Digital Sanskrit Buddhist Canon

मार्गज्ञताधिकारः द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Mārgajñatādhikāraḥ dvitīyaḥ

मार्गज्ञताधिकारः द्वितीयः



१-ध्यामीकरणतादीनि



सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतामाह-



ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति।

विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च॥१॥



मार्गज्ञतोत्पत्तिं प्रति योग्यतापादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्तानेऽधिगम उत्पद्यत इति ज्ञापनाय कृता, अतो वक्रोक्त्याधारः कथितः। स चोत्पादितबोधिचित्त एवेति विषयप्रतिनियतो भवति। त्रियानव्यवस्थानमाभिप्रायिकम्, न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिर्भवति। सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा क्लेशाप्रहाणमिति स्वभावो भवति। तादृशस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रयोपायकौशलेन चापरिगृहीतसत्त्वस्य परिग्रहणादिनेति कारित्रम्।



२-श्रावकमार्गः



आधारादिकमेवममिधाय मार्गज्ञताधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकमार्गमाह-



चतुर्णामायसत्यानामाकारानुपलम्भतः।

श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये॥२॥



इति। तत्र दुःखसत्यस्यानुक्रमेण अनित्यं दुःखं शून्यमनात्मेत्येतानि चत्वारि शान्ताकारलक्षणानि।



समुदयसत्यस्य हेतु-समुदय-प्रभव-प्रत्ययरूपत्वेन रोग- गण्ड- शल्य- अघाकाराः।



निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यतस्तयोः दुःखसमुदययोः प्रत्येकः पर-प्रलोपधर्मस्वरूपौ निर्विदाकारौ, चल-प्रभङ्गुरस्वरूपौ विरागाकारौ; भय-उपसर्ग-उपद्रवस्वरूपा निरोधाकाराः। निरोधसत्यस्य निरोधरूप-निरात्म-शान्त-प्रणीतरूपविविक्त-निर्याणरूपशून्यानिमित्ताप्रणिहितानभिसंस्कारा निरोधसत्याकाराः।



मार्गसत्यस्य मार्ग-न्याय-प्रतिपत्ति-नैर्याणिका इति मार्गसत्याकाराः। ततश्चैषां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्वेनैवं परिज्ञेयः।



निर्वेधभागीयाधिगमपूर्वकं चतुःसत्वपरिज्ञानमिति मार्गममिधाय निर्वेधभागीयमाह-



रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः।

ऊष्माणोऽनुपलम्भेन तेषां मूर्धगतं मतम्॥३॥



क्षान्तयस्तेषु नित्यादिगोस्थाननिषेधतः।

दश भूमीः समारभ्य विस्तरास्थानदेशनात्॥४॥



अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि।

तत्कस्य हेतोर्बुद्धेन बुद्‍ध्वा धर्मासमीक्षणात्॥५॥



रूपादिस्कन्धानां स्वस्वरूपशून्यत्वाच्छून्यतानामभेदेन, रूपादीनां पूर्ववदनुपम्भेन, एवं रूपादीनां 'न नित्यं नानित्यम्' इत्युपलम्भयोगतः स्थाननिषेधेन, यस्मात् तथागतेन बोधिमभिसम्बुध्य धर्मा न समीक्षिता इति प्रमाणपुरुषादर्शनकारणोपपत्त्या प्रमुदितभूम्यादौ विस्तरास्थानदेशनया चेति एभिराकारैर्यथाक्रमं सत्यानामुपलब्धौ निर्वेधभागीया उत्पद्यन्ते।



३-प्रत्येकबुद्धमार्गः



श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्तेऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह-



परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम्।

गम्भीरता च ज्ञानस्य खड्गानामभिधीयते॥६॥



इति। श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्ते; सालापधर्मदेशनया च परानपि कुशले प्रवर्तयन्तीत्यागमः। प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिसमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थक्यमित्येकं वैशिष्ट्यम्। शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तृज्ञानसामर्थ्यावबोधः। ते (प्रत्येकबुद्धाः) पुनः अशब्दोच्चारणधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्यानवबोधतया द्वितीयं वैशिष्ट्यमिति।



कथमशब्दोच्चारणधर्मदेशनेत्याशंक्याह-



शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा।

स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा॥७॥



इति। नावितर्क्य नाविचार्य वाचं भाषत इत्यालापो विक्षेपः। स च सन्तानक्षोभमादधातीति यथा यथा बोधिसत्त्वेन 'बुद्धो भूत्वा आलापमन्तरेण धर्मदेशनां कुर्याम्' इति प्रणिधानं प्रवर्तितम्, तथा बुद्धत्वसाम्यात् प्रत्येकबुद्धावस्थायाञ्च प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा, तस्य विज्ञाने तेनैव प्रकारेण अशब्दोऽपि सोऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते। इत्येवं वक्ष्यमाणधर्मस्य श्रोतृविज्ञाने सुनिर्माणमुत्पादश्चेत्ययं भवति धर्मदेशना शब्दार्थः।



वैशिष्ट्यमेवमभिधाय विशिष्टानां विशिष्ट एव मार्ग इति प्रकृतप्रत्येकबुद्धमार्गमाह-



ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः।

आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः॥८॥



इत्युक्तम्। प्रत्येकबुद्धस्य मार्गः यथोक्तसत्यभावनया एव, यथावस्तु प्रतीत्यसमुत्पादभावनया च। ग्राह्यग्राहकार्थविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणे प्रत्येकबुद्धयानसङ्गृहीताधारधर्मवस्तुनो विशेषविशिष्टधर्माधिगमश्च बोधिसत्त्वेन परिज्ञेयो न सर्वाकारज्ञानेनेति प्रत्येकबुद्धमार्गः।



निर्वेधभागीयाधिगमे सति यथोक्तमार्ग उत्पद्यत इति निर्वेधभागीयमाह-



प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः।

ऊष्मगं मूर्धंगं रूपाद्यहानादिप्रभावितम्॥९॥



अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात्।

क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता॥१०॥



इति। रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मतायाः प्रतिपादनेनः, रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणेन, स्वभावशून्यत्वात् रूपादेरध्यात्मबहिर्धादिशून्यतया अपरिग्रहणेन, रूपादेरनुत्पादानिरोधाद्याकारैश्च यथाक्रमं चतुःसत्यालम्बने निर्वेधभागीयो भवति।



४-बोधिसत्त्वमार्गः



प्रत्येकबुद्धमार्गानन्तरं बोधिसत्त्वमार्गमाह-



क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः।

मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते॥११॥



इति। मार्गज्ञताधिकारे बोधिसत्त्वेन धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानं चेति चत्वारः क्षान्तिज्ञानक्षणाः प्रत्येकं दुःखादिसत्यसम्बन्धयुक्ता ऐहिकामुत्रिकैर्गुणैर्युक्ता विमावनीया इति दर्शनमार्गो महानुशंस इत्युच्यते।



कथमाकारो भावनीय इत्याह -



आधाराधेयताभावात्तथताबुद्धयोर्मिथः।

पर्यायेणाननुज्ञानं महत्ता साऽप्रमाणता॥१२॥



परिमाणान्तताभावो रूपादेरवधारणम्।

तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादयः॥१३॥



मैत्र्यादि शून्यताप्राप्तिर्बुद्धत्वस्य परिग्रहः।

सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम्॥१४॥



निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम्।

अप्राणिवधमारभ्य सर्वाकारज्ञतानये॥१५॥



स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम्।



दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः॥१६॥



परमार्थतः तथताबुद्धयोराधाराधेयभावो न विद्यत इत्यतस्तयोः पर्यायेणावस्थितेरननुज्ञानम्। रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता। पूर्ववदाकाशापरिमाणतया तेषामपरिमाणतेत्येवं दुःखसत्याकारा भवन्ति।



रूपादीनां निःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावः। प्रज्ञापारमितायां स्थितस्य धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणम्। तथैव तस्यां स्थितस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकम्। निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं समुदयसत्याकारा भवन्ति।



रूपादेर्निजरूपा प्रकृत्यैव शून्यता। धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणम्। प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां संग्रहः। तयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं निरोधसत्याकारा भवन्ति।



निःस्वभावताभावनयैव रूपादिनिर्वाणाभिनिवेशस्य शान्तिः। प्रज्ञोपायकौशलप्रवृत्तस्य बुद्धेभ्यो रक्षावरणगुप्तयो भवन्ति। बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनम्। दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बोधौ परिणामनमित्येवं मार्गसत्यस्याकारा भवन्ति। इत्येवमेव मार्गज्ञतायाः क्षणा भवन्ति।



केचिदिह कारिकार्थोपलक्षणपरेण ग्रन्थेन आकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्ति, एवमुक्तानुक्तनिर्वेधभागीयाद्यर्थकारिकास्वपि द्रष्टव्यमिति। तैर्भावनानुक्रमाद्यनिर्देशात् काचिदभिसमयानुपूर्वी न प्रतिपादिता। 'आलम्बनमनित्यादि सत्याधारं तदाकृतिः' इत्यादिकारिकार्थश्च कथं व्याख्येय इत्यपरे।



५-भावनामार्गकारित्रम्



दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तत्वेन फलनिम्नत्वेन च विनेयप्रवृत्तेः तत्कारित्रं तावत्-



सर्वतो दमनं ना सर्वतः क्लेशनिर्जयः।

उपक्रमाविषह्यत्वं बोधिराधारपूज्यता॥१७॥



इत्युक्तम्। सर्वप्रकारचित्तस्वविधेयीकरणम्, कल्याणमित्रादिसर्वजननमनम्, रागाद्यभिभवः, परकृताघाताननुप्रतिपत्तेः अविषह्यत्वम्, सम्यक्सम्बोधिप्रतिपत्तिः, आधारविषयपूज्यताकारित्रञ्चेति षड्‍विधमेव कारित्रम्।



सास्रवो भावनामार्गः



६- भावनामार्गाधिमुक्तिः



कारित्रानन्तरं भावनामार्गः। स च सास्रवानास्रवभेदेन द्विविधः। अतः सास्रवभावनामार्गाधिमुक्तिपरिणामनानुमोदनामनस्कारेषु प्रथमं भावनामार्गाधिमुक्तिमनस्कारमाह-



अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका।

परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते॥१८॥



मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः।

सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता॥१९॥



इति। स्वोभयपरार्थोपलम्भतया यथाधिमोक्षं दृष्टकुशलधर्मधिष्ठाना भावनामार्गाधिकारादादौ असाक्षात्क्रियारूपाधिमुक्तिः त्रिविधा सती प्रत्येकं मृद्वादिभेदेन त्रिविधा। एवमेषापि प्रत्येकं मृदुमृद्वादिभेदेन त्रिविधा। एवं नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति।



७- भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च



तद्भावकबोधिसत्त्वस्योत्साहवर्धनाय तदधिमोक्षस्य स्त्युत्यादयो बुद्धादिभिः क्रियन्त इति स्तुतिं, स्तोभं प्रशंसाञ्चाह-



स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति।

अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते॥२०॥



इति। यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च इष्यते। अतस्ते स्तुत्यादयो यथाभूतार्थाधिगममात्रलक्षणा नार्थवादरूपाः।



८-परिणामना



एवमधिमोक्षस्य परिणामनासम्भवाद् द्वितीयं परिणामनामनस्कारमाह-



विशेषः परिणामस्तु तस्य कारित्रमुत्तमम्।

नोपलम्भाकृतिश्चासावविपर्यासलक्षणः॥२१॥



विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः।

सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः॥२२॥



त्रैधारुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा।

मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः॥२३॥



इति। यथोक्तो विशेषाधिमोक्षः, अनुपलम्भः, अविपर्यासः, विविक्तः, तथागतकुशलमूलौधस्वभावस्मृतिः, सोपायकौशलः, अनिमित्तः, बुद्धानुज्ञातः, त्रैधातुकाप्रपन्नः, मृदुमध्याधिमात्रश्च महापुण्योदय इत्येवमध्यारोपितमनस्कारा यथाक्रममनुत्तरसम्यक्सम्बोधिः शीलादिस्कन्ध-परिणामनाचित्त- आत्मादियुक्तवस्तु- त्रिकालबुद्धकुशल-दानादि-निमित्त- सर्वमार्ग- कामादिधातु-दशकुशलकर्मपथ-स्रोत- आपन्नाद्यनुत्तरसम्बोधिप्रस्थितानामनुपलब्धानामुपलम्भा इति त्रियानविनेयसत्त्वानां मार्गोपदेशहेतुभावव्यापारयुक्तैः सर्वसत्त्वार्थमक्षयाय चानुत्तरसम्यक्सम्बोधौ द्वादश परिणामनाः क्रियन्ते।



९-अनुमोदना



एवं परिणामयितवस्तु अभिवर्धयितव्यमिति तृतीयमनुमोदनामनस्कारमाह-



उपायानुपलम्भाभ्यां शुभमूलानुमोदना।

अनुमोदे मनस्कारभावनेह विधीयते॥२४॥



इति। संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतोऽनुपलम्भतयानुमोदनीयानीति।



तत्रायं समासार्थः-आकरान्निष्कृष्टः स्वर्णपिण्ड इवाधिमोक्षमनस्कारः, स्वर्णकारेण ततोऽलङ्कारकरणमिव सम्यक्सम्बोधेरङ्गकरणं परिणामनामनस्कारः, स्वपरपुण्यसमताप्राप्ति अनुमोदनामनस्कार इति।



अनास्रवो भावनामार्गः



१०-अभिनिर्हारः



सास्रवानन्तरमनास्रवो भावनामार्गः। स च द्विविध इति प्रथममभिनिर्हारलक्षणं भावनामार्गमाह-



स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः।

नोपलम्भेन धर्माणामर्पणा च महार्थता॥२५॥



इति। रूपाद्यविपरीतदर्शनं स्वभावः। नान्यथा बुद्धत्वसंप्राप्तिरिति श्रेष्ठता। सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगोऽनभिसंस्कारः। तादृशस्वभावादियुक्तमार्गधर्माणामनुपलम्भतया योगिसन्ताने समुत्पादनमर्पणा। बुद्धत्वमहार्थसाधनान्महार्थता।



११-अत्यन्तविशुद्धिः

तदनन्तरं यः परिग्रहत्यागेन प्राप्स्यमानः कस्तस्योत्पादानुत्पादहेतुरिति आकांक्षानिरासद्वारेण द्वितीयमत्यन्तविशुद्धिलक्षणमाह-



बुद्धसेवा च दानादिरुपाये यच्च कौशलम्।

हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः॥२६॥



माराधिष्ठानगम्भीरधर्मतानधिमुक्तते।

स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः॥२७॥



इति। बुद्धसमाराधनम्, दानादिपारमितापरिपूरणम्, शमथकौशलञ्चेति उत्पादहेतवः।



मारबाधितम्, गम्भीरधर्मानधिमोक्षः, भावग्रहः, पापमित्रसंगतिरिति अनुत्पादहेतवः।



अधिगमानधिगमहेतूनेवमुक्त्वा प्रकृतस्य सामान्येन विशुद्धिमाह-



फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः।

अभिन्नाच्छिन्नता यस्मादिति शुद्धिरूदीरिता॥२८॥



इति। आर्यपुद्गलस्य यत् श्रामण्यताफलं तस्य सर्वविपक्षरहितत्वेन या विशुद्धिः सैव रूपादिविशुद्धिः, फलरूपादिविशुद्धिः रूपादेरात्माभिनिवेशादिविगमात्। प्रभेदत्वेन यस्मात् तद्विशुद्धिः अभिन्ना अच्छिन्ना तस्मात् स्वसामान्यलक्षणनानात्वविरहाद् एवं विशुद्धिरभिधीयते।





सामान्येन विशुद्धिमेवमभिधाय विशेषेणाह-



क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम्।

हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा॥२९॥



इति। रागादिक्लेशप्रहाणात्, एतस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात्, यानत्रयमार्गावरणप्रहाणाद् यथाक्रमं श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वानां शुद्धिर्भवति। सर्वथा सवासनक्लेशज्ञेयावरणप्रहाणात् धर्मधातूद्भवानुत्तरबुद्धानां विशुद्धिरिष्यते।



मार्गज्ञताधिकारे विशुद्दिकथनप्रसङ्गादात्यन्तिकी चेतरा च बुद्धानां श्रावकादीनां च यथाक्रमं विशुद्धिः। सः कथमित्याह-



मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु।

अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः॥३०॥



इति। कारधातुध्यानारूप्यसमापत्तय इति नवभूमिष्वधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकारः। सर्वथान्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति।



कथमात्यन्तिकीत्याह-



त्रिधातुप्रतिपक्षत्वं समता मानमेययोः।

मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः॥३१॥



इति। तत्राधिमात्राधिमात्रादिः प्रतिपक्षो मृदुमृद्वादिर्विपक्ष इति भवितव्यमितिचोद्यस्य वस्त्रलिप्तसूक्ष्ममलापकषर्णे रजकमहायत्नोदाहरणेन परिहारतः यथानिर्दिष्टभावनामार्गस्यात्यन्तिकी। त्रैधातुकाकारज्ञानज्ञेयानुपलम्भाद् या समता सैव समस्तप्रतिपक्षत्वादात्यन्तिकी विशुद्धिर्बुद्धस्य व्यवस्थाप्यत इति॥



अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारवृत्तिः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project