Digital Sanskrit Buddhist Canon

सर्वाकारज्ञताधिकारः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sarvākārajñatādhikāraḥ prathamaḥ

प्रज्ञापारमितोपदेशशास्त्रे

आचर्यहरिभद्रकृता

अभिसमयालङ्कारवृत्तिः स्फुटार्था



सर्वाकारज्ञताधिकारः प्रथमः



नमः सर्वबुद्धबोधिसत्त्वेभ्यः

मंगलाचरणम्



प्रज्ञापारमितायै यस्यास्तदलङ्कारकारिकाणाम्।

सर्वालङ्करणार्थं क्रियते व्याख्या नमस्तस्यै॥१॥



जगदासङ्गसङ्गेन त्वार्यासङ्गेन तायिना।

आकर्ण्याजितनाथात्तन्महाशास्त्रं व्यभज्यत॥२॥



जगद्धितपरो बन्धुः वसुबन्धुः स्वकाशयम्।

चान्तर्ज्ञेयं समाश्रित्य तद्व्याख्यामकरोत्ततः॥३॥

आर्यान्तर्गणितः ख्यातो विमुक्तिरिति तत्कृताम्।

अकृतामिव तां द्रष्ट्वा चक्रेऽन्यां मध्यया धिया॥४॥



ततो विमुक्तिसेनेन शास्त्राण्यप्राप्य सर्वशः।

श्रद्धाभूमिस्थितेनापि व्याख्याता स्वमनीषया॥५॥



एवं विद्वद्वरैः प्रोक्ते किञ्चन्नैयून्यमीक्ष्यते।

अस्मिन् सर्वं सुसम्पन्नं महदाश्चर्यकारकम्॥६॥



अयं सुदुर्लभः पन्थाः गम्भीरश्च यथार्थकः।

सुविमृश्यश्च विद्वद्भिः प्राप्तो बुद्धानुकम्पया॥७॥



सर्वथा मम नास्त्येव गोचरोऽप्यहमुत्सहे।

पुण्यविध्यनुकूलत्वात् स्वपरोपचिकीर्षया॥ ८॥



आर्यमैत्रेयः सदाचारानुवृत्तिमात्मनः प्रख्यापयन् स्वप्रतिसंविज्ज्ञानेन प्रज्ञापारमिताविषयकः प्रसाद एव सर्वश्रेयः प्राप्तिप्रधानहेतुरित्यवधृत्य परं निरतिशयानन्तगुणरत्नाकरभगवत्यां प्रवर्तयितुं प्रसादोत्पादनाय तावदादौ यथागुणाभिधानपुरःसुरं जननीं नमस्कुर्वन्नाह -



या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्

या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका।

सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगता-

स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः॥१॥



अनया कारिकया अस्याः अतिशयमाहात्म्यवत्त्वम् अमिहितम्। तच्छ्रुत्वा तावच्छ्रद्धानुसारिणः अस्यां निःसंशयमचिरेण श्रद्धामुत्पादयन्ति। धर्मानुसारिणोऽपि एकानेकस्वभाववियुक्तत्वादित्यादिप्रमाणेन अनुत्पन्नवस्तुमार्गाकारपरिज्ञानकारिकार्थलक्षणजनन्यां बाधाम् अदृष्ट्वा त्रिसर्वज्ञतास्वरूपत्रयात्मिका बुद्धादिनिर्मात्री प्रज्ञापारमितावश्यमेव सम्भविनीत्यवधृत्य तस्यां प्रसादमुत्पादयन्ति। तस्यां प्रसादेन तद्गुणाभिलाषिणः उभयविधा अपि पुद्गलाः तत्तदाश्रितप्रवचनधारणाद्यर्थं सर्वथा अत्यन्तमाद्रियन्ते। ततः श्रुतमयादिज्ञानोत्पादक्रमेण सुश्रेयोऽधिगताःभवन्ति। अत एव भगवत्यां प्रदास एव सर्वश्रेयोऽधिगमहेतुः।



तत्र तिसृभिः सर्वज्ञताभिरष्टावर्थाः सङ्गृहीता भवन्ति। ताभिश्च वक्षमाणविधिना सर्वार्थाः सम्पत्स्यन्त इति मनसि निधाय त्रिसर्वज्ञताभिः प्रज्ञापारमितां स्तौति। श्रावकः, तत्पक्षनिक्षिप्तः किञ्चिद्‍विमोक्षाधिकः एकक्रम निर्दिष्टः प्रत्येकबुद्धश्च निर्वाणभिलाषिणौ, तयो अनुत्पन्नसर्ववस्तुज्ञतया सोपधिनिरुपधिलक्षणद्विविधनिर्वाणप्रापिका या, यावत्संसारं जगद्धितकृतां बोधिसत्त्वानामनुत्पन्नसर्वमार्गज्ञतया सर्वलोकार्थसम्पादिका या, अनुत्पन्नसर्वाकारज्ञतया यया सङ्गताः संयतकायाः प्रधानयोगीश्वरा बुद्धाः सर्वथा चरितप्रतिपक्षसर्वधर्मचक्रान् प्रवर्तयन्ति। तस्यै श्रावकादिपरिवृतबुद्धानामुत्पायित्र्यै मात्रे नमः। एवं नमस्कारस्तुतिपूवकेणाभिसमयालङ्कारशास्त्रेण वस्तु-प्रतिपक्षाकारेषु कस्मिंश्चिदेकस्मिन् (पक्षे) संगृहीते, प्रथमपक्षे तावत्तदर्थपरिश्रमवैयर्थ्यम्। तथा हि न हि तदस्ति इह प्रज्ञापारमितायां वस्तुजातं यन्न लक्षणशास्त्रेषु उक्तपूर्वम्। द्वितीये व्यवदानवस्तु (मात्र) सङ्ग्रहात् सांक्लेशिकवस्त्वसंग्रहाच्च न ज्ञायते कस्यायं प्रतिपक्ष इति। तृतीते निर्वस्तुकाकारमात्रसंग्रहादर्थाधिगमशून्यादिह किञ्चिदपि नोक्तमिति व्यर्थ एव (शास्त्ररचनायासः)इतिनापरेशङ्किष्यन्तेकिम्इतिचेत् ? तन्नः, यतो हि यथाक्रमं श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वानुत्तरबुद्धानां त्रिसर्वज्ञतायां समस्ताभिसमयानां संग्रहणेन पक्षत्रयस्यापि संगृहीतत्वात्।



यथा मध्यमजिनजनन्यां-" सुभूते ! श्रावकप्रत्येकबुद्धयोः सर्वज्ञता, बोधिसत्त्वानां मार्गज्ञता, तथागतार्हत्सम्यक्सम्बुद्धानां सर्वाकारज्ञता। भगवन् किमर्थं सर्वज्ञता श्रावक-प्रत्येक बुद्धयोः ? सुभूते ! सर्वे हि यावन्तो बाह्याभ्यन्तरधर्माः, तावत एव श्रावकप्रत्येकबुद्धा जानन्ति, न तु मार्गेण, नापि सर्वाकारेण, अतः सर्वज्ञता श्रावक-प्रत्येक-बुद्धयोरिति। भगवन्, किमर्थं मार्गज्ञता बोधिसत्त्वानाम् ? सुभूते ! बोधिसत्त्वैः, यं श्रावकस्य मार्गः, याः प्रत्येकबुद्धस्य मार्गः, यो बुद्धस्य मार्गः सर्वे मार्गा उत्पाद्यन्ते ज्ञायन्ते च। तेऽपि परिपूर्यन्ते, तेषां मार्गाणां क्रियापि क्रियते। न यावत् प्रणिधानपरिसमाप्तिः, सत्त्वपरिपाकः, बुद्धक्षेत्रपरिशुद्धिर्वा क्रियते, न तावत्तेषां सम्यग्भूतान्तसाक्षात्कारः, अतः मार्गज्ञता बोधिसत्त्वानाम्। भगवन्, किमर्थं सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्सम्बुद्धस्य? सुभूते, येन आकारेण, येन लिङ्गेन, येन निमित्तेन प्रख्याता धर्माः, तमाकारं तल्लिङ्गं तन्निमित्तं तथागता अवगच्छन्ति, अतः तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य सर्वाकारज्ञतेति।" एवं संक्षिप्तायामपि (जिनजनन्यां)-"श्रावकभूमावपि शिक्षितुकामेनापि" इत्यादिकमाह। विस्तृतायामपि विस्तरेणाभिहितम्।



तत्र सर्वज्ञता हि रूपादिधर्मानित्यताद्यधिष्ठाना आत्ममोहप्रहाणफला; मार्गज्ञता सर्वयाननिर्याणा तत्त्वासाक्षात्काराधिष्ठाना असंगृहीतसत्त्वसंग्रहादिफलाः; सर्वाकारज्ञता सर्वधर्मानुत्पादाधिष्ठाना आकाशधातुपर्यन्ताविच्छिन्नसत्त्वार्थफला भूतान्ताधिगमवासनाप्रतिसन्धिप्रहाणात्मिका।



इत्थमभिसमयालङ्कारे सर्ववस्तुप्रतिपक्षाकारसंग्रहणेनाशेषाभिसमयनिर्देशः कृत इतीदमुपपद्यते।



ग्रन्थारम्भप्रयोजनम्



मन्दधीजनानां तु विस्तृतमध्मसंक्षिप्तासु भगवतीषु (संक्षिप्तमध्यविस्तृत) रुचिसम्पन्नसत्त्वहितेच्छया करुणामयेन तत्तज्जिनजनन्यां सकलप्रज्ञापारमितार्थाष्टाभिसमयक्रमो देशित एव, भगवत आर्याजितजिनस्य तन्निदर्शने किं प्रयोजनमितिशङ्कानिराकरणार्थसन्देहोत्पादनेन प्रवृत्त्यङ्गं स्वीयशास्त्राभिधेय-प्रयोजनप्रयोजनप्रयोजनान्तर्भूतसम्बन्धांश्च प्रदर्शयन्नाह -



सर्वाकारज्ञतामार्गंः शासित्रा योऽत्र देशितः।

धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति॥२॥



स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम्।

सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम्॥३॥



इति। सर्वाकारज्ञतैव हि बुद्धत्वमार्ग इति सर्वेषामभिसमयानामुपलक्षणत्वात्तस्यामेव तात्पर्यम्। त्रिप्रातिहार्यैः सकलजनानुशासकेन भगवता जिनजननीत्रये योऽभिधेयो देशितः, स अभिधानाभिधेयोपायोपेयप्रतिपत्तिरूपेण सम्बद्धः, बाह्येतरवीतरागादिभिः सर्वधर्मनैरात्म्यानभ्यस्तैः श्रुतमयादिप्रज्ञाक्रमेणानालीढ इति सुव्यवस्थापिते वासनासम्भूतस्मृतिज्ञाने बोधिचित्तदानप्रतिपत्त्याचारमष्टाभिसमयात्मकमशेषप्रज्ञापारमितासूत्रार्थं सम्यगाधाय सर्वत्रगधर्मधात्वधिगमलक्षणप्रमुदितभूम्याद्यधिगमक्रमेण सर्वाकारं साक्षात्कुर्यादिति प्रयोजनप्रयोजनाय विनेया अभिलषितप्रज्ञापारमितार्थबोधिचित्तप्रतिपत्त्यादिलक्षणानि सुखेन प्रतिपत्सीरन्निति शास्त्रारम्भप्रयोजनम्॥



प्रज्ञापारमितायाः कायिकव्यवस्थापनम्



एवं सम्बन्धादीन् व्याहृत्य विनेयानां सुखेन प्रतिपत्तये सुप्रविभक्तस्यापि शास्त्रार्थस्य असंलुलितत्वेन व्याख्यानसौकर्यमवलोक्य पञ्चदशभिः कारिकाभिः समासव्यासनिर्देशेन प्रज्ञापारमितायाः कायिकव्यवस्थापनमाह -



प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता।

सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः॥४॥



सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विकः।

एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा॥५॥



चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम्।

आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः॥६॥



आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये।

सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः॥७॥



श्यामीकरणतादीनि शिष्यखड्गपथौ च यौ।

महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः॥८॥



कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः।

परिणामेऽनुमोदे च मनस्कारावनुत्तमौ॥९॥



निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः।

विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता॥१०॥



प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः।

अनुपायेन दूरत्वपायेनाविदूरता॥११॥



विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च।

दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते॥१२॥



आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः।

मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः॥१३॥



समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा।

सर्वाकाराभिसम्बोध एष सोपायकौशलः॥१४॥



लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः।

चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः॥१५॥



प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि।

आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः॥१६॥



मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः।

एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः॥१७॥



स्वाभाविकः ससांभोगो नैर्याणिकोऽपरस्तथा।

धर्मकायः सकारित्रश्चतुर्धा समुदीरितः॥१८॥



इति। तत्र प्रथमकारिकाद्वयेन अष्टवस्तूनां संग्रहात् समासनिर्देशः, ततः त्रयोदशकारिकाभिः तस्यैवार्थं संगृह्य विस्तरेण व्याख्यानं भवति। इत्थं संक्षेपविस्तराभ्यां भाषितत्वेन सुभाषितम्। पिण्डार्थकारिकाणामेव शास्त्रप्रणेत्रा 'चित्तोत्पादः परार्थाय' -इत्यादिवक्ष्यमाणसकलशास्त्रेण व्याख्यास्यमानत्वात् तद्व्याख्यानेनैव व्याख्यानं सञ्चिन्त्य वीप्साभयेन नात्रैता व्याख्याताः।



सर्वाकारज्ञता

१ चित्तोत्पादः



इत्थं सकलपिण्डार्थ निर्दिश्य बोधिं प्राप्तुकामैर्बोधिसत्त्वैः फलभूतत्वात् सर्वाकारज्ञताधिगन्तव्येत्यादौ सर्वाकारज्ञतासंग्रहकारिकां व्याख्यातुकामः सालम्बनं चित्तोत्पादस्वरूपमाह-



चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता।



बुद्धो भूत्वा यथाभव्यतया परार्थं प्रति यत्नं कुर्यामिति परार्थाय सम्यक्सम्बोध्यधिकामतालक्षणः प्रणिधिप्रस्थानस्वभावो द्विविधश्चित्तोत्पादः। सम्यक्सम्बोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिकः। विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तं "चित्तोत्पादः" इति कथं स (चैतसिकः) चित्तोत्पादो भवेत् ? सत्यमेतत्। किन्तु कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बोधिचित्तमुत्पद्यत इति कारणेनात्र कार्यं निर्दिष्टमेवं प्रार्थयितुः बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः। अन्यप्रकारेण प्रणिधानं प्रार्थना वा सम्यक्सम्बोधिकामता तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते। एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यत इति ज्ञापनाय वा॥



केयं सम्यक्-संबोधिः ? कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत् ? उच्यते -



समासव्यासतः सा च यथासूत्रं स चोच्यते॥१९॥



तिसृष्वपि जिनजननीषु प्रज्ञापारमितायां दानादौ च देयदायकप्रतिग्राहकाद्यनुपलब्धिः प्रतिपत्तव्येति ज्ञापनार्थकेन; यथाभव्यसर्वसत्त्वान् निर्वाणे, मत्सरिणश्च दानादौ प्रतिष्ठापयितुकामेनास्यां प्रज्ञापारमितायां प्रतिपत्तव्यमितिप्रदर्शनपरेण वचनेन (वाक्येन) सूत्रार्थाविरुद्धेन समासव्यासतः परार्था सम्यक्सम्बोधिः निर्दिष्टा। इत्थं 'चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता' ज्ञातव्या। सर्वाकरग्रन्थतात्पर्यार्थनिर्देशावसरे सर्वं कथितं तथापि बहुवक्तव्यमाशङ्क्य न (अत्र प्रधानतः) समुल्लिखितम्।



एवं सालम्बनं चित्तोत्पादस्वरूपमभिधायेदानीं तस्य द्वाविंशतिप्रभेदान् द्वाभ्यामन्तरश्लोकाभ्यामाह-



भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः।

वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः॥२०॥



नृपगञ्जमहामार्गयानप्रस्रवणोदकैः।

आनन्दोक्तिनदीमैघैर्द्वाविंशतिविधः स च॥२१॥



छन्द-आशय-अध्याशय-प्रयोग-दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-उपाय-कौशल-प्रणिधान-बल-ज्ञान-अभिज्ञा-पुण्यज्ञान-बोधिपक्षानुकूलधर्म-करुणाविपश्यना-धारणीप्रतिभान-धर्मोत्सव-एकयान-धर्मकायैः सहगतः (चित्तोत्पादः) यथाक्रमं पृथिवी-कल्याणसुवर्ण-शुक्लपक्षवनचन्द्र-

ज्वलन-महानिधान-रत्नाकर-महार्णव-वज्रपर्वतराज-भैषज्य-कल्याणमित्र-चिन्तामणि-आदित्य-धर्ममधुरसंगीति-महाराज-

कोष्ठागार-महामार्ग-यान प्रस्रवणोदक-

आनन्दोक्ति-नदीधारा-मेघैः-सदृशः; सर्वशुक्लधर्मप्रतिष्ठाभूतत्वात्, बोधिपर्यान्ताविकारित्वात्, सकलशुक्लधर्मविवृद्धिगमनात्, त्रिसर्वज्ञतावरणेन्धनदाहकत्वात्, सर्वसत्त्वसंतर्पणात्, गुणरत्नानामाश्रयभावात्, सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्, संप्रत्ययदार्ढ्येनाभेद्यत्वात्, आलम्बनविक्षेपेणानिष्कम्प्यत्वात्, क्लेशज्ञेयावरणव्याधिप्रशमनात्, सर्वावस्थासु सत्त्वार्थापरित्यागात्, यथाप्रणिधानं फलसमृद्धेः, विनेयजनस्य परिपाचनात्, विनेयावर्जन करधर्मदेशकत्वात्, अव्याहतप्रभावत्वेन परार्थानुष्ठानात्, बहुपुण्यज्ञानसंभारकोशस्थानत्वात्, सर्वार्ययातानुयातत्वात्, संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्, श्रुताश्रुतधर्मधारणादक्षयत्वात्, मोक्षकामानां विनेयानां प्रियश्रावणात्, असंभिन्न-ः परकार्यक्रियात्वात्, तुषितभवनवासादिसन्दर्शनयोग्यत्वात् यथासंख्यं भवति। इत्येवं 'भूहेमचन्द्रज्वलनैतिर' त्यादिभिः द्वाविंशतिश्चित्तोत्पादा व्याख्याताः।



तत्र प्रथमास्त्रयो मृदुमध्याधिमात्रतयादिकर्मिकभूमिसङ्गृहीताः। ततः एकः प्रथमभूमिप्रवेशमार्गसङ्गृहीतः। तदन्तरं दश प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचराः। ततः पञ्च विशेषमार्गसङ्गृहीताः। तदन्तरं त्रयं चित्तोत्पादाः प्रयोगमौलपृष्ठद्वारेण बुद्धभूमिसङ्गृहीताः। इति चित्तोत्पादभेदः आदिकर्मिकभूमिमारभ्य यावद् बुद्धभूमि सङ्गृहीतः।



२ - अववादः



प्रसङ्गागत (चित्तोत्पाद) - भेदमभिधाय उत्पादितप्रथमादिबोधिचित्ताय यथाकालं बोधिसत्त्वाय प्रार्थितार्थबोधिचित्तोत्पादाय तदाक्षिप्तधर्मसिद्धये प्राप्तगुणपरिरक्षणेनाभिवृद्धये चोपदेशोऽववाद इत्यत आह-



प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु।

असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे॥२२॥



चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च।

दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः॥२३॥



यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृतिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः।



दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तथतारूपत्वादैकात्म्यमिति। समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिर्न समुदयनिरोधसंक्लेशव्यवदानधर्मी इति। निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्नाविद्योत्पादो नाविद्यानिरोधो न बुद्धो बोधिरिति। मार्गे दानादिपारमिताभिरात्मनोऽध्यात्मशून्यतादीनां बहिर्धाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः।



बुद्धे बुद्धबोध्योरेकत्वलक्षणत्वेन बुद्धकरधर्मलक्षणसर्वाकारज्ञताया अनुपलम्भे रूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति। धर्मे त्रिसर्वज्ञतासंगृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहैः सर्वधर्माणां सङ्गृहीतानां निःस्वभावतेति। संघे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टासु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्यार्यावैवर्त्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः।



आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववादः।



चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्त्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत् सम्यक्सम्बोधेरमननतया देशनाववादः।



दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः।

मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः।



ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्यभिसंस्कारिकदिव्यचक्षुरास्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मतरशब्दश्रवणसरागादिपरचित्तपरिज्ञानस्वपरपूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेश-ज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशना षडभिज्ञाववादः।

चतुःसत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावयतीति देशना दर्शनमार्गाववादः।



संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद् यथोक्तदर्शनमार्गसंमुखीकृतवस्त्वव्यतिरेकालम्बनाद् दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानम्, अथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशना भावनामार्गाववाद इत्येवं बोधिचित्ततदाक्षित्पधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यसत्यानि, य आश्रयस्त्रीणि शरणानि, यो विशेषगमनहेतुरसक्तिः, योऽव्यावृत्तिगमनहेतुपरिश्रान्तिः, योऽनन्ययानगमनहेतुः प्रतिपत्संपरिग्रहः, योऽपरप्रत्यगामित्वहेतुः पञ्च चक्षूंषिः, यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः, यौ निष्ठाहेतू दर्शनभावनामार्गौ, तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वोऽर्थः सम्पन्न इति दशविधोऽववादः।



संघरत्नाधिकारे तत्सुबोधाय द्वौ अन्तरश्लोकौ इत्याह -



मृदुतीक्ष्णेन्द्रियै श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ।

एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः॥२४॥



प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा।

दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः॥२५॥



वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गम् आश्रित्य श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविधः। ततः स्रोत आपन्नः। ततो देवमनुष्यकुलंकुलत्वेन स एवान्यो द्विविधः। ततो द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः। ततः सकृदागामी। ततः स एकवीचिकोऽपरः। ततं तृतीयफलप्रतिपन्नकः पूर्ववच्छद्धादृष्टिप्राप्तः। ततः अनागामी अन्तराभवे उपपद्य, अभिसंस्कारे अनभिसंस्कारे च परिनिर्वायीति चतुर्धा। ततं एवाकनिष्ठगः प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनोर्ध्वावक्रान्तापरस्त्रिविधः। ततः स एव भवाग्रगस्तु रूपवीतरागो दृष्टधर्मशमः कायसाक्षीति अपरो द्विविधः। ततोऽर्हत्त्वफलप्रतिपन्नकः। ततः प्रत्येकबुद्ध इति विंशतिः।



३-निर्वेधाङ्गम्



लब्धाववादस्यैवमादिकर्मिकस्य निर्वेधाङ्गभवनमिति निर्वेधाङ्गमाह -



आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात्।

चतुर्विकल्पसंयोगं यथास्वं भजतां सताम्॥२६॥



श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः।

मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता॥२७॥



बोधिसत्त्वानां श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकूलानि च चतुर्निर्वेधभागीयानि लौकिकभावनामयानि ऊष्मप्राप्त इति कुशलमूलम्, ततो मूर्धप्राप्तः, ततः क्षान्तिप्राप्तः, ततोऽग्रधर्म इति मृद्वादिक्रमेण उत्पादोऽथवा बोधिसत्त्वसम्बद्धमृद्विन्द्रियादिपुद्गलभेदेन वक्ष्यमाणमृदुमध्याधिमात्रालम्बनविशिष्टवस्त्वात्मकचतुःसत्यालम्बनधर्मदर्शनप्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषात् यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहाद् दर्शनभावनामार्गाभ्यां प्रहातव्या ग्राह्यग्राहकचतुर्विकल्पाः वक्षमाणनयसम्बन्धेनोत्पन्नाः श्रावकादीनामूष्मादिभ्यो विशिष्टाः। तेषामूष्मादिकुशलमूलं न्याये रूपणादिलक्षणवस्त्वात्मकचतुःसत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्याद्याकारप्रतिपन्नं स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं, चतुर्विधो विकल्पोऽसंसृष्टो भवतीति व्यवस्थापनात्। बोधिसत्त्वानां निर्वेधभागीयानि उपायकौशलबलेन क्वचित् हेतुना, क्वचित् फलेन, क्वचित् स्वरूपतया, क्वचिद् धर्मताकारेण यथाभव्यतया चतुःसत्यवस्त्वालम्बनमिति वेदितव्यम्। संक्षिप्तव्याख्यामात्रं वक्तुकामेन न प्रपञ्चितम्। यत इदमेव व्यवस्थापनं ह्यतोऽन्ययानमाश्रित्य कुत्रापि दूषणं नाभिधातव्यम्।



आलम्बनाकारयोः का विशेषता इत्यत आलम्बनाकारौ सप्तमिः अन्तरश्लोकैराह -



आलम्बनमनित्यादि सत्याधारं तदाकृतिः।

निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये॥ २८॥



रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते।



तत्र मृदुन अनित्यादिषोडशाकारं दुःखादिचतुःसत्याधारमालम्बनम्। दुःखादिसत्याभिनिवेशालम्बनादीनां निषेधः तदाकृतिः। यानत्रयाधिगमप्राप्तये हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः।



अधिमुक्तिना तत्त्वमनस्कारेण च यथासंख्यं रूपादीनां प्रतिपत्तेः निषेधस्य चानुपलम्भनं न समनुदर्शनमिति मध्यस्यालम्बनम्।



सर्वनामधेयाभावेन प्रबन्धविसदृशप्रबन्धसदृशप्रवृत्तिलक्षणयोरभाव इत्याकृतिः।



रूपमारभ्य यावद्बुद्ध इति सर्वधर्मसाङ्केतिको व्यावहारिकधर्म इत्यधिमात्रस्यालम्बनम्। कुशलादिधर्मता न केनचिद् वचनीया इत्याकृतिः। इत्यालम्बनाकारवन्निर्विकल्पज्ञानाग्नेः पूर्वरूपत्वादूष्मगतं त्रिविधम्।



रूपादावस्थितिस्तेषां तद्भावेनास्वभावता॥ २९॥



तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः।

तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः॥३०॥



अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम्।

परीक्षणञ्च प्रज्ञायाः सर्वंस्यानुपलम्भतः॥३१॥



इति। अत्र स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता, ततः रूपाद्यस्थानमिति मृदुन आलम्बनम्।

परमार्थेन रूपादिसर्वधर्मशून्यतयोः परस्परमेकं रूपमिति शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभिः स्थानमित्याकारः।



धर्मधातुरूपतयानित्यादिशून्यतानां स्वनिःस्वभावत्वादनित्यादिशून्यतानां परस्परमैकात्म्यमिति मध्यस्यालम्बनम्। यं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां स आकार इति।



स्वभावाभावतयैव नीलादिनिमित्तादर्शनं रूपादीनामिति अधिमात्रस्यालम्बनम्। सम्यग्धर्मप्रविचयत्वेन प्रज्ञायाः सर्ववस्तुनोऽनुपलम्भतया निरूपणमित्याकारः। इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम्।



रूपादेरस्वभावत्वं तदभावस्वभावता।

तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता॥३२॥



तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञतां।



इति। अत्र शून्यता रूपलक्ष्यलक्षणयोरेकत्वेनास्वभावो रूपादीनामिति मृदुन आलम्बनम्। आलम्बकजनं प्रति अभावस्वभावता रूपादीनामित्याकारः।



प्रकृत्यस्वभावत्वेन रूपादीनामनुत्पादानिरोधाविति(मध्यस्य) आलम्बनम्। सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरित्याकारः।



स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वमिति अधिमात्रस्यालम्बनम्। प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति आकारः। इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात् क्षान्तिगतं त्रिविधम्।



समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः॥३३॥



मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना।

इति निर्वेधभागीयं मृदुमध्याधिमात्रतः॥३४॥



इति। अत्र सर्वधर्माणामनुत्पादस्य वीरंगमादीनाञ्च समाधिर्भावनीय इति मृदुन आलम्बनम्। स्वप्रणिधानपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापारः प्रवर्तत इत्याकारः।



धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति मध्यस्यालम्बनम्। सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याहं समाहितं इत्यादिज्ञानं न सम्भवतीत्याकारः।



धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यधिमात्रस्यालम्बनम्। सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इत्याकारः। इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम्।



आलम्बनमनित्यादि सत्याधारमतिरिच्य आलम्बनविशिष्टाकारयोः धर्मधर्म्यभिधाने सत्यपि आलम्बनविशिष्टाकारयोः धर्माभिधानेन सर्वत्र उच्यमाने ऋते विशिष्टान्तरपरिहारापरिहारौ नानयोः कश्चित् प्रतिविशेष इति न्यायात्। अथवा कारिकाच्छन्दानुरोधेन भिन्नाभिधानेऽपि अभिनिवेशादिनिषेधयुक्तयोः तत्त्वतः विधानप्रतिषेधरहितत्वाद् दुःखादिसत्यान्तर्गतमेवालम्बनमाकारश्च क्रियेते। तथैवापरत्रापि बोद्धव्यम्।



चतुर्विकल्पसंयोगस्य स्फुटार्थावबोधाय द्वौ अन्तरश्लोकौ आह-



द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः।

मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः॥३५॥



इति। सांक्लेशिकवस्त्वधिष्ठानत्वेन प्रतिपक्षाधिष्ठानत्वेन च प्रकारद्वयेऽविद्याव्यवदानस्कन्धादिप्रभेदा नवधा।



द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः।

स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा॥३६॥



इति। अत्र पुद्गलद्रव्यसत्पुरुषप्रज्ञप्तिसदुपलम्भत्वेन द्विविधो ग्राहकविकल्पोऽपि। स्वतन्त्रात्मस्कन्धाद्युपलम्भेन प्रत्येकं नवप्रकारो भवति।



तत्रायमेव संक्षेपार्थः - संक्लेशवस्त्वधिष्ठानाः (यथा) -अविद्या-रूपादि-स्कन्ध-नामरूपाभिनिवेश-अन्तद्वयसक्ति-संक्लेशव्यवदानाज्ञान-आर्यमार्गाप्रतिष्ठान-उपलम्भ-आत्मादि-विशुद्ध्युत्पादादिग्राह्यविकल्पाः।



प्रतिपक्षाधिष्ठाना-राशि-आयद्वार-गोत्र-उत्पाद-शून्यता-पारमितार्थ-दर्शन-भावना-अशैक्षमार्गाश्चेति ग्राह्यविकल्पाः।



पुद्गलद्रव्यसदधिष्ठानाः - स्वतन्त्रात्म-एक-कारण-द्रष्टाद्यात्म-संक्लेश-वैराग्य-दर्शन-भावना- कृतार्थाधाराश्चेति ग्राहकविकल्पाः।



प्रज्ञप्तिसत्पुरुषाधिष्ठानाः- स्कन्ध-आयतन- धातु - प्रतीत्यसमुत्पाद -व्यवदान- दर्शन- भावना -विशेष- अशैक्षमार्गाश्चेति ग्राहकविकल्पाः।



इत्येवं चतुर्विकल्पाश्चतुर्निवेधभागीयैर्यथाक्रमं संयुक्ता भवन्ति।



सम्बद्धकारिकानुसारम् उक्तपूर्वेऽपि सम्परिग्रहे तद्बलेन यथोक्तविशेषो भवतीति दर्शनाय तदनन्तरमन्तरश्लोकः -



चित्तानवलीनत्वादि नैःस्वाभाव्यादिदेशकः।

तद्‍विपक्षपरित्यागः सर्वथा सम्परिग्रहः।३७॥



चित्तानबलीनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं मात्सर्यादिविपक्षधर्मवियुक्तः समस्तवस्तुनैरात्म्यादिदेशकः कल्याणमित्रमिति सम्परिग्रहः।



४-प्रतिपत्तेराधारः



प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारमाह-



षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः।

तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह॥३८॥



शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च।

ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते॥३९॥



तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधारः। ततो लोकोत्तरदर्शनभावनामार्गयोः। ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत् समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयोः। ततस्तदनुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य। ततं पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानयोः प्रज्ञाकरुणयोः। ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य। ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयप्रतिष्ठापनलक्षणपरार्थानुक्रमस्य। ततो यावदासंसारं निर्निमित्तानाभोगपरार्थज्ञानस्य चाधारः। अयमेवानुक्रमः। अनेनैव सर्व पुरुषार्थाः सम्पद्यन्ते।



प्रतिपत्तिधर्मावस्थान्तरभेदेन त्रयोदशविधो बोधिसत्त्वो यथोक्तधर्माधारो धर्मधातुस्वभाव एव गोत्रमिति निर्दिष्टम्।



यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रम्, तदा तत्सामान्यवर्तित्वाद् 'न बोधिसत्त्व एवेति' मन्दबुद्धि पुरुषं प्रत्याशंक्य अन्तरश्लोकमाह-



धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते।



यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद् गोत्रत्वेन व्यपदेश इत्यपि समाधिः दृश्यते, तथापि सौकर्यात् लौकिकदृष्टान्तेनापि समाध्यन्तरमाह -



आधेयधर्मभेदात्तु तद्भेदः परिगीयते॥४०॥



यथैकमृद्‍द्रव्याभिनिर्वृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्बद् यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति।



५- आलम्बनम्



यथोक्तप्रतिपत्त्याधारस्य किमालम्बनमित्याह -



आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः।

लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः॥ ४१॥



सास्रवानस्रवा धर्माः संस्कृतासंस्कृताश्च ये।

शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः॥४२॥



तत्रादौ तावत् सामान्येन (सर्वधर्माः) कुशलाकुशलाव्याकृताः यथाक्रमं श्रामण्यताप्राणातिपाताद्यव्याकृतकायकर्मादयः। ततस्तेषामेव लौकिकादिद्विविधस्यावशिष्टाश्चत्त्वारो भेदाः, यथासंख्यं बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि ध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः। तद्दर्शनप्रतिपक्षत्वेन चत्वारि स्मृत्युपस्थानानि। हेतुप्रत्ययाधीनाः कामादिधातवः। कारणानपेक्षाः तथता। सर्वार्यजनसन्तानप्रभवानि चतुर्ध्यानानि। सम्यक्सम्बुद्धसन्तानोदयधर्मीणि दशबलानि इत्येवमधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इत्यालम्बनमेकादशविधम्।
६-समुद्‍देशः



तादृशालम्बनप्रतिपत्तेः कः समुद्‍देश इति समुद्‍देशमाह-



सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये।

त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम्॥४३॥



सर्वथा सर्वाकारज्ञतापरिज्ञानेन भविष्यद्‍बुद्धबोधिसत्त्वानां सर्वसत्त्व (राशि)-अखिलसत्त्व (निकाय) -अग्रताचित्तमहत्त्वं प्रहाणमहत्त्वमधिगममहत्त्वञ्चाधिकृत्य प्रतिपत्तौ प्रवृत्तत्वान्महत्त्वान्महत्त्वत्रययुक्तत्वाच्च त्रिविधः समुद्‍देशो ज्ञातव्यः।



७-सन्नाहप्रतिपत्तिः



इत्येवं प्रतिपत्त्याधारादीन् अभिधाय किञ्च तत्स्वरूपमिति चेत् ? सा त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया परिपत्तिः। एवं यथावत् प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमामाह-



दानादौ षड्‍विधे तेषां प्रत्येकं संग्रहेण या।

सन्नाहप्रतिपत्तिः षा षड्‍भिः षट्कैर्यथोदिता॥४४॥



इति। धर्मदानादिदाने श्रावकादिमनस्कारपरिवर्जनम्, सर्वजनाप्रियवादित्वक्षान्तिः, छन्दजननम्, यानान्तराव्यवकीर्णैकाग्रतानुत्तरसम्यक्सम्बोधिपरिणामना यथाक्रमं देयाद्यनुपलम्भसन्नाहत्वेन क्रियन्ते। तथैव शीलस्य रक्षणम्, क्षान्तेः सम्पादनम्, वीर्यस्य प्रारम्भः, ध्यानस्य आराधनम्, प्रज्ञाया भावना इत्येवं दानादिषट्पारमितासु प्रत्येकं दानादौ संगृहीतासु षड्‍भिः षट्कैः षट्‍त्रिंशद्‍विद्या भवन्ति दानादिसाधर्म्याच्च षट् सन्नाहप्रतिपत्तयो भवन्ति।



८-प्रस्थानप्रतिपत्तिः



कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयामाह -



ध्यानारूप्येषु दानादौ मार्गै मैत्र्यादिकेषु च।

गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु॥४५॥



उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये।

प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणो॥४६॥



ध्यानारूप्यसमापत्ति-दानादिषट्पारमिता-दर्शनभावनाशैक्षविशेषमार्ग-चतुरप्रमाण- अनुपलम्भयोग-सर्ववस्तुत्रिमण्डलविशुद्धि-उद्देश-षडभिज्ञा-सर्वाकारज्ञतासु सम्यग्व्यवस्थितिलक्षणा हि समस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः नवधा।



९-सम्भारप्रतिपत्तिः



कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिं तृतीयामाह-



दया दानाधिकं षट्कं शमथः सविदर्शनं।

युगनद्धश्च यो मार्गं उपाये यच्च कौशलम्॥४७॥



ज्ञानं पुण्यं मार्गश्च धारणी भूमयो दश।

प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः॥४८॥



महाकरुण-दान-शील-वीर्य-ध्यान-प्रज्ञा-शमथ-विदर्शना-युगनद्धमार्ग- उपायकौशल- ज्ञान- पुण्य- दर्शनादिमार्ग- वचनादिधारणी- भूमि- प्रतिपक्षाणामनुपलम्भेन संवृतिसत्यानतिक्रमेण समस्तमहायानार्थप्रतिपत्तेरेभिः करुणादिभिः सम्यक्-प्रतिपत्स्वाभाव्यात् महाबोधिग्रहणात् महाकरुणादिसम्भारा इति सप्तदश सम्भारप्रतिपत्तयः। तत्र ज्ञानसम्भारः आध्यात्मिक-बाह्य- तदुभय-शून्यता-महत्- परमार्थ- संस्कृत- असंस्कृत- अतीतानन्त- अनवराग्र- अनवकार- प्रकृति-सर्वधर्म- लक्षण-अनुपलम्भ- अभावस्वभाव- भाव- अभाव- स्वभाव- परभावशून्यतानां भेदेन विंशतिधा।



आध्यात्मिकत्वबाह्यत्वोभयशून्यत्वतस्तथा।

दिङ्‍निर्वाणार्थतश्चैव संस्कृतासंस्कृतत्वतः॥१॥



अत्यन्तानवराग्रत्वानवकाराकृतात्वतः।

सर्वधर्मत्वलक्ष्मत्वाभ्यतीतादित्वतः पुनः॥२॥



सांयोगिकत्वभावत्वाकाशशून्यस्वभावतः।

स्वस्वभाववियुक्तत्वाद् विंशतिः शून्यता मताः॥३॥



भूमिसम्भारेण दशभूभय इति परिष्क्रियमाणानां धर्माणां संदर्शनाय त्रयोविंशतिरन्तरश्लोका कथ्यन्ते-



१. प्रमुदिता भूमिः

लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा।

आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता॥४९॥



त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा।

सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा॥ ५०॥



धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते।

ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भतः॥५१॥



इति। यथावत् सर्ववस्तुषु अकौटिल्याशयः, स्व-परप्रयोजने हितत्वम्, सर्वसत्त्वेषु समचित्तता, सर्वस्वपरित्यागः, कल्याणमित्रारागणम्, यानत्रयसङ्गृहीत सद्धर्मालम्बनपर्येष्टिः, गृहवासानभिरतिः, अनुत्तरबुद्धकायगता स्पृहा, सद्धर्मप्रकाशनम्, सत्यवादितेत्येवमेभिर्दशभिर्लक्षणधर्मैः सर्वथोत्पद्यमानत्त्वात् परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमा प्रमुदिता भूमिः प्राप्यते।



२- विमला भूमिः



शीलं कृतज्ञता क्षान्ति प्रमोद्यं महती कृपा।

गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम्॥५२॥



इति कुशलधर्म-सत्त्वार्थक्रिया-संवरशीलानि, परकृतोपकारस्य अविस्मरणम् (अविप्रणाशनम्), परकृतापकारादौ क्षान्तिः, कुशलधर्मस्याराधनेऽविप्रतिसारः, सर्वजनेषु मैत्री, उपाध्यायादिषु प्रणमनम्, कल्याणमित्रनिर्दिष्टधर्मसाधना, दानादिषट्पारमितासु पर्येष्टिरित्येवं कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया विमला भूमिरधिगम्यते।



३. प्रभाकरी भूमिः



अतृप्तता श्रुते दानं धर्मस्य च निरामिषम्।

बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता॥५३॥



ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम्।



इति। सद्धर्मश्रवणे तृप्तेरज्ञानम्, लाभादिनिरपेक्षचित्तेन सद्धर्मप्रकाशनम्, स्वबुद्धक्षेत्राश्रयाश्रितसंशोधनम्, उपकृतसत्त्ववैपरीत्यादिदर्शनेन न परिखेदापत्तिः, स्वपरापेक्षया अकुशलधर्माकरणमित्येवं पञ्चधा परिकर्मणा पूर्ववत् कृतानवबुध्यमानस्वभावपरिकर्मणा तृतीया प्रभाकरी भूमिरवबुध्यते।



४. अर्चिष्मती भूमिः



वनाशाऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम्॥५४॥



शिक्षाया अपरित्यागः कामानां विजुगुप्सनम्।

निर्वित्सर्वास्तिसन्त्यागोऽनवलीनानपेक्षते॥५५॥



इति। अरण्यावासः, अप्राप्तलाभेषु अनभिलाषः, प्राप्तलाभेष्वनधिकाभ्यर्थना, भिक्षादिधौतगुणसंवरणम्, गृहीतशिक्षाणां प्राणादिभ्योऽपि अपरित्यजनम्, कामगुणेषु दोषोपलम्भदर्शनेन निन्दनम्, विनेयानुसारेण निर्वाणे प्रवणत्वम्, सर्वस्वपरित्यागः, कुशलसाधने चित्तासंकोचः, सर्ववस्त्वनपेक्षणमित्येवं पूर्ववद्दशप्रकारेण चतुर्थी अर्चिष्मती भूमिरभिरूह्यते।



५. सुदुर्जया भूमिः



संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम्।

आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान्॥५६॥



मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम्।

विवर्जयन् समाप्नोति दशैतान् पञ्चमीं भुवम्॥५७॥



इति। लाभाद्यर्थं गृहिप्रव्रजितादिभिः संवासः, श्राद्धकुलानुपदर्शनम्, जनाकीर्णनगरादि, स्वप्रशंसनपरनिन्दने, दशाकुशलकर्मपथाः, श्रुताद्यभिमानः, पराप्रणमनम्, कुशलाकुशलविपरीताभीनिवेशः, मिथ्यादृष्ट्यादिकुमतिः, सर्वरागादिसर्वक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् विवर्जयन् अर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत् पञ्चमी सुदुर्जया भूमिराक्रम्यते।



६. अभिमुखी भूमिः



दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात्।

शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः॥५८॥



याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मनाः।

कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते॥५९॥



दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्त्रासस्य च याचकजनप्रार्थनासंकोचस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य च वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत् षष्ठी अभिमुखी भूमिराज्ञायते।



७. दूरङ्गमा भूमिः



आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः।

निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च॥६०॥



त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता।

रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता॥६१॥



शून्यतायां विवादश्च तद्विरोधश्च विंशतिः।

कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्॥६२॥



इति। आत्मसत्त्वजीवपुद्गलोच्छेदशाश्वतनिमित्तहेतुस्कन्धधात्वायतनत्रैधातुकाधिष्ठानसक्त्यालीनचित्तबुद्धधर्मसंघशीलदृष्ट्यभिनिवेश-शून्यताविवादविरोधोद्भावनाग्रहोत्सृष्टयश्चेत्येवं विंशतिप्रकारकलङ्कापगमादाक्षिप्तविपर्ययधर्मेण विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत् सप्तमी दूरङ्गमा भूमिः समीयते।



अर्थाक्षिप्तधर्मतानिर्देशायाह-



त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता।

करुणामनना धर्मसमतैकनयज्ञता॥६३॥



अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा।

कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम्॥६४॥



शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने।

चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च॥६५॥



सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम्।

सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः॥ ६६॥



शून्यताऽनिमित्ताप्रणिहितविमोक्षमुखसम्यग्ज्ञानम्, दशकुशलकर्मपथेषु वधवध्यघातकानुपलम्भादि, सर्वसत्त्वालम्बनकरुणा, वस्त्वनुपलम्भः, सर्वधर्मसमतावबोधः, महायानैकयानावबोधः, अनुत्पादपरिज्ञानम्, गम्भीरधर्मनिध्यानक्षान्त्यवगमः, सर्वज्ञेयानां महायानोपायमुखेन प्रकाशनम्, सर्वकल्पनोच्छेदः, निमित्तोद्ग्रहणविकल्पाभावसत्कायादिपञ्चदृष्टिसन्त्यागः, रागादिक्लेशवर्जनानि, शमथभावना, प्रज्ञाकौशल्यम्, चित्तोपशमः, रूपाद्यप्रतिघातज्ञानम्, अभिनिवेशास्थानम्, यथेष्टसमकालबुद्धक्षेत्रगमनम्, विनेयानुरूपं सर्वत्र स्वकायप्रकाशनमिति विंशतिप्रकारेणानेन परिकर्मधर्मेणापि पूर्ववत् सप्तमी भूमिः समीयते।



८. अचला भूमिः



सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा।

बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे॥६७॥



अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः।

सञ्चिन्त्य च भवादानमिदं कर्माष्टघोदितम्॥६८॥



इति। यथावत्सर्वसत्त्वचित्तचरितज्ञानम्, लोकधातौ ऋद्ध्यभिज्ञाभिः क्रीडनम्, आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः, सर्वाकारधर्मपरीक्षणेन बुद्धरागणम्, दिव्यचक्षुषो निष्पत्तिः, आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्, सर्वत्र मायोपमतावस्थानम्, सर्वसत्त्वार्थदर्शनाद बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमी अचला भूमिरनुभूयते।



९. साधुमती भूमिः



प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता।

नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा॥६९॥



कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः।

नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः॥७०॥



इति। अनन्तप्रणिधानम्, देवादिसर्वसत्त्वरुतज्ञानम्, नद्युपमिताक्षयप्रतिभानम्, सर्वजनप्रशस्तगर्भावक्रमणम्, राजादिस्थानम्, आदित्याद्यन्वयः, मात्रादिसुसम्बन्धज्ञातिः, स्वविधेयपरिवारः, शक्राद्यभिनन्दितोत्पादः, बुद्धादिसञ्चोदननिष्क्रमणम्, चिन्तामणिसदृशाश्वत्थवृक्षादिः, बुद्धबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी साधुमती भूमिः साक्षात्क्रियते।



१०. धर्ममेघा भूमिः



हेतुभूमित्वेन तत्परिकर्माण्येवं निर्दिश्य फलभूमित्वेन पृथक् तान्यनभिधाय सङ्ग्रहणेन दशमभूमिलक्षणमाह-



नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते।

येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः॥७१॥



इति। श्रावकादिगोत्र-प्रथमफलप्रतिपन्नक-स्रोत-आपन्न-सकृदागामि-अनागामि-अर्हतामिति षण्णां नयत्रयव्यवस्थापनाभिप्रायेण शेषसङ्गृहीतापन्नकत्रयस्य प्रत्येकबुद्धस्य च यथाक्रमं गोत्र-अष्टमक-दर्शन-तनु-वीतराग-कृतविकल्प-श्रावक- प्रत्येकबुद्धभूमयः, बोधिसत्त्वानां यथोक्ता नवविधेत्येवं नवभूमीरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न तु सम्यक्सम्बुद्ध इति वचनात् बुद्धभूमौ येन प्रणिधानज्ञानेनावतिष्ठते सा एव दशमी बोधिसत्त्वभूमिः ज्ञेया।



(प्रतिपक्षसम्भारः)



प्रतिपक्षसम्भारार्थं अन्तरश्लोकमाह-



प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः।

ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये॥७२॥



इति। सांक्लेशिकवस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च दर्शनमार्गभावनामार्गयोः प्रहाणाद् ग्राह्यग्राहकाष्टविकल्पोपशान्तये सत्यद्वयमाश्रित्य साक्षात्करणीया विपक्षभेदेन मार्गद्वयावस्थायामेव अष्टविधाः प्रतिपक्षाः।



१०. निर्याणप्रतिपतिः



सम्भृतसम्भारस्यैवं निर्याणमिति निर्याणप्रतिपत्तिं चतुर्थींमाह-



उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने।

अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्॥७३॥



सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम्।

निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका॥७४॥



इति। यथोक्त उद्देशः , सर्वधर्मसमता, सत्त्वार्थकरणम्, अनिमित्तसर्वक्रियाकारित्वेनानाभोगः, शाश्वतोच्छेदरहितावस्थाविशेषः, त्रियानसर्वार्थप्राप्तिः, यथोक्तसर्वाकारज्ञता तद्विशिष्टमार्ग इत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वानुपलम्भतया एभिरष्टाभिर्निर्याणप्रतिपत्तिः अष्टधा भवति।



इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे प्रथमाधिकारवृत्तिः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project