Digital Sanskrit Buddhist Canon

४. वीर्यपारमितासमासः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4. vīryapāramitāsamāsaḥ

४. वीर्यपारमितासमासः



सर्वंसहे क्षान्तिबले च रूढे

सर्वाद्भुतान्यारभते स शौर्यात्।

वीर्येण कार्यान्तमहाबलेन

यस्मात् स देवानपि यात्यतीत्य॥ १॥



सुदृश्यपाराण्यपि लौकिकानि

कार्याणि निर्वीर्यदुरुत्तराणि।

अप्राप्यरूपं तु न किं चिद् अस्ति

खेदानभिज्ञेन पराक्रमेण॥ २॥



आरब्धम् एवोत्सहते न हीन

आरभ्य मध्यस्तु विषादमेति।

परार्थम् अश्रान्तपराक्रमास्ते

निर्वाणमुत्सृज्य समारभन्ते॥ ३॥



प्रायेण दैन्योपहतो जनोऽयं

स्वाधीनवीर्योऽपि गुरुस्वकार्यः।

अहीनवीर्यस्य तु मेरुसारोऽप्यखे-

दसाध्यः परकार्यभारः॥ ४॥



संसारकोट्योरुभयोः समानैः

प्रयामसारैर्दिवसैर्यदि स्युः।

संवत्सरास्तत्प्रचयातिदीर्घैः

कल्पैः समुद्रोदकबिन्दुतुल्यैः॥ ५॥



उत्पादयेयं यदि बोधिचित्तम्

एकैकमेतेन पराक्रमेण।

सं‍भारशेषं चिनुयां तथापि

भूयःसमुत्सारितखेददैन्यः॥ ६॥



एकैकमेवं यदि बोधिचित्तं

प्राप्येत संभारविधिश्च शेषः।

तथापि बोधिं समुदानयेयं

कृपासमुत्साहितधैर्यसारः॥ ७॥



संसारदुःखं स्वमचिन्तयित्वा

संनाहदार्ढ्यं यदचिन्त्यमेवम्।

आद्यं समादानमिदं वदन्ति

वीरव्रतानां करुणात्मकानाम्॥ ८॥



पद्भ्यां अतिक्रम्य कुकूलकल्पां

कृत्स्नां महीमायुधसंवृतां वा।

यद्द्रष्टुम् अप्युत्सहते मुनीन्द्रान्

पातुं शिवं धर्मरसायनं वा॥ ९॥



संसारपङ्काज्जनता मयेयम्

उद्धृत्य निर्वाणसुखे निवेष्या।

उत्क्षेपनिक्षेपविधौ पदानां

यच्चित्तमेवं च समाददाति॥ १०॥



यद् वा हितार्थं क्रमते परस्य

पुण्यानि वा लोकहिताय चित्तम्।

पराक्रमः सोऽक्षयविक्रमाणां

श्रीमत्समादानविधौ द्वितीयः॥ ११॥



पुण्यस्य चोत्पादसमानकालं

संबुद्धभावे परिणामनं यत्।

तदक्षयत्वं समुदागमाय

शुभं समादानम् उदाहरन्ति॥ १२॥



महत्सु वाम्भःसु यथा निषिक्तो

नैवोदबिन्दुः क्षयमभ्युपैति।

संबुद्धभावे परिणामितस्य

तथैव पुण्यस्य न संक्षयोऽस्ति॥ १३॥



तथा हि कारुण्यविशुद्धबुद्धिः

सर्वज्ञभावाय फलन्त्यमूनि।

पुण्यानि लोकस्य चराचरस्येत्येवं

स तान्यारभते सुसत्त्वः॥ १४॥



महात्रिसाहस्रगतं जनौघं

निर्वापयेदेकदिने न कश्चित्।

कल्पं तथा नैव च सत्त्वधातोस्ते-

नापि किं चित् परिपाचितं स्यात्॥ १५॥



श्रुत्वापि सत्त्वाक्षयतां इमां यः

सत्त्वानशेषान् विनिनीषुरेव।

विषाददोषानवलीढवीर्यः

कस्तस्य दूरस्थ इहार्थसारः॥ १६॥



यः पुण्यराशिर्जगतां समग्रस्ता-

वत्प्रमाणैर्दशभिर्जिनस्य।

निवृत्तिमागच्छति रोमकूप

एकैक एकैकसुजातरोमा॥ १७॥



शतेन भूयो गुणितेन तेन

पुण्येन रोमास्पदसंश्रितेन।

भवत्यनुव्यञ्जनमेकमेव

शेषाणि तस्य प्रभवन्ति काये॥ १८॥



तावद्गुणादेव च पुण्यराशेस्त-

स्माद् अनुव्यञ्जनसंप्रविष्टात्।

प्रत्येकशस्तस्य जिनत्वशंसि

निर्वर्तते लक्षणचित्रकर्म॥ १९॥



सल्लक्षणोत्पत्तिनिमित्तभूतात्

सहस्रसंख्यागुणिताच्च पुण्यात्।

निर्वर्तते तस्य मनोज्ञवर्णा

संपूर्णचन्द्रस्फुटकान्तिरूर्णा॥ २०॥



ऊर्णाभिनिर्वृत्तिकर्मं च पुण्यं

शतप्रमाणैर्गुणितं सहस्रैः।

करोति तस्यानवलोकनीयं

छत्तराभमुष्णीषललामशीर्षम्॥ २१॥



अयं मया पुण्यनिधिः परार्थं

संचेय इत्युत्तमबोधिचित्ते।

वीर्योन्मुखे केन मुखेन तस्मिंल्ल-

यप्रवृत्तिर्लभतां प्रवेशम्॥ २२॥



सर्वेऽपि सत्त्वा यदि लोकधातौ

प्रत्येकबुद्धैः सदृशा भवेयुः।

ज्ञानेन तेभ्योऽभ्यधिकप्रभावः

क्षान्तिस्थ एकोऽपि हि बोधिसत्त्वः॥ २३॥



तथैव च क्षान्तिबलस्थितेभ्यो

विशेषं आयात्यविवर्तनीयः।

अश्रान्तवीर्यः कुशलप्रयोगे

यल्लौकिके चैव तदुत्तरे च॥ २४॥



तेभ्यः पुणश्चाधिक एव दूरं

य एकजातिप्रतिबद्धबोधिः।

क एव वादो दृढवीर्यवत्सु

ये बोधिमूले प्रथमं निषण्णाः॥ २५॥



तादृग्विधज्ञानविशुद्धिपूर्णः

स्याद् यद्यशेषेन च लोकधातुः।

यायात् कलां सोऽपि न बोधिमूले

स्थितस्य मारातिकृतान्त्यजातेः॥ २६॥



तादृग्विधज्ञानविशुद्धचित्ताः

स्युर्यद्यशेषेन च सर्वलोकाः।

बलप्रदेशस्य मुनेरतुल्याः

कलाप्रदेशैरपि ते समग्राः॥ २७॥



इत्यद्भुतज्ञानसमुद्रमेकः

कृपात्मको निस्तरितुं प्रयाति।

अव्याहताज्ञः परचित्तचारे

प्रज्ञावभासं च नभो विशालम्॥ २८॥



सर्वेषु सत्त्वेषु च तस्य मात्रा

समानहार्दा करुणाभ्युदेति।

संबुद्धधर्माश्च ततोऽवशेषास्त-

स्याद्भुताः संप्रभवन्त्यशेषाः॥ २९॥



एभिः समादानगुणैरुपेतः

शुद्धश्रवैः पेलवसत्त्वसत्त्वैः।

अष्टाभिरङ्गैरिव तत्त्वमार्गो

वीर्यप्रकर्षादधिकं विभाति॥ ३०॥



वीर्यं त्रिधा यः कुशलप्रयोगस्त-

स्माच्च वाक्कायमनोविशेषाः।

प्रस्थानविष्ठानसमाहितस्य

वीर्यप्रकर्षस्य मनोमयस्य॥ ३१॥



यो बोधिचित्तप्रणयः समश्च

कृपा च नैरात्मगतौ क्षमा च।

चतुर्विकल्पो जनसंग्रहश्च

सर्वेषु धर्मेष्वनवग्रहश्च॥ ३२॥



संसारपङ्के यदखिन्नता च

त्रैधातुकस्यैव च नोपलब्धिः।

सर्वस्वदानं न च तेन मानः

समग्रशिक्षस्य न शिक्षया च॥ ३३॥



परापकारैरविकारि धैर्यं

चित्तस्य चात्यन्तमविक्षतिर्या।

आरम्भदार्ढयं कुशलक्रियासु

प्रीतिर्विवेकैकरसा च चित्ते॥ ३४॥



चतुर्विधध्यानसमापनं च

चित्तस्य निध्यप्तिरनात्मतश्च।

अतृप्तता च श्रुतविस्तरेण

न्यायप्रवेशस्तदवेक्षणाच्च॥ ३५॥



या देशना चैव यथाश्रुतानां

ज्ञानं च धर्मानभिलाप्यतायाम्।

पञ्चस्वभिज्ञासु च यत्प्रभुत्वम्

अभ्यासमात्रा च तदुत्तरायाम्॥ ३६॥



यदृद्धिपादेष्वभिनिर्हृतत्वं

पट्वी न चायासमयी क्रिया च।

सम्यक्प्रहाणेषु च यः प्रयोगः

शुभाशुभादेव च या विमुक्तिः॥ ३७॥



यत्कौशलं चेन्द्रियनिर्णयेषु

निरिन्द्रियान् पश्यति यच्च धर्मान्।

मार्गस्य संभारविमार्गणं च

न चास्य किं चिद् गमनं कुतश्चित्॥ ३८॥



इत्येवमाद्यं पृथुचित्रवीर्यं

प्रस्थानविष्ठानविशेषचित्रम्।

अस्याक्षयत्वप्रतिपूरणार्थं

प्रस्थानकर्मैव विशेषहेतुः॥ ३९॥



निमित्तकर्मस्वपि न प्रवर्तते

वितिष्ठते ज्ञानमये च कर्मणि।

कृपागुणाद्यन् न जहाति संस्कृतं

न चोरुवीर्योऽपि पतत्यसंस्कृते॥ ४०॥



अपूर्वधर्मश्रुतिरल्परोगता

दुरासदेत्वं श्रुतधर्मधारणम्।

अमानुषेभ्योऽपि परिग्रहोदयः

समाधिगोत्रप्रतिलम्भ एव च॥ ४१॥



व्रजन्त्यवन्ध्या यदहर्निशं क्रिया

गुणैर्न हानिं यदुत्पैति मौशलीम्।

विवृद्ध एवोत्पलवच्च यद्गुणैर्म-

नुष्यधर्मादधिकप्रयोजनैः॥ ४२॥



यशो विशालम् च सुखं सुखोदयं

विनीतकार्पण्यमनस्त्वमुत्तमम्।

गुणाश्च तेषामिह दृष्टधार्मिका

भवन्ति वीर्यादिति कोऽत्र विस्मयः॥ ४३॥



त्रैलोक्यपूज्यममितोरुगुणं

संबुद्धभावमपि यान्ति यदा।

वीर्यव्यापाश्रयदृढाः पुरुषा

न स्याद् अतः क इव वीर्यपरः॥ ४४॥



॥ वीर्यपारमितासमासः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project