Digital Sanskrit Buddhist Canon

३. क्षान्तिपारमितासमासः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3. kṣāntipāramitāsamāsaḥ

३. क्षान्तिपारमितासमासः



सं‍मोहनीं मन्मथपक्षमायां

प्राहुः सुखां चैव विमोक्षमायाम्।

तस्यां न कुर्यात् कैव क्षमायां

प्रयत्नमेकान्तहितक्षमायाम्॥ १॥



परापराधेषु सदानभिज्ञा

व्यवस्थितिः सत्त्ववतां मनोज्ञा।

गुणाभिनिर्वर्तितचारुसंज्ञा

क्षमेति लोकार्थचरी कृपाज्ञा॥ २॥



परार्थमभ्युद्यतमानसानां

दीक्षां तितिक्षां प्रथमां वदन्ति।

सेतुर्जलानीव हि रोषदोषः

श्रेयांसि लोकस्य समावृणोति॥३॥



अलंक्रिया शक्तिसमन्वितानां

तपोधनानां बलसंपदग्रा।

व्यापाददावानलवारिधारा

प्रेत्येह च क्षान्तिरनर्थशान्तिः॥ ४॥



क्षमामये वर्मणि सज्जनानां

विकुण्ठिता दुर्जनवाक्यबाणाः।

प्रायः प्रशंसाकुसुमत्वमेत्य

तत्कीर्तिमालावयवा भवन्ति॥ ५॥



प्रतिक्रिया दुर्जनवाग्विषाणां

प्रह्लादनी ज्ञाननिशाकराभा।

धीरप्रकारा प्रकृतिर्यतीनां

क्षान्तिर्गुणानाम् अधिवासभूमिः॥ ६॥



सत्त्वस्य गाम्भीर्यमयस्य सारो

घनागमः क्रोधनिदाघशान्त्यै।

व्यतीतवेलस्य गुणार्णवस्य

व्यापी स्वनः क्षान्तिमयोऽभ्युदेति॥७॥



आ ब्रह्मलोकादधिरोहाणार्था

सोपानपङ्क्तिर्गतखेददोषा।

कर्मान्तशाला गुणशीभरस्य

रूपस्य सल्लक्षणभूषणस्य॥ ८॥



उन्मूलनी वैरफलाचितानां

क्षमासरिद्दोषमहाद्रुमाणाम्।

संबोधिचित्तस्य विवर्धितस्य

गुणाम्बुरशेः सततानुकूला॥ ९॥



शुभा परत्रापि हिते समृद्धिर्जग-

द्धितार्थस्य परा विवृद्धिः।

शुभस्वभावातिशयप्रसिद्धिः

क्षान्तिर्मनःकायवचोविशुद्धिः॥ १०॥



संसारदोषैर्न च च्छेदमेति

सत्त्वान् कृपास्निग्धमवेक्षमाणः।

सत्कर्मभिर्लोकहितैः समन्ताद्

यशोमयत्वं व्रजतीव लोके॥ ११॥



न स्पृश्यते विस्मयवाच्यदोषैर्ज्ञा-

नावदानेन तितिक्षुरेव।

अनित्यताक्षान्तिबलोदयाच्च

प्रहर्षमायाति सुखेऽपि नैव॥ १२॥



संकोचमायाति न चायशोभिर्वि-

सारिणा क्षान्तिबलश्रयेण।

अतश्च शेषैरपि लोकधर्मैरनि-

श्रितत्वान्न स चापलीति॥ १३॥



तीव्रप्रकारैरपि विप्रकारैर्न

विक्रियां यान्ति सतां मनांसि।

दृढाभिलाषाणि मुनीन्द्रभावे

क्षान्त्या बलाधानसुसंस्कृतानि॥ १४॥



स क्षान्तिधीरेण च मानसेन

कष्टानि सं‍दर्शयते तपांसि।

दर्पोन्नतिं तीर्थकृतां मनःसु

नीचैः करिष्यन् हितकाम्ययैव॥ १५॥



लोकोऽयमात्माभिनिवेशसमूढः

शेषान् परानित्यभिमन्यमानः।

तद्विप्रकारैरभिभूतचेता<ः>

क्षमावियोगात् परिखेदमेति॥ १६॥



कृपासनाथानि सतां मनांसि

क्षान्त्या कृतस्वस्त्ययनक्रियाणि।

नष्टात्मदृष्टिणि परापकारान्

न विक्रियां यान्ति गुणानुरागात्॥ १७॥



मिथ्याविकल्पो हृदयज्वरस्य

क्रोधस्य हेतुर्धृतिदुर्बलानाम्।

सम्यग्विकल्पस्तु समादधाति

क्षान्तिप्रकारां मनसः प्रशान्तिम्॥ १८॥



विकल्पसन्निश्रयसंश्रितायां

क्षान्त्यां न तु स्याच्चलितावकाशः।

प्रत्यूषवातस्फुरितेऽम्भसीव

सं‍पूर्णचन्द्रप्रतिबिम्बलक्षयाः॥ १९॥



विकल्पशान्तिं परमार्थतस्तु

क्षान्तिं क्षमातत्त्वविदो वदन्ति।

तस्माद्विकल्पोपशमे यतेत

स्वप्नोपमं लोकमवेक्षमाणः॥ २०॥



चक्षुः किम् आक्रोशति चक्षुरे-

तच्छ्रोत्रादि वाक्रोशति किं तदादि।

यैवं क्षमा सायतनान्ववेक्षा

न क्षान्तिरेषा परमार्थतस्तु॥ २१॥



वक्ता वचश्चैतदनित्यमेव

श्रुतिर्विकल्पोऽपि च यो ममायम्।

अनित्यभावप्रविकल्पनैषा

न क्षान्तिमेताम् परमां वदन्ति॥ २२॥



कर्तापकारस्य न कश्चिदस्ति

नैवास्ति कश्चित्क्रियाते च यस्य।

नैरात्मसंदर्शनसिद्धिरेषा

न क्षान्तिरेषापि गतप्रकर्षा॥ २३॥



तत्तत्प्रतीत्य प्रभवन्ति भावा

निन्दाप्रशंसासुखदुःखसंज्ञाः।

प्रतीत्यसिद्धेरवतारभूमिर्न

क्षान्तिरत्यन्तसमाहितैषा॥ २४॥



यद्येसा संमोहमहाग्रहेण

पर्यस्तचेता ननु नाहमेवम्।

इत्युन्नते चावनते च चित्ते

क्षान्तिप्रकर्षस्य कुतोऽवकाशः॥ २५॥



प्रध्वंसिनी वर्णलवप्रतिश्रु-

द्यन्त्रादिवैकैकश उच्चरन्ती।

कुर्यां कथं कस्य च कां च पीडाम्

एषापि न क्षान्तिरतिप्रकृष्टा॥ २६॥



यद्येसा मत्पापपरिक्षयार्थं

न वीक्षते स्वामपि धर्मपीडाम्।

अस्मान् न कल्याणतरं हि मित्रम्

असावपि क्षान्त्युपचारा एव॥ २७॥



कर्मस्वतां एव हि वीक्षमाणस्ति-

तिक्षते तद्गुणदर्शनाच्च।

नैवं‍प्रकारापि हि नैष्ठिकत्वं

क्षान्तिर्विकल्पोपहता प्रयाति॥ २८॥



अनित्यदुःखाशुचिनिःस्वभावता

मम क्षमन्ते न तु तद्विपर्ययाः।

इयं विपक्षप्रशमक्षमा क्षमा

द्वयप्रवृत्तेर्न तु पारमार्थिकी॥ २९॥



अयत्नतत्त्वार्थविचक्षणो जनः

परोपकारेषु यतः प्रवर्तते।

क्षमा न चैवं समतां समेति या

यतः क्षमैवं न विकल्पनक्षया॥ ३०॥



निरोधम् आयान्ति यदा त्वशेषताः

समाधिकन्यूनविकल्पनक्रमाः।

अनुत्तरां क्षान्तिममानगोचरां

वदन्ति तामद्वायमार्गचारिणाः॥ ३१॥



स्वतः परस्मादुभयादहेतुतो

यथा न भावाः प्रभवन्ति के चन।

स्वतः परस्माद् उभयाद् अहेतुतस्तथा

न भावा विभवन्ति के चन॥ ३२॥



नष्टाद् अनष्टाद् उभयाच् न नोभयान्

न जातु कार्यं खलु विद्यते क्व चित्।

तथापि कार्यं समुदेति वस्तुनो

येत्थं क्षमा सा द्वयवर्जिता क्षमा॥ ३३॥



सतोऽसतो वास्ति न जन्म जन्मना

विना निरोधोऽपि न कस्य चित् क्व चित्।

स्वभावशून्यामिति भावकल्पनां

विपश्यतः क्षान्तिरुदेति नैष्ठिकी॥ ३४॥



अवाप्य यां व्याक्रियते सहस्रशो

जिनैरसौ नाम जिनो भविष्यति।

प्रवर्तते लोकहितक्रियाविधिः

समाहितस्यैव च तस्य सर्वदा॥ ३५॥



यावच्च भावाभिनिविष्टबुद्धिरत्र

द्वयं तावदुपैति मोहात्।

तथानिमित्तं च विमोक्षहेतुर्दुरे

भवत्यस्य यथा क्षितेः खम्॥ ३६॥



उपैति धर्मप्रणिधानकर्मसु

प्रभुत्वमृद्धावधिमुक्तिजन्मसु।

तथा परिष्कारविधौ स्वचेतसि

प्रकर्षिणि ज्ञानबले तथायुषि॥ ३७॥



अवाप्य चैतद्वशितामयं धनं

प्रकृष्टं अक्षिष्णु परार्थसाधनम्।

जनस्य कृच्छ्रेषु पतिष्यतः सतः

स जायते धारणकारणं विभुः॥ ३८॥



तस्मात् परार्थमहतीं धुरमुद्वहद्भिः

क्षान्तेरुपायविधिरेष सदानुगम्यः।

अत्र स्थितस्य हि भवन्ति परार्थचित्ताः

सर्वा<ः> क्रिया गुणफलाभरणाभिरामाः॥ ३९॥



अस्यां हि भक्तिरपि या प्रविरूढमूला

तामभ्यसन्ति मुनयो मुनिराजभावे।

श्रद्धानुविद्धमनसां न हि धर्ममार्गे

दृष्टो मनोरथरथस्य यतोऽक्षभङ्गः॥ ४०॥



॥ क्षान्तिपारमितासमासः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project