Digital Sanskrit Buddhist Canon

द्वाविंशतितमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



नवममेव लिङ्गं कथयन्नाह। अथ खलु भगवन्नित्यादि। तत्र फलावस्थाः षट्पारमिताः शास्ता,प्रथमाधिगममार्गसन्दर्शनाल्लब्धालोकावस्था मार्गः,अधिकालोकरूपत्वात् वृद्धालोकावस्था आलोकः,ग्राह्यग्राहकाभावतत्त्वैकदेशप्रविष्टत्वात् तत्त्वार्थैकदेशप्रसृतावस्था‍उल्का,अनन्तरं तत्त्वज्ञानोदयादानन्तर्यसमाध्यवस्था अवभासः,सर्वोपद्रवनिवारणात् प्रथमायां भूमौ त्राणं ,तदाशयप्रयोगाबन्ध्यत्वपदस्थानेन द्वितीयायां शरणं। निरवद्यरतिवस्तुत्वातृतीयायां लयनं,परमार्यत्वागमनपदस्थानेन चतुर्थ्यां परायणं,त्रैधातुकपरिच्छिन्नत्वात्पञ्चभ्यां द्वीपः,प्रज्ञापारमितास्वभावत्वात् षष्ठ्यां माता,उपायरूपत्वात्सप्तम्यां पिता,प्रणिधानात्मकत्वादष्टभ्यां ज्ञानाय,बलपारमितालक्षणत्वान्नवम्यां बोधाय,ज्ञानपारमितातिरिक्तत्वेन दशम्यामनुत्तरायै सम्यक्सम्बोधये संवर्तन्त इत्यर्थभेदः। अनुच्चलनकारणभोगागारसक्तिप्रतिपक्षेण यथाक्रमं दानशीलपारमिते। निवृत्तिकारणसांसारिकसत्त्वविप्रतिपत्तिजदुःखदीर्घकालिकशुक्लपक्षप्रयोगपरिखेदप्रतिपक्षेण यथासंख्यं क्षान्तिवीर्यपारमिते। विप्रणाशकारणविक्षेपदौष्प्रज्ञप्रतिपक्षेण तथैव ध्यानप्रज्ञापारमिते चेत्येवं विपक्षप्रतिपक्षव्यवस्थानतः षडिति संख्याव्यवस्थानम्। तथा चतसृभिः पारमिताभिरविक्षेपकारणैरेका पारमिताऽविक्षेपः सम्पद्यते यमविक्षेपं निश्रित्य यथावद्धर्मतत्त्वावबोधाद्बुद्धधर्माः समुदागच्छन्तीत्येवं सर्वबुद्धधर्मसमुदागमपदस्थानतः संख्याव्यवस्थानम्। तथा दानपारमितया सत्त्वानुग्रहाच्छीलपारमितयाऽनुपघातात्,क्षान्तिपारमितयोपघातमर्षणात्,वीर्यपारमितया कृत्यव्यापारगमनात्,सत्त्वान् परिपाचने योग्यान् कृत्वा विक्षिप्तचित्तानां समाधानाय ध्यानपारमितया,समाहितचित्तानां विमोक्षाय प्रज्ञापारमितया,अववादनात् परिपाक इत्येवं सत्त्वपरिपाचनानुकूल्यतोऽपि संख्याव्यवस्थानमवसेयम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अत्र हीत्यादि। कल्याणमित्रार्थमेव स्पष्टयन्नाह। येऽपि ते सुभूत इत्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। आसु हित्यादि। यावांश्च कश्चिद्बुद्धधर्म इत्यस्य सर्वाकारज्ञताद्यष्टाभिसमयक्रमेण विभञ्जनाद्बुद्धज्ञानमित्यष्टपदानि। उपसंहरन्नाह। तस्मात्तर्हीत्यादि। दशमसर्वप्रकारप्रज्ञापारमिताशिक्षणलिङ्गार्थमाह। आसु खलु पुनरित्यादि। तहैव तत्कस्य हेतोरित्याशङ्क्याह। एषा हीत्यादि। दर्शनभावनाविशेषाशैक्षमार्गप्रापणाद्यथाक्रमं नायिकेत्यादि पदचतुष्टयम्। आदावुत्पादनाज्जनयित्री। पश्चात्संवर्धनाद्धात्री। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमितेत्यादि। एकादशसर्वानभिनिवेशलिङ्गार्थमाह। किं लक्षणेत्यादि। असङ्गलक्षणेति। अनभिनिवेशस्वभावा। पदपरमत्वादाह। स्याद्भगवन्नित्यादि। न्यायस्य तुल्यत्वादाह। एवमेतदित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्माहीत्यादि। तत्र हेतुफलभावरहितत्वाद्यथासंख्यं विविक्ताः शून्या इति केचित्। शून्यत्वे संक्लेशाद्यभाव इत्याह।यदि भगवन्नित्यादि। सर्वधर्मो नोपलभ्यत इति। शून्यत्वादेवेति भावः। अस्य भाषितस्येति। संक्लेशाद्यनुपपत्तौ विविक्तशून्यतादेशनायाः। प्रतिप्रश्नेन परिहर्तुमाह। तत्किं मन्यस इत्यादि। संक्लेशो व्यवदानञ्च प्रज्ञायत इति शून्यत्वेऽपि सर्वधर्माणां संवृत्या कर्मफलसम्बन्धस्य विद्यमानत्वाद्यथाभिनिवेशस्तथा संक्लेशो यथा चानभिनिवेशस्तथा व्यवदानं प्रज्ञायत इति। द्वादशबुद्धबोध्यासन्नीभवनलिङ्गार्थमाह। एवं च भगवंश्चरन् बोधिसत्त्व इत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अनविभूतमित्यादि। आदर्शादिज्ञानचतुष्टयभेदेन बुद्धत्वमित्यादि पदचतुष्टयम्। तथैवानुवदन्नाह। एवमेतदित्यादि। एतावन्त्येव लिङ्गान्यवसातव्यानि। तथा चोक्तम्।



 



स्वप्नान्तरेऽपि स्वप्नाभासर्वधर्मेक्षणादिकम्।



मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम्॥१॥ इति



 



लिङ्गेनैवं लक्षितस्य कतिप्रकारा विवृद्धिरिति। जम्बूद्वीपकादिसत्त्वतथागतसत्कारादिपुण्यादिकां प्रथमां विवृद्धिं वक्तुमाह। सचेत् पुनः सुभूते ये जम्बूद्वीपे सत्त्वा इत्यादि। जम्बूद्वीपस्योपलक्षणत्वात्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वानामप्यत्र ग्रहणं पञ्चविंशतिसाहस्रिकायां तथाभिधानात्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। यथा यथा हीत्यादि। दक्षिणीयतां गच्छतीति। पुण्यक्षेत्रतां प्रतिपद्यते। एतदेव कुत इति। तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। स्थापयित्वेति। परित्यज्य। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। अप्रतिपुद्गला हीत्यादि। प्रत्यक्षानुमानागमार्थानधिगमादप्रतिपुद्गला इत्यादिपदत्रयं दैशिकत्वादित्यपरे। प्रकारान्तरेणापि पुण्याभिभवत्वं वक्तुमाह। कथञ्चेत्यादि। बध्यगतानिवेति। मरणार्हानिव। क्षणांश्च विराजयत इति पापानुष्ठानेन मनुष्यादिभावान्नाशयतः। दायकानामिति। समादायकानां। दानपतीनामिति। साक्षाद्दातॄणाम्। दक्षिणां विशोधयन्तीति सम्यक् फलवतीं कुर्वन्तीत्यर्थः। अनेन मनसिकारेणेति। सत्त्वानां मार्गापदेशादिस्वभावे। तथैव तत्कस्य हेतोरित्याशङ्क्याह। यो ह्येनानित्यादि। स एवेति। महोपायकौशलाया मातुरालम्बने स एव सत्त्वोपकारमनस्कारः। यथाऽयमिति मैत्र्यादिस्वभावो मनस्कारः। क्षपयेदित्यतिक्रामेत्। द्वितीयविशिष्टप्रज्ञापारमितामनस्कारस्वभावविवृद्ध्यर्थमाह। तद्यथापि नाम सुभूते केनचिदेवेत्यादि। मणिरत्नज्ञाने वर्तमानेनेति। तत्परीक्षाशास्त्रपरिज्ञानात्। मणिरत्नजातिज्ञेनेति। लक्षणपरिजयात्। यावत् सा वाऽन्या वा प्रतिलब्धा भवतीति। सा वा प्रज्ञापारमिता अन्या वा समाधिराजादिसूत्रान्तधर्मता प्राप्ता भवति। पुस्तकापेक्षया सा वाऽन्या वेति केचित्। शून्यत्वादविरहितत्वं घटत इत्याह। यत्पुनरित्यादि। परिहरन्नाह। सचेत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञेत्यादि। एतदुक्तम्। यस्मात्प्रज्ञापारमिता शून्या तत्त्वतो विवृद्धिपरिहाणिरहिता,तस्माच्छून्याः सर्वधर्मा इत्यालम्बनान्मनस्कारस्यापि शून्यत्वाधिमोक्षे सत्यविपर्यत्वात् प्रज्ञापारमितामनस्काराद्विरहित इत्यादि। तृतीयातिशयानुत्पत्तिकक्षान्तिलाभस्वरूपविवृद्ध्यर्थं प्रश्नयन्नाह। सचेद्भगवन्नित्यादि। परिहरन्नाह। न खलु पुनरित्यादि। बोधये समुदागच्छतीति। एतदुक्तम्। यतः प्रज्ञापारमिताया हानिवृद्धिप्रतिषेधबद्धोबोधिसत्त्वस्य परमार्थतो हानिवृद्धिप्रतिषेधस्ततो मायोपमभावनया संवृत्या पुण्यज्ञानसंभारं समुदानयत्यनुत्तराञ्च सम्यक्संबोधिमभिसंबुध्यतेऽन्यथा तत्त्वतो हानिवृद्धिसम्भवे विपर्यासोऽसन्नेवैति। एतदेव तत्त्वमित्याह। सचेत् सुभूते बोधिसत्त्व इत्यादि। चरत्ययं बोधिसत्त्व इत्यनेन कश्चित् तात्त्विको धर्मः समाक्षिप्त इत्यभिप्रायादाह। किं पुनर्भगवन् प्रज्ञापारमिता चरतीत्यादि। कथं पुनरित्यादि। यदि यथोक्तप्रकारप्रतिनिषेधेन सर्वत्र। नो हीदमित्युच्यते। भगवता कथं पुनः प्रकारान्तरेण चरति। येन चरत्ययं बोधिसत्त्व इति प्रागुक्तमित्यर्थः। संवृत्या तदुक्तमित्याह। किं पुनः सुभूते समनुपश्यसीत्यादि। तत्त्वत इति भावः। उपसंहरन्नाह। एवं खल्वित्यादि। सर्वधर्मानुपलम्भादेव परमार्थद्वारेणानुपपत्तौ मायोपमभावनया संवृत्या चरणादनुत्पत्तिकेषु धर्मेषु विशिष्टाधिमुक्तिर्भवति। वैशारद्यप्रतिपदादिभिः सर्वोपलम्भभयाभावान्निर्भीकृता प्रतिपत्। श्रुतमयादिज्ञानोत्पादायैवं चरन्नित्यादिपदत्रयम्। आदर्शादिज्ञानभेदेन चानुत्तरं बुद्धज्ञानमित्यादिपदचतुष्टयं योज्यम्। चतुर्थबोध्यबोधकधर्मानुपलम्भलक्षणविवृद्धर्थमाह। या भगवन् सर्वधर्माणामित्यादि। संवृत्या व्याकरणमिति प्रतिप्रश्नेनाह। किम्पुनः सुभूत इत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्मेष्वित्यादि। न मे एवं भवतीति। अनेनाकिकल्पा मूर्धाभिसमये प्रज्ञापारमितेति कृत्वा बोधिसत्त्वस्यैवं विकल्पाभावं स्वव्याजेनाह॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project