्तमुत्पादायतुमभव्याः। इति शमैकयानैः श्रावकैरुत्तमबोधेः कदाचिदप्यकामनाद्योग्यताया विषयप्रतिनियमः॥



अपि त्वित्यादि उत्पादयेरन्नित्येतदन्तेन व्याप्तिः। श्रावकैरपि बोधिपरिणतिकैः सम्यक्सम्बोधौ चित्तस्योत्पादनात्। ते हि स्वां बोधिमधिगम्यापि बुद्धबोधिसत्त्वानां लोकोत्तरां विभूतिं दृष्ट्वा वञ्चितमिवात्मानं मन्यमानास्तथागतैरधिष्ठितास्तद्वोधौ चित्तमुत्पाद्याचल्यभूमिकबोधिसत्त्ववन्निर्मिताभिरुपपत्तिभिर्बोधिचर्यां चरित्वा परां बोधिमधिगच्छन्तीति व्याप्तिः॥



नाहं कुशलमूलस्यान्तरायं करोमीति। स्वभावः कुशलराशिः। सर्वकुशलधर्मसंग्राहकत्वाच्चित्तोत्पादस्येति कुशलपक्षत्वं योग्यतायाः स्वभावः। विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्या इति कारित्रम्। विशिष्टेभ्य इति बोधिचित्तसंगृहीतेभ्यः। हेतौ पञ्चमा। विशिष्टतमा धर्मा इति महायानसंगृहीताः फलहेतुभूताः। अध्यालम्बितव्या इति प्राप्तव्याः। तस्मान्नान्तरायं करोमीति शब्दार्थः। इति द्विविधमहायानप्रापणं बोधिचित्तस्य कारित्रम्॥



तदेवं केचिद्वोधिचित्तोत्पादनार्थमुत्साहिताः पुर्वमुत्पादितबोधिचित्तास्तु संप्रहर्षिताः। एवमुत्पादितबोधिचित्त्वत्वादुभयेपि ते बोधिसत्त्वा महासत्त्वाः सन्तो मार्गज्ञतायामुत्साहिताः। अत आह। अथ खल्वित्यादि। साधुस्त्वमिति महतः परार्थस्य करणात्। भगवतः कृतज्ञैरित्। यथा पूर्वं जिनपुत्रस्य भगवतस्तच्छ्रावकैर्बहुकृतं तथास्माभिर्भगवतः श्रावकैर्भगवत्पुत्राणां बोधिसत्त्वानां बहुकर्तव्यमिति कृतज्ञतार्थः। तत्कस्य हेतोरिति। तत्कृतज्ञत्वं केन प्रकारेण ? पूर्वका एव पौर्वकाः। ब्रह्म निर्वाणं तस्मै चरणं ब्रह्मचर्यम्। तच्चरणं बोधायेति बोधये। बोधिचर्यां चरतीति यावत्। यैरिति विभक्तिप्रतिरूपको निपातो यथार्थः अवोदित इति सम्प्रसारणम्। वद व्यक्तायां वाचित्यस्य यजादित्वात्। अववदित इति क्वचित्पाठः। तत्र वद स्थैर्य इत्ययं धातुरनेकार्थत्वात्। अनुपरिग्रहीतव्या इत्यववदितव्याः। अनुपरिवारयितव्या इति अनुशासितव्याः। उत्तरयोः पदयोः संशब्दः सम्यगर्थः। अस्माभिरपीति श्रावकैरपि। आत्मस [जा]तीयेष्वप्यात्मव्यवहारात्। साधु चेत्यवहितश्रोत्रतया। सुष्ठु चेत्यवहितमनस्कतया। मनसिकुर्विति चिन्ताभावनाभ्याम्। प्रज्ञापारमितायां स्थातव्यमिति मार्गज्ञतायां वेदितव्यम्।



तत्रादौ श्रावकमार्गः। तत्र दर्शनमार्गमधिकृत्याह। शून्यतायामित्यादि। अविपरीतत्वाच्चत्वारि सत्यानि। आर्याणां सत्यत्वेन प्रतिभान्ति न बालानां तस्मात्तान्येवार्यसत्यानि। दुःख समुदयो निरोधो मार्गश्च। तत्र दुःखं संसारिणः स्कन्धाः। दुःखहेतुः समदयः। दुःखक्षयो निरोधः। तत्प्रापकं ज्ञानं मार्गः। एषां चतुर्णामार्यसत्यानां य आकारास्तेषां शून्यतायां तिष्ठता शून्यतां पश्यता प्रज्ञापारमितायामिति श्रावकीये दर्शनमार्गे स्थातव्यं समाहितेन चेतसा। शून्यतादर्शनं चानुपलम्भ एव। ततः शास्त्रम्-



[35] चतुर्णामार्यसत्यानां आकारानुपलम्भतः।

श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये॥२-२॥



श्रावकपिटके च सत्यनां षोडशाकाराः पठयन्ते। दुःखमनित्यतो दुःखतोऽनात्मतः शून्यतश्च परिज्ञेयम्। समदयो हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च। निरोधो निरोधतः शान्ततः प्रणीततो निःश(स)रणतश्च। मार्गो मार्गतो न्यायतः प्रतिपत्तितो निर्याणिकतश्चेति॥ अमी नेह गृह्यन्ते। ये तु महत्योर्भगवत्योः पठितास्त इह गृह्यन्ते। प्रत्यासत्तेः श्रावकबोधेश्च लाघवेनेति प्रापणात्। तत्र दुःखं चतुर्भिराकारैर्मनसिकरोति पूर्ववत्। अनित्यतो दुःखतोऽनात्मतः शान्ततश्च यथाक्रममुदयव्यययोगित्वात् प्रतिकूलत्वात् आत्मविलक्षणत्वात्। आत्मशून्यत्वाच्च। आत्मशून्यो हि शान्तः। तद्यथा कुणपः। समुदयमेकादशभिराकारैः। तत्र चतुर्भिराकारैः प्रहाणार्हत्त्वज्ञापनार्थम्। रोगतो गण्डतः शल्यतोऽघतश्च दुःखहेतुत्वाद्दःखोत्कर्षहेतुत्वादुरुद्धरत्वात्। ऐहिकामत्रिकदुःखहेतुत्वेन पापसाधर्म्याच्च। पुनश्चतुर्भिः श(स)क्य(त्य)त्वपरिज्ञापनार्थम्। परतः प्रलोभधर्मतश्चलतः प्रभड्‍गुरतश्च। आत्मा हि हातुमशक्तोऽयं तु परः। प्रतिक्षणविनाशित्वात्। प्रलोपधर्मा च। अर्हभ्दिरुन्मूलितत्वात्। चलश्च प्रकृतेन मार्गेण भङ्गित्वात् प्रभङ्‍गुरश्च। आतप्तकारितार्थ पुनस्त्रिभिः। भयत उपद्रवत उपसर्गतश्च। अशनिपातादिवभ्दयहेतुत्वात्। भूतराक्षसादिसाधर्म्यात् दुर्भिक्षपरचक्रादिसाधर्म्याच्चेति। प्रतिलोमः प्रतीत्यसमुत्पादो अविद्यानिरोधात् संस्कारनिरोध इत्यत आरभ्य एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति यावत्। तत्र निरुद्धिर्निरोध इति निरोधसत्यम्। निरुध्यतेऽनेनेति निरोधो मार्गसत्यं सप्तभिराकारैः। अनात्मतः शान्ततो विविक्ततः शून्यत आनिमित्ततः अप्रणिहिततोऽनभिसंस्कारतश्च। आत्मा हि योगिनो दुःखात्मनः स्कन्धाः। अतो दुःखाभावादनात्मा क्लेशोपशमाच्छान्तः। दुःखक्लेशावशुची तयोरूपशमाद्विविक्तः। शूचिरित्यर्थः। आत्मात्मीयविरहाच्छून्यः। सर्वसंस्कृतनिमित्ताभावादानिमित्तः। त्रैधातुके प्रणिधानं प्रणिहितम्। तत् क्षयादप्रणिहितः। आयत्यां कर्माभिसंस्काराभावादनभिसंस्कारः। मार्गसत्यमप्येभिरेव सप्तभिराकारैः। निरोधप्रापको हि मार्गः। ततोऽनात्मशान्तविविक्तादिप्रापकत्वान्मार्गोप्यनात्मा शान्तो विविक्तः शून्य आनिमित्तोऽप्रणिहितोऽनभिसंस्कारश्च। एवमेकोनत्रिंशदाकार इह श्रावकमार्ग आसु तब्दोधिप्रापणात्। स चैषामाकाराणामनुपलम्भेन मार्गज्ञतायां प्रविशति।



तेन हीत्यादि। येन हीनमार्गं भावयतो बोधिसत्त्वस्यानुपायकुशलस्य हीनबोधौ पात आशंक्यते। तेन हि कारणेनास्यां मार्गज्ञतायां महासन्नाहो महदुपायकौशलम्। सन्नद्धेन तद्धर्मितेन भवितव्यमात्मरक्षार्थम्। तत्रायं महान् सन्नाहो यदुत सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्भावना कर्त्तव्या। व्युत्थितेन च सर्वं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम्। तच्चानुपलम्भयोगेनेति। इति श्रावकाणां दर्शनमार्गः॥



इत ऊर्ध्वं निरोधभागीयानि। न रूपे स्थातव्यमित्येतदारभ्यानेन मनसिकारेणेति यावत्। तत्र न बुद्धत्वे स्थातव्यमित्येतदन्ते ऊष्मा। तत ऊर्ध्व इति हि बुद्धत्वमिति न स्थातव्यमित्येतदन्तेन मूर्धा। ततो विज्ञानं शून्यमुपलभ्यते वेत्येतदन्तेन क्षान्ति। शेषाण्यग्रधर्मः। तत्र रूपादिष्वस्थानम [न] भिनिवेश ऊष्मा। रूपादीनामिदन्तया स्वलक्षणानुपलम्भो मूर्धा। रूपादीनां द्वयानुपलम्भः क्षान्तिः। शून्यं इत्यनुपलम्भ उपलभ्यत इति उपलम्भः। तस्मात् शून्यमुपलभ्यतेवेत्यपि द्वयम्। श्रोतआपत्तिफलादीनां विशेषेष्वस्थानमग्रधर्मः। तस्मादस्यां भगवत्यामन्यथैव शास्त्रपाठ उन्नेयः-



अस्थानमूष्मा रूपादौ मूर्धा तदिति हीति यत्।

क्षान्तिर्न नित्यं नानित्यं रूपादीत्यस्थितिद्वये॥



फल (लं) पुंसामिहार्याणां विशेषेष्वस्थितिस्तु या।

सैवाग्रधर्मो विज्ञेय आर्यश्रावकवर्त्मनि॥



अत्र न चक्षुः संस्पर्शे स्थातव्यमिति। इन्द्रियविषयविज्ञानसन्निपाते सति यः सुखादिवेदनोत्पत्त्यनुकूलस्येन्द्रियविकारस्य परिच्छेदकः सादृश्यमात्रेण स सुखादिवेदनाजनकःचैतसिकः स्पर्श इत्युच्यते। इन्द्रियविकारं सादृश्येन स्पृशतीति कृत्वा। अत इन्द्रियभेदाच्चक्षुःसंस्पर्शो यावन्मनःसंस्पर्शः। उक्त चाभिधर्मे "त्रिकसन्निपाते इद्रियविकारपरिच्छेदः स्पर्शः वेदनोत्पत्तिसन्निश्रयदानकर्मकः" इति। शुभं शुचि अशुभमशुचि। असंस्कृतप्रभावितं क्लेशाविद्याक्षयस्यासंस्कृतत्वात्। इमं लोकमितिकामधातुम्। तत्रैवेति अकामिनि लोके। इहैवेत्यस्मिन्नेव जन्मनि। अनुपधिशेष इति उपधयः स्कन्धाः। त एव शेषाः सोपधिषेशे तद्विपर्ययादनुपधिशेषः। बुद्धपरिनिर्वाणेति। संसारनिर्वाणयोरप्रतिष्ठितेन। यथाक्रमं सर्वेषां क्लेशिकधर्मपरिक्षयात्, अनाश्रवाणां च धर्माणामनन्तानां जगदर्थाय यावदाकाशमवस्थानात्। न च ततो व्युत्थित इति प्राप्तापरिहाणितः। न स्थितो नास्थित इत्यप्रतिष्ठितमानसत्त्वादव्युत्थानाच्च। न विष्ठितो नविष्ठित इति प्रवाहयोगेन पूर्ववत्। शेषं सुबोधमित्यग्रधर्मः। इत्युक्तानि श्रावकमार्गनिर्वेधभागीयानि॥



बुद्धानुभावात् खङ्गमार्गप्रस्तावनाय केषाञ्चिद्देवपुत्राणां वितर्कोऽभूत् तमाह। अथ खलु तत्रेत्यादिना। केषाञ्चिदिति ये श्रावकमार्गमपि सुभूतिना देश्यमानं गंभीरं मेनिरे। कथं यक्षाणाम् ? तैरुच्चारणात्। कथं यक्षरुतादीनि ? तभ्दाषात्वात्। तत्र रुतानीत्युद्देशः। शेषेण निर्देशः। मन्त्रितानि वाक्यानि। प्रव्याहृतानि वाक्यसमूहाः। भाषते पदवाक्यैः। प्रव्याहरति वाक्यसमूहैः। देशयतीत्यववदती। उपदिशतीत्यनुशास्ति। अथ खल्वायुष्मानित्यादि। इदमितिलब्धावसरत्वादुद्दिष्टं खङ्गज्ञानम् परामृषति। न विज्ञायते न विज्ञायत इति द्विर्वचनमवधारणार्थम्। परतो न विज्ञायते एव चरमभवखङ्गैःखङ्गज्ञानम्। परोपदेशस्य तेषु वैयर्थ्यात्। यतः स्वयंभूत्वेन तेषां स्वयमेव तत्संमुखीभवतीति परोपदेशवैयर्थ्यम्॥



तथाहीति। ईदृश्येव हि धर्मता धर्माणाम्। कीदृशीत्याह नात्रेत्यादि। अत्रेति स्कन्धधात्वायतनादौ। न किञ्चिदिति न कश्चिद्धर्मः सूच्यत इति देश्यते। श्रूयते श्रोत्रा निःश्वभावत्वात्सर्वधर्माणाम्। तद्यथा निर्मितबुद्धेन निर्मितानां परिषदां धर्म देश्यमाने न किञ्चिद्देश्यते न कश्चिद्देशयिता न कश्चिच्छ्रोतेति। अथ खलु तेसामित्यादि। उत्तानमगम्भीरहर्षाद्विवेचनम्। इतीत्येवमस्माभिर्वितर्किते। अनार्याणामगोचरत्वेन दूरात्। निष्प्रपञ्चत्वेन सूक्ष्मात्। दुखगाहत्वेन गम्भीराच्छ्राव (क) मार्गा दूरतरं सूक्ष्मतरं गम्भीरतरं ज्ञानम्। प्रविशति चेतसा। देशयति ग्रन्थतः। भाषते अर्थतः। तथा हि नात्रेत्यादिना। इति ज्ञानगम्भीरता। अतः शास्त्रम्-



[36] परोपदेशवैयर्थ्यं स्वयंबोधात्स्वयंभुवाम्।

गम्भीरता च ज्ञानस्य खङ्गानामभिधीयते॥२-६॥



अथ खल्वायुष्मानिति। नेमांक्षान्तिमनागम्येति। तथाहि नात्रेत्यादिनोक्तम्। ग्राह्याभावज्ञानं नाप्राप्य प्राप्यैवेत्यर्थः। अतश्च श्रावकैरपि तज्ज्ञानं तथागतैरप्युपादेयं सुतरां खङ्गैरधिगन्तव्यामिति भावः। इति खङ्गानां ग्राह्यविकल्पप्रहाणम्॥



अथ खलु पुनरपीत्यादि। मन्त्रादिबलेन प्रतिभासमानो मिथ्यापुरुषो माया। ऋद्धिसन्दर्शितो निर्मितः। ताभ्यां सदृशाः। मायोपमास्ते सत्त्वा न मायेति। मिथ्यात्वमेव मायात्वं मन्यन्ते। सुभूतिस्तु मन्यते मिथ्याविशेषो माया च स्वप्नं च ताभ्यां सादृश्यं मिथ्यात्वमेव। तस्मान्माया च सत्त्वाश्चेत्यद्वयं मिथ्यात्वेन निर्विशेषत्वादिति। तदेवं मायापुरुषवत् पुरुषद्रव्याणामसत्त्वमुक्तम्। सर्वधर्मा अपीति। पुरुषधर्मा अपि सर्वे मायोपमाः। असति पुरुषद्रव्ये तद्धर्माणामप्यभावात्। अथ खल्वायुष्मान् शारिपुत्र इत्यादि नास्या आयुष्मन्त इत्यादिना न कश्चित्प्रत्येषको भविष्यत्येतदन्तेन स्थविरसुभूतिर्धार्मश्रवणिकवत् प्रत्येषकानामप्यभावमाह। प्रतीक्षन्तीति प्रत्येषकाः। तेषामभावः प्रत्येषकपुरुषद्रव्याभावात्। सूच्यत इत्यस्फुटं भाष्यते। परिदीप्यत इति स्फुटम्। प्रज्ञप्यत इति वक्तृश्रोतृभिर्व्यवह्रियते। तस्मात्सर्वथा न सन्ति पुरुषद्रव्याणि। केवलमध्यात्मिकेषु च स्कन्धादिषु पुरुषप्रज्ञप्तिः। ततः पुरुषप्रज्ञप्त्याश्रये स्कन्धादौ ग्राहक ग्राहमेषामस्तीति खङ्गानां ग्राहकविकल्पाप्रहाणम्।



अथ खलु शक्रस्येत्यादिना न तत् पुष्पमित्येतदन्तेन खङ्गानां गोत्रमुच्यते। अत्र धर्मपर्यायो धर्मप्रभेदः। खङ्गमार्गः। यन्नुशब्दो। वाक्यालङ्कारे। सुभूतिमिति। धर्मभाणकपूजया धर्मपूजनात्। एतदितिवक्ष्यमानं(णं) वितर्कितं अभूत्। शक्रमनु शक्रं प्रति व्याहरणायेति वितर्कं विदित्वा भाषणाय। इमानीति प्रकृतानि। पुष्पाणीत्यमलत्वेन पुष्पसाधर्म्यात् खड्‍गमार्गसंगृहीतानि कुशलानि। देवेषु प्रचरन्तीति अवचरन्ति न दृष्टानि, अनाश्रवत्वेन धातुपतितत्वाभावादिति भावः। अभ्यवकीर्णानीति परिषदि निर्मितपुष्पैः सूचितानि। निर्मितानि यथादर्शनमसत्त्वात्। कुत इत्याह। नैतानीत्यादि। मनोमयानीत्युपसंहारः। मनोनिर्जि(र्मि) तानीत्यर्थः। शक्रस्तु मनोमयत्वमपि निषेद्धुमाह। अनिर्जातानीति। यथा हि ग्राह्यत्वाद्‍वृक्षादयो न सन्तीति न तेभ्यो निर्जातानि तानि। तथा मनोपि नास्ति ग्राहकत्वादिति ततोप्यनिर्जातानि सुभूतिराह। यत्कौशिकानिर्जातं न तत्पुष्पमिति यत्तयोर्नित्याभिसम्बन्धान्न तत्पुष्पं न स खड्‍मार्गः स्यादित्यर्थः। एवं मन्यते। निर्विशेषं जातं निर्जातम्। अतः सजातीयं कार्यमाश्रितम्। कारणमाश्रयः। खड्‍गमार्गश्च खड्‍गाश्रितः। न च खड्‍गस्य संस्कृतो धर्मो मार्गस्याश्रयो युज्यते सास्रवस्य विजातीयत्वात्। अनास्रवस्यापि संस्कृतस्यादिमत्वादादित एव निराश्रयस्यानुत्पत्तिप्रसङ्गात्। तस्मादनास्रवत्वेन सजातीयः खड्‍गस्य धर्मधातुरेव खड्‍मार्गस्याश्रय आधारः प्रतिष्ठागोत्रमिति खड्‍गमार्गस्याधारः॥ अतः शास्त्रम्-



[37] ग्राह्यार्थकल्पनाहानात् ग्राहकस्याप्रहाणतः।

आधारतश्च विज्ञेयः खड्‍गमार्गस्य सङ्‍ग्रहः॥२-८॥



अथ खड्‍गानां कथं परार्थक्रियां ? इच्छामात्रेण तत्सिद्धेः। कथं तेभ्यः श्रवणम् ? सूश्रूषामात्रेण। यतः शास्त्रम्-



[38] सुश्रूषा यत्र यत्रार्थे यस्य यस्य यथा यथा।

स सोऽर्थः ख्यात्यशब्दोपि तस्य तस्य तथा तथा॥



'यस्य यस्य' विनेयस्य। 'यत्र यत्रार्थे' इति निर्वेधभागीयेष्वार्यमार्गे वा। 'यथा यथा' इति येन येनाकारेण। अथ खलु शक्रेत्यादि। द्वितीयाद् अथ खलु शक्रशब्दात् प्राक् निर्वेधभागीयानि वक्तव्यानि। तत्र बुद्धधर्मेषु शिक्षत इत्येतदन्तेन ऊष्मा। नामपदैः प्रज्ञप्तिः व्यवहारः। तान् निर्दिशति। न च विरोधयति तां चोत्तानीकरोति। तामेव चोपदिशति। तथा हि प्रज्ञप्तिमात्रं रूपं प्रज्ञप्तिमात्रमेव धर्मतेत्युपदिशति इत्यूष्मा।



योऽप्रमेयेष्वित्यादिना न परिहाणायेत्येतदन्तेन मूर्धा। कथं न शिक्षते, अनुपलम्भादिति। इति मूर्धा। यो न रूपस्य विवृद्धय इत्यादिना अथ खल्वायुष्मानित्यतः प्राक् क्षान्तिः। अत्र रूपादेरपरिग्रहयुक्तिर्महत्योर्भगवत्योरुक्ता 'अध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादाय' इति। इति क्षान्तिः। अथ खल्वायुष्मानित्यादिना अथ खलु शक्र इत्यतः प्रागग्रधर्मः। एवं चेति बुद्धिस्थं हेतुः परामृशति। महत्योर्भगवत्योर्य उक्तः तथा हि "न स रूपस्योत्पादं पश्यति न निरोधं नोद्‍ग्रहं नोत्सर्गं न संक्लेशं नावदानं न चयं नापचयं नो हानिर्न वृद्धिम्" इत्यग्रधर्माः। अतः शास्त्रम्-



[39] प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः।

ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम्॥२-९॥



[40] अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात्।

क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता॥२-१०॥



इत्युक्तः प्रत्येकबुद्धमार्गः॥

बोधिसत्त्वस्य मार्गो वक्तव्यः। तमधिकृत्य शास्त्रम्-



[41] क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः।

मार्गज्ञतायां दृङ्‍मार्गः सानुसं (शं) सोयमुच्यते॥२-११॥



इति संक्षेपेण सूत्रार्थः। द्वे क्षान्ती द्वे च ज्ञाने प्रतिसत्यम्। दुःखे धर्मज्ञानक्षान्तिर्दुःखे धर्मज्ञानम्। दुःखे अन्वयज्ञानक्षान्तिर्दुःखे अन्वयज्ञानम्। एवं समुदयनिरोधे मार्गे च। एभिः प्रतिसत्यं चतुर्विधैः क्षणैर्बोधिसत्त्वस्य दर्शनमार्गज्ञतायामुच्यते सहानुसं (शं)-स्यैः। एषां तु क्षणानां विशेषलक्षणमधिकृत्य शास्त्रे पञ्च श्लोकाः-



[42] आधाराधेयताऽभावात्तथताबुद्धयोर्मिथः।

पर्यायेणाननुज्ञानं महत्ता साप्रमाणता॥२-१२॥



[43] परिमाणात्तथताभावो रूपादेरवधारणम्।

तस्यां स्थितस्य बुद्धत्वेऽनुग्रहाऽत्यागतादयः॥२-१३॥



[44] मैत्र्यादि शून्यताव्याप्तिर्बुद्धत्वस्य परिग्रहः।

सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम्॥२-१४॥



[45] निर्वाणग्राहसा (शा)न्तत्वं बुद्धेभ्यो रक्षणादिकम्।

अप्रमाणि (अप्राणि) वधमारभ्य सर्वाकारज्ञता नये॥२-१५॥



[46] स्वयं स्थितस्य सत्वानां स्थापनं परिणामनम्।

दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः॥२-१६॥



मार्गज्ञतायां बोधिसत्त्वस्य दर्शनमार्गक्षणा इत्यर्थः।

इमां तु भगवतीमधिकृत्याद्यं पादत्रयमन्यथा कर्तव्यम्। तत्राद्यः क्षणः पादद्वयेन-



रूपादितो धीर्नानन्या न चान्या परमार्थतः।



धीः प्रज्ञापारमिता सा रूपादिभ्यो नाभिन्ना लक्षणभेदात्। न च भिन्ना परमार्थतः। तथा हि। या प्रज्ञापारमिता यद्रूपादि या रूपादितथता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शनाऽप्रतिघा एकलक्षणा यदुतालक्षणाः, न संयुक्ता न विसंयुक्ता इति। नाभिन्नाः न भिन्नाः कल्पिता नामत्वात्। भेदाभेदयोश्च भावधर्मत्वात्। अत एव रूपस्कन्धाभावादरूपिणः। चक्षुर्विज्ञानाभावादनिदर्शनाः। स्वदेशे परस्योत्पत्तेरविबन्धनादप्रतिघाः। भेदप्रतिभासानामस्तङ्गमादेकलक्षणाः। यदुतालक्षणा इति तथतामात्रलक्षणाः। अत आद्यस्य क्षणस्य प्रस्तावना। अथ खलु शक्र इत्यादिना तत्कस्य हेतोरित्यतः प्राक्। तत उर्ध्वमाद्यक्षण एवमुक्त इत्यतः प्राक्। इति दुःखे धर्मज्ञानक्षान्तिः।



चतुर्णां क्षणानां विशेषलक्षणं शास्त्रेण-



[43a] तस्या [:]चतुष्टयं यत्तु महत्ता साऽप्रमाणता।

परिमाणान्तताऽभावौ रूपादेः



सह अप्रमाणतया 'साऽप्रमाणता'। 'महत्ता' अप्रमाणता चेत्यर्थः। अन्त एवान्तता। परिमाणश्चान्तता। च तयोरभावौ अपरिमाणता। अनन्तता चेत्यर्थः। 'तस्याः' इति प्रज्ञापारमितायास्तन्महत्तादि 'चतुष्टयं यत् रूपादेः' इति सम्बन्धः। रूपादेर्महत्त्वादिना तदालम्बनायाः प्रज्ञापारमिताया महत्त्वादि। महापारमिता। अप्रमाणपारमिता। अपरिमाणपारमिता। अनन्तपारमिता चेत्यर्थः। एतच्च महापारमिताविज्ञानं निरभिनिवेशं द्रष्टव्यम्। एवं महापारमितेति कौशिक नाभिनिविशत इत्यादेः सूत्रपाठात्। अत एवमुक्ते शक्रेण तेषामुद्देशः। स्थविर इत्यादिकः सुभूतिना सश्लाधानुवादः। ततः सुभूतिनैव निर्देशः तत्कस्येत्यादि। तत्र रूपादीनां महत्ता-अमुष्मिन् काले भावोऽमुष्मिन्नभावः-इत्येवं कालतोऽपरिच्छेदात् तदालम्बनत्वात्तस्य महत्त्वम्। इति दुःखे धर्मज्ञानम्॥



आकासो(शो)पमेन तथताशरीरेण प्रमाणतोऽपरिच्छेदादप्रमाणतेति। दुःखेऽन्वयज्ञानक्षान्तिः॥



संख्यया अपरिच्छेदादपरिमाणतेति दुःखेऽन्वयज्ञानम्॥



देशतोऽपरिच्छेदादनन्तता आरम्बणनन्ततया च। आरम्बणं सर्वधर्मा न च तेषामन्ततो(ता)ऽस्ति गणनातिक्रान्तत्वात्। अपि च सर्वधर्मा अनन्ता असत्त्वेन तेषामुत्पादविनाशान्तयोरभावात्। सत्त्वा अप्यालम्बनमुभयनैरात्म्यज्ञाने। ते चानन्ताः। शक्र आह। तत्कथमनन्ता इति। सुभूतिराह। न गणना अयोगेन गणनाबहुत्वेन वेति। न गणनातिक्रान्तत्वेन। नाप्यनन्ताख्यया संख्ययेत्यर्थः। कथं तर्हीति तर्हि शब्दोऽक्षमायाम्। न धर्माधिवचनमिति धर्म आत्मद्रव्यं न तस्याधिवचनं तस्याभावात्। धर्मत्वेन स्वार्थाभिधानात् नाधर्माधिवचनम्। प्रक्षिप्तमिति सूत्रैः प्रयुक्तम्। कुतः ? यत आगंतुकं सति विचारे चलत्वात्। यतोऽवस्तुकं आत्मद्रव्याभावात्। आत्मसम्बन्धादप्यात्मेति किञ्चिदुच्यते। तदपि नास्त्यात्मनोऽत्यन्तमसत्त्वादित्यनात्मीयम्। अथवा आत्मप्रज्ञप्तिविषयः स्कन्धादिरात्मीयस्तस्याप्यभावादनात्मीयम्। अथवा नाम संज्ञा तस्यात्मीयः संज्ञी। तदभावादनात्मीयम्। आरम्बणं विषयस्तदभावात् आनारम्बणम्। अत्रेति शास्तृशासने। एतच्चाप्तवचनादपि नैरात्म्यसिद्धिं दर्शयितुमाह। का सत्वानन्ततेति। गणनाति क्रान्तत्वेन न काचित्प्रमाणसिद्धेपि नैरात्म्येआप्तवचनादपि नात्मसिद्धिरिति दर्शयितुमाह। सचेत्यादि। स्वरेणेति वचनेन। अनन्तस्य लोकस्य विज्ञप्तिरर्थज्ञापनो घोषः शब्दोऽस्येति तथोक्तेन। तथाप्यतिमांसलत्वात् गम्भीरो निर्घोषस्तूर्यनिर्घोषवद्विचित्रः शब्दोस्येति तथोक्तेन। अवितिष्ठमान इति अविश्राम्येन। अपि न्विति किन्नु। आदिशुद्धत्वमादित एवासत्त्वपरिशुद्धत्वं सर्वत्रासत्त्वम्। अनेनापि पर्यायेण प्रकारेण। अनन्तपारमितेयम्। कतमेनेत्यत आह। एवं सत्त्वानन्तयेति। सत्वानामुत्पादनिरोधान्तविरहात् सत्त्वानन्ततयेति। एवं चेत्येवमेव। न गणानतिक्रान्तत्वेनेति समुदये धर्मज्ञानक्षान्तिः॥



अवधारणम्॥

तस्यां स्थितस्य बुद्धत्वे,



'तस्यां' प्रज्ञापारमितायां स्थितायां यद् 'बुद्धत्वेऽवधारणं' बुद्ध एव स दृष्टव्य इति स षष्ठः क्षणः। तस्य प्रस्तावना। अथ खलु सेन्द्रका इत्यादिना। इन्द्र शक्रः। ब्रह्मा सहापतिः। प्रजापतयश्चत्वारो लोकपालाः। विशिष्ट धर्मश्रवणप्रहर्षादप्रयत्नजं वचनं उदानं तत् उदानयन्ति स्म। उदीरतवन्तः। अहो इत्याश्चर्ये। धर्म इति देशनाधर्मः। पुनः धर्म इति धर्मप्रकाशितो दर्शनमार्गः। तस्यैव धर्मस्य धर्मता प्रकृतिस्तथा गतोत्पादनम्। अत एवाहुः य इत्यादि। प्रादुर्भाव उत्पादोऽनाश्रवलक्षणः सूच्यते। तद्वचनात्किलादौ प्रतीतेः। ततः क्रमेन(ण) स्फुटेन स्फुटतरं स्फुटतमं च प्रतीतेः। देश्यते प्रकाश्यते प्रभाव्यते च। तथागतमित्यादिना तमेव षष्ठं क्षणमाहुः। अद्याग्रेणेति। अद्य प्रभृति धारयिष्यामः। अविरहितो प्राप्ताऽपरिहाणात्। विहरिष्यति संमुखीभावात्। तथागतं तु स्वयमवधारयिष्याम इति यदुक्तं तत्तथागतत्वे नियतमविशेषलाभात्। तल्लाभे च व्याकरणम्। तत आह यदाहमित्यादि। अल्पवयो हि श्रोत्रियो माणवक इत्युच्यते। तस्यामन्त्रणंमाणवक, भविष्यसि बुद्धो भगवान् स्वयमभिसंबोधात्। बुद्धिरतिशयेनास्यास्तीति बुद्धः। तादृशं प्रत्येकबुद्धोपीति। तद्वयवच्छेदार्थं भगवद् ग्रहणम्। षडिवधेन भगार्थेन तस्य योगात्। भगवान् बोधिसत्त्वोपि। तद्वयवच्छेदार्थं बुद्धग्रहणं तस्यानभिसम्बोधात्। यथा धर्मास्तथैव गदनात् तथागतः। गदेः पचाद्यच्। नैरुक्तस्तकारः। अरयः क्लेशास्तान् हतवानिति अर्हन्। सम्यगविपरीतं समस्तं बुद्धमनेनेति सम्यक्संबुद्धः। एतेन शास्तृत्वसंपदुक्ता। न ह्यवक्ता विपरीतवक्ता वा शास्ता भवति। विपरीतवचनं च क्लेशवशादज्ञानाद्वा भवेत्। तच्चोभयमस्य नास्ति यथाक्रममर्हत्वात् सम्यक्सम्बुद्धत्वाच्च्। संसारिणः कथमी[दृशी] शक्तिरिति चेदाह सुगत इति। गतः पुनर्भवात् मुक्तः। सुशब्दः प्रस (श)-स्तापुनरावृत्तिनिःशेषार्थः, सुरूपवत् सुनष्टज्वरवत् सुपूर्णघटवच्च। बाह्यशैक्षाशैक्षाणां व्यवच्छेदाय यथाक्रमम्। तत्र लोकोत्तरेण मार्गेण गतत्वात् प्रशस्तं गतः। नैवं बाह्याः। सावधिकत्वेन तन्मोक्षस्यामोक्षत्वात्।



"पुनरावृत्तिरित्युक्तौ जन्मदोषसमुभ्दवौ।"



तौ च शैक्षाणाम्। अशैक्षस्तु भगवांस्तस्मादपुनरावृत्त्या गतः। शेषमक्लेशनिर्ज्वरं।



"कायवाक्‍बुद्धिवैगुण्यं मार्गाक्षपटुतापि वा।"



तदशैक्षाणामपि हीनयानर्हतां यथासम्भवमस्ति। न तु भगवतः। ततो निःशेषगमनात् सुगतः। कथमेकः सुशब्दस्त्रीनर्थानाह ? तन्त्रेण न्यायेन। तद्यथा श्वेतो धावति। अलम्बुमाणां यातेति। श्वेतः शुक्लः श्वा इतः श्वेतः। अलम्बुमा नाम ग्रामः। तस्य याता गन्ता बुमा अपि ग्रामः। तस्यालङ्गन्तेति। कथं सुगतः ? यतो विद्याचरणसम्पन्नः। विद्या अधिप्रज्ञं शिक्षा, अधिशीलमधिचित्तं च। शिक्षाचरणं विद्या पुरश्चरणत्वात्तयोः। अतो विद्यया चक्षुषेव पश्यन्। इतराभ्यां चरणाभ्यामिव तथा गमनात् सुगतः। तदनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरूक्तः। लोकविदिति लोकस्य विनयनकालाकालादिपरिज्ञानाल्लोकवित्। पुरुषा एव दम्या दमनीया विनेयत्वात्। तेषां सारथिः सम्यग्विनेता। तस्य सदृशः सारथिरस्त्येव। तदन्यः सुगतस्ततोधिकस्तु। नास्तीति अनुत्तरः पुरुषदम्यसारथिः। अनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरुक्तः। अथास्य कर्मणो विषयः। किं दुर्गतिं गता अपि ? नेत्याह। शास्ता देवानां च मनुष्याणां चेति। इति समुदये धर्मज्ञानम्॥



अथ खलु त इत्यादिना सप्तमं क्षणमाहुः। आश्चर्यमाहारिकार्थे। परमाश्चर्यमनुपरिग्राहिकाथे। यावच्छब्दः पर्यन्तार्थः। दानपारमिताया शील-पारमिताया यावत् सर्वज्ञतायाः सर्वाकारज्ञताया इत्यर्थः। आहारिकेत्याकर्षिका। अनुपरिग्राहिकेत्यनुशब्दोऽन्वयार्थः। अन्वयो युक्तिर्न्यायः। अपरिग्रहोनुत्सर्गयोगः। अपरिग्रहानुत्सर्गयोगयोः साहित्यम्। अन्वयेन परिग्राहिका यथा न परिगृण्हाति न चोत्सृजति तथा परिग्राहिकेत्यर्थः। अत्र शास्त्रम्-



इति। आदानमादिपरिग्रहः। अनुग्रहोऽविकल्पनम्। अयमपरिग्रहार्थः। अत्याग एव अत्यागता। अयमनुत्सर्गार्थः। बोधिसत्त्वाः परिगृण्हन्ति। भगवती तान् परिग्राहयतीति समुदयेऽन्वयज्ञानक्षान्तिः॥



शक्रेण प्रस्तावकत्वादुपलक्षितः परिवर्तः शक्रपरिवर्तः॥



आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वितीयः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project