Digital Sanskrit Buddhist Canon

सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sarvākārajñatācaryāparivarto nāma prathamaḥ
रत्नाकरशान्तिविरचिता

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः



सारतमाख्या पञ्जिका

I

॥सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः॥



नमः सर्वबुद्धबोधिसत्त्वेभ्यः।



भवति बहुतरार्के केवलं यस्य लोके

दिनमुदयसमृद्ध्या रात्रिरस्तङ्गमेन।

प्रतिविषयविसारी शुद्धिमानस्तु वंशः (?)

स गुरुगुणनिधेर्वो जायतां बुद्धबोधः॥



.............नमः शरणं दशबलास्ते वा (?)॥



यस्याः कतिपयवर्णा धृताः कर्णपुटैरपि।

बोधेर्भवन्ति बीजानि जिनमाता प्यत्यसौ।



मैत्रेयस्य विभोरलंकृतिमयः पोतो यदर्थार्णवे

निर्णीतं बहुविस्तराकृतिसमैर्यस्या निजांशेरपि।



व्याचष्टे वचसा स्फुटेन लघुना मन्दोऽपि रत्नाकारः

प्रज्ञापारमितां.......न महतां (तीं) तामष्टसाहस्रिकाम्॥



अथ कस्मादियं व्याख्यायते ?



सूत्रं गेयं व्याकरणं गाथा उदानं निदानं अवदानं इतिवृत्तकं जातकं वैपुल्यं अद्‍भुता धर्माः उपदेशाश्चेति।



तत्र सूत्रं कतमत् ? यत्र [गम्भीर]पदैरर्थसूचनम्। गेयं कतमत् ? सूत्रमेव [यद्‍गीयते]। यच्च नेयार्थं सूत्रं तदपि गेयं गम्यत्वात्। व्याकरणं [कतमत् ? यत्र] श्रावकोऽभ्यतीतः कालगत उपपत्तौ व्याक्रियते। यच्च नीतार्थं सूत्रं तेन हि [स्फुटाभिप्रायेण] व्याख्यानात्। गाथा कतमा ? यत्र [द्विपदा त्रिपदा चतुष्पदा पञ्चपदा] षट्‍पदा च। उदानं कतमत् ? यदुद्दिश्य भाषितम्। सोत्पत्तिशिक्षाप्रज्ञप्तिभाषितं वा। अवदानं कतमत् ? सदृष्टान्तकभाषितम्। इतिवृत्तकं कतमत् ? पूर्वयोगप्रतिसंयुक्तम्। [जातकं कतमत् ? बोधिसत्त्वचर्याप्रतिसंयुक्तम्। वैपुल्यं कतमत् ?] यद्‍बोधिसत्त्वपिटकप्रतिसंयुक्तम्। सर्वसत्त्वहितसुखाधिष्ठानत्वात्। अद्‍भूता धर्माः कतमे ? यत्र श्रावकबोधिसत्त्वबुद्धानामाश्चर्याद्‍भुता धर्मा देश्यन्ते। उपदेशाः कतमे ? यत्राविपरीतं धर्मलक्षणमुपदिश्यते [तत्रोपदेशेऽन्तर्गतेयं भगवती सूत्ररत्नम्।]



परमपुरुषार्थसाधनस्य परमगम्भीरस्य धर्मस्य सर्वैराकारैः सूचनात्। अथैषा कतिभिः पदार्थैरभिधेयैर्दर्शिता ? कतमे वत इति प्रश्ने शास्त्रम्-



[1] प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता।

सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता [ततः]॥१-३॥



[2] [सर्वा]काराभिसम्बोधो मूर्द्धप्राप्तोऽनुपूर्विकः।

एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा॥१-४॥



इति। स्वार्थे ‘धा’ प्रत्ययः। इमे तेऽष्टावित्यर्थः। बोध्यभिमुखः सम्यग्बोधि‘ऽभिसम्बोधः’। अत एवा.......। अभिसमीयते सप्तभिः प्राप्यते यतः। मूर्धा प्रकर्षः। तं प्राप्तो ‘मूर्धप्राप्तः’। अनुपूर्वमनुक्रमः। तद्योगात् ‘अनुपूर्विकः’। उभयत्रापि ‘सम्बोध’ इति वर्तते।



पुनः शास्त्रम्-



[3] लक्षणं [तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः।]

[तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थ] संग्रहः॥९-१॥



अथवा........षडर्थाः। यत आदौ त्रिविधा सर्वज्ञता तत् ‘लक्षणं’ प्रज्ञापारमितायाः। ततश्चत्वारोऽस्याः प्रयोगः प्रयोगप्रकर्षः प्रयोगानुक्रमः प्रयोगनिष्ठा चेति। ........।



पुनः शास्त्रम्-

[4] विषयास्त्रितयो हेतुः प्रयोगश्चतुरात्मकः।

धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः॥९-२॥



अथवाऽतिसंक्षेपतोऽस्यां त्रयोऽर्थाः। तथा हि त्रिविधः प्रयोगविषयः सर्वज्ञतात्रयश्च [तद्‍धेतुः] ‘विषयः’। ‘प्रयोगश्चतुरात्मक’। सर्वाकारा हि सम्बोधादिः। तस्य हेतोः ‘फलं धर्मकायः’ तत् ‘कर्म’ च।



तदेवमष्टौ षट् त्रयो वाऽस्य सूत्रस्यार्थाः साकल्येन। प्राधान्येन पुनरेक एव वार्थः। अन्यथा एकवाक्यतापि न स्यात्। दशदाडिमादिपसमूहवत्। अवयवार्थैः परस्परो[पर]क्तस्य स्वार्थेन (?) एकत्वादुपसंहारात्। तस्मात् सम्बद्धान्(नु)गुणोपायात्। सम्यक्सम्बोधिरत्र प्राधान्येनोच्यत इत्येके। तदसत्। यतः सम्यक्सम्बोधिः श्रावकपिटकेऽप्यतिप्रतीतत्वादजिज्ञासिता। प्रज्ञापारमिता तु तत्राविदितत्वाज्जिज्ञासितेति। सैव [शास्त्रे प्राधान्येन]अभिधीयते। [दुरधिमोक्षा] गम्भीरत्वात्। भगवतस्तु वचनात् [प्रतिलब्धाद्] अधिमुच्यते..............। ततोऽपीयं प्राधान्येन भगवता वक्तव्या। यथा यथा चेयमधिमच्यते तथा तथा बोधेरासन्नीभवति। ततोऽपीयं प्राधान्येन वचनीया। अष्टासु चाभिसमयेषु यथा [सारं तथेयं] विस्तरेणोच्यमाना कथं प्राधान्येन नोच्यते ? प्रज्ञापारमितैव मार्गः सम्बोधेः। शेषाणामपि तथैव मार्गीकरणात्। इत्येवमियमुच्यमाना सुतरां प्राधान्येनोच्यत इत्यलमतिविस्तरेण। अत एव प्राधान्येन व्यपदेशादेतत्सूत्रं प्रज्ञापारमिता। [न सम्यक्सम्बोधि]रिति। तस्मात्प्रज्ञापारमितैवः.......।



एवं मयेत्यादि। अथ कस्येदं वचनम् ? संङ्गीतिकारस्य। सङ्गीतत्वेन लोके संप्रत्ययार्थम्। तत्किं ........प्रक्षेपः ? नैवम्। भगवदाज्ञयैवं तेन पाठात्। उक्तं हि भगवता [श्रुतं मया] इति सङ्गीतिकारः अडकवतीनिवासी वज्रपाणिर्महाबोधिसत्त्वः। स हि भाद्रकल्पिकानां तथागतानां रूपकायस्य धर्मकायस्य च रक्षाधिकृतः पृष्ठतोऽवगतः। एवं ते (तैः ?) प्रत्यर्पितशासनश्च.......।.............



.......... यतोऽस्यामच्यु (?)तसमाधिनिश्रितो महान् धर्मावभासस्तस्मात् प्रभाकरी। यतोऽस्यां बोधिपक्ष्यैः संक्लेशेन्धनदहनं तस्मादर्चिष्मती। यतोऽस्यां लौकिकलोकोत्तरयोर्विद्याऽसत्यज्ञानयोरन्योन्यविरोधाद्‍दुष्करः परिजयस्तस्मात्सुदुर्जया। यतोऽस्यां प्रतीत्यसमुत्पादप्रविचयादभिमुखो भवत्यसङ्गमुखाख्यः प्रज्ञापारमिताविहारस्तस्मादभिमुखी। यतोऽस्यां बोधिपक्ष्यसत्य[प्रतीत्य] समुत्पादालम्बनो निर्निमित्तविहार आभोगवाही तस्माद्‍दूरंगमा। यतोऽस्यां स एव स्वरसवाहित्वादचलः तस्मादचला। यतोऽस्यां प्रतिसंविभ्दिर्धार्मकथिकत्वाद्‍बोधिसत्त्वः साधुस्तस्मात् साधुमती। यतोऽस्यां बोधिसत्त्वोऽभिषिच्यते यौ[व]राज्याय तस्माद्धर्ममेघा। ..........एताः प्रत्येकं षड्‍भिः पारमिताभिः संगृहीताः यथाक्रमम्।

एतासु दश पारमिता अतिरिच्यते।



कतमा दश ?



“दानं शीलं क्षमा वीर्य ध्यानं प्रज्ञा उपायता।

प्रणिधानं बलं ज्ञानमेताः पारमिता दश॥”



तत्र यत्पारमितोपचितस्य कुशलमूलस्यानुत्तरायां सम्यक्सम्बोधौ सम्यक्परिणामनमुपादाय पारमिता तेनोपायेन तस्याक्षयीकरणात्। आह च। “आबोधे क्षयमिति स्वल्पमपि न बोधिपरिणतं कुशलम्। आसमन्तात्पतितः पयोनिधौ सलिलबिद्नुरिव” इति। भद्रचर्यादिकं प्रणिधानपारमिता यया प्रतिजन्म यत्पारमिताश्चरति। भावनाबलं प्रतिसंख्यानबलं च बलपारमिता। यया प्रत्यहं प्रतिक्षणं ताश्चरति। यथाभिप्रायमयथारुतं महायानस्य परिज्ञानं ज्ञानपारमिता।



भूमीनां विस्तर आर्यदशभूमकादौ। परिकर्माणि पुनरासां महत्योर्भगवत्योरुद्दिष्टानि निर्दिष्टानि च भूमीनां परिकर्माण्यधिकृत्य शास्त्रे त्रयोविंशतिः श्लोकाः। तानि यथाभूमि पृथक्कृत्य वक्ष्यामः।



[5] लभ्यते दशमा (प्रथमा) भूमिदर्शधा परिकर्मणा।

आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता॥१-४८॥



[6] त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा।

सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा॥१-४९॥



[7] धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते।

ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः॥१-५०॥



‘दशधा’ इति दशविधेन। तच्चाशयादि॥ ‘आशयः’ श्रद्धाछन्दौ। ‘हितवस्तुत्वं’ सर्वसत्त्वहितैषिता। हेतुरस्याः ‘सत्त्वेषु प्रशमचित्तता’। ‘त्यागो’ दानपारमिता। ‘एषणा’ पर्येषणा। सा च ‘सद्धर्मालम्बना’ धर्मपर्येष्टिरित्यर्थः। गृहवासान्निष्क्रमणं निष्क्रमः। स्वार्थे ष्यञ् ‘नैष्क्रम्यं’ तच्चित्तता। ‘स्पृहा’ इत्यत्र सदेति वर्तते। ‘सत्यं’ चोक्तमिति सत्यवचनं तद्दशमम्। ‘एषां’ इत्याशयादीनाम्॥



[8] शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा।

गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम्॥१-५१॥



‘शीलं’ शीलपरिशुद्धिः। ‘क्षान्तिः’ क्षान्तिबलम्। प्रमोद एव ‘प्रामोद्यम्’ ‘महती’ सर्वसत्त्वापरित्यागितया। ‘गौरवं’ गौरवार्हेषु। ‘गुरूशुश्रूषा’ कल्याणमित्रेष शास्तृसंज्ञा। ‘दानादिके’ इति पारमितासु। ‘अष्टम’ ग्रहणादष्टावेव परिकर्माणि द्वितीयायाम्।



[9] अतृप्तता श्रुते दानं धर्मस्य च निरामिषम्।

बुद्धक्षेत्रस्य संशुद्धिः संसारोपरिखेदिता॥१-५२॥



[10] ह्रीरपत्राप्यमित्येतत् पञ्चधाऽमननात्मकम्।



‘श्रुतं’ बाहुश्रुत्यम्। ‘संशुद्धिः’ परिशुद्धिः। सा तस्यामेव पुण्यपरिणामनात्। ‘अमननात्मकं’ तेनामननात्। ‘पञ्चधा’ इति वचनात् पञ्चैव परिकर्माणि तृतीयायाम्।



वनाशाल्पेच्छता तुष्टिर्धुतसंलेखसेवनम्॥१-५३॥



[11] शिक्षाय अपरित्यागः कामानां विजुगुप्सनम्।

निर्वित्सर्वास्तिसंत्यागा[वन]वलीन[त्वान्]पेक्षते॥१-५४॥



वनस्य (‘वानाशा’) अरण्यवासस्तत्कार्यत्वात्। ‘तुष्टिः’ सन्तुष्टिः। ‘धुत’ गुण ‘संलेखस्य’ ‘सेवनं’ अनुत्सर्गः। ‘निर्वित्सर्वास्तिसंत्यागौ’ इति निर्वेदः सर्वसतां त्यागश्च। ‘अ[नव]लीनत्वानपेक्षते’ इति। अनवलीनचित्तता सर्ववस्तुनिरपेक्षता च। अनवलीनत्वं असंकुचुतत्वम्। दशेति वक्ष्यमान(ण)मनुवर्तते। ततो दशैव परिकर्माणि चतुर्थ्याम्।



[12] संस्तवं कुलमात्सर्य स्थानं सङ्गणिकावहम्।

आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान्॥१-५५॥



[13] मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम्।

विवर्ज[य]न् समाप्नोति दशैतान् पञ्चमीं भुवम्॥१-५६॥



‘संस्तवो’ गृहिप्रव्रजितैः। ‘कुलेषु’ उपसं[क्र]मणीयागृहेषु ‘मात्सर्यम्’। ‘सङ्गणिका’ अप्रतिरूपकथा। ‘उत्कर्षणम्’। ‘अवज्ञा’ पंसनम्। ‘कर्ममार्गाः’ ‘कर्मपथाः’। ‘मानः’ चित्तोन्नतिः। ‘स्तम्भो’ गुरूष्वप्रणतकायता। ‘विपर्यासो’ विपरातार्थग्राहः। ‘विमतिः’ विचिकित्सा। ‘क्लेशमर्षणं’ रागद्वेषमोहाधिवासनम्। ‘एतान्’ इति संस्तवादीन्।



[14] दानशीलक्षमावीर्यध्यानप्रज्ञा प्रपूरकः।

शिष्यखड्‍गस्पृहात्रासचेतसां परिवर्जकः॥१-५७॥



[15] याचितोऽनवलीनश्च सर्वत्यागेप्यदुर्मनाः।

कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते॥१-५८॥



षण्णां पारमितानां प्रत्येकं पूरक इति षड्‍धर्माः। श्रावकस्पृहायाः प्रत्येकबुद्धस्पृहायाः परित(त्र)सनचित्तस्य च परिवर्जक इति त्रयः। याचितस्यानबलीनचित्तता, सर्वस्वत्यागेऽप्यदौर्मनस्य, दौर्बल्येपि न याचकानां क्षेप इति त्रयः। एभिर्द्वादशभिर्धर्मैः षष्ठिं भूमिं प्राप्नोति।



[16] आत्मसत्त्वग्रहो जीवपुद्‍गलोच्छेदशाश्वते।

निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च॥१-५९॥



[17] त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता।

रत्नत्रितयशीलेषु तद्‍दृष्ट्यभिनिवेशिता॥१-६०॥



[18] शून्यतयां विशा(षा)दश्च तद्विरोधश्च विंशतिः।

कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्॥१-६१॥



[19] त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धिता।

करुणा मनना धर्मसमतैकनयज्ञता॥१-६२॥



[20] अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा।

कल्पनायाः समुद्‍घातः संज्ञादृक्लेशवर्जनम्॥१-६३॥



[21] शमथस्य च निध्यप्तिः कौशलं च विदर्शने।

चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च॥१-६४॥



[22] श(स)क्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम्।

सर्वत्र स्वात्मभावस्य दर्शनं चेति [विंशतिः]॥१-६५॥



द्वितीयात् 'विंशति' शब्दादूर्ध्वं गुणाः......आत्मग्रहादयो ‘विंशतिः’। ‘कलङ्काः’ दोषाः। यस्य ‘विच्छिन्नाः’ प्रहीणाः। त्रिविमोक्षमुखज्ञानादयश्च विंशतिः गुनाः (णाः) परिपूर्णाः स सप्तमीं भूमिं प्राप्नोतीति समासतोऽर्थः।



‘ ग्रहो’ऽभिनिवेषः(शः)। तस्य विशेषणमात्मादिरायतनपर्यन्तः।

शाश्वतोच्छेद..........................रत्नादि (?) दृष्टिः। तस्यां ‘अभिनिवेषि (शि)ता’ निश्रयः। ‘विषादः’ खेदः। ‘तद्विरोधः’ शून्यताया बाधनम्। ‘समं’ इति सहेत्यर्थः।



तत्र कलङ्कनिर्देशानामा(म)र्थः। आत्मग्राहः। सत्त्वग्राहः। जीवग्राहः। पुद्‍गलग्राहः। उच्छेदग्राहः। शाश्वतग्राहः। निमित्तग्राहः। हेतुग्राहः। स्कन्धग्राहः। [धातुग्राहः। आयतनग्राहः।] त्रैधातुके अध्यवसानम्। त्रैधातुके आलयः। बुद्धिदृष्टिनिश्रयः। धर्मदृष्टिनिश्रयः। सङ्घदृष्टिनिश्रयः। शीलदृष्टिनिश्रयः। शून्या धर्मा इति विषाढः। शन्यताविरोधश्चेति।



गुणानिर्देशानामर्थः। शून्यतापरिपूर्तिः। आनिमित्तसाक्षात्क्रिया। अप्रणिहितज्ञानम्। [त्रिमण्डलविशुद्धिता। करुणा। मनना]। सर्वधर्मसमतादर्शनम्। भूतनयप्रतिवेधः। अनुत्पादक्षान्तिज्ञानम्। एकनयनिर्देशः। सर्वधर्माणां कल्पनासमुद्धातः। संज्ञादृष्टिविवर्तः। क्लेशविवर्तः। शमथनिध्यप्तिः। विपश्यनाकौशल्यम्। दातुचित्तता। अनुनयस्याभूमिः। यथेच्छक्षेत्रगमनम्। तत्र चबुद्धपर्षन्मण्डे[स्वात्मभाव]दर्शनमिति॥



[23] [सर्वसत्त्वमनोज्ञान] मभिज्ञाक्रीडनं शुभा।

बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे॥१-६६॥



[24] अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः।

सञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम्॥१-६७॥



इति। ‘शुभा निष्पत्तिः’ इति सम्बन्धः। परिशुद्धेत्यर्थः। ‘अष्टाधा’ इति वचनात् आष्टवेव परिकर्माण्यष्टम्याम्। तद्यथा। सर्वसत्त्वचित्तानुप्रवेशः। अभिज्ञाचित्ता [नुक्रिडनम्।]। बुद्धक्षेत्रनिष्पादनम्। बुद्धानां सेवा च परीक्षणं चेत्येकीक्रियते। इन्द्रियपरापरज्ञानम्। बुद्धक्षेत्रपरिशोधनम्। मायोपमस्य समाधेरभीक्ष्णं समापत्तिः सञ्चित्य भवो[प]पत्तिश्च। द्विविधं बुद्धक्षेत्रम्। आदौ भाजनलोकः पश्चात् सत्त्वलोक इति।



[25] प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता।

नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा॥१-६८॥



[26] कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः।

नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः॥१-६९॥



अष्टमानन्तरं नवमी। तस्याः परिकर्माणि द्वादश। अनन्तं प्रणिधानम्। देवादिरुतज्ञानम्। परिपूर्णं प्रतिभानम्। गर्भावक्रान्तिसम्पत्। कुलसंपत्। जातिसंपत्। गोत्रसंपत्। परिवारसंपत्। जन्मसंपत्। नैष्क्रम्यसंपत्। बोधिवृक्षसंपत्। गुणपूरिसम्पच्च।



[27] नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते।

येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः॥१-७०॥



‘नवभूमीः’ इति गोत्रादिभूमिः। तत्र गोत्रभूमिः निर्वाणगोत्रकाणम्। अष्टमकभूमिः श्रोतआपत्तिफलप्रतिपन्नकस्य। दर्शनभूमिः श्रोतआपन्नस्य। तनुभूमिः सकृदागमिनः। वीतरागभूमिरनागामिनः। “कृतं करणीयं” इति ज्ञानात् कृतावी अर्हन्। तस्य भूमिः कृताविभूमिः। श्रावकभूमिः श्रावकस्य। सैव षड्‍विधा प्रत्येकबुद्धस्य। बोधिसत्त्वभूमिः बोधिसत्त्वस्य। पूर्वोक्ता नवभूमयः। एता नवभूमीरतिक्रम्य येन ज्ञानेन बोधिसत्त्वो बुद्धभूमौ प्रतिष्ठितो भवति सा दशमि बोधिसत्त्वभूमिः। इति भूमिसम्भरः।



प्रति[पक्ष]मधिकृत्य शास्त्रम्-



[28] प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः।

ग्राह्यग्राहविकल्पानामष्टानामुपशान्तये॥१-७१॥



‘अभ्यासो’ भावना। ग्राह्यो, ग्राहकः। दर्शनमार्गे द्वौ ग्राह्यविकल्पौ। वस्तुमात्राधिष्ठानः प्रतिपक्षधिष्ठानश्च। द्वौ ग्राहकविकल्पौ। पुद्‍गलद्रव्याधिष्ठानः पुद्‍गलप्रज्ञप्त्यधिष्ठानश्च। [एवं भावनामार्गे विकल्प]प्रहाणाय अष्टौ प्रतिपक्षाः। प्रतिपक्षसम्भारः॥



तत्र दर्शनमार्गे तथतादीनां रूपादीनां स्वप्नादीनां च ग्राह्यवस्तूनामुपलम्भो विकल्पः। तद्धर्मतोपलम्भलक्षणोऽनुपलम्भः प्रतिपक्षः। दानादीनां बुद्धधर्मपर्यन्तानां प्रतिपक्षवस्तूनामुपलम्भो विकल्पः। अनुपलम्भः प्रतिपक्षः। अ................अनुपलम्भप्रतिपक्षः। नामसंकेतव्यवहारादेरुपलम्भो विकल्पः। अनुपलम्भः प्रतिपक्षः। भावनामार्गे तु न स्थिता नास्थिताः सर्वधर्मा अस्थानयोगेन। धर्मधातुयोगेनेत्यर्थः। इति ग्राह्यवस्तूनामनुपलम्भः। दानादीनां प्रतिपक्षवस्तूनामनुपलम्भः। श्रोत आपन्न.......पुद्‍गलप्रज्ञप्त्याश्रयाणां श्रोतआपत्तिफलादीनामनुपलम्भः। इति प्रतिपक्षसंभारः। समाप्ता च संभारप्रतिपत्तिः॥



निर्यास्यतीत्येतेन निर्याणप्रतिपत्तिः प्रस्ताविता। तामधिकृत्य शास्त्रम्-



[29] उद्‍देशे समतायां च सत्त्वार्थे यत्नवर्जने।

अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्॥१-७२॥



[30] सर्वाकारज्ञातायां च निर्याणं मार्गगोचरम्।

निर्याणप्रतिपज्‍ज्ञेया सेयमष्टविधात्मिका॥१-७३॥



एतदाह। एवमुक्ते इत्यादिना सुभूतिरवोचदिति। किमवोचत ? महायानमित्यादि। यस्मादनेन सदेवमानुषासुरं लोकमभिभूय बोधिसत्त्वो निर्यास्यति। तस्मादिदं यानं महायानमित्युच्यते। अभिभूय निर्यास्यतीति समानकाले क्त्वाप्रत्ययः। संमील्य हसतीत्यादिवत्। कस्मादसौ सर्वलोकमभिभवति ? तदलभ्यस्य माहात्म्यस्य लाभात्। किं पुनस्तत् ? सत्त्वराशेरग्रतासंपादनम्। सत्त्वराशिमहत्तया प्रहाणमहत्तया अधिगममहत्तया च महत्। इतीदमुद्‍देशनिर्याणम्॥



आकाशमहत्तया तन्महायानमिति। तद् यानं महदुच्यत इति सम्बन्धः। आकाशसमतयेति। कथं समता ? यथाकाशं न दिग्भिर्भिद्यते। अवर्णसंस्थानमप्रतिघमनिर्दर्शनमनन्तममध्यन्न हीयते न वर्धते नोत्पद्यते न निरुध्यते न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधतुपर्यापन्नम्। तथैव महायानम्। तस्माद्यथाकाशसमतया महत्तद्यानम्। इति समतानिर्याणम्।



यथा आकाशे इत्यादि। आकाश अवकाशोऽन्तर्भावात्। महायाने अवकाशः। तेन तेषामर्थकरणात्। लोकधातुभिः संख्याभिर्दिग्भिश्चापरिच्छिन्नत्वात्। अप्रमेया असंख्येया अपरिमाणाः। पर्यायेणेति प्रकारेण। कथं च तावतामवकाशः यतः सत्त्वासत्तया आकाशासत्ता। आकाशासत्तया महायानासत्ता। महायानासत्तया सर्वधर्मासत्ता। इति हि सत्त्वाश्चाकाशं च महायानं च सर्वधर्माश्चारूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः। एवमियता सत्त्वानां महायाने अवकाशः। इति सत्त्वार्थनिर्याणम्॥



नैवास्येत्यादि। आगमः आगमनम्। निर्गमः निर्गमनम्। स्थानं गतिनिवृत्तिः। त्रयं महायानस्य नास्ति। अचला हि सर्वधर्माः। यतस्तेषां प्रकृतिर्न क्वचिद्‍गच्छति न कुतश्चिदागच्छति न क्वचित्तिष्ठति। परिष्यन्दश्चाभोगः। इति अनाभोगनिर्याणम्।



एवमस्येत्यादि। एवमित्याकाशस्यैव। अस्येति महायानस्य। पूर्वान्त इत्यतीतोऽर्थः। अपरान्त इत्यनागतोऽर्थः। मध्यः प्रत्युत्पन्नः। त्रयमप्येतन्महायानस्य नोपलभ्यते। त्रयध्वसमं तद्यानं तस्मान्महायानम्। कथं त्र्यध्वसमम् ? यतोऽतीतोऽर्थोतीतार्थेना (न) शून्यः। अनागतोऽर्थोऽनागतार्थेना(न) शून्यः। अनागतोऽर्थोऽनागतार्थेना(न) शून्यः। प्रत्युत्पन्नः प्रत्युत्पन्नेन। त्र्यध्वसमता त्र्यध्वसमतया। महायानं महायानेन। बोधिसत्त्वो बोधिसत्त्वेन शून्यः। न च शून्यता अतीता व अनागता वा प्रत्युत्पन्ना वा। न तस्यां संक्लेश उपलभ्यते न व्यवदानम्। न संसारो न निर्वाणम्। तस्मात् त्रयध्वसमं तद्यानम्। इत्यन्ताभावादत्यन्तनिर्याणम्।



अथ खलु भगवान् इत्यादि। अत्र भगवानाह। यानशब्दार्थनिर्देशे सुभूतेः साधुकारं दत्वा अत्र शिक्षित्वेत्यादिना प्राप्तिनिर्याणं प्ररतौति। अत्र सर्वज्ञतेति सर्वाकारज्ञता। अथ खल्वित्यादिना पूर्णस्य प्रश्नः। प्रज्ञापारमिताधिकारे महायानस्य परेषामप्रस्तुतत्वाशङ्कानिवृत्त्यर्थः। बुद्धानुभावाद् भगवन् इत्येतत्पर्यन्तेन परिहारः। अनुलोमं निर्दिशसि इति त्वं हि अर्वधर्मान् महायाननिःस्वभावान् निर्दिशसि। निःस्वभावताज्ञानं च तेषां प्रज्ञापारमितैव। तस्मादनुलोमं निर्दिशसीति भावः। अपि तु खलु पुनरित्यादिना प्रकृतमेव प्राप्तिनिर्याणमधिकृत्य तस्यां पाप्तौ द्वादशविशेषान् द्वादशभिर्वाक्यैराह। अत एव विशेषद्योतनार्थोऽपितुशब्दः। तत्र अपि तु खल्वित्यादि प्रथमम्। तत्कस्येत्यादि द्वितीयम्। रूपं बोधिसत्त्व इत्यादि तृतीयम्। एवं भगवन्नित्यादि चतुर्थम्। बुद्ध इत्यादि पञ्चमम्। यथा आत्मेत्यादि षष्ठम्। एवमभावस्वभावाः सर्वधर्मा इति सप्तमम्। कतमत्तदित्याद्यष्टमम्। एवमेतेषामित्यादि नवमम्। तत्किमित्यादि दशमम्। न चेत्याद्येकादशम्। स चेत्यादि द्वादशम्। कल्पितेषु अनभिनिवेशाभ्यासनिष्ठायां तदभिनिवेशजन्मनः परन्तत्रस्य सर्वथा निवृत्तौ सर्वाकरज्ञता बोधिसत्त्वेन प्राप्यत इति समुदायार्थः।



अवयवार्थस्तूच्यते। उक्तं भगवता “अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्व महासत्त्वाः सर्वाकारज्ञतामनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति चेति। तत्र न पूर्वान्त उपलभ्यते नापरान्तो न मध्यः। ततो न सत्त्वा न सर्वधर्मा न बोधिसत्त्वः” इति। सत्त्वाश्च सर्वधर्माश्च बोधिसत्त्वश्च पूर्वान्तापरान्तमध्यानि च सर्वमेतदद्वैधीकारम्। तस्मात्पूर्वान्तादिषु बोधिसत्त्वो नोपैतीति प्रथमस्यार्थः। तत्कस्य हेतोरिति। तत्पूर्वान्तादीनामसत्त्वं कुतः ? हेतुमाह। रूपापर्यन्ततयेत्यादि। रूपादय आकाश(श)समाः। रूपादिशून्यतामुपादाय। अत एतेऽपर्यन्ताः। पूर्वान्तापरान्तमध्यरहिताः। एवं बोधिसत्त्व इति द्वितीयस्यर्थः॥



रूपादिकं बोधिसत्त्व इति नोपैति नावगच्छति। यस्मात् इदमपि न विद्यते नोपलभ्यते रूपादि शून्यतामुपादाय। न हि शून्यताया रूपादिकमस्ति नापि बोधिसत्त्व इति तृतीयस्यार्थः॥



एवमिति प्रतिभासमानेन रूपेण। बोधिसत्त्वधर्ममिति। बोधिसत्त्वाख्यरूपादि। सर्वेणेति स्कन्धधात्वादिवर्गभेदेन। सर्वेण सर्वमिति सर्वयथा भवति पूर्णावयवत्वाद् वर्गाणाम्। पुनः सर्वमिति तेषु वर्गेष्वेकैकम्। सर्वं सर्वथेति स्वेन स्वेन इतरेतरैश्च सर्वैरनुपलभमानः। तैः शून्यत्वात्। सर्वज्ञतामपीति सर्वाकारभूतामपि। सोऽहम् इत्यादि। तं धर्ममिति बोधिसत्त्वाख्यम्। प्रकरणाद्‍गम्यते प्रज्ञापारमितामपि सर्वाकारज्ञतामपीति। धर्ममिति बोधिसत्त्वाख्यम्। धर्मेणेति प्रज्ञापारमिताख्येन। धर्मे इति सर्वाकारज्ञताख्ये प्राप्तस्य। अववदिष्यामि प्राप्तये। नैव कश्चित्केनचित्क्वचिदित्यर्थः। एवमेव वादाभाव अनुष्ठानाभावान्न कस्चिन्न केनचिन्न क्वचित्प्राप्नोतीति चतुर्थस्यार्थः॥



बुद्ध इति बुद्धत्वं सर्वाकारज्ञतेत्यर्थः। नामधेयमात्रमिति। अर्थशून्यं नाम। तथाहि नार्थस्य स्वभावो नाम प्राक्सङ्केतार्थमात्रदर्शनात्। नापि नाम्नः स्वभावोर्थः। अविदितार्थस्य नाम्नः केवलस्यैव प्रतीतेः। असत्येपि चार्थे शब्दप्रयोगात्। निरर्थकं नाम। अत एव तच्च नामधेयमनभिनिवृत्तं नामधेयत्वेनासिद्धम्। अतोऽनभिनिवृत्तेन बोधिसत्त्वनाम्ना अनभिनिर्वृत्तं सर्वाकारज्ञता नाम न प्राप्यत इति पञ्चमस्यार्थः।



एवं तावत्पञ्चभिर्वाक्यैर्धर्मनैरात्म्यमुखेन नामधेयमुखेन च कल्पितस्य प्राप्तिः प्रतिषिद्धा। पुगलनैरात्म्यमुखेनापि तत्प्रतिषेधाय षष्ठं चोक्तम्। यथा आत्मा आत्मेति च भगवन्नुच्यते आत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मेति। अत्यन्ततयेत्येकान्तेन। अनभिनिर्वृत्त इत्यसद्‍भूतः। यथालक्षणमसत्त्वात्। यथाशब्दात् प्रकरणाच्च गम्यते तथ सर्वधर्मा बोधिसत्त्वश्चेति॥



परतन्त्रस्वभावमधिकृत्य सप्तमं चोक्तम्। एवमभावस्वभावाः सर्वधर्मः इति। कुतः एतत् ? यतो महत्योर्भगवत्योर्द्वादशभिरेभिर्वाक्यैरुद्‍देशः सुभूतिना कृते तत एषां द्वादशानामभिधानकारणप्रश्नेषु शरिपुत्रेण कृतेषु थविरसुभूतिः कारणानि क्रमेण ब्रुवाणः सप्तमस्थानकेन कारणेन ‘अभावस्वभावाः सर्वधर्मा इति’ प्रश्नमनुद्याभावस्वभावतायां कारणमुक्त्वा ‘अनेन पर्यायेण, शारिपुत्र, अभावस्वभावाः सर्वधर्माः’ इत्युपसंहारं कृतवान्। तत एष पाठः प्रतीयते। सुभूतेः प्रश्नानुवादकारणाख्यानतदुपसंहारा इह ज्ञापका न तूद्देशः। उद्देशेऽपि सप्तमवाक्यस्य प्रायेण पाठभ्रंसा(शा)त्। यतः सप्तमवाक्ये त्रयो विप्लवाः कालेन जाताः। उत्तरेण ग्रन्थेन सहैकवाक्यता प्रथमो विप्लवः। एकवाक्यतार्थे प्रथमां विभक्तिमपनीय षष्ठिविभक्तिः कृतेति द्वितीयो विप्लवः। अभावस्वभावतां चापनीय अस्वभावत पठितेति तृतीयो विप्लवः। अर्थं ब्रूमः। एवमिति परतन्त्रेण स्वभावेन अभावस्वभाव एषामिति अभावस्वभावाः सर्वधर्माः। यदाह। नास्ति सम्योगिकः स्वभावः प्रतीत्यसमुत्पन्नत्वादिति। कारणसंनिधिः संयोगस्तस्मिन् सत्येव भवतीति संयोगिकः। संयोगिको यः स्वभावः सोऽभावः कारणवियोगे सत्यभावात्। अपि च। यः प्रतीत्यसमुत्पन्नः सोऽनित्यत्वात् पश्चादभावः। न च विद्यमानस्य पश्चादभावो घटते विरोधात्। तस्मादेकक्षण एव यो भावः स एकक्षणान्तरेष्वभावः। तस्मादभाव एषां स्वभावः। किं च, यदनित्यं तत् दुःखं दुःखं च प्रहातव्यम्। ततोऽप्यभावस्वभाव एषाम्। तस्मात्परतन्त्रेणापि स्वभावेन बोधिसत्त्वो न प्राप्नोतीति सप्तमस्यार्थः॥



नन्वियमभावस्वभावता कल्पितस्यापि रूपादेः प्राप्नोति। यतः कुलालाद घटः कुविन्दात्पट उत्पद्यमानो दृश्यते। अत आह। कतमत्तदित्यादि। कतमत्तत्कल्पितम्। रूपादि यत् अ[न]भिनिर्धूत्तम्। नैव किञ्चित् सर्वं कल्पितमसंस्कृतमित्यर्थः। अत एव निर्देशवाक्ये सुभूतिना युक्तिरुक्ता-असंस्कृताः सर्वधर्माः संस्कर्तुरभावादिति। कुलालकुविन्दादेरपि कल्पितस्यासत्वादित्यर्थः। तस्मात्कल्पितस्योत्पादनिरोधादिप्रतिषेधोऽष्टमस्यार्थः।



अस्यां तु भगवत्यां ग्राह्यतापि कल्पितस्य प्रतिषिद्धा। बालग्राह्यत्वात् तस्य। अष्टमादूर्ध्वं त्रीणी वाक्यानि परिनिष्पन्नं स्वभावमधिकृत्य एवमित्यादि। एवमिति कल्पितेन स्वभावेन एतेषामिति परत्नत्ररूपाणां या अस्वभावता शून्यता साऽनभिनिर्वृत्तिरिति। स परिनिष्पन्नस्वभाव इत्यर्थः। यद्येवं तदा धर्मताया धर्मादव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत। अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत। अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिरपि शास्व(श्व)ती भवेदित्यत आह। या चेत्यादि। यत्परिनिष्पन्नं रूपं न ते भ्रान्तिस्वभावाः परतन्त्रा धर्मा इत्यर्थः। तदेवं शून्यतायाः परतन्त्रादव्यतिरेकप्रतिषेधो नवमस्यार्थः॥



तत्किमित्यादि। अव्यतिरेके निषिद्धे व्यतिरेकः स्यात्। तत्किमिति तदा कथम्। अनभिनिर्वृत्तिमिति शून्यतामात्रं बोधिसत्त्वम्। अनभिनिर्वृत्त्यामिति शून्यतामात्रं प्रज्ञापारमितायामववदिष्यामि। न कथंचित्। नहि जात शक्योऽववदितुम्। नापि जातोऽर्थः प्रज्ञापारमितेति व्यतिरेकप्रतिषेधो दशमस्यार्थः।



ननु परतन्त्ररूपं भ्रान्तिरेव। निर्वृत्तायां च भ्रान्तौ प्राप्तिस्तदा क आश्रयः शून्यतायाः ? अथ निराश्रया न तर्हि कस्यचित् धर्मता। को वा तस्याः शशविषाणाद्विशेष ? शशविषाणकल्पस्य च बोधिसत्त्वस्य कुतः प्राप्तिरित्याह। न चेत्यादि। सर्वधर्मा इति ज्ञेयाः स्कन्धादयः। बुद्धधर्मा इति प्राप्तव्या दशबलवैशारद्यादयः। बोधिसत्त्वधर्मा इति पूर्वलब्धा गुणाः। यो वा बोधाय चरेदिति बोधिसत्त्वः। सर्व एते प्राप्तिकालेऽनभिन्रिवृतितोऽन्यत्रेति शून्यताव्यतिरेकेण नोपलभ्यन्ते। सुविशुद्धज्ञानाव्यतिरेकिणी सर्वशून्यतैव तदानीं ख्यातीत्यर्थः। इदमप्यनेन सूचितम्। य एष बुद्धबोधिसत्त्वपृथग्जनावस्थानगामित्वाद्धर्मधातुवदेव शास्व(श्व)तप्रकाशस्तस्यासौ धर्मता। यावत्परतन्त्रस्तावत्परतन्त्रधर्मता उच्यते। परतो बुद्धधर्मता। स्वाभाविकश्च कायो बुद्धानामुच्यत इत्यमेकदशस्यार्थः।



द्वादशं व्यक्तम्। स चेदित्यत आरभ्य तत्कस्य हेतोरित्यतः प्राक्। अत्र चित्तं नावलीयत इत्यादिभिः पञ्चभिः पदैः शमथस्य पञ्चाकारा उच्यन्ते। न भग्नपृष्ठी भवतीति। एकपदेन चत्वार आकाराः। शमयति व्युपशमयति एकोतीकरोति चित्तं समादधातीति। एषामभावे समाधये चित्तस्य पश्चाभ्दङ्गप्रसङ्गात्। अतस्तैरेव चतुर्भिः पृष्ठभङ्गप्रतिषेधात् न भग्नपृष्ठीभवति मानसम्। एवं षड्‍भिः पदैर्नवाकारः शमथ उक्तः। भूतप्रत्यवेक्षणालोकः उद्योतः। उद्योतात् त्रासस्तदकरणम्। अकरणे[न] प्रतिषेधकरणात्। ततो नोत्तस्यतीत्येकेन पदेन विपश्यना। न सन्त्रस्यति न सन्त्रासमापद्यत इति पदद्वयेन युगनद्धो मार्गः। तथा हि न संत्रस्यतीति न समाधेस्त्रस्यति तदत्यागादिति शमथाङ्गः। संप्रज्ञानात् त्रासः संत्रासः। तन्नापद्यत इति विपश्यनाङ्गः। चरति प्रज्ञापारमितायामिति उद्देशः। शेषेण निर्देशः। भावयतीति शमथेन। उपपरीक्षत इति विपश्यनया। उपनिध्यायतीत्युपनिरीक्षमाणो निपुणं ध्यायति युगनद्धेन मार्गेणेति। द्वादशस्यार्थः।



अस्योपपत्तये त्रयोदशं चोक्तम्। तत्कस्य हेतोरित्यत आरभ्य प्राक् सर्वाकारज्ञतानिर्याणा(णा)त्। तत्कस्य हेतोरिति प्रश्नः। उत्तरं यस्मिन्हीत्यादि। इमान् धर्मानिति सर्वधर्मान् प्रज्ञापारमितायां संमुखीभूतायाम्। रूपं कल्पितं यावद्विज्ञानं यावद्‍बुद्धधर्मान् नोपैतीति नोपलभते, तदप्रतिभासात्। नोपगच्छति न विकल्पयति निर्विकल्पत्वात् प्रज्ञापारमितायः। इति स्वभावविकल्पौ प्रतिषिद्धौ। विशेषविकल्पौ प्रतिषेद्धुमाहः। न रूपादेरुत्पादनिरोधौ। पूर्व्वमुत्पन्नो रूपादिरिदानीं निरुद्ध इति न पश्यति। कल्पितस्य हि यथालक्षणमसत्वादुत्पादनिरोधौ न स्तः। तस्मादुभौ न पश्यति। ननु परतन्त्रस्यानिवृत्तौ दुष्परिहरः कल्पितस्य प्रतिभासः। तत्कुतस्तन्नोपेति ? अथ षड्‍भिर्वाक्यैः कल्पितेष्वनभिनिवेशाभ्यासात्तदभिनिवेशजन्मनः परतन्त्रस्य तदानीं निर्वृतिरिष्यते। अपूर्वस्यानुत्पदात्पूर्वस्य च स्वरसेन व्ययात्। तौ तर्ह्यनुत्पादव्ययौ तस्य स्वभावौ अभावस्वभावाः सर्वधर्मा इति परतन्त्रं स्वभावमधिकृत्य वचनात्। सर्वमेतच्चेतसि निधाय पृच्छति तत्कस्य हेतोरिति। उत्तरं तथा हित्यादि। यौ हि रूपादेरनुत्पादव्ययौ तौ तस्याभावौ। अभावौ च न भावौ विरोधात्। यत्पुनरुक्तमभावस्वभावाः परतन्त्रा इति। अभावद्वयव्यभिचारस्तत्र स्वभावार्थो न पुनस्तादात्म्यं विरोधात्। एवमभेदं प्रतिषिध्य भेदप्रतिषेधायाह। इत्यनुत्पादव्ययौ च रूपादिश्च अद्वयमेतद् अद्वैधीकारमिति। ननु तदानीं रूपादेरभावादद्वयीभावो न युक्त इत्यत आह। यत्पुनरित्यादि। नट्र परतन्त्रं रूपादि गृह्यते। किं तर्हि ? यदद्वयमुत्पादव्ययविरहात् परिनिष्पन्नमित्यर्थः। परिनिष्पन्नो हि स्वभावो धर्माणां कल्पिताभावलक्षणः। अनुत्पादव्ययावपि धर्माणामभावलक्षणौ। तत एकरसत्वादेषां त्रयाणामद्वयीभाव इति भावः। इति प्राप्तिनिर्याणम्॥



सर्वाकारज्ञातानिर्याणमिदानीं वक्तव्यम्। तत्रादौ चत्वारो धर्मा उपपरीक्षणीयाः। कतमो बोधिसत्त्वः कतमा सर्वाकारज्ञता कतमा प्रज्ञापारमिता कतमा उपपरीक्षणेति। तत्र बोधिरेव सत्त्वस्तेनोच्यते बोधिसत्त्वः। तया बोध्या यत्सर्वधर्माणां सर्वाकारज्ञानं निरभिनिवेशं सा तत्र सर्वाकारज्ञता। आरता आरमिता। ग्रसितस्कभितादिवच्छान्दस इहागमः। विकल्पाद्यः (द्ये)पान्तीति पाः। विकल्पप्रतिपक्षा धर्माः। तेभ्योऽप्यारता विरता या प्रज्ञा सेह प्रज्ञापारमिता। यत्सर्वधर्मान्नित्यसुखात्मशान्तशून्यनिमित्तप्रणिहितविविक्तानां प्रत्येकं तद्विपरीतानां च षोडषानामाराणां प्रतिषेधेन व्युपपरीक्षते। तदत्रोपपरीक्षणं महत्योर्भगवत्योरुक्तम्। तत्रोर्ध्वमधरमुपपरीक्षणं तयोरुक्तम्। तदेवास्यां दर्शयितुमाह। एवं भगवन्नित्यतः प्रभृति अथ खल्वायुष्मान् इत्यतः प्राक्। अर्थः पूर्ववत्। अथ खल्वायुष्मानित्यदि। तेन हीति येनाद्वयस्यैषा गणाना कृता। अद्वयश्च धर्मधातुः। तेन कारणेन बोधिसत्त्वोप्यनुत्पादः। उत्पादविरहाद्धर्मधातुरित्यर्थः। परतन्त्रस्तु स्वभावो नेह गण्यते। तस्य परमार्थत्वात्। परमार्थस्य नेहाधिकारात्। कोत्र दोष इति चेदाह। यदि चेत् इत्यादि। दुष्करस्य कर्मणश्चारिका चरणम्। तां किं कस्माच्चरति ? प्रयोगवीर्येण। आस्टां प्रयोगवीर्यम्। यानि दुःखानि करचरणशिरः शरीरदानानि सत्वानां कृतशः सत्त्वानामर्थाय तानि वा प्रत्यनुभवितुं कस्मादुत्सहेत। संनाहवीर्येणापि तदा दुष्करचारिकां न चरेन्न वाद्यवसेत्। तथा हि कारणपरतन्त्रत्वेनापरमार्थत्वात्। अपरमार्थस्य चानभ्यसनीयत्वात्। विशेषतो दुष्करस्येति चोद्यम्। एवमुक्त इत्यादिना सुभूतेःपरिष्काराः। तत्रानभ्युपगमेन प्रथमो नाहमित्यादिना। यो हि दुष्करचारिकामिच्छति तस्य सा न स्यादित्यनिष्टापादनं दोषः स्यात्। न हीति। कुतो नेच्छसीति चेत्। दुष्करसंज्ञया दुष्करं चरतो विप्रतिसारिणः सम्यक्‍सम्बोधेर्व्यावृत्तिप्रसङ्गात्। नापीत्यादिना द्वितीयः परिहारः। न भवतीति न निष्पद्यत इत्यर्थः। अपि तु इत्यादिना तृतीयः। पुनरपरमित्यादिना चतुर्थः। यथा आत्मेत्यादि। सर्वदुःखानि सर्वसाश्रवाः पञ्चस्कन्धाः। तेभ्यः सर्वेभ्यः परिमोचयितव्याः। सर्वेणेति धातुगतियोन्यादिभेदेन। सर्वेण सर्वमिति सर्व यथा भवति तिसृभिर्दुःखाताभिः। सर्वथेति सर्वव्यवसायैः सर्वमिति निरवशेषं मोचयितव्याः। दुःखस्कन्धादिति दुःखराशेः। चित्तप्रदोषः प्रतिघः। यथा आत्मा न विद्यते सर्वेणेति आत्मसत्त्वजीवपोषपुरुषादिभेदेन। सर्वेण सर्व यथा भवति दृश्यादृश्यभेदात्। सर्वथेति स्कन्धधात्वादिभ्यो भेदेन। अभेदेन च। कथमभेदेन सर्वं यथा भवति ? प्रतिवर्गं समस्तेभ्यो व्यस्तेभ्यश्च यथा आत्मा तथा सर्वधर्मा न विद्यन्ते। सर्वेणेति स्कन्धधात्वादिवर्गभेदेन सर्वेण सर्व यथा भवति। वर्गाणां परिपूर्णावयवत्वात्। पुनःसर्व यथा भवति प्रतिवर्ग ते सर्व इत्यर्थः। सर्वथेति। सर्वेषु प्रभेदेषु आत्मनि परेषु च समस्तव्यस्तेष्वित्यर्थः। तदेवं दुष्कर-चारिकाचरणा भावप्रसङ्ग(ङ्गाः) चत्वार उक्ताः। चतुर्थेन परिहारेणैतदपि सूचितम्। दुष्करचारिकाया अप्यनुत्पाद एव तत्त्वं तदेव तत्त्वं पश्यता सा चरितव्या यतासौ शक्ता च भवेन्महाफला च। अनुत्पादे सर्वदुःखानामप्रतिभासनात् तत्त्वदर्शनाच्च। सर्वाकारसर्वधर्मविकल्पप्रबिषेधाय हेतुः स्थविरो यदप्यायुष्मान् इत्येतदारभ्य सन्निहितादेवमुक्तःशब्दात् प्राक्। अत्र सर्वज्ञतापीति सर्वाकारज्ञतापि बुद्धोपीत्यर्थः। ततः प्राप्तिविकल्पप्रतिषेधार्थमाह। एवमुक्त इत्यत आरभ्य अत्यंतं प्रतिभातीति यावत्। सर्वज्ञतेति सर्वाकारज्ञता अनुप्राप्तैव भवतीत्यादित एव सर्वेषां धर्मधातुमात्रत्वात् धर्मधातोश्च प्रकृत्यैव सर्वथा विशुद्धत्वादिति भावः। एवमुक्त इत्यादिना सुभूतेरुत्तरम्। अनुत्पन्नस्य धर्मस्येति बोधिसत्त्वाख्यस्य धर्मधातोः। प्राप्तिमिति प्राप्तत्वं। नाहमिच्छामि नाप्यभिसमयमिति नापि प्राप्ताभिसमयम्। यदिहीच्छेयं तदानुत्पादमिच्छतो मे प्राप्तिः प्रसज्येत। नैव त्विच्छामीति न युक्तः प्राप्तिप्रसङ्गः। युक्तिमप्याह नापीत्यादिना। सर्व एव धर्मोऽनुत्पाद इत्यस्मिन् पक्षे ह्येषः प्रसङ्गः। तत्र अनुत्पन्नेन बोधिसत्त्वेन अनुत्पन्ना सर्वाकारज्ञता नापि प्राप्यते। अयुक्तत्वादिति भावः। उभयोरणा[ना]दिमत्त्वेन प्राप्त्ययोगात्। आहेति शारिपुत्र आह। किं पुनरित्यादि। यस्तूभयोरनुत्पन्नत्वे प्राप्तिरयुक्ता। तत्किमन्यतरोत्पत्तौ युक्तेत्यर्थः। आहेति सुभूतिरन्यतरोत्पत्तिपक्षं विमोचयितुमाह किं पुनरित्यादि। एवकारो भिन्नक्रमत्वादन्तं नेतव्यः। अनुत्पन्नो धर्मः पश्चादुत्पन्नो वा स्यात् पश्चादनुत्पन्न एव वा। तत्र द्वीतीयविकल्पे कथमन्यतरोत्पतिः ? आद्ये तु विकल्पे धर्मधातोरुत्पत्तिविरोध इति भावः। तस्मादुभयोरनुत्पादात् साधूक्तं नाप्यनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यत इति युक्तः प्राप्तिविकल्पप्रतिषेधः। तस्मात्सर्वधर्माणां परमार्थो धर्मधातुः। स च प्रकृतिप्रभास्वरत्वादनादिनिधनत्वाच्च न प्राप्यते नापि प्राप्नोति, केवलं द्रष्टव्यः। यत्तस्य दर्शनं सैव कल्पितानां सर्वधर्माणामनुपलब्धिः। सैव निरतिशया प्रज्ञापारमिता। तया परिकल्पितधर्माभिनिवेशक्षयात्तदभिनिवेशहेतुकाः सर्वावरणसंग्राहिणः सर्वाभूतपरिकल्पाः परतन्त्राख्याः क्रियन्ते। पूर्वेषां स्वरसनिरोधात्। कारणाभावेन परेषामनुत्पादात्। ततः प्रकृतिप्रभास्वरोपि बोधिसत्त्वाख्यो धर्मधातुरागन्तुकैरावरणमलैर्मलिनीकृतः। तेन तेषां क्षये सति तत्र क्षयलक्षणा विशुद्धिरपूर्वत्वात् प्राप्यते। तद्यथा प्रकृत्या विशुद्धमाकाशमागन्तुकैस्तुहिनरजस्तमोऽभ्रधूमादिभिरावरणैर्मलिनीक्रियते। पश्चात्तदपाये [क्षय ?]लक्षणा विशुद्धिस्तेन प्राप्यते। सर्वविभ्रमनिवृत्तौ च सुविशुद्धसर्वधर्मधर्मताज्ञानलक्षणा सर्वाकारज्ञता यापूर्वत्वाव्दोधिसत्त्वेन लभ्यते। सैव तस्या विशुद्धेरात्मभूतायाः संवेदनाप्राप्त्यभिसमयः संपद्यत इति सिद्धान्तः।



तत्रेदानीमागन्तुकावरणविशुद्धिः स्थविराभ्यां वक्तव्या। तां शारिपुत्र आरभते। आहेति शारिपुत्र आह। किं पुनरित्यादि। उत्पद्यत इत्युत्पादः। पर[त]न्त्रः स्वभावः। किं पुनः पश्चादनुत्पादः ? कारणाभावादनुत्पत्तेरित्येक पक्षः। उताहोऽनुत्पादः ? सर्वाकारज्ञता तेषां धर्मः। पूर्वमनुत्पन्नत्वाद्यः पश्चादुत्पद्यत इति द्वितीयपक्षः। तत्राद्ये पक्षे अनुत्पन्नायाः सर्वाकारज्ञतायाः कुतः प्राप्तिः ? द्वितीयपक्षे सर्वाकारज्ञतायाः कारणं वक्तव्यम्। अभूतपरिकल्पश्च शाश्वतो भवेत् क्षयाभावादिति भावः। सुभूतिराहेति परिहारमाह। उत्पाद उत्पत्तिः धर्मः सर्वाकारज्ञतायाः। अनुत्पादोऽनुत्पत्तिः धर्मोऽभूतपरिकल्पस्येति य एष भेदः। नासौ प्रतिभाति जल्पितुं न रोचते वक्तुम्। सर्वधर्मशून्यतालम्बने चित्तसन्ताने यैव सर्वभ्रान्तीनां निवृत्तिः सैव सर्वाकारज्ञताया उत्पत्तिः। अतोऽस्या न कारणं वक्तव्यम्। नाप्यभूतपरिकल्पः शाश्वतो भवतीति भावः। शारिपुत्र आहेति। जल्पविकल्पप्रतिषेधायाह। अनुत्पादोपीत्यादि। अनुत्पादः प्रमान(णा)सिद्धत्वात्प्रतिभात्येव रोचत एव वक्तुम्। कुतो न प्रतिभातीति काङ्क्षा प्रश्नः। आहेति सुभूतिरुत्तरमाह। अनुत्पाद एवेत्यादि। जल्प इति मानसः शब्दः। प्रतिभातीति जल्पाभिधेयं वस्तु। प्रतिभानमिति सजल्पा बुद्धिः। त्रयमेतदनुत्पाद एव सर्वाकारज्ञतायां धर्मताशरीरेणैव सर्वधर्माणां तस्यां प्रतिभासादिति भावः। एवमेव अत्यन्तं प्रतिभातीत्युपसंहारः। इति सर्वाकारज्ञतानिर्याणम्॥



एवमुक्त इत्यादिना शारिपुत्रः प्रकृतमेव सुभूतेर्वचनं प्रशंसन्मार्गनिर्याणप्रस्तावनां करोति। स्थापयितव्यो निःसंशयं गणयितव्यः। यतो यत एवेति यत्र यत्रैव स्थाने निःसरति उत्तरति न चलति न भ्रश्यति न वि[रो]धयति न व्याकुलयति। एवमुक्त इति। एवं प्रस्तावनायां कृतायां एतद् इति मार्गनिर्याणे। अनिश्रिता अनभिनिविष्टा धर्मा यैस्तथोक्ताः। न व्यतिवर्तन्त इति न भ्रस्य(श्य)न्ति। एवमुक्त इति सर्वधर्मानिश्रिततायामुक्तयाम्। अत्रेति अनन्तरोक्ता सर्वधर्माऽनिश्रिता चासौ परमत्वात्पारमिता च। कतमेति षण्णां पारमितानां मध्ये कतमा। सार्वयानिकी यानत्रयसाधारणी। यश्चैषा प्रज्ञापारमितैव। न तहर्यस्येत्यत आह। सर्वधर्मेत्यादि सुगमम्। इति हीति यत एवं तस्मात्। अवलीनत्वं विषादः कांक्षायितत्वं संशयालुता। दन्धायितत्वमप्रतिपत्तिः। अन्यथात्वं पराङ्मुखीभावः मनसिकारेणेति निर्विकल्पेन मनसा। कथमायुष्मन्नित्यादि विकल्पकं मनसिकारं मत्वा शारिपुत्रस्यायं प्रश्नो मनसिकारेण विहरन्तीति यावत्।



तत ऊर्ध्वं एवमुक्त इत्यादिना सुभूतेः साधुकारपूर्वकं वचनम्। तत्र विस्तरेण चोद्यकरणात् साधुकारः। अपि त्वित्यादिना परिहारः। अर्थ एवेति। अस्मदिष्टमेव। इच्छालक्षणत्वादर्थस्य। भूतपदाभिधानेनेति विकल्पमनसिकारस्य विपर्ययो भूतपदं भूतं वस्तु। तस्याभिधानेन सविस्तरेण। अनिष्टापादनं हि। चोद्यम्। नेष्टाभिधानमित्युपालम्भः। युक्तितश्चेयमिच्छति दर्शयितुं स्वयमेव पृच्छति। तत्कस्येत्यादि। तभ्दू तपदं कुतः ? सत्त्व आत्मा स इह दृष्टान्तः। मनसिकारो विकल्पः। स दार्ष्टान्तिकः। अस्वभावतादिर्वैदितव्येति साधारणं हेतुकं नेतव्यः। तत्र अस्वभावता स्वलक्षणशून्यता। लक्षणमनयोर्ग्राहकत्वम्। अतश्च यथा आत्मनोऽस्वभावता तथा मनसिकारस्यापि। ग्राहकत्वायोगादिति हेतुः। शेषेषु अस्वभावत्वादिति हेतुः। सभ्दावो भावत्वं तद्विरहोऽसद्‍भावता। विविक्तता अभावता अचिन्त्यता तदीयचिन्तायां निर्विषयत्वात्। अनभिसंबोधनता सम्यग्ज्ञानाविषयत। अयथाभूतार्थत्वेन मिथ्यावस्तुत्वेना भिसंबोधनं संयग्ज्ञानमस्येति अयथाभुतार्थाभिसंबोधनता। अनेनेति यथोक्तेन। एवंरूपेणेति भूतार्थप्रत्यवेक्षकेण। विहारेणेति शमथरूपेण। इतिशब्दः परिवर्तपरिसमाप्त्यर्थः॥



सर्वाकारज्ञतायां चर्या चरणम्। चित्तोत्पादादयो दशार्थाः। तद्‍द्योतकः परिवर्तस्तत्परिवर्तः॥



[आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः] सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां प्रथमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project