Digital Sanskrit Buddhist Canon

धर्मकायाधिकारः अष्टमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dharmakāyādhikāraḥ aṣṭamaḥ

धर्मकायाधिकारः अष्टमः



१- स्वभावकायः



विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोधः। स च स्वाभाविककायादिभेदेन चतुर्विधः। (तत्र) प्रथमः स्वाभाविककाय इत्याह-



सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः।

स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः॥१॥



स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वाद् अनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिः स्वभावोऽनुत्पादरूपः, अयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते, न क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः कायः।



परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय-



विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम्।



इतिन्यायात् तदव्यतिरेकेऽपि पृथग् व्यवस्थाप्यते।



२-ज्ञानधर्मकायः



इत्थं प्रथमं कायं निर्दिश्य द्वितीयो निष्प्रपञ्चज्ञानात्मको धर्मकायः अनास्रवः स्मृत्युपस्थानाद्यात्मक इति तमाह-



बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः।

नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम्॥२॥



अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः।

अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः॥३॥



सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश।

बलानि दश चत्वारि वैशारद्यान्यरक्षणम्॥४॥



त्रिविधं स्मुत्युपस्थानं त्रिधाऽसंमोषधर्मता।

वासनायाः समुद्धातो महतो करुणा जने॥५॥



आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः।

सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते॥६॥



इति। स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता बोधिपक्षाः। पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः। अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौः, शुभं विमोक्षं कायेन साक्षात्कृत्वोपम्पद्य विहरतीत्येकः, आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वारः, संज्ञावेदितनिरोध इत्येकः इत्यष्टौ विमोक्षाः। रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नव समापत्तयः। पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम्। अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तान्यभिभूय जानीत इति चतुष्टयम्, अध्यात्मारूपसंज्ञी एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम्। परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात् समाधिरित्यरणा। सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्या आसंसारमसमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानम्, षडभिज्ञाश्चतस्रश्च प्रतिसविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः। आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानर्द्धिज्ञानधर्मवशिता इति दश वशिताः। पूर्वोक्तानि दश बलानि, चत्वारि वैशारद्यानि च। परिशुद्धकायवाङ्मनःसमुदाचारस्तथागतः, नास्त्यस्य विपरीतसमुदाचारता, यां परपरिज्ञानभयात् प्रच्छादयितव्यां मन्येत इत्यरक्षणं त्रिविधम्। धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपक्षेकः स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा। सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता। क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद् वासनायाः समुद्धातः सकलजनहिताशयता, महती करुणा जनेऽष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता। 'च' इति शब्देन संगृहीताः मार्गज्ञतादयोऽपि प्रागुक्ताः।



सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायोऽभिधीयत इति केचित्।



अन्ये तु-



सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः।

स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः॥



इति यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां यां प्रकृतिरनुत्पादता तल्लक्षणः स्वाभाविकः कायः, स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद् व्यपदिश्यत इति व्याख्याय, के पुनस्तेऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशङ्क्य 'बोधिपक्षाप्रमाणानी' त्यादिकारिकामवतारयन्ति। तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽवश्यमद्वयाश्चित्तचैताः कथमभ्युपगन्तव्याः ? सङ्गृहीता इत्यपरे।



केचित् (कायचतुष्टयव्याख्याने) -



स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा।

धर्मकायः सकारित्रश्चतुर्धा समुदीरितः॥



इतिकारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात् कायत्रयमेवेति। अन्ये तूपदर्शितप्रयोजनसामर्थ्यात् कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थं चैवमुक्तम्, अतोऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति।



श्रावकाद्यरणासमाधेः बुद्धस्यारणासमाधेः वैशिष्ट्यदर्शनाय अन्तरश्लोकेनाह-



श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता।

तत्क्लेशस्रोत‍उच्छित्त्यै ग्रामादिषु जिनारणा॥७॥



इति। माऽस्मद्दर्शनात् कस्यचित् क्लेशोत्पत्तिः स्यादिति मनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः। तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिषु अरणासमाधिविशेषः।



श्रावकादिप्रणिधिज्ञानात् तथागतप्रणिधिज्ञानस्य वैशिष्ट्यप्रदर्शनाय अन्तरश्लोकेनाह-



अनाभोगमनासङ्गमव्याघातं सदा स्थितम्।

सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते॥८॥



इति। निर्निमित्तत्वेन स्वरसप्रवृत्तम्, वस्त्वनभिनिवेशाद् रूपादिसङ्गविगतम्, सवासनक्लेशज्ञेयावरणप्रहाणात् सर्वज्ञेयाव्याघातम्, आसंसारमवस्थानात् सदा स्थितम्, सम्यक् प्रतिसंविल्लाभात् प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमितीष्टम्। श्रावकादीनां विपरीतत्वेन नैवम्।



स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं (सकलप्राणभृतां) सदा नाथेक्रियेति ? अन्तरश्लोकेन समाधानमाह-



परिपाकं गते हेतौ यस्य यस्य यदा यदा।

हितं भवति कर्तव्यं प्रथते तस्य तस्य सः॥९॥



इति। कल्याणमित्रादिसमवधानाद् बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति (महाकरुणास्वभावधर्मकायावस्थानेन) सर्वदा चिन्तामणिरिवोपस्थितोऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासत इत्यभिप्रायः।



तत्कथमिति शंकायामन्तरश्लोकेन दृष्टान्तमाह-



वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति।

समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते॥१०॥



इति। यथा देवराजे वर्षत्यपि सति पूतीभावादिना अबीजीभूतं बीजं तिलादि न प्रादुर्भवति, तद्वद् बुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादेऽपि अभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीति।



कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापो नित्य इति कथ्यत इति चेद् ? अन्तरश्लोकेनाह-



इति कारित्रवैपुल्याद् बुद्धो व्यापी निरूच्यते।

अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते॥११॥



इति। यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात् प्रबन्धतया आसंसारमवस्थानेन च भगवतः क्षयाभावाद् यथाक्रमं बुद्धो व्यापी नित्य इत्यभिधीयते।



३-सम्भोगकायः



कायद्वयमेवं निर्दिश्य लक्षणानुव्यञ्जनविराजितः साम्भोगिकः रूपकायस्वभावस्तृतीयः। तमाह-

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम्।

सांभोगिको मतः कायो महायानोपभोगतः॥१२॥



इति। द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनात्मकोऽयं दशभूमिप्रविष्टमहाबोधिसत्त्वैः परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात् बुद्धस्य भगवतः साम्भोगिककायः।



कानि तानि द्वात्रिंशल्लक्षणानीति चेत् ? पञ्चभिरन्तरश्लोकैराह-



चक्राङ्कहस्तः क्रमकूर्मपादो

जालावनद्धाङ्गुलिपाणिपादः।

करौ सपादौ तरुणौ मृदू च

समुत्सदैः सप्तभिराश्रयोऽस्य॥१३॥



दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं

प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा।

एणेयजङ्घश्च पटूरुबाहुः

कोशावनद्धोत्तमबस्तिगुह्यः॥१४॥



सुवर्णवर्णः प्रतनुच्छविश्च

प्रदक्षिणैकैकसुजातरोमा।

ऊर्णाङ्कितास्यो हरिपूर्वकायः

स्कन्धौ वृतावस्य चितान्तरांसः॥१५॥



हीनो रसः ख्याति रसोत्तमोऽस्य

न्यग्रोधवन्मण्डलतुल्यमूर्तिः।

उष्णीषमूर्धा पृथुचारुजिह्वो

ब्रह्मस्वरः सिंहहनुःसुशुक्लाः॥१६॥



तुल्याः प्रमाणेऽविरलाश्च दन्ता

अन्यूनसंख्या दशिकाश्चतस्रः।

नीलेक्षणो गोवृषपक्ष्मनेत्रो

द्वात्रिंशदेतानि हि लक्षणानि॥१७॥



इति। (१) गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता। (२) दृढसंवरसमादानत्वात् कूर्मवत् सुप्रतिष्ठितपादता। (३) चतुःसंग्रहवस्तुसेवनाद् राजहंसवत् जालावनद्धाङ्गुलिपाणिपादता। (४) प्रणीतखाद्यभोज्यादिदानाद् मृदुतरुणहस्तपादता। (५) प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात् सप्तोच्छ्रयता। (६) वध्यमोक्षणत्वाद् दीर्घाङ्गुलिता। (७) जीवितानुग्रहणाद् आयतपार्ष्णिता। (८) प्राणातिपातविरत्या बृहदृजुगात्रता। (९) कुशलधर्मसमादानाद् उच्छङ्खपादता। (१) गृहीतकुशलसमादानवर्धनात् ऊर्ध्वगरोमता।

(११) सत्कृत्य विद्याशिल्पादिदानाद् एणेयजङ्घता। (१२) संविद्यमानार्थयाचनकजनाप्रत्याख्यानात् पटूरूबाहुता। (१३) सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात् कोशगतबस्तिगुह्यता। (१४)प्रणीतोपास्तरणदानात् सुवर्णवर्णता। (१५) प्रासादादिवरदानात् श्लक्ष्णच्छविता। (१६) सङ्गणिकादिपरिवर्जनात् प्रदक्षिणावर्तैकैकरोमता। (१७) सर्वगुरुजनयथास्थाननिवेशनाद् ऊर्णाङ्कितमुखता। (१८) सर्वथा मुखरवचनानवसादनात् सिंहपूर्वार्द्धकायता। (१९) प्रियवादित्वसुभाषितानुलोमत्वात् सुसंवृतस्कन्धता। (२०) भैषज्यादिदानात् चितान्तरांसता। (२१) ग्लानजनोपस्थानाद् रसरसाग्रता। (२२) वनारामादिकरणसमादापनात् न्यग्रोधपरिमण्डलता। (२३)विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता। (२४)श्लक्ष्णादिवचनात् प्रभूतजिह्वता। (२५) सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद् ब्रह्मस्वरता।(२६) सम्भिन्नप्रलापविरत्या सिंहहनुता। (२७) सर्वजनसम्मानादिना शुक्लदन्तता। (२८) विशुद्धाजीवत्वात् समदन्तता। (२९) सत्यवचनसमुदाचाराद् अविरलदन्तता। (३०) पिशुनवचनानभ्यासात् समचत्वारिंशद्दन्तता। (३१) सर्वसत्त्वैकपुत्रदर्शनाद् अभिनीलनेत्रता। (३२) प्रतिघातादिविवेकदर्शनाद् गोपक्ष्मनेत्रता।



सिद्धकरणात् लक्षणं सिद्धं भवतीत्यन्तरश्लोकेनाह -



यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः।

तस्य तस्य प्रयूर्यायं समुदागमलक्षणः॥१८॥



इति। येषां लक्षणानां ये प्रसाधकाः, तान् प्रपूर्य तानि द्वात्रिंशल्लक्षणानि प्रादुर्भवन्ति।



कानि तेषां कारणानीति चेत् ? द्वाभ्यामन्तरश्लोकाभ्यामाह -

गुरूणामनुयानादिर्दृढता संवरं प्रति।

सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुनः॥१९॥



वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च।

इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः॥२०॥



इति। इमे द्वे कारिके उपर्येव लक्षणव्याख्यानावसरे स्फुटिते, अतो न पुनः विस्तीर्येत इति।



लक्षणान्येवं व्याख्याय द्वादशभिः अन्तरश्लोकैः अशीत्यनुव्यञ्जनान्याह -



ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अंगुलयो मुनेः।

वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः॥२१॥



गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः।

विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता॥२॥



मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता।

पूर्वव्यञ्जनता चारूपृथुमण्डलगात्रता॥२३॥



समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता।

अदीनोत्सदगात्रत्वे सुसंहतनगात्रता॥२४॥



सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता।

वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता॥२५॥



दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता।

समाचारः शुचिः कालतिलकापगता तनुः॥२६॥



करौ तूलमृदू स्निग्धगम्भीरायतलेखता।

नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता॥२७॥



मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता।

चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः॥२८॥



अनुपूर्वीं गतास्तुङ्गा नासिका परमं शुचिः।

विशाले नयने पक्ष्मचितं पद्मदलाक्षिता॥२९॥



आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ।

पीनायतौ समौ कर्णावुपघातविवर्जितौ॥३०॥



ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता।

भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः॥३१॥



केशा अपरुषाः पुंसां सौरभ्यादपहारिणः।

श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम्॥३२॥



इति। (१) सर्वसंस्कारवीतरागत्वेन ताम्रनखता। (२) सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता। (३) श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता। (४) वृत्तानवद्यत्वेन वृत्ताङ्गुलिता। (५) समुपचितकुशलमूलत्वेन चिताङ्गुलिता। (६) सम्यगनूपूर्वप्रवृतत्वेन अनुपूर्वाङ्गुलिता। (७) सुनिगूढकायादिकर्मान्ताजीवत्वेन गूढशिरता। (८)क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता। (९) सुनिगूढधर्ममतित्वेन गूढगुल्फता। (१०) सर्वदुर्गस्थानजनोत्तारकत्वेन अविषमपादता। (११) नराभिभवनकुशलतया सिंहविक्रान्तगामिता। (१२)नागाभिभवनकुशलतया नागविक्रान्तगामिता। (१३) वैहायसङ्गमकुशलतया हंसविक्रान्तगामिता। (१४)पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता। (१५) प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता। (१६)प्रासादिककुशलतया चारुगामिता। (१७) नित्यमवक्रचित्ततया अवक्रगामिता। (१८) विशुद्धगुणाख्यापकतया वृत्तगात्रता। (१९)प्रमृष्टपापधर्मतया मृष्टगात्रता। (२०) विनेयानुरूपधर्मदेशकतया अनुपूर्वगात्रता। (२१) कायादिशुचिसमुदाचारत्वात् शुचिगात्रता। (२२) करुणाचित्तत्वात् मृदुगात्रता। (२३)विशुद्धचित्तत्वात् विशुद्धगात्रता। (२४)परिपूर्णधर्मविनयत्वात् परिपूर्णव्यञ्जनता। (२५) पृथुचारुगुणाख्यानात् पृथुचारुमण्डलगात्रता। (२६) सर्वत्र समचित्तत्वात् समक्रमता। (२७) सुविशुद्धधर्मदेशनाद् विशुद्धनेत्रता। (२८) सुगमधर्मदेशनात् सुकुमारगात्रता। (२९) नित्यमदीनचित्तत्वाद् अदीनगात्रता। (३०) समुद्गतकुशलत्वाद् उत्सदगात्रता। (३१) क्षीणपुनर्भवत्वेन सुसंहतगात्रता।



(३२) सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता। (३३)सुविशुद्धपदार्थदर्शनाद् वितिमिरशुद्धालोकता। (३४) वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता। (३५) प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता। (३६) भग्नमानशृङ्गत्वेन अभग्नकुक्षिता। (३७) धर्मक्षयविनिवर्तकत्वेन अक्षामकुक्षिता। (३८) प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता। (३९) प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता। (४०) समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता। (४१) शुचिचित्तत्वेन शुचिसमुदाचारता। (४२) व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालकगात्रता। (४३) कायादिलाघवप्रापकधर्मदेशकत्वेन तूलसदृशसुकुमारपाणिता। (४४) प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता। (४५) गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता। (४६) सम्यगायतिपरिशुद्धधर्मदेशकत्वेन आयतपाणिलेखता। (४७) प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता। (४८) प्रतिबिम्बवत् विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बोपमौष्ठता। (४९) मृदुवचनविनयत्वेनमृदुजिह्वता। (५०) प्रभूतगुणोपपन्नत्वेन तनुजिह्वता। (५१) रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता। (५२) सर्वत्रासापगतत्वेन मेघगर्जितघोषता। (५३) मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता। (५४) निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता। (५५)दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता। (५६) परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता। (५७) समभूतिप्रतिष्ठितत्वेन समदंष्ट्रता। (५८) सम्यगनुपूर्वाभिसमयप्रकाशकत्वेन अनुपूर्वदंष्ट्रता। (५९) प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता। (६०)शुचिजनसम्पन्नत्वेन शुचिनासता। (६१) परमोदारधर्मत्वेनविशालनयनता। (६२) समुपचितसत्त्वराशित्वेन चित्तपक्ष्मता। (६३) सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता। (६४) नित्यमायतिदर्शित्वेन आयतभ्रूकता। (६५)श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रकता। (६६) कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रकता। (६७) समन्तदोषदर्शित्वेन समरोमभ्रूकता।





(६८)परमपीडानिवर्तकत्वेन पीनायतभुजता। (६९) विजितरागादिसमरत्वेन समकर्णता। (७०) सर्वसत्त्वानुपहतसन्तानस्वेन अनुपहतकर्णेन्द्रियता। (७१) सर्वदृष्टिकृतान्यथाविपरिणामत्वेन अपरिम्लानललाटता। (७२)सर्ववादिप्रमथनत्वेन पृथुललाटता। (७३) परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता। (७४) विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता। (७५) प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता। (७६) श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता। (७७) रागाद्यसंलुठितचेतनत्वेन असंलुठितकेशता। (७८) नित्यमपरुषवचनत्वेन अपरुषकेशता। (७९) बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता। (८०) सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति।



४- नैर्माणिककायः



इत्थं कायत्रयं निर्दिश्यं चतुर्थः नैर्माणिककायः सर्वबालजनसाधारण इति। तमाह-



करोति येन चित्राणि हितानि जगतः समम्।

आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुने॥३३॥



इति। येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थोऽवसातव्यः।



बुद्धकारित्राणि



इत्येवं स्वाभाविककायस्वरूपभावनाप्रभावितबुद्धादिविषयत्वे ज्ञानाद्यपेक्ष्य परिकल्पितकायत्रयं निर्दिश्यं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति कर्म विनेयजनप्रतिभासभाक् तदाधिपत्याश्रयेणायातं धर्मकाय एवेति।



तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते।

गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे॥३४॥



निवेशनं ससंक्लेशे व्यवदानावबोधने।

सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च॥ ३५॥



बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये।

संकेतेऽनुपलम्भे च परिपाके च देहिनाम्॥३६॥



बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे।

बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति॥३७॥



अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे।

बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने॥३८॥



विपर्यासप्रहाणे च तदवस्तुकतानये।

व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति॥३९॥



व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम्।

धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम्॥४०॥



इति। तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशावस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा, दानादिचतुःसङ्ग्रहवस्तुनि प्रतिष्ठाप्य, श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षहेयोपादेयद्वारेण बोधयित्वा, मायाकार इवानुनयादिविविक्ततया मैत्र्यादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिष्ठाप्य, तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताभ्यासे, तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे, ततः सर्वधर्मप्रकृतिशून्यताभ्यासे, तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वत्रगधर्मधातुप्रतिवेधलक्षणे अद्वयधर्मे, ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शीलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति। एवमनुक्रमेण प्रज्ञापारमिताधिष्ठानेन षष्ठ्यां भूमौ ज्ञानज्ञेयभावानभिनिवेशलक्षणे सर्वधर्मानुपलम्भे, तदनन्तरं सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके, ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे, पुनस्तत्रैव सर्वभावाभिनिवेशप्रहाणे, तदनु नवम्यां प्रणिधानपारमितासामर्थ्याद् बोधिप्राप्तौ, तदनन्तरं ज्ञानपारमिताबलाद् दशम्यां भूमौ विविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य, पुनस्तत्रैव एकजातिप्रतिबद्धस्वरूपे सम्यक् सम्बोधिप्रतिनियमे दशदिग्लोकधातवीयसत्त्वार्थे सर्वलोकधातुबुद्धोपसङ्क्रमणादिगुणे च निवेशयति।



एवमनुक्रमेण पुनस्तत्रैन विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे, कर्मफलसम्बन्धाविप्रणाशे, यथाभूतपदार्थाधिगमे, सर्वविपर्यासप्रहाणे, निर्वस्तुकविपर्यासप्रहाणे ज्ञाने, प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने, सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे, शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयति। एवं धर्मकायवदस्य सप्तविंशतिप्रकारं कर्म आसंसारमिष्यत इति कारित्रम्।



प्रथमचित्तोत्पादस्य अन्तिमकर्मणाञ्च अनुक्रमनिर्देशेन अवशिष्टानां मध्यपदार्थानामपि क्रमो वेदितव्यः, वक्तव्यबाहुल्यभयान्मया नोल्लिखितः।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे अष्टमाधिकारवृत्तिः।

मध्यमरुचिसत्त्वार्थं व्याख्यानम्



एवं विस्तररुचिसत्त्वानुग्रहेण अष्टभिः पदार्थैः (प्रज्ञापारमितां) व्याख्याय पुनरन्यप्रकारेण व्याख्यानायाह -



लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः।

तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः॥१॥



इति। प्रथमं सर्वाकारज्ञतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम्। ततो वशित्वार्थत्रिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति त्रिसर्वज्ञताप्रयोगः सर्वाकाराभिसम्बोधः। ततोऽत्यभ्यासात् प्रकर्षगमनमिति त्रिसर्वज्ञतायाः प्रकर्षावस्थोमूर्धाभिसमयः। ततोऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणीकरणमिति त्रिसर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमयः। ततो विशेषगमनाभावात् त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः। ततस्तस्य फलम्, इति त्रिसर्वज्ञताविपाको धर्मकायः सकारित्रः। एवं षट्प्रकारेणार्थसंग्रहेण पूर्ववदेव जिनजननी व्याख्येया।



संक्षिप्तरूचिसत्त्वार्थं व्याख्यानम्



मध्यमरुचिसत्त्वानुकम्पया अमुना षट्प्रकारेणार्थसंग्रहेण व्याख्याय पुनः संक्षिप्तरुचिसत्त्वानुरोधेनान्यप्रकारेण व्याख्यानायाह-



विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः।

धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः॥२॥



इति। आदौ सर्वाकारज्ञतादित्रिसर्वज्ञतास्वभावः प्रवृत्तिविषयहेतुः। स कथं प्रयुज्यत इति तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमयः प्रयोगः। तस्यैवं प्रयोगवतो विषयस्य किं फलमिति तदनु धर्मकायः सकर्मा फलमित्येवं त्रिविधेनार्थसंग्रहेण तथैव जिनजननी व्याख्येया।



परिणामना



अर्थतः पदतो वापि नामपर्यायतः क्वचित्।

तावानेव बुधैर्ज्ञेयः पिण्डार्थः सर्वमातृषु॥१॥



अन्यथा न भवेत्सम्यक् सर्वासां क्रमसंग्रहः।

तत्र पिण्डादिभेदेन वैशिष्ट्यं जायते ध्रुवम्॥२॥



आर्यविमुक्तिसेनस्यानुभावेनात्र दर्शितम्।

अर्थमात्रं सुबोधाय त्यक्त्वा वचनविस्तरम्॥३॥



वैरोचनं गुरुं नत्वा सदुपाध्यायज्ञानिनम्।

कारिकाणां स्फुटा वृत्तिर्हरिभद्रेण रच्यते॥४॥



एतद्ग्रन्थविधानेन यत्पुण्यमर्जितं मया।

निखिलाः प्राणिनस्तेन प्राप्नुयुः सौगतीं धियम्॥५॥



सर्वशास्त्रबहिर्भूतः क्वाहं स्वल्पमतिः पुमान्।

क्व चार्यगतिगम्योऽयं शास्त्रार्थो महिमान्वितः॥६॥



तथाप्यगोचरीभूते यत्नमास्थितवानहम्।

परात्महितबुद्ध्यैव क्षम्यतामेष साधुभिः॥७॥



अहो मृशं मया नानामतैः श्रान्तेन वीक्षितम्।

शमस्थानं चिरेणेदं प्रज्ञापारमितामतम्॥८॥



इति प्रज्ञापारमितोपदेशशास्त्रे आचार्यहरिभद्रकृता अभिसमयालङ्कारवृत्तिः समाप्ता।



भारतीयपण्डितेन विद्याकरप्रभेण महालोकचक्षुषा वन्देश्रीकूटेन चानूद्य निर्णीता। श्रीपण्डितामरगोम्यादिभिः भिक्षुधीमत्प्रज्ञेन च पश्चात् सुनिर्णीता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project