Digital Sanskrit Buddhist Canon

एकत्रिंशत्तमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



एकत्रिंशत्तमपरिवर्तः



 



तथागतानामागमनगमननिषेधेन दर्शनमार्गोत्पादनार्थं सर्वधर्मनैरात्म्यमावेदयन्नाह। एवमुक्ते धर्मोद्गत इत्यादि। तथताऽनुत्पादभूतकोटिशून्यतायथावत्ताविरागनिरोधाकाशधातुस्वभावत्वप्रतिपादनेन यथाक्रमं बुद्धानां भगवतां मायोपमसर्वाकारज्ञताद्यष्टाभिसमयप्रभावितत्वमावेदितमित्येके। अत एवाह। न हि कुलपुत्रेत्यादि। एभ्यो धर्मेभ्य इति। सर्वाकारज्ञतादिधर्मेभ्यो नान्यत्र  तथागतः। किन्त्वेषामेव या तथता सा तथागत इत्यर्थः। अन्ये तु हेतूदाहरणाधिक्यादाधिक्यं निग्रहस्थानं क्षुद्रनैयायिकैरप्युच्यते। तत्कथं न्यायपरमेश्वरो भगवानुदाहरणाधिक्यमुक्तवानिति चोद्यं कृत्वा। यत्र नामैकः प्रतिपाद्यस्तत्र तत्प्रसिद्धस्यैकस्यैवाभिधानं युक्तम्। तत्र तु पर्षन्मण्डले बहवो भिन्नमतयः सन्निषणा इति। तदधिकारेण युक्तमनेकोदाहरणवचनम्। विकल्पेन वाऽमी दृष्टान्ता न समुच्चयेनेत्येवं सर्वत्राधिकवचने परिहारं वर्णयन्ति। तथा दृष्टान्तस्यैव कथनात्प्रतीत्यसमुत्पन्नत्वादिको हेतुः प्राज्ञैरभ्यूहनान्नोक्त इति। तथागतानां स्वरूपमेवं निर्दिश्य कल्पिताभिनिवेशनिषेधार्थमाह। तद्यथापि नाम कुलपुत्र पुरुष इत्यादि। मरीचिकामिति। विशिष्टादित्यरश्मिम्। पदार्थस्वरूपापरिज्ञानाद्बालजातीयः। विपरीतप्रतिपत्त्या दुष्प्रज्ञजातीयः। न पुनस्तत्रोदकं स्वभावतः संविद्यत इति। मृगतोयस्य विज्ञाने रश्मितप्तोषरमालम्बनं न भवत्यन्याकारज्ञानस्यान्यालम्बनेऽतिप्रसङ्गात्,परस्परव्यावृत्तरूपत्वात्सर्वभावानामुदकं मरीचिकायां तत्त्वतो न संविद्यते। तस्मात्तदालम्बनं ज्ञानं भ्रान्तं निर्विषयत्वादित्यर्थः। पूर्ववत् तत्कस्य हेतोरित्याशंक्याह। न हि तथागतो रूपकायतो द्रष्टव्य इति कल्पितस्यैकान्तशून्यत्वान्न रूपस्कन्धात्मकस्तथागतः। परतन्त्राभिनिवेशनिषेधार्थमाह। तद्यथापि नाम कुलपुत्र मायेत्यादि। ग्राह्यग्राहकाकारस्यालीकत्वेन निर्मितस्य नास्त्यागमनादिकमित्यर्थः। एवमेव कुलपुत्र नास्ति तथागतानामिति। परतन्त्रात्मकानम्। परिनिष्पन्नाभिनिवेशनिराकरणार्थमाह। तद्यथापि नाम कुलपुत्र पुरुषः सुप्त इत्यादि। मृषावादो हि स्वप्न इति।



 



सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्।



जन्मन्यन्यत्र तस्मिन् वा तदा कालान्तरेऽपि वा॥



 



तद्देशोऽन्यदेशो वा स्वप्नज्ञानस्य गोचरो न भवत्यन्याकारज्ञानस्यान्यालम्बनेऽतिप्रसङ्गात्। न चान्यद्वाह्यं रूपमुपपद्यते। अल्पीयस्यपि वेश्मनि बहुयोजनपरिमाणानां गिरितरुसारगादीनां सप्रतिघानामुपलम्भात्,तस्माद्भ्रान्तमेव तथाविधं ज्ञानमुपजायत इत्यलीकः स्वप्नः। एवमेव कुलपुत्र सर्वधर्मा इति। प्रमाणोपपनोत्पत्तिरहितत्वेन परिनिष्पन्नस्वभावाः सर्वधर्माः स्वप्नोपमाः। धर्मतामप्रजानन्त इत्यनुत्पादरूपतामनवगच्छन्तः। षङ्गतिकमिति। देवादिपञ्चगतिभ्योऽसुरगतेः पृथग्व्यवस्थापनात्। ते च भगवतः श्रावका इति।



 



शीलादपि वरं भ्रंशो न तु दृष्टेः कदाचन।



शीलेन गम्यते स्वर्गो दृष्ट्या याति परं पदम्॥



 



इति न्यायेन त एव मायोपमधर्मताधिमुक्ता भगवतः शिष्याः। कल्पितादिपदार्थत्रयतत्त्वरूपनिषेधे सति नास्त्येव तथागत इति मन्दधीजनाशङ्कामपाकुर्वन् प्रतीत्यसमुत्पन्नस्तथागतोऽस्तीत्याह। तद्यथापि नाम कुलपुत्र महासमुद्र इत्यादि। सत्त्वानां कुशलमूलान्युपादायेति। "कर्मजं लोकवैचित्र्यमि"ति वचनात् साधारणं सत्त्वानां शुभं कर्म प्रतीत्य संवृत्या कुशलमूलहेतुकत्वान्न च तान्यहेतुकानि,येषां प्रत्ययानां सतामिति सामर्थ्येनेति शेषः। न चाहेतुको बुद्धानां भगवतां काय इति बुद्धविनेयानामेव सत्त्वानां कुशलमूलवशेन निष्पत्तिगमनान्नाहेतुकः कायः। साधारणकर्मनिर्जातत्वं निर्दिश्येदानीं भगवतामसाधारणकर्मनिर्जातत्वप्रतिपादनार्थमाह। पूर्वचर्यापरिनिष्पन्न इत्यादि। तत्राधिमुक्तिचर्याभूमिप्रभावितत्वात् पूर्वचर्यापरिनिष्पन्नः प्रमुदितादिसप्तप्रयोगभूम्युपादानहेतुनिर्जातत्वाद्धेत्वधीनः। अचलादित्रिविधफलभूमिसहकारिकारणोद्गतत्वात्प्रत्ययाधीनः। समन्तप्रभाभूमिसङ्गृहीतत्वात् पूर्वकर्मविपाकादुत्पन्न इत्येवमेषामर्थभेद इति केचित्। तस्मान्न स्वाभाविकस्तथागत इत्याह। न क्वचिद्दशदिशीत्यादि।



 



यदर्थक्रियासमर्थं तदत्र परमार्थसत्।



 



इति वचनात्,प्रमाणोपपन्नकार्यकारणसम्बन्धबलात्प्रतीत्यसमुत्पन्न एव तात्त्विकस्तथागत इत्यौपलम्भिकजनाभिनिवेशनिषेधार्थमाह। तद्यथापि नाम कुलपुत्र वीणाया इत्यादि। तत्रोपधानी तन्त्रीवेष्टनिका दण्डाग्रविन्यस्ता काष्ठादिवक्रलिका,उपवाणी पार्श्वस्थितास्त्रन्त्रीविशेषाः। स च शब्दो न द्रोण्या निश्चरतीत्यादिना। न ह्येकं जनकमिति कथयति। सर्वेषां समायोगाच्छब्दः प्रज्ञप्यत इत्यनेनापि प्राज्ञप्तिकशब्दनिर्देशेन सामग्यास्तात्त्विकं जनकस्वभावं निरस्यति। एतदुक्तं। अनेकं कारणमेकं कार्यं करोत्यनेकं वा तथैकमपि कारणमनेकमेकं वा कार्यं कुर्यादिति चत्वारो विकल्पाः। तत्र यद्यनेकं कारणमेककार्यकृदिति पक्षस्तदा चक्षूरूपालोकमनस्कारादिभ्यश्चक्षुर्विज्ञानस्यैकस्योत्पत्तावभ्युपगम्यमानायां कारणभेदेऽपि कार्यस्य भेदाभावान्न कारणभेदो भेदकः कार्यस्य स्यात्। तथा च कारणाभेदाभावेऽपि कार्यस्याभेदान्न कारणाभेदः कार्यस्याभेदको भवेत्। ततश्च कारणभेदाभेदावन्वयव्यतिरेकाभ्यामनपेक्षमाणौ कार्यभेदाभेदावहेतुकौ स्याताम्। एवञ्च सति भेदाभेदाव्यतिरेकाद्विश्वस्य नित्यं सत्त्वमसत्त्वं वा स्यादहेतोरन्यानपेक्षणात्। ननु सामग्री जनयित्री कार्यस्य तस्याश्च भेदाभेदानुविधानचतुराविमावन्वयव्यतिरेकानुविधायितया कार्यस्य भेदाभेदावतः कथं तावहेतुकौ भविष्यत इति चेत्। नैतत्सारम्। तथा हि न सामग्री नामान्या काचन समग्रेभ्यः किन्तर्हि समग्रा एव भावाः सामग्रीशब्दवाच्याः ते च परस्परव्यावृत्तस्वभावाश्चक्षुरादयो भिन्नाः सन्तो यद्येकमेवाभिन्नं चक्षुर्विज्ञानं कार्यमुपजनयितुं शक्तास्तदा सामग्र्यन्तरान्तःपातिनोऽपि भावाः समग्राः किमिति चक्षुर्विज्ञानस्योपजननं न कुर्युः। भिन्नत्वेन चक्षुरादिभ्यः क्षित्यादयो नोपजनयन्तीति चेत्। चक्षुरादयोऽपि परस्परं भिन्नस्वभावाः कथं जनयन्तीति वक्तव्यम्। जनकस्वाभाव्यादिति चेत्,नैवं यस्माज्जनकान्यत्वमेवाजनकत्वं व्यवस्थापितम्। तस्मादेकस्य यो जनकः स्वभावस्ततोऽपरे व्यावर्तमाना जनकाः न प्राप्नुवन्ति। जनकादन्यत्वाद्भावान्तरवत्। स्यादेतत्। न हि ब्रूमोऽन्यस्य तज्जनकरूपंनास्तीति। किन्तु यदेकस्य तज्जनकं रूपं तदन्यस्य नास्त्यन्योऽपि स्वरूपेणैव जनको न पररूपेणातद्रूपत्वात्। अतः स्वरूपाज्जनकाद्व्यावृत्त्यसिद्धेर्यथास्वं भिन्नाश्च जनकाश्च स्वभावेनेति कोऽत्र विरोधः। तथा ह्येकस्माज्जनकाद्व्यावर्तमानस्तद्रूपो न स्यान्न त्वतत्कार्यस्तेनैव च तत्कार्यं कर्तव्यं नान्येनेति कोऽत्र न्याय इति यद्येवमेकेनैव तत्कार्यं कृतमिति किमपरेषां तत्कार्यकरणे प्रयोजनम्। स्यादेतत्। न वै भावानां काचित् प्रेक्षापूर्वकारिता यतोऽयमेकोऽपि समर्थः किमत्रास्माभिरित्यपरे निवर्तेरन्। ते हि निरभिप्रायव्यापाराः स्वहेतुपरिणामोपधिधर्माणस्तत्प्रकृतेस्तथा भवन्तो नोपालम्भमर्हन्तीति। एवं तर्ह्येकेन हेतुना यः कार्यस्य स्वभावो जन्यते स एवापरेणेति प्राप्तम्। तथा च सति कारणवैलक्षण्ये कार्यवैलक्ष्यण्यादर्शनात्,कारणभेदो विसदृशस्याभिन्नस कार्यस्योत्पादकत्वेन भेदको न स्यात्। अथ मन्यसे परस्परविभिन्नमूर्तयोऽपि चक्षुरादय एव केनचित्स्वभावातिशयेन चक्षुर्विज्ञानजनने नियता नापरे क्षित्यादयः। तथा हि तेषामेव चक्षुरादीनां स स्वभावातिशयो नापरेषाम्। एतावत्तु स्यात्। कुतोऽयं स्वभावातिशयस्तेषामिति। निर्हेतुकत्वेऽनपेक्षिणो नियमाभावेनातिप्रसङ्गभयात् स स्वभावातिशयस्तेषां स्वहेतोरित्युच्यते। तस्यापि तज्जननात्मता तदन्यस्मात्स्वहेतोरित्यनादिर्हेतुपरम्परा। तस्मादेवंविधहेतुपरम्परायाश्चेष्टत्वेनानवस्थापि न क्षतिमावहति। एवं विलक्षणकारणकलापाद्विलक्षणमविलक्षणाच्चाविलक्षणं कार्यं जायत इत्येतावतैवांशेन हेतुभेदाभेदाभ्यां फलस्य भेदाभेदावुक्ताविति। नैतत्सारं।  यस्माद्य एवोभयनिश्चितवाची हेतुः स एव साधनं दूषणञ्चेति न्यायादभेदाविशेषेऽपि हेतुधर्मसामर्थ्याद्यथा न सर्वं सर्वसाधकं तद्वद्भेदाविशेषेऽपि न सर्वं सर्वसाधकमित्येवसभ्युपगतहेतुफलसम्बन्धं सांख्यादिकं प्रत्युच्यमानं शोभामाधत्ते। वस्तुतत्त्वतो हेतुफलभावापवादी माध्यमिकस्तं प्रतिस्वभावातिशयस्तेषां स्वहेतोरिति हेतुधर्मसामर्थ्यलक्षणो हेतुरसिद्धः स्वपक्षसिद्धये सिद्धवत् कथमुपादीयते। अथ मतम्। हेतुधर्मसामर्थ्यानभ्युपगमे प्रत्यक्षादिविरोधो दुर्निवार इति। तदसत्। तत्त्वत इति विशेषणेन यथादर्शनमनिषेधात्। अयथादर्शनं तर्हि निषेध इति व्यक्तमिदं कूर्मरोमोत्पाटनम्। अयथादर्शनं कार्यकारणभावानभ्युपगमादिति चेत्। न तत्त्वतः प्रमाणसहायत्वेनाप्रमाणसहायस्य कार्यकारणभावस्याभ्यु पगमात्कथं नायथादर्शनमभ्युपगमः। तथा ह्येतावन्मात्रमेकमेव प्रत्यक्षे प्रतिभासते,यदुतास्मिन् सतीदं भवतीति। तच्चास्माभिरनिषिद्धमेव। यस्तु प्रमाणोपपन्नस्वरूपः कार्यकारणभावो वर्ण्यते स प्रत्यक्षसमाधिगम्यो न भवति निर्विकल्पकत्वेन प्रत्यक्षस्य प्रमाणोपपन्नस्वरूपावधारणासामर्थ्यवैकल्यात्। न च वस्तुप्रतिभासनादेव तदव्यतिरिक्ततथाविधस्वरूपस्य प्रतिभासनमिति युक्तं वक्तुमतथाविधस्वरूपस्यापि केशोण्डूकादेः प्रतिभासनात्। भ्रान्तोऽयं प्रतिभास इत्यपि मिथ्या,सत्यत्वाभिमतप्रतिभासस्यापि सत्यत्वनिबन्धनाभावात्। अर्थक्रियाकारित्वं सत्यत्वनिबन्धनमिति चेत्। नैवं,यस्मात् कार्यक्रियाकारित्वमेवार्थक्रियाकारित्वं यथोदितविधिना परमार्थतोऽनुपपद्यमानस्वरूपं संवृत्याभ्युपगतमित्यज्ञापकमेतत्। सर्वस्यैवालीकत्वे देशकालादिप्रतिनियमो न स्यादिति चेत्। स्यादेप दोषो यदि निर्हेतुकत्वमभ्युपगम्यते। यावता विचारविमर्दासहिष्णुत्वेनाविचारैकरम्यं पूर्वपूर्वस्वकारणं समाश्रित्योत्तरोत्तरमीदृशं प्रतिनियत देशकालादिसत्कार्यं प्रवर्तते। अत एव च संवृत्यापि कारण वैकल्याच्छशविषाणादीनामनुत्पत्तिः। न्यायस्य तुल्यत्वे यथादर्शनमपि किं निषेधश्चेत्,प्रत्यक्षादिविरोधोपनिपातात्। न तर्ह्ययं न्यायो बाधासम्भवादिति चेत्। नैतदेवंयथा न्यायस्तत्त्वतस्तथा बाधाऽनभ्युपगमात्। यथा च बाधा यथादर्शनं तथा न्यायाभावात्। अथ मतमनेकमेव कारणमनेकं कार्यं कुर्यादिति द्वितीयः पक्षोऽभ्युपगम्यते। कारणस्वभावविशेषस्य कार्यस्वभावविशेषे व्याप्रियमाणत्वेन कार्ये कारणव्यापारविरचितानां स्वभावविशेषाणामसंकीर्णत्वात्। तथा हि समनन्तरप्रत्ययाद्विज्ञानाच्चक्षुर्विज्ञानस्योपलम्भात्मता। तस्यैव चोपलम्भात्मनश्चक्षुरिन्द्रियाद्रूपग्रहणयोग्यताप्रतिनियमः



विषयात्तत्तुल्यरूपतेत्यभिन्नत्वेऽपि वस्तुतः कार्यस्य निर्विभक्तरूपस्य कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्तीति न कारणभेदेऽप्यभेदस्तत्कार्यस्येति। तदयुक्तं,यस्मादुपलम्भात्मतादीनां परस्परतो भेदेऽभ्युपगम्यमाने तद्विज्ञानमेकमनेकं स्यादुपलम्भात्मतादिभ्योऽभेदादुपलम्भात्मादिस्वात्मवत्। अथा भेदस्तेभ्यो न सिद्धस्तथा च नानेकत्वं विज्ञानस्य भविष्यतीति चेत्। भेदे तेभ्योऽभ्युपगम्यमाने तद्विज्ञानं निर्हेतुकमेव स्यात्कारणव्यापारस्य विज्ञानादन्यत्रोपलम्भात्मतादिषूपयोगादेवं च नित्यं सत्त्वमसत्त्वं वा भवेदिति दोषः। अथ यथोक्तदोषभयाद्भेदो नाभ्युपगम्यते। तथा च सत्युपलम्भात्मतादीनां परस्परतो भेदो न स्यादेकविज्ञानस्वरूपत्वाद्विज्ञानस्वात्मवत्। अतः कारणव्यापारविषयभेदकल्पनावैयर्थ्याद्भिन्नस्वभावेभ्यश्चक्षुरादिभ्य इत्यादिना प्रागुक्तो दोषः समापतति। अथ मतम्।  कार्यस्वभावस्यानेकस्मादनुपलम्भात्मतादेर्व्यावृत्तिमतः समुत्पत्तिदर्शनाद्धर्मभेदकल्पनामास्थाय बोधात्मकान्मनस्काराद्बोधरूपतेत्यादिना कारणानुरूप्येणोपलम्भात्मतादिर्धर्मभेदः कारणव्यापारविषयभेदेन कल्पनासमारोपितः ,तस्य चासत्त्वात्तेभ्योऽभेदाज्ज्ञानस्यानेकत्वमेकस्माज्ज्ञानादनन्यत्वात्तेषामभेद इति प्रयोगद्वयेऽसिद्धो हेतुरिति। यद्येवं ते विशेषाः कल्पनोपरचितत्वेन व्योमोत्पलादय इव न हेतुव्यापारमपेक्षन्त इति कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्तीति न युक्तमभिधातुम्। अथापेक्षन्त इति निर्बन्धस्तथा सति कल्पनाशिल्पिघटितेष्ठेवोपलम्भात्मतादिषु कारणव्यापारो व्यवस्थाप्यमानः काल्पनिक एव भूतार्थो न स्यादेवञ्च कार्यमहेतुकं कारणव्यापारस्य कल्पितस्वभावेषूपयोगात्। अथोक्तदोषभयादभिन्नमेकं कार्यं विशेषाश्च भिन्ना न च कार्यात्मव्यतिरिक्ता इति मतिः। एवन्तर्हि भिन्नाभिन्नस्वभावाध्यासितत्वाद्धर्मधर्मिणोर्वस्तुतः चन्द्रतारकादिवद्भेदान्न केवलं व्यतिरिक्तमेव सामान्यं बलादापतति,नानेकत्वयोः परस्पराहतिलक्षणोऽपि दोषः।किन्तर्हि बोधरूपादनन्यत्वेऽभ्युपगम्यमाने रूपाद्विज्ञानकार्यस्य न सम्भवो बोधरूपादन्यत्वाद्बोधरूपस्वात्मवत्। विषयाकारादनन्यत्वाद्रूपतोऽपि तस्य सम्भवो विषयाकारस्वात्मवदित्येक एव कार्ये सम्भवासम्भवौ कारणे चैकत्र जनकाजनकौ युगपत्तत्त्वतो विरुध्यते। स्यादेतत्। तथा हि कार्यमुत्पद्यमानं दृष्टमिति। तदयुक्तम्। नहि सर्वं दर्शनं बाध्यमानमपि प्रमाणेन प्रमाणं,माभूद्विचन्द्रादिदर्शनस्यापि प्रामाण्यमिति। अथैकमेव कारणमनेकं कार्यं कुर्यादिति तृतीयः पक्षोऽभ्युपगम्यते। तदयुक्तम्। एकस्मादनेककार्योत्पत्तौ न कारणाभेदः कार्यस्याभेदक इति भेदोऽपि भेदस्य न हेतुरिति भेदाभेदौ विश्वस्याहेतुकौ स्याताम्। अभिन्नस्यापि स तादृश आत्मातिशयो येनैकोऽपि हेतुरनेकं कार्यं करोतीति चेत्। स हेतुर्येनात्मातिशयेनैकं कार्यञ्जनयति किन्तेनैवापरम्। तेनैव चेत्,कथं भेदः फलस्य। अथान्येनैवं तर्हि कारणाभेदो न युक्तिमान् न ह्यात्मातिशयादन्यो भावः। स्यादेतत्,यदि कार्यस्वभावापत्त्या कारणं कार्यं जनयति,यथा सांख्यस्य तदा भवेदेकस्यानेकरूपापत्तिविरोधादनेकजननमयुक्तिमत्। यावता भेदाभेदजनननियतस्वभावकारणसन्निधिमात्रेण भेदाभेदकार्योत्पत्तौ नेदञ्चोद्यमास्कन्दति। अयमेव हि कारणभेदाभेदाभ्यां कार्यस्य भेदोऽभेदो वा यद्भेदाभेदजनननियतस्वभावात्कारणाद्भिन्नाभिन्नकार्योत्पत्तिरिति। एतदपि मिथ्या। यतोऽत्रैवेयं विचारणा क्रियते। चक्षुर्येन स्वभावेन चक्षुःक्षणं जनयति किन्तेनैव चक्षुर्विज्ञानमपि। तेनैव चेत्तदपि विज्ञानं चक्षुरेव स्याच्चक्षुर्जननस्वभावकारणजन्यत्वाच्चक्षुर्वत्। एवं येन वा स्वभावेन चक्षुर्विज्ञानं जनयति तेनैव चक्षुरपि। एवं चक्षुर्विज्ञानजननस्वभावकारणजन्यत्वाच्चक्षुरपि चक्षुर्विज्ञानं स्याच्चक्षुर्विज्ञानवत्। यदि वा प्रत्येकं चक्षुरचक्षुर्जननस्वभावकारणजन्यत्वाच्चक्षुरचक्षुःस्वभावं चक्षुः स्यात्,एवं विज्ञानाविज्ञानजननस्वभावकारणजन्यत्वाद्विज्ञानं विज्ञानाविज्ञानस्वभावं स्यात्। एवमेतदित्यभ्युपगमे च सुतरां प्रत्यक्षाद्युपहतिर्गाढ भवन्तमाश्लिष्यति। अथान्येन स्वाभावेन चक्षुश्चक्षुःक्षणं जनयत्यन्येन चक्षुर्विज्ञानमितिमतम्। तौ स्वभावौ किञ्चक्षुषो व्यतिरिक्तावथाव्यतिरिक्तौ। यदि व्यतिरिक्तौ तदा तावेवार्थक्रियालक्षणत्वाद्वस्तुनो जनकौ वस्तुनी स्यातां चक्षुस्त्ववस्तु स्यादकिञ्चित्करत्वात्। अथाव्यतिरिक्तौ तदा चक्षुषोऽप्येकाभिमतस्य भेदः स्यात्परस्परभिन्नस्वभावाव्यतिरेकात्,स्वभावद्वयवत्। तथा चैकत्वं हीयते। स्वभावयोर्वा पुनरैक्यं स्यादेकस्माच्चक्षुषोऽभिन्नत्वाच्चक्षुर्वत्तत्र चक्षुर्येन स्वभावेनेत्यादिनोक्तो दोषः। अथ मतं स्वहेतोरेकजननस्वभावमुत्पन्नं कारणं यथा कार्यमेकं जनयति तथा स्वहेतोरेवोत्पन्नमनेकं जनयतीति। एवं तु ब्रूवाणैः प्रकरणमेव विस्मृतम्। तथा हि यथैकस्यानेकजनकत्वं निराचिकीर्षितं तथैकजनकत्वमपीति किं माध्यमिकं प्रत्येवमुच्यते। अमाध्यमिकं प्रत्यपि निष्फलमिष्टत्वादेकानेकजनकत्वस्य तेन। स्यादेतत्,यदि भेदजनननियतस्वभावादभेदोत्पत्तिः न तर्हि कारणस्वभावानुविधायि कार्यं स्यादित्यहेतुकत्वप्रसङ्गः यावता चक्षुषः सकाशाद्भेदजनननियतस्वभावाच्चक्षुषो विज्ञानस्य वा चक्षुःस्वभावस्योदयात्कथं न भेदोत्पतिः। तथाहि न कारणं प्रति कार्यं परस्परविलक्षणाभिः शक्तिभिरनुगतमिति भिन्नं कार्यं करोतीत्यपितु स्वभावादिति। तमेव तत्स्वभावं पर्यनुयुज्ज्महे कोऽयं स्वभावो नाम विश्वरूपो येन प्रागुक्तानेकप्रकारविरोधेऽपि तत्तिरस्क्रियया स्वपक्षरक्षामाचरन्नपास्तान्यप्रतिसमाधानचिन्ताभारो भवान् सुखमासीत्। हेतुधर्मसामर्थ्यमिति चेत्,नैवं प्रागेव निराकृतत्वात्। परिदृश्यमानरूपतेत्यपि न वक्तव्यं,यस्माद्रूपादिनिर्भासवति प्रत्ययेऽप्रतिभासमानस्य शास्त्राद्याश्रयेण परिकल्पितरूपस्य तत्त्वोत्पत्त्याद्याकारस्य निषेधाद्यया बुद्ध्या तत्त्वं सन्ध्रियते,यस्यां वा बुद्धौ सा तादृशी लोकप्रतीतिः संवृतिरिष्टा तया सर्वमिदं प्रतीयमानस्वरूपं विश्वं सत्यं,अन्यथाऽलीकम्। अतो यथादर्शनं कार्यकारणभावो दुर्निवारस्तथा च सति यत् कैश्चिदेवं दूषणमुच्यतेऽभावः संवृतिरुत्पादो भाव इति युगपदर्थक्रियायां योग्यमयोग्यं वस्त्वभ्युपगतम्। अथोत्पादः संवृतिस्तदा संवृत्योत्पाद इत्यस्य वाक्यस्योत्पत्त्योत्पाद इत्यभ्युपगमान्न किञ्चिद्निष्टमापतितम्। तथानुत्पादः परमार्थ इत्येवं परमार्थेन नोत्पाद इत्यस्यानुत्पादेन नोत्पाद इत्यर्थः। तथा च सिद्धसाध्यतेत्यादि। तत्संवृतिलक्षणानभिज्ञतया प्रकृतानुपयोगिकेवलमभिमानादसङ्गतमुक्तम्। अथैकमेव कारण मेकं कार्यं कुर्यादिति चतुर्थः पक्षोऽभ्युपगम्यते सोऽयं नितरामेव न राजते। तथा हि चक्षुरादीनां सजातीयक्षणजनकत्वेन स्वविज्ञानजनकत्वाभावेऽन्धबधिरादित्वप्रसङ्गः स्पष्टः प्रसज्यते। स्वविज्ञानजनकत्वे चाऽभ्युपगम्यमाने चक्षुरादिजात्युच्छेदेनैकस्माज्ज्ञानक्षणादूर्ध्वं न चक्षुरादयो नापि ज्ञानमिति तदेवान्धत्वादिकमनायासेन जगतः प्राप्तम्। अतो ये प्रतीत्यसमुत्पन्नास्ते परमार्थतोऽविचारैकरमणीयास्तद्यथा मायाकारनिर्मिताः करभादयः। तथा चामी सर्वे रूपादयो भावा इति स्वभावहेतुः। यथादर्शनं प्रतीत्योत्पाददर्शनान्नासिद्धो हेतुः सपक्षे भावान्न विरुद्धः पूर्वप्रबन्धेन विपक्षे बाधकप्रमाणोपदर्शनादनैकान्तिकश्च न भवतीत्यमुना न्यायेन प्रत्ययाधीनवृत्तित्वाद्यथाशब्दः प्राज्ञप्तिकस्तथा भगवतां कायो व्यवस्थापित इति। तत्रोपादानकारणाधीनत्वेन हेत्वधीना सहकारिकारणजन्यत्वात्प्रत्ययाधीना विनेयानां कुशलमूलबलेन प्रतिभासगमनादनेककुशलमूलप्रयोगनिष्पन्ना। यथोक्तधर्मप्रत्यवेक्षायाः प्रयोजनार्थमाह। यतः कुलपुत्रेत्यादि। यस्मादेवमनन्तरोक्तक्रमेण यदा सर्वधर्माननुत्पन्नाननिरुद्धान्दर्शनमार्गाधिगमेन त्वं सम्यक् प्रज्ञास्यसि,तस्माद्भावाद्यभिनिवेशलक्षणं विपर्यासं तद्विरोधिनैःस्वाभाव्यज्ञानात्प्रहाय तन्मूलं सकलं क्लेशज्ञेयावरणं क्रमेणापाकुर्वाणः प्रथमादिभूमौ नियतो भविष्यस्यनुत्तरबोधावित्यर्थ। विनेयानामविपरीतधर्मदेशनाबलादधिगमो जात इति प्रतिपादयन्नाह। अस्मिन् खलु पुनरित्यादि। न च मे भूयो विचिकित्सा प्रवर्तत इति। एकयोगक्षेमानां मध्येऽन्यतरस्यैकस्य प्रहाणाभावाद्विचिकित्साप्रहाणे दर्शनप्रहातव्यक्लेशगणप्रहाणं धर्मनैरात्म्यदेशनाबलादधिगतदर्शनमार्गसामर्थ्येन परिदीपयत्यतोऽनुत्तरबोधिं प्रति न पुनर्विचिकित्सा प्रवर्तते। कुशलमूलपरिपूरिमुपादायेति प्रथमभूम्यधिकारेण दानपारमिताऽतिरिक्ततामुपादायेत्यर्थः। सप्तवर्षाणीति॥



 



न कृपा मन्दतेदानीं न च मे धर्ममत्सरः।



नाचार्यमुष्टिर्नाशक्तिर्न च मे दुःखशीलता॥



न च मे निष्ठितं शास्त्रं तर्कयामि न चान्तिकात्।



आज्ञातुं न च मे शक्ताः विनेया न च सादराः॥



न देशयामि येनेति ज्ञापयन् परितर्षयन्।



द्वौ मासौ प्रतिसंलीनो भगवानर्धमेव च॥



 



इति न्यायादार्यसदाप्ररुदितस्य परिशुद्धाशयताजिज्ञासार्थं सप्तवर्षाणि समापन्न एव स्थित इत्येके। दर्शनमार्गाधिगमबलेनाधिगतसप्तसम्बोध्यङ्गानां सर्वाकारपरिशोधनार्थमित्यपरे। आशयपरिशुद्ध्या भावनाबलादविपरीतनिमित्तप्रतिभासो जायत इत्याह। अथ खलु सदाप्ररुदित इत्यादि। प्रतिसंख्यायेति। एवं विचिन्त्य,ऋद्ध्याभिज्ञासम्भवेऽपि न तया पूजा कृतेति। शरीरविक्रयमूल्यग्रहणद्व्याख्येयम्। कीदृशीं प्रज्ञापारमितां देशयामासेत्यादि। तत्रेयं धर्मोद्गतस्येत्यादि। यद्यपि सर्व एव सर्वधर्मसमतादयो देशनाप्रकारा धर्मनैरात्म्यद्योतकत्वेन तुल्यास्तथापि पौरुषेयत्वाद्वक्तुरभिप्रायं कार्यतया सूत्रयेयुरमी शब्दाः,तस्मादविच्छिन्नपारम्पर्यसम्प्रदायत्वेनाभिप्रायद्योतनादेषामर्थभेदोऽवगन्तव्य इत्येके। अथ तन्मतदेव लिख्यते। तत्रादौ सर्वाकारज्ञताद्यनुपूर्वाभिसमयपर्यन्तस्य षट्प्रकाराभिसमयक्रमस्य प्रत्येकं प्रयोगदर्शनभावनामार्गस्वभावप्रतिपादनाय सर्वधर्मसमतयेत्याद्यष्टादशपदानि। तदनु चतुर्विधैकक्षणाभिसमयार्थकथनाय पृथिवीधात्वपर्यन्ततयेत्यादि पदचतुष्टयं,तदनन्तरं तु कायत्रयस्य शून्यतैकरसत्वज्ञापनार्थमाकाशधात्वपर्यन्ततयेत्येकं पदम्। अतोऽनन्तरन्तु धर्मसम्भोगनिर्माणकायत्रयस्वरूपनिवेदनार्थं विज्ञानधात्वपर्यन्ततयेत्यादि पदत्रयम्। तदनन्तरं च सम्भाराष्टाधिमुक्तिबोधिसत्त्वतथागतभूमिषु धर्मकायस्य यथाभव्यं विनेयजनप्रतिष्ठापनकर्मपरिदीपनार्थं सर्वधर्मानुपलब्धितयेत्यादि पदचतुष्टयं वेदितव्यमित्ययं समुदायार्थः। पदार्थस्तु विभक्तप्राय एवेति न पुनर्विभज्यते। आर्यधर्मोद्गताधिष्ठानेन स्वप्रणिधिपुण्यज्ञानबलाच्च श्रुतचिन्तामयज्ञानोत्पादक्रमेण यथोक्ताष्टाभिसमयस्वभावप्रज्ञापारमितादेशनाकाराः समाधयः। स्वप्नावस्थायामिव तावत्कालप्रतिभासाः सदाप्ररुदितबोधिसत्त्वस्योत्पन्ना इत्याह। अथ खलु सदाप्ररुदितस्येत्यादि। यस्मिन् समाधौ व्यवस्थितः सर्वधर्मसमतां प्रतिपद्यते स सर्वधर्मसमता नामः समाधिरेवं सर्वधर्मविविक्तश्च नाम समाधिरित्यादि वाच्यम्। सर्वथा तु यथानिर्दिष्टप्रज्ञापारमितालम्बनसमाधीनामधिगमरूपेण दृढप्रतिभासित्वेसूत्रविरोधः। तथा हि प्रथमेन कल्पासंख्येयेन सम्भारभूमिमारभ्य यावत्प्रथमा भूमिर्निष्पद्यते द्वितीयेन तु विमलाभूमिमुपादाय यावत्सप्तमी भूमिः,तृतीयेन पुनः कल्पासंख्येयेनाचलाभूमिमारभ्य यावद्बुद्धभूमिरित्येवं त्रिभिः कल्पासंख्येयैर्बुद्धत्वमधिगम्यत इति यथारुतमेव सूत्रं विरुध्यते। त्रिकसामान्यात् त्रिभिः कल्पासंख्येयैरित्युक्तं न पुनः परमार्थत इत्येवं नेयार्थसूत्रव्याख्याने नितरामेव विरोधः। तथा हि सम्भारभूमिमापूरयन्नेकं कल्पासंख्येयमतिक्रामति,तदनन्तरमधिमुक्तिचर्याभूमिं निष्पादयन् कल्पासंख्येयद्वयमतिनामयति। तदनु प्रमुदिताभूमिमुपादाय यावद्धर्ममेघां बोधिसत्त्वभूमिं प्रत्येकं त्रिभिस्त्रिभिः कल्पासंख्येयैर्बोधिसत्त्वो निष्पाद्य समन्तप्रभां बुद्धभूमिमासादयतीत्येवं त्रयस्त्रिंशता कल्पासंख्येयैर्बुद्धत्वं प्राप्यत  इत्याचार्यवसुबन्धुपादाः। यथोक्ताष्टाभिसमयात्मकप्रज्ञापारमितादेशनालम्बनसमाधिबलाद्बहूनि समाधिमुखानि प्रथमायामेव भूमावधिगतानीत्यादि। एवं प्रमुखानीत्यादि। अत्र समाध्यभिनिर्हारोपाया एव समाधिमुखानि न तु समाधयः "प्रमुदितायां भूमौ समाधिशतं लभत"इति दशभूमकेऽभिहितत्वात्। समाधिस्वभावान्येव वा समाधिमुखानि। तत्र शतग्रहणस्योपलक्षणत्वादिति प्रतिपत्तव्यम्॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां धर्मोद्गतपरिवर्तो नामैकस्त्रिंशत्तमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project