Digital Sanskrit Buddhist Canon

सर्वज्ञताधिकारः तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sarvajñatādhikāraḥ tṛtīyaḥ

सर्वज्ञताधिकारः तृतीयः



१-प्रज्ञया न भवे स्थानम्



२-कृपया न शमे स्थितिः



सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यग् इति सर्वज्ञतामाह-



नापरे न परे तीरे नान्तराले तयोः स्थिता।

अध्वनां समताज्ञानात् प्रज्ञापारमिता मता॥१॥



इति। त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात् बुद्धबोधिसत्त्वानां या आसन्नीभूता मता प्रज्ञापारमिता, सा खलु प्रज्ञया पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे च यथाक्रमं शाश्वतोच्छेदलक्षणे, न तयोर्मध्येऽपि व्यवस्थितेति न संसारनिर्वाणयोः व्यवस्थिता।





३- अनुपायेन दूरत्वम्



४- उपायेनाविदूरता



सर्वज्ञताधिकाराद् व्यतिरेकनिर्देशेन श्रावकादीनां त्र्यध्वसमताज्ञानाभावात् सम्यक् प्रज्ञापारमिता दूरीभूतेति। स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्वस्तूपलम्भतयेति ज्ञेया। 'यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता' इति न्यायादध्वत्रयसमताज्ञानं पदार्थावबोध एव, ननु स च सर्वेषामेव समस्तीति कथं श्रावकबोधिसत्त्वादीनां सम्यक् प्रज्ञापारमितादूरीभावः, न चेतरेषां भवतीति चेत्? आह-



अनुपायेन दूरं सा सनिमित्तोपलम्भतः।

उपायकौशलेनास्याः सम्यगासन्नतोदिता॥२॥



इति। मायाकारनिर्मितवस्तुनः प्रतिभासे अविदिततत्स्वरूपस्य भावाभिनिवेशिता नैःस्वाभाव्याप्रतिभास इव कल्याणमित्राद्युपायकौशलवैकल्याद् वस्तु निमित्तयोगेन प्रतिपत्तौ तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या इति। बोधिसत्त्वानां तु समाराधितकल्याणमित्रोपदेशतया अविपरीतसत्यद्वयाश्रितश्रुतादिज्ञानोत्पत्त्युपायकौशलेन च उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावोऽस्या मातुरिति अनुपायेन एव दूरता, उपायेन तु अदूरता भवति।



५- विपक्षः



श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं विपक्षमाह



रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च।

दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता॥३॥



इति। सर्वेषां रूपादीनां त्रैयध्विकानाञ्च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः। अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतानि विपर्यासप्रवृत्तत्वेन हेयत्वात् विपक्षो भवति।



६-प्रतिपक्षः



विपर्ययेण बोधिसत्त्वानां परिपक्ष इत्याह-



दानादिष्वनहङ्कारः परेषां तन्नियोजनम्।

सङ्गकोटीनिषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु॥४॥



इति। त्रिमण्डलविशुद्ध्या दानादावनात्मावबोधेन स्वपरयोर्नियोजनं सम्यक् प्रवृत्तत्वात् सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात् सर्वथा प्रतिपक्षः। तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षोऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति विपक्षो भवति।



कथं पुनः सुक्ष्मसक्तिर्विपक्ष इति चेदाह-



तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः।



इति। यस्मात् स्वभावेनैव धर्मगोत्राणां शून्यत्वात् तेषां गाम्भीर्यम्, तस्मात् तथागतोपलम्भोऽपि विपक्षः।



कथं तर्हि तस्य वर्जनमित्याह-



एवप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम्॥५॥



इति। रूपादिसर्वधर्माणामेकैव प्रकृतिः यदुत निःस्वभाव इति ज्ञानज्ञेयसमतैकपरिज्ञाने सक्तिर्वर्जिता भवति।



कथ पुनः प्रकृत्या धर्मगाम्भीर्यमित्याह-



दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता।



इति। यस्मात् सर्वविज्ञानोपलव्धार्थनिराकरणेन तस्याः प्रकृतेर्दुर्बोधता कथिता, अतस्तस्या गाम्भीर्यम्।

कथं पुनरेवं दुर्बोधतेत्याह-



रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते॥६॥



रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते, अतोऽस्या दुर्बोधतेति यावत्।



विपक्षादि एवमभिधाय उपसंहारमाह-



एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानते।

अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः॥७॥



इति। सर्वज्ञताधिकारे यथोक्तनयेन यथाक्रमं श्रावकबोधिसत्त्वादीनां विपक्षप्रतिपक्षयोरयं प्रभेदोऽवसातव्यः।



७-प्रयोगः



विपक्षादि एवमभिधाय तयोर्विभावनायां कः प्रयोग इति चेत् प्रयोगमाह-



रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः।

तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः॥८॥



अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा।

यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च सः॥९॥



अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः।



रूपादिसर्वधर्माः, तेषामेवानित्यताशून्यतादयः, प्रतिपूर्णापूर्णता, असङ्गः, अन्यथाऽविकारः, अकर्तृत्वम्, त्रिसर्वज्ञतात्मकानां यथाक्रमं उद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, परप्रत्ययानिर्गामित्वम्, परिणामसमाहार-विरोध-प्रत्यय- असङ्क्रान्ति-निराधार- अकारकात्मक- सप्तख्यातिसिद्धपरिज्ञानस्य निराकरणम्, तदेवमन्वयमुखेन बोधिसत्त्वानां दशविधः प्रयोगः कथितः, अर्थाद् यथोक्तविपर्ययेण श्रावकादीनां प्रयोगो भवति।



८- समता



समताद्वारेण प्रयोगो भावनीय इति प्रयोगानन्तरं समतामाह-



चतुर्धाऽमनना तस्य रूपादौ समता मता॥१०॥



इति। रूपाद्यभिनिवेशनीलादिनिमित्तप्रपञ्चाधिगममननानां सर्वथानुपलब्धिरिति प्रयोगसमतात्वात् समता भवति।



९-दर्शनमार्गः



प्रयोगसमतां प्रतिविध्य दर्शनमार्गो भावनीय इति दर्शनमार्गमाह-



धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः।

दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये॥११॥



इति। प्रतिसत्यं धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः सर्वज्ञताधिकारे दर्शनमार्गो भवति।



ननु कः सत्यस्याकार इत्याह-



रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम्।

अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम्॥१२॥



परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः।

प्रव्याहारेण नास्यार्थः परेषु प्राप्तये यतः॥१३॥



नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः।

अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति॥१४॥



असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये।

ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः॥१५॥



नैःस्वाभाव्येन रूपादि नित्यानित्यवियोगान्न नित्यं नानित्यम्, दुःखादुःखविगमत्वेन अपगतशाश्वतोच्छेदान्तम्, शून्याशून्यरहितत्वाद् विशुद्धम्, आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमित्यादयो दुःखसत्याकारा भवन्ति।



हेत्वहेतुतुच्छत्वादाकाशसदृशम्, समुदयासमुदयविसंयोगात् सर्वक्लेशोपक्लेशनिरुपलिप्तम्, प्रभवाप्रभवासम्बद्धत्वात् परिग्रहेण निर्मुक्तम्, प्रत्ययाप्रत्ययविमुक्तत्वात् स्वरूपतोऽवचनीयमिति समुदयसत्याकारा भवन्ति।



यस्मान्निरोधानिरोधेनासम्बन्धः, तस्मान्निरोधसत्यार्थो वचनोदाहरणेन सन्तानान्तरेऽप्रापणीयः, शान्ताशान्ताभावान्नोपलम्भकरणम्, प्रणीताप्रणीतविकलत्वादतिक्रान्तोभयान्ता विशुद्धिः, निःसरणानिःसरणविविक्तत्वात् सर्वव्याध्यनुत्पाद इति निरोधसत्याकारा भवन्ति।



मार्गामार्गरहितत्वादपायोच्छित्तिः, न्यायान्यायासंश्लेषात् फलसाक्षात्करणं प्रत्युपायोऽविकल्पत्वम्, प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन सर्वधर्माणां निमित्तैरसंसर्गः, नैर्याणिकानैर्याणिकविकल्पत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरिति मार्गसत्याकारा भवन्ति।



एवमेते आकाराः सर्वज्ञताक्षणा इति बोधिसत्त्वानां दर्शमार्गः, तद्विपर्ययेण श्रावकदीनामनित्यादिभिराकारैः सर्वज्ञतायां दर्शनमार्गो विभावनीयः। श्रावकमार्गो बोधिसत्त्वेन परिज्ञातव्यो न साक्षात्करणीय इति भावनामार्गो न निर्दिष्टः।



विस्तरेण एवं निर्दिश्य सकलार्थसङ्ग्राहकत्वेन त्रिसर्वज्ञतामुपसंहरन्नाह-



इति सेयं पुनः सेयं खलु पुनस्त्रिधा।

अधिकारत्रयस्यैषा समाप्तिः परिदीपिता॥१६॥



इति। यथोक्तनीत्या इयं सर्वाकारज्ञता, इयं मार्गज्ञता, इयं सर्वज्ञता चेत्येवं परिवर्तत्रयेण प्रकारत्रयं परिसमाप्तम्।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे तृतीयाधिकारवृत्तिः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project