Digital Sanskrit Buddhist Canon

आनुपूर्विकाधिकारः षष्ठः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ānupūrvikādhikāraḥ ṣaṣṭhaḥ
आनुपूर्विकाधिकारः षष्ठः



प्राप्तमूर्धाऽभिसमयो व्यस्तसमस्तत्वेन अधिगतानर्थान् अनुपुर्वीकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयमाह-



दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा।

धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता॥१॥



इति। त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितासर्वाकारपरिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात् सम्यग् दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेण आर्याष्टाङ्गमार्गतया च परमार्थतः अस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववद् आर्यावैवर्तिकबोधिसत्त्वसंघस्मरणेन तथैव शीलत्यागदेवतानुस्मरणेन रूपादिसर्वधर्माभावे स्वभावावबुद्धेन च योऽधिगमः सानुपूर्वक्रियेष्यत इहेति।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारवृत्तिः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project