Digital Sanskrit Buddhist Canon

त्रिंशत्तमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Triṁśattamaparivartaḥ


 



त्रिंशत्तमपरिवर्तः।



यथोक्ताष्टाभिसमयस्वभावप्रज्ञापारमिताधिगमं प्रतिपूर्वयोगकथामुखेनादिकर्मिकावस्थामारभ्य पर्येषमाणक्रममावेदयन्नाह। पुनरपरमित्यादि। सदाप्ररुदितस्तु बोधिचित्तसमादानदानादिशुभसञ्चयवान्। घोषानुगत्वादुपलम्भप्रहाणार्थिकत्वाच्च सम्भारभूमौ स्थितिस्तदुत्तरोत्तरर्निर्वेधांगाद्यववादपर्येषणपरस्तदेति लक्ष्यते। अधुना तु दशभूमीश्वर एव। कायेऽनर्थिकेनेति। अस्थिमज्जादिदानाशयात्। जीविते  निरपेक्षेणेति। हृदयदानं प्रत्युत्साहितत्वात्। लाभसत्कारश्लोकेष्विति। तत्र लाभो द्रव्यसम्पत्। सत्कारो बहुमानता। श्लोको दिगन्तरव्यापिनी कीर्तिः। प्रथमं संभारभूमौ "धर्मस्रोतसि बुद्धेभ्योऽववादं लभते तदे"इति वचनात् ,अप्राप्तधर्मस्रोतः समाधित्वेनान्तरीक्षान्निर्घोषः श्रुतोऽभूत्। मा वामेनेति वामपार्श्वेन। मा दक्षिणेनेति दक्षिणपार्श्वेनावलोकयन्मागमिष्यसीत्यर्थः। मा पूर्वेणेत्यादि। मा पूर्वादिदिग्भागेन न यथा नात्मतो न सत्कायतश्चलसीत्यादि। आत्मादीनामप्रतिभासमानानां विद्यमानत्वेनानवगमात्। रूपादीनां दर्शनपथारूढानां निरात्मकानामविद्यमानत्वेनावबोधाद्यथा तेभ्यो न चलसि तथा गच्छेत्यर्थः। वितिष्ठत इति निवर्तते। एतदुक्तं भवति। सर्वेणैतेन समाधिविबन्धककायक्लमथाद्युत्पादनिषेधेनोपलक्षणतया सर्वस्यैव समाधेः। कौसीद्यमालम्बनसम्प्रमोषो लयौद्धत्ये तथानाभोगः। पुनराभोग इति। षद्दोषाणां प्रतिपक्षेणाष्टाभिः प्रहाणसंस्कारैः समन्वागतेन समाधिना प्रज्ञापारमितां मनसि कुर्वन् पूर्वां दिशं गच्छैवं श्रोष्यसीत्यववादो दत्तः स्यात्। तथाहि समाधिगुणेष्ठभिसम्प्रत्ययलक्षणया योगिन श्रद्धया छन्दः समुत्पद्यते। ततः छन्दबलाद्वीर्यमारभते। ततो बीर्यबलेन कायचित्तप्रस्रब्धिमासादयति। ततः प्रस्रब्धकायचेतसः कौसीद्यं व्यावर्तते। तस्माच्छ्रद्धादयश्चत्वारः कौसीद्यप्रहाणाय भवन्ति। स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः,तया सम्यगालम्बनोपस्थापनात्। सम्प्रजन्यं लयौद्धत्ययोः प्रतिपक्षः। तेन प्रामोद्यवस्तुबुद्धादिगुणमनसिकाराल्लयस्य,संवेगवस्त्वनित्यतादिमनसिकारादौद्धत्यस्य प्रहाणाल्लयौद्धत्याप्रशमनकाले त्वनाभोगदोषः। तत्प्रतिपक्षेण चेतनाऽभ्यसनीया। लयौद्धत्यप्रशमे सति यदा चित्तमालम्बने निष्प्रकम्पमनभिसंस्कारवाहि प्रवृत्तं भवति,तदा पुनराभोगदोषस्तेन चित्तविक्षेपात् अतस्तत्प्रतिपक्षेणोपेक्षा भावनीयेति। सम्यगववादलाभादभ्युपगमार्थमाह। एवं वै करिष्यामीति। निर्युक्तिक एवायमभ्युपगम इति तत्कस्य हेतोरित्याशङ्क्याह। अहं हि सर्वसत्त्वानामालोकं कर्तुकाम इत्यादि। सुगमः। पुद्गलनैरात्म्यमुखेनानुशास्य धर्मनैरात्म्यद्वारेणानुशासयन्नाह। पुनरपि शब्दमश्रौषीदित्यादि।



 



परिज्ञायै प्रहाणाय पुनः साक्षात् क्रियां प्रति।



शून्यतादिसमाधीनं त्रिधार्थः परिकीर्तितः॥



 



इति वचनाद्येनाकारेण प्रतिभासते स घटाद्याकारः कल्पितस्वभावस्तस्य परिज्ञानार्थं शून्यतासमाधिरुक्तः। कल्पितो हि स्वभावः परिज्ञेयो भ्रान्तिमात्रेण सत्त्वात्। सर्वधर्माभिनिवेशविविक्तमायोपमज्ञानस्य साक्षात् क्रियार्थमानिमित्तः समाधिः योगिसंवृत्या तथ्यारूपस्य परिनिष्पन्नस्याधिगन्तव्यस्वभावत्वात्पुद्गलधर्माभिनिवेशस्य परतन्त्रस्य प्रहाणार्थमप्रणिहितः समाधिः। ग्राह्यग्राहकाभिनिवेशस्य विपर्यासप्रभवत्वेन प्रहेयत्वात्। श्रुतचिन्ताभावनामयज्ञानोत्पादकालेषु मायापुरुषेणेवाचरितव्यमिति प्रतिपादनार्थं निमित्तपरिवर्जितेनेत्यादि पदत्रयमित्येके। शून्यतादिसमाधौ प्रयोगमौलपृष्ठावस्थास्वित्यपरे। कल्याणमित्रलक्षणार्थमाह। यानि शून्यतेत्यादि। तत्र सम्भारभूमौ पुण्यसम्भारोपार्जनार्थं शून्यतानिमित्ताप्रणिहितानधिमुक्तिचर्याभूमौ तु ज्ञानसम्भारात्मकनिर्वेधभागीयोत्पादनार्थं यथाक्रममनुत्पादाजातानिरुद्धाभावान् सर्वधर्मान् देशयन्तीत्यर्थः। परितुलयमानेनेति परिगणयता। धर्मार्थिकेनेति। अनागतधर्माप्रयोजनदर्शनात्। धर्मगौरवेणेति। प्रत्युत्पन्नानुशंसोपलम्भात्। अष्टषष्टयां त्रीसहस्त्रैः सार्धं पञ्चभिः कामगुणैः समन्वितमार्यं धर्मोद्गतं बोधिसत्त्वं दृष्ट्वा न चित्तस्यान्यथात्वं कार्यमित्यादि। मारकर्माणि च त्वयावबोद्ध्यव्यानीत्यादि। तांश्चाभिभूयेति। तदायत्तत्वाभावेनाभिभूय। उपायकौशल्यमेव कथयन्नाह। एष सत्त्वविनयेनेत्यादि। संवृतिसत्याश्रयेणोपायं निर्दिश्य परमार्थसत्याश्रयेणाह। तत्क्षणञ्च त्वयेत्यादि। तत्क्षणमिति। पञ्चकामगुणक्रीडकदर्शनानन्तरम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सर्वधर्मा हीत्यादि। स्वभावेन शून्या इति। तत्त्वेनानुत्पन्नाः। रूपादिपञ्चस्कन्धानां निरात्मकत्वप्रतिपादनार्थं निःस्वभावा इत्यादि पञ्चपदोपादानम्। मायोपमा इत्यादि। पुनरुक्तदेशनायाः प्रागुक्तं प्रयोजनं सप्तवर्षाण्येकसमाधिसमापन्नमार्यं धर्मोद्गतं बोधिसत्त्वमुपलभ्य न शिथिलवीर्येण भाव्यमित्याह। अपरमपि त्वमित्यादि। प्रतिवाणिरिति प्रतिकुलता कियद्दूरं मया गन्तव्यमिति सम्भारभूमौ।



 



ध्यानाभिज्ञाभिनिर्हाराल्लोकधातून् स गच्छति।



पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च॥



अप्रमेयानुपास्यासौ बुद्धान् कल्पैरमेयगैः।



कर्मण्यतां परामेति चेतसस्तदुपासनात्॥



 



इति वचनादभिज्ञासद्भावेऽपि आर्यधर्मोद्गतविमोक्षदर्शनशक्तिवैकल्यादार्यधर्मोद्गतस्यैवाधिष्ठानात्तत्परिपाचनोपायकौशलातिशयाददर्शनेनार्यधर्मोद्गतविमोक्षप्रभावितगन्धवत्या नगर्याः कियद्दूरं मया गन्तव्यमिति निर्घोषो मया न पृष्ट इत्यर्थः। तत्र रुदितमुच्चैःस्वरेण क्रन्दितं तद्विपर्ययादित्येके। रुदितमश्रुविमोक्षणं क्रन्दितं तदेव सशब्दमित्यपरे। शोकश्चित्तवैरस्यं परिदेवो हाकष्टं वञ्चित इत्यादिवचनम्। पूर्वोक्तधर्मपुद्गलनैरात्म्याववादादभ्यारब्धप्रज्ञापारमितामनस्कारत्वाच्च सम्भारभूमावेव चित्तकर्मण्यतायां सत्यां धर्मस्रोतो नाम समाधिं प्रतिलभते,यस्य प्रतिलभ्याद्ग्रन्थार्थग्रहणसमर्थो भवति। तस्मिंश्च समाधौ प्रतिलब्धे बुद्धेभ्योऽववादं समाधिप्रज्ञयोरभिवृद्ध्यर्थं प्राप्नोतीत्याह। अथ खलु सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्येत्यादि। तथोत्कण्ठितस्येति। तथा संजाताभिलाषस्य सन्नाहकुशलसत्त्वार्थवीर्यभेदादेतेनैव वीर्येणेत्यादिपदत्रयम्। छन्दिकता तु प्राप्तीच्छाऽनुबध्येति। अन्तरापरित्यागाभावादनुबन्धं कृत्वा तत्रान्तर्धानसद्भावाद्विधा तद्विपर्ययात्स्फीता। परचक्रोपद्रवादिविरहात्क्षेमा। अन्नादिप्राचुर्यात्सुभिक्षा। हस्त्यश्वादिमनुष्यबाहुल्यादाकीर्णबहुजनमनुष्या। अन्तरापणवीथी त्वापणकवीथी। एकान्तमारभ्यापरान्तगमनान्निर्विद्धा। समसमैरिति। तुल्यप्रमाणैरिति केचित्। वीप्सया द्विरभिधानमित्यन्ये। अनुत्पीडजनयुग्ययानसंक्रमणस्थापितैरिति। तत्र जनयानस्थानं हस्त्यश्वादियानस्थानं,युग्ययानस्थानं,शिविकादियानस्थानं,पद्भ्यां गमनस्थानं सङ्क्रमणस्थानम्। अनुत्पीडानि जनयुग्ययानसङ्क्रमणस्थानस्थापितानि येष्ठन्तरापणवीथीशतेषु तानि। तथोक्तान्यतस्तैः सुसमापिता निष्पादितेत्यर्थः। निष्ठान्तत्वेन स्थापितशब्दस्य न पूर्वनिपातो लक्षणस्य व्यभिचारात्। खडकशीर्षाणीति क्रमशीर्षाणि। किंकिणीजालेनेति घण्टिकासमूहेन। तत्र शोभनत्वाद्वर्णहृदयं गमत्वान्मनोज्ञः। हर्षकरत्वाद्रञ्जनीयः। पञ्चाङ्गिकस्य तूर्यस्येति। वीणावंशादियुक्तवाद्यविशेषस्य। अनुसारिवारिवाहिण्य इति। प्रदक्षिणावर्तजलवाहिन्यः। वारिण इति कृत्प्रत्यये कर्तरि सम्बन्धविवक्षायां षष्ठी। पुण्डरीकं पद्मं। अन्यैरिति। सौगन्धिकदन्धोत्पलादिभिः। शकटचक्रप्रमाणपरिणाहानीति। परिणाहो माण्डल्यम्। नीलानीत्यादि। तत्र नीलानीत्युद्देशः सहजनीलत्वान्नीलवर्णवर्णानि। सांयोगिकनीलत्वान्निदर्शनानि। उभयोः प्रभानिर्मोक्षभास्वरत्वान्नीलनिर्भासानि। एवं पीतानीत्यादिज्ञेयम्। बुद्धनेत्रीत्यादि। बुद्धनेत्री प्रज्ञापारमिता। तस्यां चित्रीकारः प्रसादस्तेनानुगतं युक्तं सुष्ठु गतमवबुद्धं श्रुतं चित्तं श्रुतमयं ज्ञानं येषां ते यथोक्तास्तेषां पूर्वकर्मविपाकेनेति पूर्वेण सम्बन्धः। गन्धवत्यां मध्य इति। गन्धवत्यां नगर्यामभिलक्ष्यभूतस्थानस्य शृङ्गाटकस्य मध्य इति सम्बन्धः। मृदुमध्याधिमात्रोपभोगभेदाद्गृहपरिभोगेत्यादिपदत्रयम्,कर्केतनमयीति। कर्केतनमिन्द्रनीलम्। समर्पित इत्युत्पादितकायसुखः। समन्वंगीभूत इति सञ्जातचित्तसौमनस्यः। आत्मनि सति परसञ्ज्ञा स्वपरविभागात्परिग्रहद्वेषौ। अनयोः सम्प्रतिबद्धाः सर्वक्लेशाः प्रजायन्त। इति न्यायेनात्मात्मीयग्रहाभिनिवेशपूर्वकत्वेन सर्व एव रागादयः क्लेशा दुःखविपाकहेतवो भवन्ति। मायोपमसर्वधर्मभावनया पुनः सत्त्वविनयनमुपादाय क्लेशवशित्वलाभेनाशयविशेषान्मायापुरुषस्येव कामपरिभोगो जिनात्मजानां न दोषकृत्तथा॥



 



बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः।



प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु॥



क्लेशो बोध्यङ्गतां यातः संसारश्च शमात्मताम्।



महोपायवतां तस्मादचिन्त्या हि जिनात्मजाः॥



 



इति वचनात् कामपरिभोगो बोधिसत्त्वानां न दोषकृत्। गृहीतनियमानामेव कामपरिभोगस्य दुष्टत्वात्। तूलिकास्तीर्णेति। तूलिका ज्ञायत एव। गोणिका तु विशिष्टकम्बलजातिः। गर्भोलिको मसूरकः। चैलवितानमिति वस्त्रवितानं। अस्तित्वगुणवच्छक्यत्वेषु संप्रत्ययप्रसादाभिलाषाकरश्रद्धाप्रतिपादनार्थं धर्माणां सन्निश्रयतयेत्यादि पदत्रयोपादानम्। अधिष्ठितमिति। अविच्छिन्नं चिरकालप्रार्थितप्राप्त्युपायश्रवणेन मृदुमध्याधिमात्रसुखसौमनस्य लाभाद्यथाक्रमं तुष्ट इत्यादि षट्पदानि। तथागताववादेनाशयविशुद्धिलाभात्प्रज्ञापारमिताश्रवणं जातमित्याह। अथ खलु सदाप्ररुदित इत्यादि। सम्पन्नहेतुकानां धर्मश्रवणं नाफलवदित्याह। शृण्वंश्चेत्यादि। अनिश्रितसंज्ञामिति। मायोपमसंज्ञाम्। धर्मनैरात्म्यप्रभावितश्च सर्वोऽधिगम इत्याह। तस्यानेकानीत्यादि। यस्मिन् समाधौ व्यवस्थितः सर्वधर्माणां स्वभावं मायोपमत्वादिना व्यवलोकयति,स सर्वधर्मस्वभावव्यवलोकनो नाम समाधिः। एवं सर्वधर्मस्वभावानुपलब्धिर्नामसमाधिरित्यादयो व्याख्येयाः। तत्र मृदुमध्याधिमात्रनिर्वेधभागीयाधिगमभेदात्सर्वधर्मस्वभावव्यवलोकनादिद्वादशसमाधयस्तन्निर्जातास्त्वधिमुक्तिचर्याभूमावेव मायावर्जित इत्यादयः पञ्चाशत्समाधयश्चावगन्तव्याः। आर्यरत्नमेघसूत्रे चास्यामेवाधिमुक्तिचर्याभूमौ वर्तमानो बोधिसत्त्वः पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वितः कथ्यत इति। आशयपरिशुद्धिबलादेव प्रथमभूम्यधिगमार्थं समाहितावस्थायां तथागतप्रतिभासपूर्वको विस्तरेणाववादो जात इत्याह। स एषु समाधिषु स्थित इत्यादि। प्रमुदितादिभूमौ बुद्धशतादिकं पश्यतीति प्रदेशान्तरे यद्वचनं तदवश्यंभावित्वेनेति प्रतिपत्तव्यम्। अन्यत्र विधिप्रतिषेधयोरनियमात्। अतोऽधिमुक्तिर्याभूमावसंख्येयतथागतोपलम्भोभवति। ननु द्वयोस्तथागतयोरेकस्मिन् लोकधातौ सम्भवविरोधात् कथमेवमिति चेत्। लोकधात्वन्तरे स्थितानप्रमेयान् बुद्धान् भगवतः पश्यति स्मेत्येके। यत्खल्विदमपूर्वाचरमौ द्वौ तथागतौ लोके नोत्पद्येयातामिति जन्मनिषेधनं तच्छासनप्रवृत्तिमभिप्रायीकृत्योक्तमतो न द्वयोस्तथागतयोर्युगपल्लोके शासनं प्रवर्तत इत्ययमेवार्थस्तत्र सन्तिष्ठते। यस्मात्परमार्थपरतन्त्रोत्पत्तित्वेनेयमेव तयोरुत्पत्तिर्यदुत शासनप्रवृत्तिरेवञ्च सतीह लोकधातुस्थानेव समानाभिप्रायत्वेन विहितैकशासनक्रमानविकलकारणत्वाद्युगपदुत्पन्नानेकतथागतान् पश्यति स्मेत्यपरे। नापूर्वाचरमाविति वचनात् क्रमेण तेषामुत्पत्तिरनुज्ञातैव। ते तूत्पन्नाः परिनिर्वाणाभावात्,धर्मसम्भोगकायाभ्यां विद्यन्त एव। केवलमपुण्यवतां नाभासीभवन्ति। पुण्यवद्भिः पुनर्यथा पुण्यमल्पीयांसो भूयांसो वा समुपलभ्यन्त इत्यन्ये। तदानीं तत्रत्यैकतथागताधिष्ठानेनार्यधर्मोद्गतसामर्थ्येन वा प्रातिहार्यकरणकाले पृथग्जनानामिवामेयनिर्मिततथागतदर्शनमिति केचित्। अचिन्त्यविमोक्षसुखभावनाबलादादिकर्मिकाणामिव स्वचित्तस्यामेयतथागतप्रतिभासानुगतत्वेनोत्पादादप्रमाणतथागतदर्शनमित्यपरे। चैलोण्डूकमिवेति। वस्त्रगुलकमिव शिरसा परिकर्षेर्धारयेस्त्वमित्यर्थः। तथैव तत्कस्य हेतोरित्याशंक्याह। तस्य हीत्यादि। परितसनमिति वैमनस्यं तेन मूल्येनेति। यावज्जीवमात्मभावविक्रये परप्रतिबद्धतया तत्र गमनासम्भवान्नितरां पूजावैकल्यमिति। तावत्कालविक्रीतात्मभावमूल्येन सम्भारभूमावप्यभिज्ञाबलाद्दिव्यपूजासम्भवेऽपि तन्मूल्यग्रहणं धर्मगौरवार्थमित्येके। धर्मश्रवणार्थिकत्वादृद्ध्यभिज्ञाभोगस्मृतिवैकल्यादित्येके। मन्दवीर्याणां धर्मपर्येष्टिं प्रत्युत्साहसन्दर्शनार्थमित्यपरे। श्रेष्ठिदारिकाप्रभृतीनामनेन क्रमेणार्थकरणमिति केचन। स्वपरोभयोपद्रवविनाशाद्यथाक्रमं भग्नानीत्यादिपदत्रयम्। कामहेतोः कामनिदानमिति। अनुभूताननुभूतकामार्थमित्यर्थः। मृदुमध्याधिमात्रहर्षलाभात्तुष्टचित्त इत्यादि पदत्रयम्। अभिज्ञाबलाद्धृदयादिदानेऽपि धर्मश्रवणान्तरायादर्शनाद्दास्यामीत्यभ्युपगतवानिति केचित्। धर्मपूजार्थिकतयाऽन्तरायोऽपि न गणित इति कश्चन। परित्यक्तमिति। आशयमहत्त्वादेव महती पूजा न तु द्रव्यमहत्वेनेत्यभिप्रायाद्यद्विकल्पितं तद्देहीत्युक्तवान्। कारणामिति पीडाम्। गुणजातिरिति गुणसामान्यम्। गुणविशेष इति गुणस्वलक्षणम्। तत्र मनोऽनुकूलत्वाद्रोचन्ते। दोषानुत्पादत्वात् क्षमन्ते। विषयितेति वशिताप्रभुत्वं सामर्थ्यमिति यावत्। तीक्ष्णमध्यमृद्विन्द्रियजनप्रतिभासापेक्षया क्षणादिपदत्रयम्। उत्पन्नरोगाभावादरोगः। अनागतव्याधिं प्रत्ययोग्यत्वान्निरुपद्रवः। एवं हीत्यादि। निवेशनमिति गृहम्। उत्सृजतेति त्यजत। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। न ममान्यत् किञ्चिद्धनमित्यादि। प्रभूता विपुला इति। अनेकप्रकारद्रव्यभेदात्प्रभूताः। एकैकप्रकारस्यानन्त्याद्विपुलाः। अनुजानीतेति। अनुज्ञां प्रयच्छत। अद्राक्षीद्दूरादेवेति विशिष्टाधिगमलाभेनार्यधर्मोद्गतविमोक्षदर्शनसामर्थ्याद्गन्धवतीं नगरीं दूरादेव दृष्टवान्। क्वासौ कौशिकेति। धर्मार्थित्वादेवाभिज्ञाभोगवैकल्यात्पृष्टवान्। सप्तभिर्मुद्राभिरिति। दुर्लभमहार्थतयाऽत्रादरोत्पादनार्थं दृढतरं सप्तभिर्बन्धनैर्बद्धा सप्तसु ग्रन्थिस्थानेषु सप्तभिः स्वनाममुद्राभिर्मुद्रयित्वा स्थापितेत्येके। भव्यतां ज्ञात्वा नितरामावर्जनार्थमृद्धिप्रातिहार्यकृतमित्याह। अथ खलु तानि पुष्पाणीत्यादि। तथागतानामागमनगमनपरिज्ञानप्रश्नार्थम्। पूर्ववृत्तान्तमावेदयन्नाह। इहाहं कुलपुत्रेत्यादि।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project