Digital Sanskrit Buddhist Canon

६. प्रज्ञापारमितासमासः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6. prajñāpāramitāsamāsaḥ

६. प्रज्ञापारमितासमासः



पुण्यानि दानप्रभृतीन्यमूनि

प्रज्ञासनाथान्यधिकं विभान्ति।

हिरण्मयानीव विभूषणानि

प्रत्युप्तरत्नद्युतिभास्वराणि॥ १॥



क्रियासु सामर्थ्यगुणं हि तेषां

प्रज्ञैव विस्तारिणमादधाति।

स्वार्थप्रवृत्तौ विशदक्रमाणां

यथा मनःसंततिरिन्द्रियाणां॥ २॥



क्रियास्वयोग्यानि शरीरयन्त्राण्या-

युर्वियुक्तानि यथा न भान्ति।

तथैव कार्याणि न भान्ति लोके

प्रज्ञावियोगेन जदीकृतानि॥ ३॥



श्रद्धादिकानामपि चेन्द्रियाणां

प्रज्ञाग्रणी बुद्धिरिवेन्द्रियाणाम्।

गुणागुणान् वेत्ति हि तत्सनाथः

क्लेशक्षये नैपुणमेत्यतश्च॥ ४॥



प्रज्ञावियोगात् फललालसानां

नैव स्वतोदानविशुद्धिरस्ति।

त्यागं परार्थं हि वदन्ति दानं

शेषस्तु वृद्ध्यार्थमिव प्रयोगः॥ ५॥



प्रज्ञासमुन्मीलितचक्षुषस्तु

दत्त्वा स्वमांसान्यपि बोधिसत्त्वाः।

नैवोन्नतिं नावनतिं प्रयान्ति

भैषज्यवृक्षा इव निर्विक्लपाः॥ ६॥



एवं स भूमिं प्रथमामुपैति

लोकोत्तरस्यार्थविधिप्रतिष्ठाम्।

अक्रोधनः प्रीतिसमृद्धचेता

दानैर्महद्भिर्जगदर्थचेताः॥ ७॥



प्रायेण यस्यां बलचक्रवर्ती

भवत्यसंहार्यमतिश्च बोधेः।

प्रज्ञागुणादेशितसत्पथोऽथ

कर्मेण भूमिं विमलामुपैति॥ ८॥



यस्यां प्रकृत्यैव विशुद्धशीलश्च-

तुर्महाद्वीपपतिः स भूत्वा।

नरेन्द्रचूडामणिसत्कृताज्ञः

सूर्यार्हतामेति यथा मुनीन्द्रः॥ ९॥



ततः परं कामिषु दैवतेषु

लोकेऽपि च द्वित्रिसहस्रसं‍ख्ये।

ऐश्वर्यमाप्नोति ततः परं च

भूमिं विशोध्य प्रभवां प्रभायाः॥ १०॥



शीलस्य शुद्धिः कुत एव तस्य

यः प्रज्ञया नापहृतान्धकारः।

प्रायेण शीलानि हि तद्वियोगाद्

आमर्षदोषैः कलुषीक्रियन्ते॥ ११॥



नात्मार्थमप्यस्ति तु यस्य शीलं

प्राज्ञस्य तस्यास्ति कथं परार्थम्।

यो दृष्टदोषो भवबन्धनानां

लोकान् समस्तांस्तत उज्जिहीर्षुः॥ १२॥



प्रज्ञाविपक्षैर्हृदि सोपरागे

क्षमागुणः केन धृतिं लभेत।

गुणागुणावेक्षणकातराक्षे

ख्यातो गुणैर्वीरा इव क्षितीशे॥ १३॥



प्रज्ञान्वितानां तु परापकाराः

क्षमागुणाः स्थैर्यकरा भवन्ति।

भद्रात्मकानामिव वारणानां

करमाश्रया नैकविधा विषेषाः॥ १४॥



निष्केवलं वीर्यमपि श्रमाय

प्रज्ञासनाथस्य तु तस्य कार्ये।

अनुत्तरः सिद्धिगुणोऽभ्युदेति

हर्ता तदुत्थस्य परिश्रमस्य॥ १५॥



यस्मात् परं सूक्षमतरं न किं चिद्

यन्नैपुणानां परमः प्रकर्षः।

यत्कामदोषादिभिरावृतानां

मनःपथं नैव कदा चिदेति॥ १६॥



तद् ध्यानमेकान्तसुखाभिरामं

कथं प्रवेक्ष्यन्त्यस्तां मनांसि।

स्थूलानि दोषोपचयैर्महद्भिः

प्रज्ञोत्पथं न्यायमिवाश्रितानी॥ १७॥



प्रज्ञानिरुद्योगमतेर्हि दृष्टिर्ना-

याति शुद्धिं तदृते न शीलम्।

सम्यकस्माधिस् तदृते न लभ्यो

दुःखक्षयस्तद्विरहात्तथैव॥ १८॥



प्राज्ञस्तु दोषाद्भयमीक्षमाणः

सुखानुबद्धं च सुखं गुणेभ्यः।

विहाय दोषाञ्जगदर्थकामो

गुणाभिरामेण पथा प्रयाति॥ १९॥



समुद्यतस्तेन समाधिमेत्य

प्राप्नोति वाक्कायमनोविशुद्धीः।

अतोऽनवद्येन बलेन युक्तः

प्रवर्तते लोकहितोदयेषु॥ २०॥



दानेन चाभीप्सितभूयसैव

प्रियैरदीनैर्वचनामृतैश्च।

नैष्कारणोर्जस्वलया च वृत्त्या

परार्थचर्यासु समं समन्तात्॥ २१॥



सामान्यमर्थेषु च दर्शयित्वा

प्रेम्णा वशीकृत्य मनांसि तेषाम्।

करोति निर्वाणसुखे प्रतिष्ठां

प्रज्ञागुणाव्याहतधर्मचक्रः॥ २२॥



प्रज्ञाद्यरोगैश्च बलैरमीभिर-

ध्यासितं नाभ्युपयातुमीसा।

अजीविकादुर्गतिमृत्युनिन्दा-

शारद्यदोषाश्रयणी भयार्तिः॥ २३॥



भयानि सर्वाणि हि दोषजानि

प्रज्ञा न दोषैः सहवासमेति।

शरद्व्यपोढाभ्रगवाक्षपक्षा

भा भास्करस्येव तमःप्रतानैः॥ २४॥



सहस्ररश्मेरुदयेऽपि यानि

तमांसि रुन्धन्ति जगद्गतानि।

नामैकशेषाणि करोति तानि

प्रज्ञाप्रभायाः प्रसरप्रभावः॥ २५॥



न तत्र भूयः करणीयम् अस्ति

यत्र प्रभा सा बलतामुपैति।

युगान्तकालानलसंहृते हि

लोके न दग्धव्यकथाः प्रथन्ते॥ २६॥



ज्योतींषि सर्वाण्यपि संहितानि

प्रज्ञाप्रभां नालमथोपयातुम्।

अतस्तया नास्ति परातिवृद्धिर्ग-

रीयसी वापरिहाणिजातिः॥ २७॥



संपूर्णतां याति सुखेन शिक्षा

शीलाय चित्तप्रशमाय चैव।

प्रज्ञाभियुक्तस्य यतस्ततोऽस्यां

सर्वाभिसारेण पराक्रमेत॥ २८॥



या स्कन्धधात्वायतनप्रवृत्तौ

सत्याश्रया प्रत्ययिता परीक्षा।

कालत्रयेऽप्येष समासयुक्त्या

प्रज्ञावदातैर्विषयप्रवेशः॥ २९॥



कीर्तिं वितन्वन्ति जिनात्मजानां

प्रज्ञावदाताश्चरितप्रदेशाः।

गुणद्वीषामप्यतिदुष्कुहाणां

रोमाञ्चिता विस्मयपारतन्त्र्यात्॥ ३०॥



प्रज्ञाबलं दीप्ततरप्रभावं

नालं प्रसोढुं सबलोऽपि मारः।

प्रज्ञांशवो विभ्रमयान्ति चक्षुर्न

द्रष्टुम् ईशो हि यतः स एव॥ ३१॥



कन्दर्पनाराचनिपातसाही

प्रज्ञामयं वर्म वितत्य चित्ते।

व्यूढानि रूपप्रभृतीन्यनेकान्येको-

ऽपि निर्भीरभिभूय याति॥ ३२॥



अधीरसात्म्यं भयविक्लवं वा

मूढोचितं शोकपरिग्रहं वा।

स्वल्पात्मचित्तेष्ववगाढमूलं

रोषोपरागं परिजिह्मितं वा॥ ३३॥



दीनेषु कार्पण्यमलीमसत्वं

कृतास्पदं रागिषु चापलं वा।

तेजोविहीनेष्वलसत्वसत्त्वं

समुद्धतेष्वप्रशमात्मकत्वम्॥ ३४॥



तांस्तांश्च लीनानपि दोषलेशान्

पृथग्विधिष्वाश्रयगह्वरेषु।

समुद्भवन्त्येव पराकरोति

प्रज्ञा प्रतिज्ञेव जगद्धितार्था॥ ३५॥



निवेश्य दोषक्षयधीरसौम्यां

भवस्य तस्योपरि दृष्टिलक्ष्मीम्।

स्वयं मुनीन्द्रैरभिषिच्यते यत्

प्रह्लादिना व्याकरणामृतेन॥ ३६॥



ऊर्णाप्रभाभिश्च महामुनीनां

निशीथचन्द्रद्युतिहासिनीभिः।

यदाज्यधाराभिरिवाध्वरग्निर्वि-

भाति मूर्धन्यभिषिच्यमानः॥ ३७॥



अवाप्य यस्मान् मुनियौवराज्यं

समं समन्ताद् विसृतात्मभावः।

लोकस्य दुःखं प्रशमत्ययत्नाद्

रजो महामेघ इव प्रवृष्टः॥ ३८॥



प्रज्ञाप्रभावोपनतः स सर्वः

प्रभाविसारः सुगतात्मजानाम्।

को विस्मयो वात्र सुतप्रियाया

मातुः समीयाद्यदियं विभूतिः॥ ३९॥



दशप्रकारोऽपि यदा मुनीनां

तदाश्रयादेव बलप्रकर्षः।

उदेत्यसाधारणसुन्दरश्च

शेषोऽप्यसंख्यो गुणरत्न‍राशिः॥ ४०॥



शास्त्राणि चक्षुःप्रतिमानि लोके

निधानभूतांश्च कलाविशेषान्।

मन्त्रान् परित्राणकृतो विचित्रान्

धर्मव्यवस्थाश्च पृथग्विशेषाः॥ ४१॥



पर्यायचित्रं च विमोक्षमार्गं

तत्तच्च लोकस्य हितोपपादि।

यद्बोधिसत्त्वाः प्रविदर्शयन्ति

प्रज्ञाप्रभावाभ्युदयः स सर्वः॥ ४२॥



दिव्यप्रतिस्पर्धिभिरिन्द्रियार्थै-

र्नरेन्द्रभावेऽपि हि बोधिसत्त्वाः।

न यद्विरूपां प्रकृतिं व्रजन्ति

प्रज्ञा गुणामात्यसनाथता सा॥ ४३॥



परोपकारैकरसा च मैत्री

रागोपरागप्रतिवर्जिता च।

परस्य दुःखेषु परा दया च

न शोकभारालसतां गता च॥ ४४॥



अनुद्धातत्वं मुदितेऽपि चित्ते

तमोनिरारम्भमुपेक्षितं च।

ते ते गुणा<श्>चाभ्यधिकं विभान्ति

प्रज्ञानिरुद्धप्रतिपक्षमार्गाः॥ ४५॥



को नाम लोकस्य परार्थसाधुर्दुःखै-

कहेतूनि तमांसि हन्यात्।

अव्याहता ज्ञानशयाशयेषु

प्रज्ञा न चेत् स्यादतिसूर्यादीप्तिः॥ ४६॥



तत्प्राप्तये श्रुतम् अशीतिविकल्पचित्रं

संचेयम् आश्रयसहं गुरुमभ्युपेत्य।

द्वात्रिंशता तदधिगम्य विवर्धयेत

सम्यङ्मनः समवधानकृतैर्विशेषैः॥ ४७॥



अल्पश्रुतोऽन्ध इव वेत्ति न भावनाया

मार्गं विचिन्तयति कानि च तद्विहीनः।

तस्माच्छ्रुतं प्रति यतेत तदाश्रया हि

प्रज्ञा समुद्भवति चिन्तनभावनाभ्याम्॥ ४८॥



प्रश्नैरविग्रहमुखैश्च कथाविशेषैर्मी-

मांसयार्थगतिवीक्षणया स्वयं च।

प्रज्ञाविवृद्धिमभितः प्रयतेत नित्यं

ध्यानेन तद्गुणविवृद्धिकरेण चैव॥ ४९॥



प्रज्ञाभ्युपायविधिरेष समासतस्तु

ध्यानं तदर्थनियतः श्रुतिविस्तरश्च।

ताभ्यां समुद्भवति हि प्रभवो गुणानां

प्रज्ञाप्रभासमुदयोऽग्निरिवारणीभ्यां॥ ५०॥



विद्वज्जनाचरितमार्गसमाश्रयाच्च

संमोहहेतुगहनानि विवर्जयेत।

तैरावृतो न हि विभात्युदयस्थितोऽपि

तोयावलम्बिजलदान्तरितः शशीव॥ ५१॥



आलस्यजृम्भितमतित्वम् असत्सहाया

निद्रानिवृत्तिरविनिश्चयशीलता च।

ज्ञाने मुनेरिव कुतूहलितानिवृत्तिर्मिथ्या-

भिमानपरिसंकुचिताश्च पृच्छाः॥ ५२॥



दैन्येन चात्मपरितापसमुद्भवेन

विद्वज्जनाभिगमनादरकातरत्वम्।

मिथ्याविकल्पपटुता वितथा च दृष्टिर्मोहाय

तत्प्रशमनाय तु तद्विपक्षाः॥ ५३॥



स्कन्धेषु सायतनधातुषु सत्ययुक्त्यो<र्>

हेतुद्भवेषु शुचयानविनिर्णये च।

धर्मेषु कौशलमशेषत एव यच्च

प्रज्ञाप्रयोगविषयोऽष्टविकल्प एषः॥ ५४॥



निःसारफेननिचयैरविशेषि रूपं

तिस्रोऽपि बुद्बुदलवा इव वेदनाश्च।

सं‍ज्ञापि कामगुणविप्रसृतान् सतृष्णान्

बालान् मृगानिव विलोभयते मरीचिः॥ ५५॥



संस्कारजातिरपि तुल्यगुणा कदल्या

विज्ञानतोऽपि न च युक्ततरास्ति माया।

यन्निश्रयाद्भ्रमति नैकविकल्पचेष्टं

भूताभिभूतकुणपप्रतिमं शरीरम्॥ ५६॥



नात्मा तदीयमपि चात्र न किं चिद् अस्ति

संघात एष विविधाशूचिसंनिधानः।

बालान् प्रलम्भयत एव च सत्त्वसंज्ञा

स्वच्छन्दचेष्ट इव यन्त्रविधौ सुयुक्ते॥ ५७॥



आत्मा न चक्षुरपि च क्षणभङ्गुरत्वात्

तद्वन् न चक्षुषि न चात्र यथैव चक्षुः।

आध्यात्मिकायतनशेषम् अशेषम् एवम्

आत्मीयवस्तुविषयोऽपि च तद्विवेकी॥ ५८॥



बाह्येषु धातुषु शरीरसमाश्रितानां

नाल्पोऽपि लक्षणविरोधकृतोऽस्ति भेदः।

विज्ञानधातुरपि च क्षणिकः स नात्मा

तस्मात्परोऽपि च नभःकुसुमैः समानः॥ ५९॥



इत्येतदुद्भवति केवलमेव दुःखं

तृष्णाविमूढमनसो विग्मात्तु तस्याः।

शान्तिः परा भवति तर्षहरस्तु मार्गः

शीलं समाधिपरिशुद्धतया च दृष्टिः॥ ६०॥



तत्तत्प्रतीत्य भवतीति विशुद्ध-

दृष्टिर्नास्त्यस्ति वेति समुपैति स नैव किं चित्।

मायामयं जगदिदं प्रतिभाति तस्य

तस्मात् सुखादिषु भवत्यविकारधीरः॥ ६१॥



आसीद्भविष्यति च यत् तद् अपीदृगेव

कः संभवो यदसुखं न भवेद् भवेभ्यः।

एवं व्यतीतविषयेष्वपि वीतरागो

नैवाभिनन्दति भवांश्च भविष्यतोऽपि॥ ६२॥



आकारभेदपरुषे पुरुषोऽपराधी

को नाम गूढनखरस्फुटदृष्टिचिह्ने।

तत्प्रैष्यवृत्तिकपटान्यनुचिन्त्य रज्येद्

विश्वासमेव च यथोचितमत्र यायात्॥ ६३॥



एवं विमुक्तमतिरप्यनुकम्पकस्तु

क्लेशान्तरं जगदनाथमवेक्षमाणः।

हीनेषु निष्प्रणयबुद्धिरुदारभावान्

निर्वातुमिच्छति न बुद्धगुणानलब्ध्वा॥ ६४॥



लोकार्थसाधनविधावसमर्थरूपं

यानद्वयं समवाधूय स पूर्वमेव।

कारुण्यदेशितपथो मुनिराजयानम्

आतस्थिवान् परहितैकरसस्वभावम्॥ ६५॥



हीनोचितेषु न मतिर्नमति प्रणीता

संतिष्ठते महति नामहती कदा चित्।

संस्यन्दते शुचिभिरेव शुचिस्वभावं

तुल्यैस्तथान्यदपि शास्वत एष योगः॥ ६६॥



स्वप्नोपमानि विगणय्य सुखासुखानि

सं‍मोहदोषकृपणां जनतां च तेषु।

आत्मार्थ एव गुरुतां कथम् अस्य यायाद्

व्यापारभारमवधूय परार्थरम्यम्॥ ६७॥



यः सर्वलोकहितकारणसर्वचेष्टस्त्य-

क्त्वात्मदृष्टिविषयं वितथाभिमानम्।

सर्वत्र शान्तमतिरद्वयमार्गचारी

सोऽत्यद्भुतश्चरितनिर्वृत एव लोके॥ ६८॥



प्रज्ञाविशुद्धिकरमुत्तमयानमेतत्

सर्वज्ञता तदुदया हि महामुनीनाम्।

लोकस्य या नयनतामिव संप्रयाति

दीप्तांशुमण्डलतलोत्पतिता प्रभेव॥ ६९॥



संसारदोषभरनिर्मथितोऽपि नैव

प्रज्ञाविवेचनतया परिखीद्यते यः।

नात्माभिखेदपरिविक्लवतां स याति

यानस्य बुद्धगुणसं‍जननस्य लोके॥ ७०॥



पश्यन्ति चाभुतमयं सुगतप्रभावं

रोमाञ्चकञ्चुकितसर्वशरीरदेशाः।

तद्गामिनं परिहरन्ति च यानमार्गं

किं नाम कारणमृते शठचेष्टितेभ्यः॥ ७१॥



को नाम मारकलिनानभिभूतचेताः

संबुद्धधर्मगुणरत्ननिधानभूतम्।

सर्वज्ञयानमपयानम् अनर्थपङ्काद्

आक्रोष्टुमर्हति न चेज्जगतोऽस्य वैरम्॥ ७२॥



लोकार्थसाधनपरे जिनराजवंशे

प्रज्ञानिमीलितनयेषु परिस्खलत्सु।

चित्तं नरस्य करुणामृदु कस्य न स्यात्

तन्मोहदोषशमनाय दृढं च वीर्यम्॥ ७३॥



प्रज्ञाया जनयति यः परां विशुद्धिं

निर्मोक्षः कथमिव तस्य दूरतः स्यात्।

नैवास्मात्परतरमस्ति शीलम् अन्यत्

तत्तस्माद् भजत विमोक्षकाङ्क्षिणो हि॥ ७४॥



॥ प्रज्ञापारमितास[मास]श्चायं पारमितासमासः॥



विशुद्धमौनीन्द्रमनस्तडाग-

प्रसूतसूत्रान्तसरोरुहेभ्यः।

आदाय शुरभ्रमरेण सम्यग्

मधूर्जितं पारमितासमासे॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project