Digital Sanskrit Buddhist Canon

सर्वाकाराभिसम्बोधाधिकारः चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सर्वाकाराभिसम्बोधाधिकारः चतुर्थः



१- आकाराः



परिज्ञातत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोध इत्याह -



वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम्।

सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः॥१॥



नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मतास्वभावानामनित्याद्यालम्बनज्ञानप्रकाराणामाकारत्वेन व्यवस्थानं लक्षणम्। ते चाकारास्त्रिसर्वज्ञताभेदात् त्रिप्रकारा एव मताः।



सामान्येनाकारान् निर्दिश्य इदानीं विशेषेणाह-



असदाकारमारभ्य यावन्निश्चलताकृतिः।

चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः॥२॥



इति। तत्र त्रिसर्वज्ञतामधिकृत्य असद्-अनुत्पाद-विवेक-अनवमर्दनीय-अपद-आकाश-अप्रव्याहार-अनाम-अगमन-असंहार्य-अक्षय-अनुत्पत्तय इति द्वादश आकारा हि यथाक्रमं दुःखादिसत्यत्रयस्य अनित्यादिलक्षणा भवन्ति।

क्लेशावरणप्रतिपक्षत्वेनैकः अनास्रवमार्गः, सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति तेषां ज्ञेयावरणप्रतिपक्षत्वेन द्वौ सास्रवानास्रवभावनामार्गौ चेति मार्गाः त्रिप्रकाराः।



तत्र प्रथमे अकारकाजानकासंक्रान्त्यविनयाकारा इति चत्वारो यथाक्रमं मार्गादिलक्षणाः (क्लेशावरणप्रतिपक्षे) भवन्ति।



द्वितीये स्वप्न-प्रतिश्रुत्का-प्रतिभास-मायाकारा इति पञ्च यथाक्रमं निःस्वभाव-अनुत्पन्न-अनिरुद्ध-आदिशान्त-प्रकृतिपरिनिर्वृतिलक्षणाः सामान्यतो ज्ञेयावरणप्रतिपक्षभूताः सन्ति।



तृतीये असंक्लेश-अव्यवदान-अनुपलेप-अप्रपञ्च-अमनन-अचलाकारां षट् यथाक्रमं संक्लेश-व्यवदान-क्लेशवासना-रूपादिप्रपञ्च-स्वाधिगम-परिहाणि-विकल्पानां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूता भवन्ति।



इत्येवं मार्गसत्यस्य पञ्चदश आकाराः। समुदायेन सप्तविंशतिरिति सर्वज्ञताकारा भवन्ति।



तदनन्तरं मार्गज्ञताया आकारा इत्याह-



हेतौ मार्गे च दुःखे च निरोधो च यथाक्रमम्।

अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः॥३॥



तत्र संक्लेशेतरपक्षाश्रयेण समुदयमार्गसत्ये कारणम्, दुःखनिरोधसत्ये च फलमित्यर्थद्वारेण निर्दिष्टे समुदयमार्गदुःखनिरोधसत्येषु यथासंख्यमष्टाद्याकारा बोद्धव्याः॥



तत्र विराग-असमुत्थान-शान्त-अराग-अद्वेष-अमोह-निःक्लेश-निःसत्त्वाकारा एव यथाक्रमं यो हेतुः छन्दो रागो नन्दी च, यः समुदयः रागो द्वेषो मोहश्च, यः प्रभवः परिकल्पः, यश्च प्रत्ययः सत्त्वाभिनिवेश इति एतेषां प्रतिपक्षभूतत्वेन त्रयस्त्रय एक एक इत्यष्टावाकाराः समुदयसत्ये भवन्ति।



अप्रमाण-अन्तद्वयाननुगम-असम्भिन्न-अपरामृष्ट-अविकल्प-अप्रमेय-असङ्गाकारा- यथाक्रमं यः सर्वसत्त्वावकाशदो मार्गः यथा व सर्वसत्त्वावकाशदः, यो न्यायो यथा च न्यायः, या प्रतिपत्तिर्यथा च प्रतिपत्तिः, यच्च निर्याणमिति तत्स्वभावा द्वौ द्वौ द्वावेक इति सप्ताकारा मार्गसत्ये भवन्ति।



अनित्य -दुःख- शून्य-अनात्माकाराः पञ्चमालक्षणाकारस्वभावा इत्येवं पञ्चाकारा दुःखसत्ये भवन्ति।



अध्यात्मबहिर्धोभयवस्तूनां निरोधेनाध्यात्मबहिर्धोभयशून्यताकारास्त्रयः निरोधाकारस्वभावाः, शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोच्छेदान्तेऽनवराग्रसंसारे अधिगतधर्मानवकारे अभिनिवेशस्य प्रज्ञप्त्यात्मकस्य निरोधेन यथाक्रमं शून्यता-महत्-परमार्थ-संस्कृत-असंस्कृत-अत्यन्त-अनवराग्र- अनवकारशून्यताकारा अष्टौ शान्ताकारस्वभावाः, प्रणीताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः, विषयभ्रान्त्यात्मिकानां प्रज्ञप्तिलक्षणकालभ्रान्तीनां च निरोधेन सर्वधर्मस्वलक्षणानुपलम्भशून्यताकारास्त्रयो निःसरणाकारस्वभावाः, स्वभावनिरोधेन अभावस्वभावशून्यताकार एकः निःसरणाकारात्मक इत्येवं षोडशाकारा निरोधसत्ये भवन्ति। समुदायेन षट्‍त्रिंशदिति मार्गज्ञताकाराः।



तदनन्तरं सर्वाकारज्ञताकारा इत्याह-



स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः।

शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम्॥४॥



सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मयाः।

त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः॥५॥



स्मृत्युपस्थानमारभ्य बुद्धाकारपर्यन्तानां हि त्रिसर्वज्ञतासङ्गृहीतमार्गद्वारेण सर्वाकारज्ञतया सर्वेषामार्यपुद्गलानां सङ्ग्रहणेन च यथासंख्यं श्रावकाणां सप्तत्रिंशत्, बोधिसत्त्वानां चतुस्त्रिंशत्, बुद्धानां त्रिंशन्नव चेति मताः। तत्र सर्वज्ञतायामादौ चतुःसत्यावताराय स्वसामान्यलक्षणपरीक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्गः। ततोऽवतीर्णस्य वीर्यमिति उत्पन्नानुत्पन्नस्य अकुशलस्य कुशलस्य च यथाक्रमं सम्यक्प्रहाणानुत्पादनार्थं वर्धन (भूयोभाव)-उत्पादनार्थं च हेतुभूतवीर्यात्मकाः सम्यक्प्रहाणाकाराश्चत्वारो व्यावसायिकमार्गः। वीर्यवतश्चित्तकर्मण्यतापादनमिति छन्दवीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतर्द्धिपादाकाराश्चत्वारः समाधिपरिकर्ममार्गः। कृतचित्तपरिकर्मणोऽनन्तरमूष्ममूर्धप्रयोगः इति ऊष्ममूर्धस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकाराः पञ्च सम्यगभिसमयप्रायोगिकमार्गः। अधिगतोष्मादेः क्षान्त्यग्रधर्मप्रयोग इति क्षान्त्यग्रधर्मस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकाराः पञ्च अभिसमयसंश्लेषमार्गः। विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्गोत्पाद इति स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षाकाराः सप्त बोध्यङ्गान्यभिसमयमार्गः। परिज्ञातसत्यदर्शनस्य भावनामार्गोत्पाद इति सम्यग्दृष्टिसंकल्पवाक्कर्मान्ताजीवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्ग इति शिष्याणां सर्वज्ञतामार्गाधिष्ठानाः सप्तत्रिंशदाकारा भवन्ति।



मार्गज्ञतायां दृष्टिकृतप्रतिपक्षः, तन्निमित्तविकल्पप्रतिपक्षः, त्रैधातुकप्रणिधानप्रतिपक्षः इति तत्स्वभावा यथाक्रमं शून्यानात्माकारस्वभावं प्रथमं विमोक्षमुखम्, निरोधमार्गसत्याकारस्वभावं द्वितीयम्, अनित्यदुःखसमुदयसत्याकारस्वभावं तृतीयमित्येवं त्रिविमोक्षमुखाकारास्त्रयः प्रतिपक्षमार्गः।



अविभावितविभावितरूपसंज्ञत्वाद् यथाक्रममध्यात्मं रूप्यरूपीति बहिर्धा रूपाणि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षेण द्वौ विमोक्षौ। शुभाशुभरूपनिर्माणे च यथाक्रममाभोगः प्रातिकूल्यञ्च संक्लेशः तत्प्रतिपक्षेण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येको विमोक्ष इति विमोक्षाकाराः त्रयो निर्याणमार्गः।



मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारूप्यसमापत्त्याकाराः शान्तविहारस्वभावः संज्ञावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्गः।



चतुर्ध्यानारूप्यनिरोधसमापत्याकारा नव लोकोत्तरमार्गः। चतुःसत्यसङ्गृहीताः क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वारः प्रहाणमार्गः। दानादिपारमिताकारा दश बुद्धत्वमार्गः। तदेवं बोधिसत्त्वानां मार्गज्ञतामार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति।



सर्वाकारज्ञताकारस्तु निरतिशयत्वादेक एव केवलमसाधारणमार्गः। तत्र स्थानास्थान-कर्मविपाकः-नानाधिमुक्ति-अनेकलोकधातु-इन्द्रियपरापर-सर्वत्रगामिनी-प्रतिपत्-संक्लेशव्यवदान- पूर्वनिवासानुस्मृति- च्युत्युपपत्ति- आस्रवक्षयज्ञानबलाकारा दश। बुद्धोऽहमित्यात्मप्रतिज्ञाने रागादीनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षीणास्रवत्वेनात्मनोऽभ्युपगमे च पर्यनुयोक्तुरभावेन वैशारद्याकाराश्चत्वारः। पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रमं धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वारः। नास्ति स्खलितः रवितं मुषितस्मृतिरसमाहितं चित्तं नानात्वसंज्ञा अप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट्। नास्तिछन्दतो वीर्यतः स्मृतितः समाधेः प्रज्ञायाः विमुक्तेश्च परिहाणिरित्येवमाकाराः षट्। कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः। अतीतानागतप्रत्युत्पन्नेषु असङ्गाप्रतिहतज्ञानाकारास्त्रय इति अष्टादशावेणिकबुद्धधर्माकाराः। सर्वबुद्धभाषिततथता -सत्वधर्मवशवर्तनस्वयम्भू- सर्वाकाराभिसम्बोधिबुद्धत्वाकाराः त्रयश्च। इत्येकोनचत्वारिंशदाकाराः सर्वाकारज्ञतामार्गाधिष्ठाना भवन्ति।



तत्रानास्रवाः सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन। मार्गज्ञताकाराः सास्रवा एव, बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात्। अनास्रवा एव सर्वाकारज्ञताकाराः सर्वथा सवासनसर्वक्लेशज्ञेयावरणप्रहाणेन सम्यक्सम्बुद्धस्य सर्वधर्मवशवर्तित्वाद्, इत्येकत्र गण्यमानं त्रिसप्तत्युत्तरशतमित्याकाराः।



विशिष्टप्रयोगैराकारा भावयितव्याः, ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारमाह-



कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः।

मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम्॥६॥



बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया।

उद्ग्रहधारणादीनां भाजनत्वं सतां मतम्॥७॥



अतीतप्रत्युत्पन्नबुद्धेषु सामान्येनोप्तशोधितशुभमूलकाः, कायाद्युपस्थानाराधनात् कृततथागतपर्युपासनाः, कृतशंकास्थानपरिप्रश्नाः, कृतदानादिदशपारमिताप्रतिपत्त्यनुष्ठानाः, कल्याणमित्रैरधिष्ठिताश्च यथाक्रममाकारलक्षणाया मातुरस्या ग्रन्थश्रवणधारणामुषितार्थयथानयमनस्काराणां भाजनं बुद्धादिभिः मतमिति।



२-प्रयोगाः



प्रयोक्तारं निर्दिश्य प्रयोग इत्याह -



रूपादिष्वनवस्थानात् तेषु योगनिषेधतः।

तत्तथतागम्भीरत्वात् तेषां दुरवगाहतः॥८॥



तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः।

व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे॥९॥



आसन्नबोधे क्षिप्रञ्च परार्थेऽवृद्ध्यहानितः।

धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने॥१०॥



रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः।

फलरत्नप्रदाता च शुद्धकः सावधिश्च सः॥११॥



रूपादिषु निःस्वभावतयाऽनवस्थानम्, अयोग एव तेषु प्रयोगो भवति, तावेव रूपादितथतास्वरूपत्वेन गम्भीरः, दुरवगाहः, अप्रमाणश्चेत्येवमभिसम्बोधानां यथासंख्यं रूपादिष्वनवस्थान-अयोग-गम्भीर- दुरवगाह-अप्रमाणानीति पञ्च प्रयोगाः। प्रज्ञापारमिताया उत्त्रास-अनुत्त्रास-सम्यगुद्ग्रहण-आन्तरायिकधर्मवर्जन-सततधर्म- भावना-अभिनवानास्रवधर्माधारत्व- धर्मकायफलाभिनिर्वर्तन- धर्मचक्रप्रवर्तन- वृद्धि- परिहाण्यदर्शन- कामधात्वनुपलम्भ- रूपाद्यचिन्त्याकारामनन- रूपतन्निमित्ततत्स्व- भावाविकल्प- प्रथमफलदर्शन- रूपविशुद्धि- संवत्सराभियोगानुत्सर्गादिप्रतिपत्तिमतां यथाक्रमं महत्कृच्छ्रचिराभिसम्बोध- व्याकरणलाभ- अविनिवर्तनीय- निर्याण- निरन्तर- आसन्नाभिसम्बोध- क्षिप्राभिसम्बोध- परार्थ- अवृद्ध्यपरिहाणि- धर्माधर्माद्यनुपलम्भ- रूपाद्यचिन्त्याकारनिरोध- रूपादिभावाविकल्प- फलरत्नदान- विशुद्धि- अवधि- प्रयोगाः पञ्चदशधा इति विंशतिप्रयोगा भवन्ति।



३-गुणाः



प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तद्गुणान् आह -



माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः।



मारशक्तिव्याघात-बुद्धसमन्वाहारज्ञातत्व-बुद्धप्रत्यक्षीकरण-सम्यक्सम्बोध्या- सन्नीभाव- महार्थतादि- देशनिरूपण- सर्वानास्रवधर्मपरिपूरिगुण- कथापुरुषता-अभेद्यता- असाधारणकुशलमूलोत्पत्ति- प्रतिज्ञायाथार्थ्यसम्पादन- उदारफलपरिग्रहण- सत्त्वार्थप्रतिपत्ति-नियतिलाभा- इति गुणा यथासंख्यं बुद्धाधिष्ठान- आनुभाव- ज्ञानदर्शनं - आसन्नीभाव- महानुशंस- कृत्यकरण- प्रतिपक्षधर्मपरिपूरण- सर्वाकारज्ञता- कथाकथन- सानाथ्यकरण- महोदारप्रीतिसम्पादन- तत्प्रतिज्ञावचनानुमोदन-गम्भीरधर्माभिलाष-सत्त्वार्थकरण- अविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात्- सत्त्वार्थकरण- अविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात् चतुर्दश गुणा उत्पद्यन्ते प्राप्यन्ते च।



४- दोषाः



तदनन्तरं के पुनः प्रयोगान्तरायकरा दोषाः, येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषानाह-



दोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह॥१२॥



महाकृच्छ्रप्राप्तिः, अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिकम्, वैमुख्यनिमित्तग्राहिता, हेत्वभिनिवेशभ्रंशः, प्रणीतास्वादभ्रंशः, सर्वथा उत्तमयानसंग्रहभ्रंशः, सर्वदोद्देशभ्रंश इति प्रथमं दशकम्।

हेतुफलसम्बन्धभ्रंशः, निरुत्तरभ्रंशः, बहुविधविषयविकल्पप्रतिभानोत्पादः, अक्षरलिखनाभिनिवेशः, अभावाभिनिवेशः, अक्षराभिनिवेशः, अनक्षराभिनिवेशः, जनपदादिमनस्कारः, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणमिति द्वितीयं दशकम्।



यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन छन्दकिलासवैधुर्यम्, छन्दविषयभेदवैधुर्यम्, अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति तृतीयं दशकम्।



तथैव उपायानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामताऽलिखितुकामते, विगताविगतकामच्छन्दत्वे चेति चत्वारि; अपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे; यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन एकाकिपर्षदभिरतिः, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, सदसज्जीवितान्तरायदिग्गमनमिति चत्वारि च चतुर्थं दशकम्।



तथैव दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि; मारभेदप्रयोगः, प्रतिवर्णिकोपसंहारः, अयथाविषय- स्पृहोत्पादनमिति अपराणि त्रीणि। इत्येवं षट्चत्वारिंशद्दोषा भवन्ति।



५-लक्षणानि



दोषानन्तरं यथासंख्यं गुणदोषादानत्यागेन प्रयोगा भावनीया लक्षणज्ञान पूर्वकमिति तेषां लक्षणमाह-



लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत्।

ज्ञानं विशेष कारित्रं स्वभावो यश्च लक्ष्यते॥१३॥



प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञान-विशेष-कारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण च स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम्।



तत्र तावत् ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेणाह-



तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके।

सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ॥१४॥



अक्षयाकारतायां च सरागादौ प्रविस्तृते।

महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने॥१५॥



अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम्।

पुनस्तथताकारेण तेषां ज्ञानमतः परम्॥१६॥



तथतायां मुनेर्बोधतत्पराख्यानमित्ययम्।

सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रह॥१७॥



तथागतनिर्वृत्ति- लोकालुज्यता- सत्त्वचित्तचरित- चित्तसंक्षेप- चित्तविक्षेप- चित्ताक्षयाकार- सरागादिचित्त- 'आदि' - शब्दसङ्गृहीतविगतरागचित्त-विपुलचित्त- महद्गतचित्त- अप्रमाणचित्त - अनिदर्शनचित्तः- अदृशचित्त - चित्तोन्मिञ्जितादि- उन्मिञ्जितादितथताकार- तथागततथतावबोधतत्परसमाख्यानप्रज्ञपनञ्चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथानयं सर्वज्ञताप्रयोगाः सम्यग् लक्ष्यन्त इति ज्ञानलक्षणं सर्वज्ञतया सङ्गृहीतम्।



तदनन्तरं मार्गज्ञताधिकारेणाह-



शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते।

अनुत्पादानिरोधादौ धर्मताया अकोपने॥१८॥



असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः।

मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते॥१९॥



शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधात्मकानि। आदिशब्देन असंक्लेशाव्यवदानाभावस्वभावानिश्रिताकाशलक्षणानि एतानि षट् सङ्गृहीतानि। धर्मताऽविकोपनासंस्काराविकल्पप्रभेदालक्षणानि चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथावत् मार्गज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं मार्गज्ञतासङ्गृहीतम्।



तदनन्तरं सर्वाकारज्ञताद्वारेणाह-

स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ।

गुरुत्वे माननायाञ्च तत्पूजाऽकृतकत्वयोः॥२०॥



सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम्।

लोकस्य शून्यताकारसूचकज्ञापकाक्षगम्॥२१॥



अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च।

ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये॥२२॥



इति। तथागतस्वधर्मोपनिश्रयविहार-सत्कार- गुरुकार- मानना- पूजना- अकृत- कत्व- सर्वत्रग- अदृष्टार्थदर्शक- लोकशून्यताकार- लोकशून्यतासूचकः -लोकशून्यताज्ञापक- लोकशून्यतादर्शक-अचिन्त्यतादेशना- शान्ततादेशना- लोकनिरोध- संज्ञानिरोधाख्यैः एभिः षोडशभिर्ज्ञानाकारप्रकारैः यथावत् सर्वाकारज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं सर्वाकारज्ञतासंगृहीतं भवति।



नवभिरन्तरश्लोकैरेवं ज्ञानलक्षणमभिधाय ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति ज्ञानलक्षणानन्तरम् अन्तरश्लोकेन विशेषलक्षणमाह-



अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः।

विशेषलक्षणं षड्‍भिर्दशभिश्चोदितं क्षणैः॥२३॥



इति। अचिन्त्यातुल्यादिविशेषविशिष्टैर्दुःखादिसत्यविषयैः षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्मार्गज्ञतादिप्रयोगा लक्ष्यन्त इति विशेषलक्षणम्।



कः पुनरचिन्त्यादिविशेष इत्यन्तरश्लोकत्रयमाह-



अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ।

सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते॥२४॥



क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ।

आलम्बनञ्च साधारं साकल्यं सम्परिग्रहः॥२५॥



अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः।

विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते॥२६॥



इति। सम्यक्सम्बुद्धादेः सुसंगृहीतप्रज्ञाबलेन अचिन्त्यता, अतुल्यता, प्रमेयसमतिक्रमः, संख्येयसमतिक्रमः, सर्वार्यपुद्गलसंग्रहः, विज्ञपुरुषवेदनीयता, श्रावकाद्यगोचरवस्तुपरिज्ञानम्, स्वमतापेक्षक्षिप्राभिज्ञताज्ञानम्, संवृतिपरमार्थसत्याश्रितसर्वधर्मान्यूनापूर्णता, त्रिमण्डलविशुद्धदानादिषट्पारमिताप्रतिपत्तिः, सम्यक्प्रयोगेनानेककल्पेषु आसादितपुण्यज्ञानसमुदागमौ, अविकल्पेन सर्वधर्मालम्बनम्, धर्मधातुस्वभावबोधिसत्त्वाधारः, प्रणिधानादिषट्पारमितापरिसमाप्तिहेतुसम्भारः, कल्याणमित्रोपायेन संपरिग्रहः, अभिनिवेशानास्वाद इति षोडशात्मकः यथाक्रमं दुःखादिसत्यक्षणानां विशेषः, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते। अतस्तेषां यथोक्तविशेषविकलोऽभिनिवेशाद्युत्पादनलक्षणत्वेन सुगमत्वान्नोक्तः।



विशेषलक्षणेनावच्छिन्नानां किं कारित्रमिति अन्तरश्लोकद्वयेन कारित्रलक्षणमाह-



हितं सुखं च त्राणं च शरणं लयनं नृणाम्।

परायण च द्वीपं च परिणायकसंज्ञकम्॥ २७॥



अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम्।

पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम्॥२८॥



इति। अनागतहित-ऐहिकसुखः-दुःखरहिताविपाकधर्मतोपस्थापनार्थेन हितादित्रयं सर्वज्ञताकारित्रम्। आत्यन्तिकहित- दुःखहेतुनिवर्तन- संसारनिर्वाण- समताधिगम- स्वपरार्थाधिगमाधारभाव- परार्थप्रतिपति- अनाभोगप्रवृत्तसत्त्वार्थ- यानत्रयनिर्याणफलासाक्षात्कारा इति यथाकालमुपसंहारार्थेन शरणादीनि सप्त मार्गज्ञताकारित्राणि। सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम्। कारित्राकारैरेवं यथावद् सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम्।



कारित्रलक्षणेनावच्छिन्नानां कः स्वभाव इति अन्तरश्लोकत्रयेण स्वभावलक्षणमाह-



क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः।

विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः॥२९॥



निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः।

विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः॥३०॥



तथतानुपलम्भश्च स्वभावः षोडशात्मकः।

लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम्॥३१॥



इति। रागादिक्लेश- तल्लिङ्गकायदौष्ठुल्य- तन्निमित्तायोनिशोमनसिकारादिरागारागादिविपक्षप्रतिपक्षाणां शून्यत्वेन सर्वज्ञताविवेकस्वभावचतुष्टयम्। परमार्थासत्सत्त्वपरिनिर्वाणदुष्करकारक - अन्ययानापातलक्षणैकान्तिक - चिरसाध्योत्तमोद्देश- भाव्यभावकधर्मानुपलम्भ- समस्तभावाभिनिवेशनिषेधा इत्येते पञ्च मार्गज्ञतास्वभावाः। सर्वज्ञतामार्गज्ञतासङ्गृहीतवस्तुविशेषालम्बनम्, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात् विप्रत्ययः, रूपाद्यविघातिज्ञानम्, ज्ञानज्ञेयानुपलम्भेन अप्रतिष्ठम्, तथतया अगतिः, रूपादिनिःस्वभावत्वेन अजातिकः, भावाभावादिस्वभावत्रयानुपलम्भ इति एते सर्वाकारज्ञतायाः सप्त स्वभावाः। इत्येवं षोडशभिः स्वभावैर्यथावत् त्रिसर्वज्ञताप्रयोगा लक्षीव लक्ष्यन्ते इति चतुर्थं स्वभावलक्षणं मतम्। इत्येवं सामान्येन एकत्र कृतानि एकनवतिः लक्षणानि भवन्ति।



६- मोक्षभागीयम्



यथोक्तप्रयोगपरिज्ञानं मोक्षभागीयकुशलमूलवतः एव भवतीति मोक्षभागीयमाह-

अनिमित्तप्रदानादिसमुदागमकौशलम्।

सर्वाकारावबोधेऽस्मिन् मोक्षभागीयमिष्यते॥३२॥



इति। अनिमित्तालम्बनज्ञानाकारेण दानादिपारमिता आरभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशलमेवास्मिन् सर्वाकाराभिसम्बोधे मोक्षभागीयमिष्टम्।



किञ्च तत्कौशलमिति तद्दर्शनायान्तरश्लोकौ आह-



बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम्।

स्मृतिराशयसम्पत्तिः समाधिरविकल्पना॥३३॥



धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा।

तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता॥३४॥



इति। अनिन्द्रियस्वभावाः श्रद्धावीर्यस्मृतिसमाधिविशिष्टप्रज्ञाः यथासंख्यं बुद्ध- दान- आशयसम्पत्ति- अविकल्प- सर्वधर्मसर्वाकारपरिज्ञादिषु पञ्चविधविषयेषु कौशलम्। एवमपि न सर्वैरनुत्तरा सम्यक्सम्बोधिः प्राप्या। धर्मतेयं यतोऽधिमात्रैः श्रद्धादिभिः सम्यक्सम्बोधिः सुबोधा, मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम्। मध्यैः प्रत्येकबुद्धबोधिर्मृदुभिः श्रावकबोधिश्चाधिगम्यत इति॥



७- निर्वेधभागीयम्



उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयमुत्पद्यत इत्याह-



आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते।

समचित्तादिराकारस्तेष्वेव दशधोदितः॥३५॥



स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च।

तयोर्नियोजनान्येषां वर्णवादानुकूलते॥३६॥



मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा।

तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः॥३७॥



इति। अस्यां सर्वाकाराभिसम्बोधौ सममैत्रहिताप्रतिघाविहेठनाचित्ताकारैः पञ्चभिर्मातापितृचित्तभ्रातृभगिनीचित्तपुत्रदुहितृचित्तमित्रामात्यचित्तज्ञातिसालोहितचित्ताकारैः आन्यैः पञ्चभिः सत्त्वालम्बने ऊष्मगतिमिष्यते।



संक्षेपतोऽकुशलकुशलयोर्यथासंख्यं हानोपादानाभ्यां स्वयं निवृत्तस्य प्रवृत्तस्य च, तद्‍द्वारा अन्येषां पापान्निवर्तनं कुशले च प्रवर्तनमिति द्वावाकारौ। तथैव अन्येषां स्वयम्प्रवृत्तौ वर्णवादोऽनुकूलता चेति धर्मप्रभेदद्वैविध्येन हि अनन्ताकारा इति सत्त्वालम्बने मूर्धगतो भवति।



यथा मूर्धगते स्वपराधिष्ठानभेदेन आलम्बनाकाराः, तथा नियोजनवर्णवादानुकूलताद्याकारैः स्वपराधिष्ठानदुःखादिसत्येष्वालम्बनमेव क्षान्तिर्भवति।



पूर्ववत् स्वपराधिष्ठानपाचनमोचनाद्याकारैः सत्त्वालम्बनमेव अग्रधर्मा भवन्तीत्येवं निर्वेधभागीया भवन्ति।



सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधेऽभिसमये लौकिकनिर्वेधभागीयाधिगमपूर्वको लोकोत्तरदर्शनभावनामार्गाधिगमः। सर्वाकाराभिसम्बोधादौ तु त्रिविधेऽभिसमये भावनोत्तरोत्तरावस्थाविशेषेण सर्वाकारविशेषमार्गसंगृहीतं ज्ञानमनास्रवं मृदुमध्याधिमात्रक्रमेणोत्पद्यत इति सकृदुत्पत्तिनिरासाय निर्वेधभागीयादिव्यपदेशोऽभिहित इति वेदितव्यम्।



८- अवैवर्तिको गणः



अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमुत्पद्यत इत्यवैवर्तिकबोधिसत्त्वसंघलक्षणमाह-



निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः।

ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः॥३८॥



इति। ये वीराः चतुर्षु निर्वेधभागीयेषु वक्ष्यमाणदर्शनमार्गभावनामार्गयोः तत्तदधिगमनयेन स्थिताः, ते एव अवैवर्तिकशैक्ष्यबोधिसत्त्वसंघा भवन्ति।



किञ्च तेषामावेणिकलक्षणमिति चेत् तावदेकेन अन्तरश्लोकेन निर्वेधभागीयस्थितानां लक्षणमाह-



रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः।

निर्वेधाङ्गस्थितस्येदमवैवर्त्तिकलक्षणम्॥३९॥



इति। रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैर्विंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम्।



कानि च निवृत्त्यादेर्लक्षणानि इति चेत् षड्‍भिः अन्तरश्लोकैः प्रतिपादयितुमाह-



रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ।

आत्मनः कुशलस्थस्य परेषां तन्नियोजनम्॥४०॥



पराधारञ्च दानादि गम्भीरेऽर्थेप्यकांक्षणम्।

मैत्रं कायाद्यसंवासः पञ्चधावरणेन च॥४१॥



सर्वानुशयहानञ्च स्मृतिसंप्रज्ञता शुचि।

चीवरादि शरीरे च कृमीणामसमुद्भवः॥४२॥



चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता।

धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा॥४३॥



परैरनेयता मारस्यान्यमार्गोपदेशिनः।

मार इत्येव बोधश्च चर्या बुद्धानुमोदिता॥४४॥



ऊष्ममूर्द्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः।

लिङ्गैरमीभिर्विंशत्या सम्बोधेर्न निवर्तते॥४५॥



इति। अस्वभावत्वाद् रूपादिधर्मेभ्यो निवृत्तिः, अवेत्य प्रसादलाभेन विचिकित्साक्षयः, प्रणिधानसमृद्ध्या मिथ्यादृष्टि-नरक-प्रेत-तिर्यगुपपत्ति- बुद्धवचना- श्रवण- प्रत्यन्तजनपदोत्पाद- इन्द्रियवैकल्यजडमूकभाव - दीर्घायुष्कदेवोपपत्तीत्यष्टा- क्षणक्षयः, कारुणिकतया स्वपरकुशलधर्मनियोजनम्, परात्मपरिवर्त्तकत्वेन परसत्त्वविषयपरिणामितदानादिः, सम्यग्धर्मावबोधेन गम्भीरधर्मार्थाकांक्षणम्, परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्म, प्रयोगसम्पत्त्या कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति पञ्चनीवरणैरसंवासः, विभावितप्रतिपक्षत्वेन अविद्यादिसर्वानुशयविध्वंसः, नित्यसमाहितत्वेन स्मृतिसम्प्रज्ञानयोगः, चौक्षसमुदाचारत्वेन शुचिपरिभोग्यचीवरादीति एकादश आकाराः। सर्वलोकाभ्युपगतकुशलमूलत्वेन काये अशीतिकृमिकुलसहस्रासम्भवः, कुशलमूलविशुद्ध्या चित्ताकौटिल्यम्, लाभसत्कारादिनिरपेक्षत्वेन पांशुकूलिकत्वादिधूतगुणसमादानम्, दानादिविशेषप्रतिपतिपत्त्या तद्विपक्षमात्सर्यभ्रष्टशीलादेरभावः, सर्वधर्मसंग्रहाद् धर्मताऽविरुद्धप्रज्ञापारमितायोगगमनम्, स्वात्मीकृतसत्त्वधातुत्वेन परार्थनरकाभिलाष इति षडाकाराः। अधिगतसम्प्रत्ययधर्मत्वेन अपरप्रणयनम्, विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेकमारस्य मारत्वावबोधश्चेति द्वावाकारौ। त्रिमण्डलविशुद्ध्या सर्वासु चर्यासु बुद्धानुमोदितत्वमिति एव आकारः। यथाक्रमं ऊष्ममूर्धक्षान्त्यग्रधर्मेष्ववस्थितो बोधिसत्त्वोऽनुत्तरबोधेर्न निवर्तत इति एभिर्विंशतिलिङ्गैर्विज्ञेयम्।



निर्वेधभागीयावैवर्तिकलक्षणानन्तरं दर्शनमार्गावैवर्तिकलक्षणमेकेन अन्तरश्लोकेनाह-



क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे।

बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम्॥४६॥



इति। दुःखादिसत्यद्वारा धर्मान्वयज्ञानक्षान्त्यादयः षोडश क्षणाः दर्शनमार्गस्थबोधिसत्त्वस्यावैवर्तिकलक्षणं भवति।



कीदृशक्षणाकारलक्षणमिति चेत् पञ्चभिरन्तरश्लोकैराकारानाह-



रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हीनयोः।

यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः॥४७॥



कायचेतोलघुत्वञ्च कामसेवाभ्युपायिकी।

सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता॥४८॥



स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके।

समरे मत्सरादौ च नेति योगानुयोगयोः॥४९॥



विहारप्रतिषेधश्च धर्मस्याणोरलब्धता।

निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थितिः॥५०॥



धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः।

अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः॥५१॥



इति। स्वलक्षणशून्यतया रूपादिधर्मावबोधव्यावर्तनम्, बुद्धादेरधिष्ठानेन अनुत्तरबोधिचित्तदृढता, महायानविशेषधर्मप्रतिपत्त्या श्रावकप्रत्येकबुद्धयानचित्तविनिवर्तनम्, धर्मप्रविचयसामर्थ्याद् ध्यानारूप्यसमापत्त्याद्युदयाङ्गपरिक्षय इति चत्वार एव दुःखस्याकारा भवन्ति।



अपगताकुशलत्वेन कायचेतोलाघवम्, सत्त्वदमनोपायकौशलसामर्थ्येन अनभिनिवेशकामोपभोगः, विषयादीनवदर्शनेन सदा ब्रह्मचारित्वम्, सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वमिति चत्वार एव समुदयाकारा भवन्ति।



शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगयोरकरणमित्येवं योगानुयोगविहारप्रतिषेधः, निरस्तविपक्षत्वेन अधिगमान्तरायधर्माणां पूर्ववद्योगानुयोगविहारप्रतिषेधः, परिज्ञातविकल्पदोषत्वेन बोधिसम्भारदानादीनां पूर्ववत् कथायोगानुयोगविहारप्रतिषेधः, ग्राह्यग्राहकयोर्हेयत्वेनेन्द्रियाश्रयनगरादियुद्धेषु पूर्ववद्योगानुयोगविहारप्रतिषेध इति चत्वारो निरोधाकारा भवन्ति।



दानादिविशेषावबोधेन मात्सर्यदौःशील्यादियोगानुयोगविहारप्रतिषेधः, सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेन अणुमात्रज्ञेयधर्मानुपलम्भः, अभिसम्प्रत्ययलाभेन त्रिसर्वज्ञतात्मकस्वभूमित्रययथावन्निश्चितावस्थानम्, एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थं जीवितत्याग इति चत्वारो मार्गाकारा भवन्ति।



एवं क्षान्तिज्ञानक्षणाः षोडशभिराकारैः सम्यगधिगताः सन्तोऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्तीत्यतो दर्शनमार्गस्थावैवर्तिकबोधिसत्त्वलक्षणानि भवन्ति। अधिगमानुरूप एव सर्वत्र योगिनां व्यवहारः अन्यत्र सत्त्वविनयप्रयोजनवशादिति ज्ञापनायोपचारेणोक्तम्, अन्यथा योगिसन्तानप्रत्यात्मवेद्यक्षणाः कथं परप्रतिपत्तये लक्षणानीति ?



तदनन्तरं सत्यपि भावनामार्गस्थावैवर्तिकलक्षणे'नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते' इति न्यायात् तावद्भावनामार्गं विशेषयन्नाह-



गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम्।

समारोपापवादान्तमुक्तता सा गभीरता॥ ५२॥



इति। शून्यतादिके न रूपादिकम्, न ततोऽन्यच्छून्यतादिकमिति यथाक्रमं या समारोपापवादान्तमुक्तता, सा शून्यतादेर्गाम्भीर्यं शून्यतादिकमिति गाम्भीर्ययोगाद् गम्भीरोऽभ्यासपथ इति।



विशेषणं निर्दिश्यैवं विशेष्यं वस्तु आह-



चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः।

निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च॥५३॥



इति। श्रुतचिन्ताभावनामयप्रज्ञया समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञया यथाक्रमं त्रिषु निर्वेधाङ्गादिषु निर्दिष्टानामर्थानां पुनः पुनश्चिन्तातुलननिध्यानानि भावनामार्गे प्राबन्धिकानि भवन्ति।



तस्य कति प्रकारा इति चेदाह-



प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारतः।

मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः॥५४॥



इति। विकल्पक्लेशा बोधिसत्त्वा इति कृत्वा यथौदारिकञ्च तमः सूक्ष्मेणालोकेन हन्यते सुक्ष्मञ्चाधिमात्रेणेति मृदुमध्याधिमात्रविकल्पानां प्रत्येकं मृदुमध्याधिमात्रभेदात् तेषां मृदुमध्याधिमात्रप्रतिपक्षाणां प्रत्येकं मृदुमध्याधिमात्रभेदात् तथा परमार्थतः शून्यतालक्षणाकारद्वारा विकल्पप्रतिपक्षयोर्भेदाद् यथासंख्यं कामधात्वादिनवभूमिषु नवप्रकारः प्रबन्धेन वर्तमानः भावनामार्गो भवति।



तत्तज्जिनजननीनामेकैकं प्रकारमधिकृत्य असंख्येयाप्रमेयाप्रमाणपुण्यप्रसववचनाद् बहुधा भेदात् कथं नवप्रकार इति चेदाह-



असंख्येयादिनिर्देशा परमार्थेन न क्षमाः।

कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः॥५५॥



इति। असंख्येयाप्रमेयाप्रमाणनिर्देशा वागभिलापस्वभावा व्यावृत्त्यपेक्षोपजनितनानात्वरूपेण एकस्मिन्नर्थे प्रत्युक्तास्तस्मात् परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमाः। संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिष्यन्दभूतास्ते देशनाधर्मस्वभावा यथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येति बहुत्वं न प्रसज्यते।



शून्यतालक्षणतया अतिशयाधानाभावाद् किञ्चिदपि मन्दबुद्धिपुरुषं प्रति न क्रियत एवेति आशङ्क्याह-



हानिवृद्धी न युज्येते निरालापस्य वस्तुनः।

भावनाख्येन किं हीनं वर्त्मना किमुदागतम्॥५६॥



धर्मतास्वरूपस्य अभिमतमार्गवस्तुनो निःस्वभावतया तत्त्वान्यत्वोभयानुभयत्वैरवाच्यस्य भावनातिशयाधानाभावात् विपक्षप्रतिपक्षयोर्यथाक्रममपगमोदयौ न युज्येते।



यद्येवं भावनासंज्ञकेन मार्गेण किं विपक्षस्वरूपं परित्यक्तम्, किञ्च व्यवदान स्वरूपं प्राप्तम्, न किञ्चिदपि क्रियते, अतः अनुपन्यसनीय एवेति चेत्? मैवम्। तथा चोक्तम् -



यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः।

तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः॥५७॥



इति। यथा निरतिशयाधाना तथतास्वरूपा बोधिः निष्प्रपञ्चज्ञानात्मकधर्मकायादिबुद्धस्वभावा आधिपत्यमात्रेण विनेयजनानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननद्वारेणाभिमतार्थस्य साधिका, तद्वदयमप्यागन्तुकमलापगमाद् भावनया साक्षात्कृतो मार्गः तथतालक्षणोऽपि संवृत्याभिमतार्थक्रियाकारी। परमार्थतस्तु हानिवृद्ध्यभाव एवाङ्गीक्रियत इति अप्रयोग एव प्रयोगत्वात् न दोषः।



एवं सति संवृत्या अर्थक्रियासामर्थ्यं न घटत इत्याशङ्कयन्नाह-



पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा।



इति। एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्पादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनान्नैवैकेन (पूर्वेण पश्चिमेन वा) बोधिर्युज्यते। 'एकविज्ञानसन्ततयः सत्त्वाः' इति वचनादसम्भवित्वेन युगपदुत्पन्नसमीहितार्थनिष्पादकधर्मप्रतिभासेन अनेकचित्तेनापि न (युज्यते)। अनुत्तरबुद्धबोधिनिष्पादकस्मृत्युपस्थानाद्यष्टादशावेणिकबुद्धधर्मपर्यन्ताधिगन्तृस्वरूपपूर्वापरीभूतानेकचित्तेन वा न (युज्यते) ; निरन्वयोदयविनाशेन परस्परसम्बन्धात्।



किं तर्हि विशिष्टार्थप्रतिभासिचित्तजननद्वारेण अर्थक्रियाकारीति ? न, तदसम्यक्त्वात्। इत्याह -



दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा॥५८॥



प्रथमे ज्वालावर्त्योर्मीलनक्षणे द्वितीयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात् कार्यकारणलक्षणदाह्यदाहकाभावः। तथैव द्वितीयक्षणेऽपि विशिष्टज्वालावर्त्योरूत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संवृत्युत्पादाभावात् कार्यकारणलक्षणदाह्यदाहकाभावः। यद्येवं तथापि यदा इदम्प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया अविचारैकरम्यत्वेन हेतुफलसम्बन्धबलाद् संहतविशिष्टोत्पन्नं प्रथमक्षणं समपेक्ष्य तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयक्षणः स्यात्, तदा निर्हेतुकविनाशेऽपि कारणकार्ययोः यथाक्रमं तुल्यकालनिरन्वयविनाशोदयाद् दाह्यदाहकभावः। तस्मात् प्रथमक्षणे द्वितीयार्चिरनपेक्ष्य वर्ती न दह्यते, द्वितीयक्षणेनापि प्रथमार्चिरनपेक्ष्य वर्ती न दह्यत इति दीपदृष्टान्तन्यायेन पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण पूर्वक्षणवत् बोधिनिष्पादककतिपयपदार्थप्रतिभासि प्रथमविज्ञानं प्रतीत्य तत्प्रतिभासाभ्यधिक विशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयाद् बोधिप्राप्तिर्युज्यते।



यथोक्तेनैव च दृष्टान्तेन अष्टप्रकारा गम्भीरधर्मता प्रतिसर्तव्या इति भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषये अष्टविधगाम्भीर्यं तत्कथयन्नाह-



उत्पादे च निरोधे च तथतायां गभीरता।

ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले॥५९॥



इति। न पूर्वापरक्षणाभ्यां न च निःस्वभावतया भावनागम्यविशिष्टार्थोत्पादनमिति प्रतीत्यसमुत्पादः। सर्वभावोदय एव निःस्वभाव इति संवृत्या निरुध्यत इति निरोधः। सर्वावस्थासु तथताभ्यासेऽपि तस्या असाक्षात्करणमिति तथता। तथतास्वभावसर्वधर्मस्य दानाद्यनेकविधानुष्ठानमिति ज्ञेयः। तथतारूपेणादर्शनमेव दर्शनमिति ज्ञानम्। धर्मतया सर्वत्राचरणमेव चरणमिति चर्या। अद्वयस्वभावे सर्वसिद्धिरित्यद्वयः। सर्वसम्भारपरिनिष्पत्तौ तत्फलबुद्धत्वस्याप्राप्तिरित्युपायकौशलम्। अचिन्त्यविमोक्षमुखलाभात् परस्परविरुद्धार्थानुष्ठानेन गाम्भीर्यं भवति। एवं अवैवर्तिकशैक्षः सलक्षणोऽभिहितः।



९- भवशान्त्योः समता



शैक्षसम्भारधर्मप्राप्तो बुद्धत्वप्राप्तये यतते, अतः बुद्धत्वप्राप्तिनिमित्तसंसारनिर्वाणसमतां कथयन्नाह-



स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना।

कर्माभावादिचोद्यानां परिहारा यथोदिताः॥६०॥



इति। विपक्षप्रतिपक्षसांसारिकवैयदानिकधर्माणां प्रतिभासमात्रस्वभावस्वप्नसदृशत्वेन अवगमात् संसारनिर्वाणयोर्नानात्वेन अविकल्प इति समता। ननु स्वप्नसदृशत्वे सति दशाकुशलदानादीनामभावः स्वप्नावस्थायामिव जाग्रद्दशायामपि स्यादितिचोद्यानां परिहारा बाह्यार्थवादनये क्षणिकतया निर्हेतुकविनाशे



कर्मजं लोकवैचित्र्यम्



इति सिद्धान्तात् परमार्थतो न कश्चिन्न केनचिद्धतो नापि कयचिद् द्रव्यं केनचिद् गृहीतमित्याद्युपगमे पक्षप्रवृत्तसन्तानविरुद्धपदार्थोत्पादनात् मारणाद्यध्यवसायद्वारेण अयोनिशोमनस्कारादिमतोऽकुशलादिवत् प्राणातिपातादयो व्यवस्थाप्यन्ते, तथैव स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेन अखण्डितसकलविपर्यासबन्धनानामित्येवं तत्पतिहाराः तत्पक्षाश्चान्यत्र अभिहिता इत्यवगन्तव्याः। किञ्चमिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम्।



इति दृष्टान्तासिद्धिः। इत्येव स्वप्नेऽप्युपचित्तकुशलाकुशलस्य प्रबुद्धावस्थायामहो कृतः सुकृत इत्यनुमोदने पृष्ठावस्थाचित्ताभिनिवेशपरिपुष्ट्या परिपोषः। अतश्च दृष्टान्तासिद्धेः संसारनिर्वाणसमता एव।



१०-अनुत्तरा क्षेत्रशुद्धिः

उभयसमताविभावनया स्वबुद्धक्षेत्रे बुद्धो भविष्यतीति तदनन्तरं बुद्धक्षेत्रपरिशुद्धिरित्याह-



सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्‍ध्युपहारतः।

तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता॥६१॥



सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रयोर्यथाक्रमं जिघत्सापिपासास्थाणुकण्टकादिका याऽशुद्धिः, तस्याः प्रतिपक्षेण दिव्योपभोगकनकभूभ्यादिशुद्धिजननद्वारेण विशुद्धिर्बुद्धक्षेत्रविशुद्धिः।



११-उपायकौशलम्



निष्पादितस्वबुद्धक्षेत्रविशुद्धिनोपायकौशलेन यथाभव्यतया बुद्धकृत्यं करणीयमित्युपायकौशलमाह-





विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः।

अप्रतिष्ठो यथावेधमसाधारणलक्षणः॥६२॥



असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः।

तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम्॥६३॥



इति। आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रमः, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहारः, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारणः, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शुन्यताविमोक्षमुखत्वेन अनुपलम्भः, अनिमित्तविमोक्षमुखत्वेन अनिमित्तः, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति प्रज्ञापारमिताया दशविधविषयाणां साक्षात्क्रियायां कालाकालज्ञानप्रयोग एव उपायकौशलं भवतीति।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारवृत्तिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project