Digital Sanskrit Buddhist Canon

मूर्धाभिसमयाधिकारः पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Mūrdhābhisamayādhikāraḥ pañcamaḥ

मूर्धाभिसमयाधिकारः पञ्चमः



१- लिङ्गम् (ऊष्मा मूर्धप्रयोगः)



प्राप्तसर्वाकारभिसम्बोधस्य प्रकर्षपर्यन्तोऽधिगमो भवतीति तत्सुखावबोधाय लिङ्गाद्यभिधानपुरःसरं मूर्धाभिसमयमाह-



स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम्

मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम्॥१॥



इति। स्वप्नावस्थायामप्यत्यभ्यासात् स्वप्नसदृशसर्वधर्मेक्षणम्, श्रावकादिभूमिस्पृहाचित्तानुत्पादनम्, तथागतादिदर्शनम्, बुद्धर्द्धिविकुर्वितोपलब्धिः, धर्मदेशनादिचित्तोत्पादः, नैरयिकसत्त्वादीक्षणपुरःसरस्वबुद्धक्षेत्रापायप्रहाणानुस्मरणम्, नगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धिः, यक्षाद्यमनुष्यापगमसत्यवाक्यनिष्पत्तिः, स्वयमभिज्ञापराक्रमकल्याणमित्रसेवनम्, सर्वप्रकारप्रज्ञापारमिताशिक्षणम्, सर्वधर्मानभिनिवेशः, बुद्धबोध्यासन्नीभवनमिति द्वादश प्रकाराणि प्राप्ताभिसमयावस्थाया विशेषलिङ्गानि।



२-विवृद्धिः (मूर्धा मूर्धप्रयोगः)



लिङ्गेनैवं लक्षितस्य कतिप्रकारा विवृद्धिरिति विवृद्धिमाह-



जम्बुद्वीपजनेयत्ताबुद्धपूजाशुभादिकाम्।

उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका॥२॥



इति। जम्बूद्वीपकादित्रिसाहस्रलोकधातवीयसत्त्वेयत्तातथागतपूजाधिकत्वम्, विशिष्टप्रज्ञापारमितामनस्कारः, अनुत्पत्तिधर्मक्षान्तिलाभः, बोध्यबोधकधर्मानुपलम्भः, दशकुशलाद्यारूप्यसमापत्तियोगाद् विशेषोत्कर्षः, सर्वदेवनिकायोपसंक्रमः, सर्वमाराभिभवः, शास्तृसदृशजनसमानावस्था इति अष्टप्रकाराणि पुण्यानि। पुनः सर्वथोपायकौशलपरिशुद्धशिक्षा, बुद्धगोत्रीभवनम्, बुद्धत्वफलप्राप्तिनिमित्तम्, पारमिताविपक्षचित्तानुत्पादः, रूपादियोगाधिगमचित्तानुत्पादः, सर्वपारमितासंग्रहज्ञानम्, सर्वसम्पत्प्रतिलम्भः, सम्यक्सम्बोध्यासन्नीभाव इत्यन्यानि अष्टप्रकाराणि पुण्यानि। पुष्पादिभिः बुद्धपूजायाः शुभादिकां बहुधा उपमां कृत्वा उत्तरोत्तरविशेषोत्कर्षेण षोडशावस्थात्मिका विवृद्धिर्भवति।



३- निरूढिः (क्षान्तिः मूर्धप्रयोगः)



विवृद्ध्यैवं वर्धितस्य आत्मीभावगमनपर्यन्तलक्षणां निरूढिं वक्तुमाह-



त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा।

अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते॥३॥



इति। सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणभावेन अपरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां चित्तोत्पादादीनामुपर्युक्तानामनुत्तरा परिपूरिर्निरूढिरिति।



४- चित्तसंस्थितिः (अग्रधर्माख्यः मूर्धप्रयोगः)



निरूढ्यैवं विरूढस्य स्थिरीभावलक्षणा चित्तसंस्थितिरिति चित्तसंस्थितिमाह-



चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः।

कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः॥४॥



इति। सम्भवत्प्रमाणस्य पलप्रमाणेन परिमाणं प्रमातुं शक्यत इति न्यायात् चतुर्द्वीपादित्रिसाहस्रलोकधातूनां सर्वेषां पारमितादीनां समाधिपुण्यज्ञानस्वरूपाणां पृथक् पृथक् उपमां कृत्वा तेभ्यो विशिष्टा प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा चित्तसंस्थितिः कथितेति।



एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि।



५-दर्शनमार्गः (मूर्धप्रयोगः)



निर्वेधभागीयानन्तरं दर्शमार्गः। तत्र चतुर्विधो विपक्षः सप्रतिपक्षः। विपक्षं तावद् ग्राह्यविकल्पद्वयमाह-



प्रवृतौ च निवृतौ च प्रत्येकं तौ नवात्मकौ।

ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ॥५॥



इति। अनुपलम्भोपलम्भस्वभावो प्रवृत्तिनिवृत्तिपक्षौ यथाक्रमं श्रावकबोधिसत्त्वादीनां धर्मस्यादानसन्त्यागाकारेण ग्राह्याविति क्लेशवद् विपक्षौ ग्राह्यविकल्पौ वस्तुन्यप्रतिबद्धवृत्तित्वेन वितथप्रतिभासित्वादयथास्वरूपौ विषयप्रभेदेन प्रत्येकं नवप्रकारौ ज्ञेयाविति।





ग्राह्यविकल्पपक्षद्वयमेवं निर्दिश्य ग्राहकविकल्पद्वयमाह-



द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ।

पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ॥६॥



ग्राहौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ।

इति ग्राहकभावेन शून्यतालक्षणं तयोः॥७॥



इति। पृथग्जनार्यपुद्गलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकविकल्पौ विबन्धकत्वाद् विपक्षौ विषयभेदेन प्रत्येकं नवप्रकाराविति। यदा विषयभावापन्नग्राह्यावर्थौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित् तौ ग्राहकाविति, ग्राहकरूपेणानयोर्विविक्तं रूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ ज्ञेयाविति।



कथं प्रवृत्यधिष्ठानः प्रथमो ग्राह्यविकल्पो नवधाः? इत्याह -



एष स्वभावे गोत्रे च प्रतिपत्समुदागमे।

ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः॥८॥



स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले।

प्रवृत्तिपक्षधिष्ठानो विकल्पो नवधा मतः॥९॥



इति। विविक्तेन विविक्तानवबोधस्वभावे, अचलादिभूमिप्रवेशेन नियतबुद्धगोत्रे, मायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे, प्रतिभासमात्रेण अभ्रान्तज्ञानालम्बने, गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे, सर्वमलरहितत्वेन स्वाधिगमे, हीनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे, यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे, सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया उपादेयत्वेन प्रवृत्तिः कार्या, इत्येवं प्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति।



कथं निवृत्तिपक्षधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवधेति ? आह-



भवशान्तिप्रपातित्वान्न्युनत्वेऽधिगमस्य च।

परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते॥१०॥



परप्रत्ययगामित्वे समुद्देशनिवर्तने।

प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः॥११॥



पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः।

निवृत्तिपक्षधिष्ठानः श्रावकादिमनोभवः॥१२॥



इति। संसारनिर्वाणान्यतरप्रपातित्वेन न्युनताधिगमे, कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे, समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये, तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे, सर्वसत्त्वाग्रताचित्तमहत्त्वाद्यप्रवृत्तत्वेन उद्देशनिवृतौ, क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे, सोपलम्भत्वेन प्रथमफलाद्यधिगमनानात्वे, सर्वाविद्यानुशयाप्रहीणत्वेन स्थानगमनाज्ञाने, महायानसर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन विनिवृत्तिः कार्या। इत्येवं द्वितीयो ग्राह्यविकल्पो निवृत्तिपक्षाधिष्ठानः श्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो नवधा बोधिसत्त्वानां

दर्शनमार्गे चित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति।



कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवधा ? इत्याह -



ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे।

मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च॥१३॥



स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः।

सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ॥१४॥



इति। संवृत्या मायावद् ग्रहणमोक्षणे, तत्त्वतोऽमनस्कारेण मनस्करणे, धर्मतया त्रैधातुकोपश्लेषणे, शून्यताऽनवस्थानेन अवस्थाने, वस्त्वनभिनिवेशेन सर्वाभिनिवेशे, द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ, तत्त्वज्ञानासक्त्या अनभिनिवेशपूर्वकसक्तौ, समताभावनाप्रतिपक्षतया प्रतिपक्षे, सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन प्रथमो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति।



कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहकविकल्पो नवधा ? इत्याह -



यथोद्‍देशमनिर्याणे मार्गामार्गावधारणे।

सनिरोधे समुत्पादे वस्तुयोगवियोगयोः॥१५॥



स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः।

प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः॥१६॥



इति। श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे, स्वाभीष्टमार्गाभावेन इतरमार्गामार्गावधारणे, संवृतिकार्यकारणभावेन उत्पादनिरोधे, निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे, व्योमावस्थितशकुनिसदृशत्वेन रूपादिस्थाने, बोधिचित्तोत्पादादिद्वारेण श्रावकादिगोत्रविनाशे, तथताप्रतिविशिष्टधर्मताभावेन अभिलाषाभावे, परमार्थसत्याश्रयेण हेत्वभावे, अभ्यस्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्तूपलम्भे च प्रज्ञप्तिभावाभिनिवेशेन द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति।



दर्शनमार्गे विपक्षं सप्रतिपक्षमेवं निर्दिश्य यन्महाबोधिनिष्पत्तये दर्शनमार्गो येन कारणेन सहित इष्यते, तत्कारणप्रदर्शनायान्तरश्लोकमाह-



बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना।

तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः॥१७॥



इति। वक्ष्यमाणलक्षणबोधौ दर्शनादिमार्गसन्दर्शनेन अन्येषां प्रतिष्ठापनं प्रथमम् (कारणम्)।



बोधिनिमित्तमेवान्येषां सम्यग् ग्रन्थार्थादिद्वारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयम् (कारणम्)।



बोधिप्राप्तये चाव्यवहितकारणं स्वतः प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतीयम् (कारणम्)।



का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणसहायो दर्शनमार्गोऽभिप्रेत इत्यन्तरश्लोकेन महाबोधिमाह-



क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते।

क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम्॥१८॥



इति। क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां -



धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।



इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्पादाभावाद् एकानेस्वभावकार्यकारणप्रमाणाद्युपपन्नभाववैधुर्याद् गगनकमलवद्वा यथाक्रमं मलानां क्षयोत्पादाभावाद् अक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा यथावद् धमकायाद्यात्मिका महाबोधिरभिधीयत इति।



यस्मादेवं अतो ये भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानम्, भावानुत्पादाभिसन्धिना च अनुत्पन्नेऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति। बोधिञ्च क्षयानुत्पादज्ञानं वर्णयन्ति। तेषां क्षयानुत्पादवैकल्याद् एतज्ज्ञानं न घटत इत्यन्तरश्लोकेनाह -



प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना।

विकल्पजातं कि क्षीणं किं वानुत्पत्तिमागतम्॥१९॥



इति। उत्पन्नानुत्पन्नयोर्थथाक्रमं क्षयोत्पत्तिविघातलक्षणनिरोधेन अनिरुद्धायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरद् विकल्पादिरूपमुत्पन्नं क्षीणं, कतरच्चानुत्पन्नम् अनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां भवताम्? यावता नैव किञ्चित्। तस्मादस्माकं मतमेवाङ्गीकर्तव्यमित्यभिप्रायः।



अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवतः सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं महद्विस्मयस्थानीयं स्यादित्यन्तरश्लोकेनाह-



सत्त्वा च नाम धर्माणां ज्ञेये चावरणक्षयः।

कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया॥२०॥



इति। तत्र ह्यदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्विविक्तस्कन्धादिकं प्रतीत्यसमुत्पन्नम् उदयव्ययधर्मकं समुपलभ्य नीलतद्धियोः सहोपलभ्भनियमाच्चित्तमात्रमेवेदं न बाह्यार्थोऽस्तीति मनसिकुर्वन् अपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि ग्राहकाकारलक्षणां विज्ञप्तिमात्रतामवधूय अद्वयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायानिःस्वभावं तत्त्वतोऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिज्ञानवद् उत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पायाः कथञ्चित् प्रत्यात्मवेद्यायाः समुत्पादे ज्ञेयावरणं सम्यग् योगी प्रजह्यात्। अन्यथा परैः सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवद् अनाधेयानपनेयस्वरूपधारणाद् धर्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाञ्च यदि परमार्थतो विद्यमानता स्यात् तदा प्रतिपक्षभावनया आकाशस्येव तेषां न किञ्चित् क्रियते। अतो भावाभिनिवेशविपर्यासाविनिवृत्या यद् भगवतः सर्वथाः ज्ञेयावरणप्रहाणं धर्माणाञ्च यत्सत्तोपगम्यते परैः तत्परस्परविरुद्धार्थाभ्युपगमे विस्मयस्थानीयं भवेत्।



इत्येवं भावपक्षं निराकृत्य निःस्वभावपक्षदृढीकारेण मुमुक्षुभिरिदमेवाङ्गीकर्त्तव्यमित्यन्तरश्लोकेन स्थानपक्षमाह-



नापनेयमतः किञ्चित् पक्षेप्तव्यं न किञ्चन।

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥२१॥



इति। यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतो अपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वा इदमेव प्रतीत्यसमुत्पन्नं संवृत्या तथ्यरूपं रूपादिनिःस्वभावादिरूपतो निरूपणीयम्, एवञ्च मायागजेन अपरमायागजपराजयवद् विपर्यासनिवृत्या तत्वदर्शी विमुच्यत इति।



इत्येवं प्रासङ्गिकमभिधाय प्रकृतं दर्शनमार्गमाह-



एकैकस्यैव दानादै तेषां यः सङ्ग्रहो मिथः।

स एकक्षणिकः क्षान्तिसङ्गृहीतोऽत्र दृक्पथः॥२२॥



इति। दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ यः परस्परं सर्वपारमितासङ्ग्रहः, सोऽत्रैकक्षणिको मूर्धाभिसमये दुःखधर्मज्ञानक्षान्तिसंगृहीतः त्रिमण्डलविशुद्धिप्रभावितः षट्‍त्रिंशदाकारनिर्जातो दर्शनमार्गः।



अस्मिंश्च (दर्शनमार्गे) समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतया अष्टोत्तरशतग्राह्यग्राहकविकल्पप्रहाणेन तत्संगृहीतविकल्पजनकवासनाक्लेशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्यते।



तत्र वशित्वार्थं तामेव पुनः पुनर्भावयतीति अन्तरश्लोकेनाह-



स समाधिं समापद्य ततः सिंहविजृम्भितम्।

अनुलोमं विलोमञ्च प्रतीत्योत्पादमीक्षते॥२३॥



इति। स दर्शनमार्गप्राप्तो योगी क्लेशज्ञेयावरणभयाभावात् सिंहविजृम्भितं (नाम) समाधिं समापद्य उत्तरकालमविद्याप्रत्ययाः संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधाद् इत्यादिप्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति।



६-भावनामार्गः (मूर्धप्रयोगः)



दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकम् आधारप्रतिपत्तिपूर्वकं सुबोधमिति आधारं भावनामार्गमाह -



कामाप्तमवधीकृत्य विज्ञानमसमाहितम्।

सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा॥२४॥



एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात्।

अवस्कन्दसमापत्तिरनिरोधमतुल्यता॥२५॥



इति। बोधिसत्त्वाः प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत् प्रथमध्यानमागम्य एवमनुलोमप्रतिलोम (क्रम) -द्वयेन चतुर्ध्यान चतुरारूप्यनिरोधलक्षणा नव समापत्तीर्गत्वा आगम्य पुनः प्रथमं ध्यानं समापद्य ततो व्युत्थाय निरोधम्, एवं यावन्नैवसंज्ञानासंज्ञायतनान्निरोधं समापद्य, ततो व्युत्थाय अनन्तरसमापत्तिमालम्ब्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्य उपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखीकृत्य, ततो निरोधं ततोऽसमाहितं ततो निरोधमेकं परित्यज्य नैवसंज्ञानासंज्ञायतनं ततोऽसमाहिम् ततो द्वयं परित्यज्य आकिञ्चन्यायतनं ततोऽसमाहितम्, एवं यावदष्टौ परित्यज्य प्रथमं ध्यानं ततोऽसमाहितम्, इत्येकादिपरित्यागेनानिरोधसमापत्तिं यावद् विसदृशद्वारेण गच्छतीत्यतुल्यगाम् अवस्कन्दसमापत्तिं वशित्वलक्षणाम् आमुखीकृत्य भावनामार्गो भवति।



भावनामार्गमेवमभिधाय तत्र प्रहेयः चतुर्विधो विपक्षो वक्तव्यः। प्रथमं तावद् ग्राह्यविकल्पमाह-



संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे।

त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि॥२६॥



एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः।



इति संक्षिप्तरूचिसत्त्वानुग्रहेण धर्मसंक्षेपे, विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे, यथाविहितार्थाननुष्ठानेन बुद्धसानाथ्यापरिग्रहे, समुत्पन्ननिरुद्धत्वेन प्रयोगमार्गगुणाभावे, सम्यगुत्पत्तिहेतुवैधुर्याद् दर्शनमार्गगुणाभावे, अनागतासत्त्वेन भावनामार्गगुणाभावे, विपर्यासशान्तत्वादिना निर्वाणप्रयोगमार्गे, शून्यताभिनिर्हारत्वेन दर्शनमार्गे, नैःस्वाभाव्यभावकत्वेन भावनामार्गे च प्रथमो ग्राह्यविकल्पः अस्यामवस्थायां प्रहेयत्वेन भावनामार्गप्रयोगावस्थायां नवविधो विषयी।



प्रथममेवं निर्दिश्य द्वितीयं ग्राह्यविकल्पमाह-



द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः॥२७॥



अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया।

हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः॥२८॥



भावनेऽभावने चैव तद्विपर्यय एव च।

अयथार्थश्च विज्ञेयो विकल्पो भावनापथे॥२९॥



इति। कल्याणमित्रादिवैकल्याद् बोधिचित्तानुत्पादे, विशिष्टबुद्धालम्बनपुण्याभावाद् बोधिमण्डामनस्कारे, श्रावकगोत्रत्वात् तद्यानमनस्करणे, प्रत्येकबुद्धगोत्रत्वात् तद्यानामुखीकरणे, प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात् सम्यक्सम्बोध्यमनस्करणे, सोपलम्भत्वेन भावनायां निरुपलम्भवत्त्वेन अभावनायाम्, अनुपलम्भाननुपलम्भत्वात् नभावनानाभावने, विपरीताभिनिवेशाद् अयथार्थत्वे च द्वितीयो ग्राह्यविकल्पः तस्यामवस्थायां प्रहेयत्वेन भावनामार्गे चित्तचैत्तप्रवृत्यवस्थायां नवविधो विषयी।



द्वितीयमेवं निर्दिश्य प्रथमं ग्राहकविकल्पमाह-



ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः।

धर्मप्रज्ञत्यशून्यत्वसक्तिप्रविचयात्मकः॥३०॥



कृते च वस्तुनो यानत्रितये च स कीर्त्तितः।

दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने॥३१॥



इति। द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ, प्रतिभासमात्रत्वात् (सर्व) - धर्मप्रज्ञप्तौ, सर्वत्रगत्वात् सर्वाकारज्ञतादिधर्माशून्यत्वे, सर्वथाभिनिवेशाप्रहाणाद् धर्मसक्तौ, निःस्वभावावबोधेन धर्मप्रविचये, समुद्देशाकरणेन वस्तूद्देशकरणे, रूपाद्युपलम्भत्वाद् यानत्रयनिर्याणे, सम्यगप्रतिपन्नत्वेन दक्षिणाशुद्धौ, दानाद्युपलम्भप्रतिषत्त्या चर्याविकोपने च पूर्ववद् ग्राहकविकल्पो भावनामार्गप्रयोगावस्थायां नवविधो विषयी।



प्रथममेवं निर्दिश्य द्वितीयं ग्राहकविकल्पमाह -



सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधाऽपरः।

भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः॥३२॥



इति। विपक्षो द्वितीयो ग्राहकविकल्पः सत्त्वप्रज्ञप्तितद्व्यवस्थापनप्रतिभासमात्रहेतुविषयो भावनामार्गेण सम्प्रहेयत्वात् तत्सम्बद्धो नवप्रकारः।



कथं नवप्रकार इति चेद् ? द्वाभ्यामन्तरश्लोकाभ्यामाह-



सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृतौ।

शान्तिमार्गतथतादिसंप्रयोगवियोगयोः॥३३॥



असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि।

द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः॥३४॥



इति। सर्वाकारापरिज्ञानेन सर्वाकारज्ञतावरणसंमोहे, सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे, सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे, प्रज्ञापारमिताऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे, तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे, मारादिस्वरूपापरिज्ञानेन असमत्वसंमोहे, यथारूतार्थग्राहित्वेन दुःखादिसत्यसंमोहे, रागादिस्वभावापरिज्ञानेन क्लेशप्रकृतिसंमोहे, ग्राह्यग्राहकलक्षणापरिज्ञानेन अद्वयसंमोहे च पूर्ववत् पश्चिमो ग्राहकविकल्पो भावनामार्गचित्तचैत्तप्रवृत्त्यवस्थायां नवप्रकारो विषयी मतः॥



तेषां भावनामार्गविपक्षाणां प्रहाणे चतुर्विधप्रतिपक्षोऽपि तद्भेदेन भिन्नोऽवगन्तव्यः।



पूर्ववद् अष्टोत्तरशतविकल्पप्रहाणसमकालमेव तत्संगृहीताष्टोत्तरशतक्लेशानां प्रहाणेन सर्वगुणसम्पदो भावनामार्गस्थं बोधिसत्त्वमाश्रयन्त इति द्वाभ्याम् अन्तरश्लोकाभ्यामाह-



आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव।

सर्वाकारजगत्सौख्यसाधना गुणसम्पदः॥३५॥



सर्वाः सर्वाभिसारेण निकामफलशालिनम्।

भजन्ते तं महासत्त्वं महोदधिमिवापगाः॥३६॥



इति। भावनामार्गाभ्यासाद् आसां चतुर्विकल्पजातीनामुपद्रवत्वेन इतीनां क्षये सति संरोधवैकल्येन संहर्षोच्छ्वासप्राप्ता इव सर्वास्त्रियानसंगृहीता गुणसम्पदः कृपापारतन्त्र्यात् सर्वप्रकारजगत्सौख्योत्पादनदक्षा सर्वथाभिमुख्यागमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलैः प्रातशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इति।



७- आनन्तर्यसमाधिः (मूर्धप्रयोगः)



भावनामार्गानन्तरमानन्तर्यमार्गमाह-



त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि।

बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः॥३७॥



कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः।

आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत्॥३८॥



इति। श्रावकप्रत्येकबुद्धबोधिसत्त्वानां न्यामे त्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद् यत्पुण्यं प्रस्रवति, तदुपमीकृत्य तद्विशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता तद् बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो यः समाधिः सोऽत्रानन्तर्यसमाधिः।



तदालम्बनादयः कीदृशा इति चेद् ? अन्तरश्लोकेन आलम्बनादीनाह-



आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः।

आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम्॥३९॥



इति। अस्य चानन्तर्यसमाधेः सर्वधर्माभावोपलब्धिः आलम्बनप्रत्ययः, स्मरणं चाधिपरिप्रत्ययः, प्रकृतिशान्तता चाकारः। अत्र च स्थाने दुरवगाहत्वाद् अविदितोपायकौशलानां प्रवादिनां (नाना) - चोद्यमुखपरम्पराप्रसर्पिणी (विप्रतिपत्तिः) इति उपायकौशलेन सा निराकर्तव्येति। अनेनास्य गभीरता अभिहितेत्यभिप्रायः।



८-विप्रतिपत्तिः (मूर्धप्रयोगः)



विपर्यस्तमतीनां कीदृशीः विप्रतिपत्तीः निराकृत्य स समाधिरुत्पादयितव्य इति चेत् ? समाधेरनन्तरं विप्रतिपत्तीराह-



आलम्बनोपपत्तौ च तत्स्वभावावधारणे।

सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ॥४०॥



प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः।

विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः॥४१॥



लक्षणे भावनायाञ्च मता विप्रतिपत्तयः।

सर्वाकारज्ञताधारा षोढा दश च वादिनाम्॥४२॥



इति संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौ, सर्वथा नीरूपत्वाद् आलम्बनस्वभावावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद् बुद्धरत्ने, नामधेयमात्रत्वाद् धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात् संघरत्ने, दानाद्यनुपलम्भेन उपायकौशले, भावाभावोभयरूपाधिगमप्रतिषेधात् तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद् धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च परस्परविरुद्धा भाषार्थानुष्ठानेन अयुज्यमानतया संशयरूपाः षोडश विप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः सर्वेषामेव अविदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक् सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पञ्चमाधिकारवृत्तिः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project