Digital Sanskrit Buddhist Canon

ऊनत्रिंशत्तमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



ऊनत्रिंशत्तमपरिवर्तः।



 



भावनामार्गमेवमभिधाय तत्र प्रहेयश्चतुर्विधो ग्राह्यग्राहकविकल्पः विपक्षप्रतिपक्षप्रतिपादनपरत्वेन वक्तव्य इत्युपोद्घातयन्नाह। पुनरपरमित्यादि। तत्र च प्रथमो ग्राह्यविकल्पो विषयभेदान्नवधेति। प्रथमविकल्पार्थमाह। सर्वधर्मसङ्गतः प्रज्ञापारमितानुगन्तव्येति। सर्वधर्मसंक्षेपविकल्पप्रहाणार्थं सर्वधर्मानभिनिवेशाद्भावनामार्गो भावयितव्यः। एवमुत्तरत्रविकल्पाधिकारे प्रज्ञापारमितार्थो भावनामार्गार्थ इत्यवगन्तव्यम्। द्वितीयविकल्पार्थमाह। सर्वधर्मासम्भेदत इति। धर्मविस्तरविकल्पप्रहाणार्थं सर्वधर्माणां धर्मधातुरूपेणासम्भेदादेकरूपत्वात्। तृतीयविकल्पार्थमाह। सर्वधर्मासम्भवत इति तथागतसानाथ्याभावविकल्पप्रहाणार्थं सर्वधर्माणां तत्त्वेनानुत्पादात्। चतुर्थविकल्पार्थमाह। सर्वधर्मानिर्विकारसमा इति। प्रयोगमार्गगुणाभावविकल्पप्रहाणार्थं सर्वधर्माणां धर्मधातुनानिर्विकारेण तुल्यत्वात्। पञ्चमविकल्पार्थमाह। सर्वधर्माणामनात्माविज्ञप्तितः प्रज्ञानुबोधनत इति। दर्शनमार्गगुणाभावविकल्पप्रहाणार्थं सर्वधर्माणामनात्मरूपेणाविज्ञानरूपमिति प्रज्ञयाऽवबोधात्। षष्ठविकल्पार्थमाह। सर्वधर्माश्च नाममात्रेण व्यवहारमात्रेणाभिलप्यन्त इति। भावनामार्गगुणाभावविकल्पप्रहाणार्थमन्तर्जल्पबहिर्जल्पमात्रेण सर्वधर्माणां संवृत्याभिलपनात्,बहिर्जल्पे तु कस्यचिदभिनिवेश इत्याह। व्यवहारश्चेत्यादि। सप्तमविकल्पार्थमाह। सर्वधर्मा अव्यवहारा इत्यादि। प्रयोगमार्गविकल्पप्रहाणार्थं सर्वधर्माणां मायोपमत्वेन श्रुतचिन्तालौकिकलोकोत्तरज्ञानैर्यथाक्रममभिलपयितुमशक्यत्वादव्यवहाराऽव्याहाराव्यवहृताव्याहृतत्वेन। अष्टमविकल्पार्थमाह। सर्वधर्माप्रमाणत इति। दर्शनमार्गविकल्पप्रहाणार्थं धर्मधातुरूपेण सर्वधर्माणामप्रमाणत्वात्। तदेव स्पष्टयन्नाह। रूपाप्रमाणत इत्यादि। नवमविकल्पार्थमाह। सर्वधर्मानिमित्तत इति। भावनामार्गविकल्पप्रहाणार्थं सर्वधर्माणां शून्यत्वेनानिमित्तत्वात्। एतदुक्तं स्यात्। संक्षिप्तरुचिसत्त्वानुग्रहेण धर्मसंक्षेपे विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे यथाविहितार्थानानुष्ठानेन बुद्धसानाथ्यापरिग्रहे समुत्पननिरुद्धत्वेन प्रयोगमार्गागुणाभावे सम्यगुत्पत्तिवैधुर्याद्दर्शनमार्गगुणाभावे अनागतासत्त्वेन भावनामार्गगुणाभावे शान्तत्वादिना निर्वाणप्रयोगमार्गे शून्यताभिनिर्हारत्वेन दर्शनमार्गे नैःस्वाभाव्यभावकत्वेन भावनामार्गे च मायोपमतया प्रवृत्तिर्मया कार्येत्येवं प्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो भावनामार्गप्रयोगावस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत् प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति। तथा चोक्तम्,-



 



संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे।



त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि॥२६॥



एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः। इति



 



प्रथममेवं निर्दिश्य द्वितीयो ग्राह्यविकल्पो नवप्रकारो वक्तव्य इति। प्रथमविकल्पार्थमाह। सर्वधर्मनिर्वेधत इति। बोधिचित्तानुत्पादविकल्पापनोदार्थं सर्वधर्माणां धर्मधातुरूपेणाधिगमात्। द्वितीयविकल्पार्थमाह। सर्वधर्मप्रकृतिपरिशुद्धित इति। बोधिमण्डामनसिकारविकल्पापनोदार्थं सर्वधर्माणां स्वभावविशुद्धिपरिज्ञानात्। तृतीयविकल्पार्थमाह। सर्वधर्मावचनत इति। श्रावकयानमनसिकारविकल्पापनोदनार्थं सर्वधर्माणां वाक्पथातिक्रान्तत्वात्। चतुर्थविकल्पार्थमाह। सर्वधर्माणामनिरोधतः प्रहाणसमतयेति। प्रत्येकबुद्धयानमनसिकारविकल्पापनोदार्थं सर्वधर्माणामुत्पादाभावेनानिरोधात् प्रहाणतुल्यत्वेन। पञ्चमविकल्पार्थमाह। सर्वधर्माणां निर्वाणप्राप्तित इति। सम्यक्सम्बोधेरमनसिकारविकल्पापनोदार्थं तथतासमतया सर्वधर्माणां निर्वाणाधिगमात्। षष्ठविकल्पार्थमाह। सर्वधर्मा इत्यादि। भावनाविकल्पापनोदार्थमतीतानागताध्वनोरसत्त्वाद्यथाक्रमं नागच्छन्ति न गच्छन्तिऽतस्मादजानानाः सन्तो धर्मा वर्तमाने नोत्पन्ना धर्मधातुरिवात्यन्तानुत्पादात्। सप्तमविकल्पार्थमाह। आत्मपरादर्शनत इति। अभावनाविकल्पापनोदार्थं स्वपरानुपलम्भात्। अष्टमविकल्पार्थमाह। सर्वधर्मा इत्यादि। नैवभावनानाभावनाविकल्पापनोदार्थमुत्पादादिदोषाभावादार्या भावनार्हादर्हन्तो यस्मान्मायोपमत्वेन स्वभावविशुद्धत्वात्। नवमविकल्पार्थमाह। अपहृतभारा इति। अयथार्थविकल्पापनोदार्थं क्लेशज्ञेयावरणभाराभावादपहृतभारत्वेन। एतदुक्तं भवति। कल्याणमित्रादिवैकल्याद्बोधिचित्तानुत्पादे विशिष्टबुद्धा लम्बनपुण्याभावाद्बोधिमण्डामनस्कारे श्रावकगोत्रत्वात्तद्यानमनस्करणे प्रत्येकबुद्धगोत्रत्वात्तद्यानामुखीकरणे प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात्सम्यक्सम्बोध्यमनस्करणे सोपलम्भत्वेन भावनायां निरूपलम्भवत्त्वेनाभावनायामनुपलम्भाननुपलम्भत्वान्नभावनानाभावने विपरीताभिनिवेशादयथार्थत्वे च भावाद्यभिनिवेशाद्दुष्टत्वेन निवृत्तिर्मया कार्येत्येवं निवृत्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवप्रकारो भावनामार्गे चित्तचैत्तप्रवृत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति। तथा चोक्तम्।



 



द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः॥२७॥



अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया।



हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः॥२८॥



भावनेऽभावने चैव तद्विपर्यय एव च।



अयथार्थश्च विज्ञेयो विकल्पो भावनापथे॥२९॥इति



 



द्वितीयमेवं ग्राह्यविकल्पं निर्दिश्य प्रथमग्राहकविकल्पो नवप्रकारो वक्तव्य इति। प्रथमविकल्पार्थमाह। सर्वधर्मादेशाप्रदेशत इति। सत्त्वप्रज्ञप्तिविकल्पनिरासार्थं सर्वधर्माणां प्रकृत्या धर्मधातुस्वभावत्वेन सामान्यविशिष्टदेशविविक्तत्वात्। तदेव स्पष्टयन्तत्कस्य हेतोरित्याशङ्क्याह। रूपं हीत्यादि। प्रकृतिस्वभावत इति। शून्यताप्रकृतित्वेन सामान्यविशेषदेशविविक्तस्वभावत्वात्। द्वितीयविकल्पार्थमाह। सर्वधर्मनिरोधप्रह्लादनत्वादिति। धर्मप्रज्ञप्तिविकल्पनिरासार्थं सर्वधर्माणां निरोधस्य शून्यतोरकरुणाद्यप्रमाणगुणगर्भत्वेन हर्षकरणात्। तृतीयविकल्पार्थमाह। अरत्यविरतित इति। अशून्यत्वविकल्पनिरासार्थं सर्वधर्मेषु मायोपमत्वेनाभिनिवेशानभिनिवेशवियोगात्। चतुर्थविकल्पार्थमाह। अरक्ताविरक्ततयेति। सक्तिविकल्पनिरासार्थं सर्वधर्माणां धर्मधातुस्वभावेन रागारागविविक्तत्वात्। तदेव कथयितुं तत्कस्य हेतोरित्याशङ्क्याह। रूपं हीत्यादि। सतत्त्वेनेति। तत्त्वपर्याय एव सतत्त्वशब्दो द्रष्टव्यः। पञ्चमविकल्पार्थमाह। प्रकृतिपरिशुद्धत्वादिति। सर्वधर्मप्रविचयविकल्पनिरासार्थं सर्वधर्माणां स्वभावानुत्पन्नत्वेन परिशुद्धत्वात्। षष्ठविकल्पार्थमाह। सर्वधर्मा इत्यादि। वस्तूद्देशविकल्पनिरासार्थं मायोपमत्वेन सङ्गासङ्गविगमादसक्तत्वेन सर्वधर्माणाम्। सप्तविकल्पार्थमाह। बोधिरित्यादि। यानत्रितयनिर्याणविकल्पनिरासार्थम्।



 



धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।



 



इति बुद्धज्ञानावबोधनतया सर्वधर्माणां बोधिस्वभावत्वेन। अष्टमविकल्पार्थमाह। सर्वधर्म शून्यानिमित्त इत्यादि। दक्षिणाऽशुद्धिविकल्पनिरासार्थम्। सर्वधर्माणां त्रिविमोक्षस्वभावत्वेन। नवमविकल्पार्थमाह। सर्वधर्माभैषज्यमित्यादि। चर्याविकोपनविकल्पनिरासार्थम्। मैत्रीस्वरूपतया द्वेषादिदोषप्रशमनेन सर्वधर्माणां भैषज्यस्वाभाव्यात्। एतदुक्तम् । द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ प्रतिभासमात्रत्वात् सर्वधर्मप्रज्ञप्तौ सर्वत्रगत्वात् सर्वाकारज्ञतादिधर्माशून्यत्वे सर्वथाभिनिवेशप्रहाणाद्धर्मसक्तौ निःस्वभावावबोधेन धर्मप्रविचये समुद्देशाकरणेन वस्तूद्देशकरणे रूपाद्युपलम्भत्वाद्यानत्रयनिर्याणे सम्यगप्रतिपन्नत्वेन दक्षिणाऽशुद्धौ दानाद्युपलम्भप्रतिपत्त्या चर्याविकोपने च द्रव्यसन्नेवात्मा ग्राहक इत्येवं द्रव्यसत्पुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवप्रकारो बोधिसत्त्वानां भावनामार्गप्रयोगावस्थायां प्रहेयस्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति। तथा चोक्तम्।



 



ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः।



धर्मप्रज्ञप्त्यशून्यत्वसक्तिप्रविचयात्मकः॥३०॥



कृते च वस्तुनो यानत्रितये च स कीर्त्तितः।



दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने॥३१॥ इति



 



प्रथममेवं ग्राहकविकल्पं निर्दिश्य द्वितीयो ग्राहकविकल्पो नवप्रकारो वक्तव्य इति प्रथमविकल्पार्थमाह। सर्वधर्मा मैत्रीविहारिण इत्यादि। सर्वाकारज्ञतावरणसम्मोहविकल्पापनयनार्थं सर्वधर्माणाञ्चतुर्ब्रह्मविहारस्वाभाव्यात्। द्वितीयविकल्पार्थमाह। सर्वधर्मा ब्रह्मभूता इत्यादि। मार्गज्ञतावरणसंमोहविकल्पापनयनार्थं सर्वदोषाणामहेतुत्वेनानुत्पादकत्वात् सर्वधर्माणां निर्वाणरूपत्वेन तृतीयविकल्पार्थमाह। सर्वधर्माणामित्यादि। सर्वज्ञतावरणसंमोहविकल्पापनयनार्थं सर्वभावानां प्रार्थनाप्रतिघविविक्तत्वेन। चतुर्थविकल्पार्थमाह। समुद्रापर्यन्ततयेति। सर्वशान्तमार्गसंमोहविकल्पापनयनार्थ सर्वधर्माणां दशबलादिगुणरत्नहेतुत्वेन समुद्रसमत्वात्,समुद्रापर्यन्तत्वेन पञ्चमविकल्पार्थमाह। गगनापर्यन्ततयेति। तथागतादिसंयोगवियोगसंमोहविकल्पापनयनार्थं सर्वधर्माणां शून्यत्वेन गगनसमत्वाद् गगनापर्यन्ततया। षष्ठविकल्पार्थमाह। मेरुविचित्रतयेति। असमत्वसंमोहविकल्पापनयनार्थं सर्वानिष्टोपनिपाताक्षोभ्यत्वेन मेरुसमत्वात्,सर्वधर्माणां मेरुविचित्रत्वात्। सप्तमविकल्पार्थमाह। रूपापर्यन्ततयेति। दुःखादिसंमोहविकल्पापनयनार्थं धर्मधातुस्वरूपत्वात् प्रज्ञादीनामपर्यन्तत्वेन। अष्टमविकल्पार्थमाह। सूर्यरश्मीत्यादि। क्लेशप्रकृतिसंमोहविकल्पापनयनार्थं प्रकृतिप्रभास्वरत्वेन सूर्यमण्डलरश्म्युत्पादसमत्वात् सर्वधर्माणां सूर्यरश्मिमण्डलापर्यन्तावभासनतया। नवमविकल्पार्थमाह सर्वशब्दापर्यन्ततयेति। अद्वयसंमोहविकल्पापनयनार्थं नाममात्रस्वभावेन सर्वशब्दापर्यन्तसमत्वात्सर्वधर्माणां सर्वशब्दापर्यन्ततया प्रज्ञापारमिताऽनुगन्तव्या। एतदुक्तम्। सर्वाकारापरिज्ञानेन सर्वकारज्ञतावरणसंमोहे सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे प्रज्ञापारमिताऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे मारादिस्वरूपापरिज्ञानेनासमत्वसंमोहे यथारुतार्थग्राहित्वेन दुःखादिसत्यसंमोहे रागादिस्वभावापरिज्ञानेन क्लेशप्रवृत्तिसंमोहे ग्राह्यग्राहकलक्षणापरिज्ञानेनाद्वयसंमोहे च। सत्त्वप्रज्ञप्तितद्व्यवस्थापनप्रतिभासमानहेतुविषयः प्रज्ञप्तिसन्नेव आत्माग्राहक इति प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहकविकल्पो नवप्रकारो भावनामार्गचित्तचैत्तप्रवृत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्त इति। तथा चोक्तम्।



 



सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधाऽपरः।



भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः॥३२॥



सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृतौ।



शान्तिमार्गतथतादिसंप्रयोगवियोगयोः॥३३॥



असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि।



द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः॥३४॥ इति



 



यथोक्तभावनामार्गे विपक्षमेवं सप्रतिपक्षं निर्दिश्य तदधिगमेनैव चतुर्विकल्पप्रहाणात् सर्वगुणसम्पदो भवन्तीत्याह। सर्वबुद्धधर्मसमुदागमापर्यन्ततयेति। एतदुक्तं भावनामार्गाभ्यासादासाञ्चतुर्विकल्पजातीनामुपद्रवत्वेनेतीनां क्षये सति मंरोधवैकल्पेन संहर्षोच्छासप्राप्ता इव सर्वास्त्रियानसंगृहीता गुणसम्पदः कृपापारतन्त्र्यात्सर्वप्रकारजगत्सौख्योत्पादनदक्षाः सर्वथाभिमुख्या गमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलैः प्राप्तशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इत्येवं सर्वबुद्धधर्माणां समुदागमापर्यन्तत्वेन महानुशंसास्वभावेन भावनामार्गोऽवसातव्य इति। तथा चोक्तम्।



 



आसां क्षये सतीतीनां चिरायोच्छूसिता इव। 



सर्वाकारजगत्सौख्यसाधाना गुणसम्पदः॥३५॥



सर्वाः सर्वाभिसारेण निकामफलशालिनम्।



भजन्ते तं माहसत्त्वं महोदधिमिवापगाः॥३६॥ इति



 



भावनामार्गानन्तरमानन्तर्यमार्ग इत्यानन्तर्यसमाध्यर्थमाह। सर्वसत्त्वधात्वित्यादि। एतदुक्तं श्रावकप्रत्येकबुद्धभूमौ बोधिसत्त्वन्यामावक्रान्तौ त्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद्यत्पुण्यं प्रस्रवति तदुपमीकृत्य तद्विशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो यः पूर्वसमनन्तरः समाधिः सोऽत्रानन्तर्यसमाधिस्तस्यैवं सर्वसत्त्वधातुपुण्यज्ञानसंभारात्प्रतिविशिष्टत्वेनापर्यन्ततया प्रज्ञापारमिता भावनीयेति। तथा चोक्तम्।



 



त्रिसाहस्रजनं शिष्यखङ्गाधिगमसंपदि।



बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्यशुभोपमाः॥३७॥



कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः।



आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत्॥३८॥ इति



 



अस्य चानन्तर्यसमाधेः सर्वधर्माभाव आलम्बनप्रत्ययः स्मरणञ्चाधिपतिप्रत्ययः प्रकृतिशान्तता चाकारोऽर्थादाक्षिप्तो वेदितव्योऽन्यथानन्तर्यसमाधेरधिगन्तुमशक्यत्वात्। तथा चोक्तम्।



 



आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः।



अकारः शान्तता चात्र इति



 



अत्र च स्थाने दुरवगाहत्वादविदितोपायकौशलानां प्रवादिनां नानाचोद्यमुखपरम्परा प्रसर्पिणी विप्रतिपत्तिरिदानीं निराकर्तव्येति। प्रथमविप्रतिपत्त्यर्थमाह। पृथिवीधात्वपर्यन्ततयेति। संस्कृतासंस्कृतधात्वोरभावत्वेनालम्बनोपपत्तौ विप्रतिपत्तेर्निराकरणाय मायोपमतया सर्वगुणप्रतिष्ठाभावात् पृथिवीसमत्वेन संवृत्या सर्वधर्माणामालम्बनस्वाभाव्यात्पृथिवीधात्वपर्यन्ततयाऽऽनन्तर्यसमाधिरनुगन्तव्य इत्यर्थः। एवमुत्तरत्राप्यानन्तर्यसमाधिः प्रज्ञापारमितार्थोऽस्मिन्नधिकारे प्रतिपत्तव्यः। सर्वथा निरूपत्वादालम्बनस्वभावधारणे द्वितीयविप्रतिपत्तिं निराकर्तुं प्रकृतिविशुद्धत्वादसमत्वेन सर्वधर्माणां तथैवालम्बनस्वभावव्यवस्थापनादब्धात्वपर्यन्ततया। भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने तृतीयविप्रतिपत्तिनिराचिकीर्षया प्रकृतिप्रभास्वरत्वात्तेजःसमत्वेन सर्वधर्माणां पूर्ववत्सर्वाकारज्ञताज्ञानरूपत्वात्तेजोधात्वर्थपर्यन्ततया। तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये चतुर्थविप्रतिपत्तेर्निराकरणायानवस्थितवृत्तित्वाद्वायुसमत्वेन सर्वधर्माणां संवृत्या निश्चितसत्यद्वयरूपत्वाद्वायुधात्वपर्यन्ततया। दानाद्यनुपलम्भेन प्रयोगे पञ्चमविप्रतिपत्तिं निराकर्तुं प्रज्ञप्तिसत्त्वादाकाशसमत्वेन सर्वधर्माणां पूर्ववत्प्रयोगस्वभावनिश्चयादाकाशधात्वपर्यन्ततया। बोधव्याभावाद्बुद्धरत्ने षष्ठविप्रतिपत्तिनिराचिकीर्षया विज्ञप्तिमात्रात्मकत्वाद्विज्ञानसमत्वेन सर्वधर्माणां तथैव तथागतरूपत्वाद्विज्ञानधात्वपर्यन्ततया प्रज्ञापारमितानुगन्तव्येत्याह। एवमब्धातुतेजोधात्वित्यादि। सप्तमविप्रतिपत्त्यर्थमाह। कुशलाकुशलेत्यादि। नामधेयमात्रत्वाद्धर्मरत्ने विप्रतिपत्तेर्निराकरणाय तत्त्वतोऽनुत्पन्नत्वात्कुशलाकुशलधर्मसञ्चयविगतत्वेन सर्वधर्माणां संवृत्या व्यवस्थापितधर्मरूपत्वात् कुशलाकुशलधर्मसञ्चयाप्रमाणतया। अष्टमविप्रतिपत्त्यर्थमाह। सर्वधर्मेत्यादि। रूपाद्यालम्बनप्रतिषेधात्संघरत्ने विप्रतिपत्तिं निराकर्तुं मायोपमत्वात्सर्वधर्मसञ्चयविगतत्वेन सर्वधर्माणां पूर्ववत् सङ्घरूपत्वात्,सर्वधर्मसञ्चयाप्रमाणतया। नवमविप्रतिपत्त्यर्थमाह। सर्वधर्मसमाधिरित्यादि। दानाद्युपलम्भेनोपायकौशले विप्रतिपत्तेर्निराचिकीर्षया धर्मधातुरूपत्वात्सर्वधर्मसमाध्यपर्यन्ततासमत्वेन सर्वधर्माणां तथैवोपायकौशलसद्भावात् सर्वधर्मसमाध्यपर्यन्तताप्रतिलम्भितया। दशमविप्रतिपत्त्यर्थमाह। सर्वबुद्धेत्यादि। भावाभावोभयरूपाधिगमप्रतिषेधात्तथागताभिसमये विप्रतिपत्तेर्निराकरणाय तथतारूपेण बुद्धधर्मस्वभावत्वात्सर्वधर्माणां योगिसंवृत्या तथागताभिसमयावस्थानात्सर्वबुद्धधर्मापर्यन्ततया। एकादशविप्रतिपत्त्यर्थमाह। सर्वधर्मापर्यन्ततयेति। प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे विप्रतिपत्तेर्निराचिकीर्षया धर्मतारूपेणापर्यन्तधर्मतात्मकत्वात्सर्वधर्माणां पूर्ववद्व्यवस्थापितमित्यादिविपर्याससद्भावात्सर्वधर्मापर्यन्ततया। द्वादशविप्रतिपत्त्यर्थमाह। शून्यतापर्यन्ततयेति। विभावितमार्गफलासाक्षात्करणेन मार्गे विप्रतिपत्तेर्निराकरणाय मायोपमत्वेन शून्यतापर्यन्तधर्मत्वात्सर्वधर्माणां सत्त्वेनाधिगमाभावाश्छून्यतापर्यन्ततया। त्रयोदशचतुर्दशविप्रतिपत्तिद्वयार्थमाह। चित्तचैतसिकापर्यन्ततयेति। हानोपादानाभावेन विपक्षे प्रतिपक्षे च विप्रतिपत्तिं निराकर्तुमविद्योद्भूतप्रतिभासचित्तचैतसिकापर्यन्तत्वेन सर्वधर्माणां संवृत्यावस्थापितविपक्षप्रतिपक्षभावाच्चित्तचैतसिकापर्यन्ततया। पञ्चदशविप्रतिपत्त्यर्थमाह। चित्तचरितापर्यन्ततयेति। धर्म्यभावाद्धर्मलक्षणे विप्रतिपत्तेर्निराचिकीर्षया प्रतिभासनिबन्धमात्रपदार्थावस्थानाच्चित्तचरितोत्पत्तिलक्षणत्वेन सर्वधर्माणां तथैव स्थितिलक्षणभावाच्चित्तचरितापर्यन्ततयेति। षोडशविप्रतिपत्त्यर्थमाह। कुशलाकुशलधर्मापरिमाणतयेति। स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च विप्रतिपत्तेर्निराकरणाय भूतकोटिरूपेण कुशलाकुशलानुपलब्धिस्वभावत्वात्सर्वधर्माणां पूर्ववद्भावनासद्भावात्कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणतानुगन्तव्या विषयभेदेन भेदानन्त्येऽपि विप्रतिपत्तीनां सन्निहितविनेयजनविप्रतिपत्तिनिराचिकीर्षया यथोक्ता एव परस्परविरुद्धा भाषार्थानुस्थानेनायुज्यमानतया संशयरूपाः षोडशविप्रतिपत्तिर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः। सर्वेषामेव विदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासंभवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति प्रतिपत्तव्यम्।



 



तथा चोक्तम्।



जल्पाजल्पिप्रवादिनाम्॥३९॥



आलम्बनोपपत्तौ च तत्स्वभावावधारणे।



सर्वाकारज्ञताज्ञाने परमार्थे ससंवृत्तौ॥४०॥



प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः।



विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः॥४१॥



लक्षणे भावनायाञ्च मता विप्रतिपत्तयः।



सर्वाकारज्ञताधारा षोडा दश च वादिनाम्॥४२॥



 



इति मूर्द्धाभिसमयसमाधिकारः पञ्चमः।



 



प्राप्तमूर्द्धाभिसमयो व्यस्तसमस्तत्वेनाधिगतानर्थाननुपूर्वोकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयार्थमाह। सिंहनादनदनतयेति। एतदुक्तं त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितासर्वाकारपारिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात्,सम्यक् दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेणार्याष्टाङ्गमार्गतया च परमार्थतोऽस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववदार्यावैवर्तिकबोधिसत्त्वसङ्घस्मरणेन तथैव शीलत्यागदेवतानामनुस्मरणेन रूपादिसर्वधर्माभावे स्वभावेनावबुद्धेन च योऽधिगमः सानुपूर्वक्रिया ममेत्येवमविपरीतार्थप्रतिपादनेन सिंहनादसमत्वात्सर्वधर्माणां सिंहनादनदनतयाऽनुपूर्वाभिसमयोऽनुगन्तव्य इति। तथा चोक्तम्।



 



दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा।



धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता॥१॥



इति अनुपूर्वाधिकारः षष्ठः।



 



विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधार्थमाह। सर्वधर्माकोप्यतयेति। एकक्षणाभिसम्बोधं प्रत्यन्यथाकर्तुमशक्यत्वेनाकोप्यत्वाद्रूपादीनां सर्वधर्माकोप्यतया प्रज्ञापारमितानुगन्तव्येत्यवयवार्थः। समुदायार्थः सूच्यते। लक्षणेनैकक्षणाभिसम्बोधश्चतुर्विध इति। प्रथमं तावदेको भावः सर्वभावस्वभावः सर्वे भावा एकस्वभावाः। एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टा इति न्यायान्न केवलं बहुभिरेकस्य संग्रहः,अपि त्वेकक्षणदानादिज्ञानेनालम्ब्यमानेनापगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेणानास्रवदानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्यावबोधादविपाकानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधः प्रथमः। तथा चोक्तम्।



 



अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात्।



एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः॥१॥ इति



 



किमिव पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत्। उच्यते। यथैकापि पदिका पुरुषप्रेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्याच्चलयति,तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्यादेकस्मिन्नेव क्षणे ज्ञानमेकमनास्रवमालम्ब्यमानं कार्यकारणसम्बन्धबलात्सर्वं सजातीयमभिमुखीकारयतीति।



तथा चोक्तम्।



 



अरघट्टं यथैकापि पदिका पुरुषेरिता।



सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा॥२॥इति



 



तदनु यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमेन सकलव्यवदानपक्षविपाकधर्मताऽवस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत् शुक्लस्वभावा जाता तदैकस्मिन्नेव क्षणे विपाकावस्थाप्राप्तानामनास्रवसर्वधर्माणां बोधाज्ज्ञानं प्रज्ञापारमितेत्येवं विपाकधर्मताऽवस्थाऽनास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः। तथा चोक्तम्।



 



विपाकधर्मतावस्था सर्वशुक्लमयी यदा।



प्रज्ञापारमिता ज्ञाता ज्ञानमेकक्षणे तदा॥३॥ इति



 



तदनुपूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूयाधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषूपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेणालक्षणाः सर्वधर्मा इति। संक्लेशव्यवदानरूपाणां धर्माणामेकेनैव क्षणेनालक्षणत्वं जानातीत्येवमलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधस्तृतीयः। तथा चोक्तम्।



 



स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया।



अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति॥४॥ इति



 



तदनु निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावादुन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते तदा सर्वेऽप्येवं धर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैवक्षणेन पश्यतीत्येवमद्वयलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधश्चतुर्थः। तथा चोक्तम्।



 



स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते।



धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति॥५॥ इति



 



एकक्षणाभिसम्बोधं प्रति हेतुफलभेदेन यथाक्रममविपाकविपाकधर्मतावस्थाऽनास्रवसर्वधर्मैकक्षणाभिसम्बोधद्वयं निर्दिश्यैवं विशिष्टाधिगमावस्थायां धर्मतैकरसत्वेनासंभेदात् स्वप्नस्वभावीभूतसर्वधर्मावगमार्थं तृतीयमलक्षणसर्वधर्मैकक्षणाभिसमयं प्रतिपाद्य स्वप्नावस्थायामपि ग्राह्यग्राहकयोस्तत्त्वेनानुपलम्भादद्वयप्रतिपत्त्यर्थमद्वयलक्षणसर्वधर्मैकक्षणाधिगमो निर्दिष्ट इत्येवं लक्षणेनैकक्षणाभिसमयश्चतुःप्रकारोऽपि योगिभिरधिगन्तव्य इत्येके। अन्ये तु यदि नाम चतुःप्रकारः सन्निहितविनेयजनानुरोधेन व्यावृत्तिभेदात्कथञ्चिदुपात्तस्तथाप्यन्यतम एवैकः प्रकारो योगिना केनचित्साक्षात्कर्तव्य इति मन्यन्त इति।



 



एकक्षणाभि समयाधिकारः सप्तमः।



 



कस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तताऽनुगन्तव्येत्युच्यते इति। तत्कस्य हेतोरित्याशङ्क्याह। रूपं हि सुभूते समुद्रसममित्यादि। येन साधर्म्येण रूपादीनां समुद्रादिभिस्तुल्यत्वं तथा समुद्रापर्यन्तयेत्यादि पदव्याख्याने प्रागेव व्याख्यातमिति न पुनरुच्यते। उपसंहरन्नाह। एवं हि सुभूत इत्यादि। विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोध इति। तदर्थमाह। यदायं सुभूते बोधिसत्त्व इत्यादि। यदा सर्वमायाविवर्जितैर्मनसिकारैर्यथोक्तक्रमेण प्रज्ञापारमितामेनां सर्वधर्ममायोपमतां सर्वाकारज्ञतयाऽनुगमिष्यति मार्गज्ञतया व्यवचारयिष्यति सर्वज्ञतयाऽवतरिष्यति सर्वाकाराभिसम्बोधेनावभास्यते मूर्धाभिसमयेन चिन्तयिष्यति अनुपूर्वाभिसमयेन तुलयिष्यति एकक्षणाभिसमयेनोपपरीक्षिष्यते धर्मकायाभिसम्बोधेन च भावयिष्यति,तदा नास्य बोधिसत्त्वस्य दुर्लभा सर्वगुणानां धर्मकायस्वभावानां बुद्धक्षेत्रस्य साम्भोगिककायलक्षणस्यानुत्तराणाञ्च बुद्धधर्माणां सकर्मकनिर्माणकायस्वरूपाणां परिपूरिरित्यवयवार्थः। समुदायार्थः सूच्यते। स च धर्मकायाभिसम्बोधः स्वाभाविककायादिभेदेन चतुर्विध इति। तत्र प्रथमो ये स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वादनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिःस्वभावोऽनुत्पादरूपोऽयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते न क्रियते इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याऽधिगतः स्वाभाविकः कायः परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभवितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय;



 



विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम्।



 



इति न्यायात्तदव्यतिरेकेऽपि पृथग्व्यवस्थाप्यत इत्यवसातव्यम्। तथा चोक्तम्।



 



सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः।



स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः॥१॥ इति



 



तदनु स्मृत्युपस्थानाद्यार्याष्टांगमार्गबोधिपक्षाः पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः। अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौ। शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येकः। आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वारः। संज्ञावेदितनिरोध इत्येक इत्यष्टौ विमोक्षाः। रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नवसमापत्तय। पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम्। अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तानभिभूय जानीत इति चतुष्टयम्। अध्यात्मरूपसंज्ञो एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम्। परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात् समाधिरित्यरणा सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्याऽऽसंसारमासमाहितावस्थायांप्रवर्तत इति प्रणिधिज्ञानं षडभिज्ञाश्चतस्रः प्रतिसंविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः। आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानविज्ञानधर्मवशिता इति दशवशिताः। बलानि दश चत्वारि वैशारद्यानि पूर्वमुक्तानि। परिशुद्धकायवाङ्मनःसमुदाचारस्तथागतो नास्त्यस्य विपरीतसमुदाचारता यां परपरिज्ञानभयात् प्रच्छादयितव्यां मन्येतेत्यरक्षणं त्रिविधम्। धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपेक्षकः। स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता। क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद्वासनायाः समुद्धतः सकलजनहिताशयता महती करुणा जनेऽष्टादशावेणिका धर्माः सर्वाकारज्ञता च। तथा मार्गज्ञतादयोऽपि प्रागुक्ताः। सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायो द्वितीयोऽभिधीयत इति केचित्। तथा चोक्तम्।



 



बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः।



नवात्मिका समापत्तिः कृत्स्नं दशविधात्मिकम्॥२॥



अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः।



अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः॥३॥



सर्वाकारश्चतस्रोऽथ शुद्धयो वशिता दश।



वलानि दश चत्वारि वैशारद्यान्यरक्षणम्॥४॥



त्रिविधं स्मृत्युपस्थानं त्रिधाऽसंमोषधर्मता।



वासनायाः समुद्घातो महती करुणा जने॥५॥



आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः।



सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते॥६॥ इति



 



अन्ये तु -



 



सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः।



स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः॥ इति।



 



यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां या प्रकृतिरनुत्पादस्तल्लक्षणः स्वाभाविकः कायः स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद्व्यपदिश्यत इति व्याख्याय। के पुनस्तेऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशङ्क्य बोधिपक्षेत्यादिकारिकामवतारयन्ति। तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽवश्यमद्वयाश्चितचैत्ताः कथमभ्युपगन्तव्याः। सङ्गृहीता इत्यपरः।



 



यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।



 



इति न्यायाद्धर्मतात्मककायप्रतिपादनादेवाद्वयज्ञानात्मको धर्मकायः प्रतिपादित इति चेदेवं तर्हि न्यायस्य तुल्यत्वात्साम्भोगिकनैर्माणिककायद्वयमपि प्रतिपादितमिति पृथङ्निर्देशो न कर्तव्यः स्यात्। अथ प्रवचने पठितत्वाद्योगिसंवृत्या तन्निर्देश इति मतममुनैव न्यायेनाद्वयज्ञानात्मकोऽपि धर्मकायस्तथैव पृथङ्निर्दिश्यतामिति प्राप्तम्। केचित्कायचतुष्टयव्याख्याने।



 



स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा



धर्मकायः सकारित्रश्चतुर्धा समुदीरितः॥



 



इति कारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात् कायत्रयमेवेति। अन्ये तूपदर्शितप्रयोजनसामर्थ्यात्कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थञ्चैवमुक्तमतोऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति। स्यादेतच्छ्रावकाद्यरणासमाधेस्तथागतस्य को विशेषोऽरणासमाधेरिति। माऽस्माद्दर्शनात्कस्यचित् क्लेशोत्पत्तिः स्यादितिमनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः। तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिष्वरणासमाधिविशेषः। तथा चोक्तम्।



 



श्रावकस्यारणादृष्टेर्न्टक्लेशपरिहारिता।



तत् क्लेशस्रोत उच्छैत्त्यैग्रामादिषु जिनारणा॥७॥



 



इति श्रावकादिप्रणिधिज्ञानात्तथागतप्रणिधिज्ञानस्य को विशेष इति चेत् उच्यते। निर्निमित्तत्वेन स्वरसप्रवृत्तं वस्त्वनभिनिवेशाद्रूपादिसङ्गविगतं सवासनक्लेशज्ञेयावरणप्रहाणात्सर्वज्ञेयाव्याघातमासंसारमवस्थानात्सदा स्थितम्,सम्यक् प्रतिसंविल्लाभात्प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमिति श्रावकादिप्रणिधिज्ञानाद्विशिष्टमिष्टम्। तथा चोक्तम्।



 



अनाभोगमनासङ्गमव्याघातं सदा स्थितम्।



सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते॥८॥



 



इति सवासनसुसूक्ष्मक्लेशज्ञेयावरणसंमोहद्वयप्रहाणप्रतिविशिष्टत्वेन सर्वेषामेव तथागतसन्तानवर्तिबोधिपक्षादिधर्माणां निरतिशयविशेषसद्भावादेतद्विशेषद्वयमन्तरोदितमुपलक्षणत्वेन ग्राह्यम्। स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं सकलप्राणभूतां सदा नार्थक्रियेति। कल्याणमित्रादिसमवधानाद्बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति,यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति,तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति। महाकरुणास्वभावधर्मकायावस्थानेन सर्वदा चिन्तामणिरिवोपस्थितोऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासते। अतो यथा देवराजे वर्षत्यपि सति पूतीभावादिनाऽबीजीभूतं बीजं तिलादि न प्रादुर्भवति,तद्वद्बुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादेऽप्यभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीत्यवसातव्यम्। तथा चोक्तम्।



 



परिपाकं गते हेतौ यस्य यस्य यदा यदा।



हितं भवति कर्तव्यं प्रथते तस्य तस्य सः॥९॥



वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति।



समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते॥१०॥ इति



 



यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात्। प्रबन्धतयाऽऽसंसारमवस्थानेन च भगवतः क्षयाभावाद्यथाक्रमं बुद्धोऽव्ययो नित्य इत्यभिधीयते। तस्मात् कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापी नित्य इत्यपि कथ्यत इति न मन्तव्यम्। तथा चोक्तम्।



 



इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते।



अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते॥११॥ इति



 



तदनु दशभूमिप्रविष्टमहाबोधिसत्त्वैः सह परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात्साम्भोगिकोऽयं कायो द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनविराजितगात्रो रूपकायस्वभावस्तृतीयो बुद्धस्य भगवतो ग्राह्यः। तथा चोक्तम्।



 



द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम्।



साम्भोगिको मतः कायो महायानोपभोगतः॥१२॥इति



 



तानि पुनर्द्वात्रिंशल्लक्षणानि। यदुत गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता॥१॥ दृढसंवरसमादानत्वात्कूर्मवत्सुप्रतिष्ठितपादता॥२॥ चतुःसंग्रहवस्तुसेवनाद्राजहंसवज्जालबद्धाङ्गुलिपादता॥३॥ प्रणीतखाद्यभोज्यादिना मृदुतरुणहस्तपादता॥४॥ प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात्सप्तोच्छ्रयता॥५॥ वध्यमोक्षणत्वाद्दीर्घाङ्गुलिता॥६॥ जीवितानुग्रहकरणादायतपार्ष्णिता॥७॥ प्राणातिपातविरत्या वृहदृजुगात्रता॥८॥ कुशलधर्मसमादानादुच्छङ्खपादता॥९॥ गृहीतकुशलसमादानवर्धनादूर्ध्वगरोमता॥१०॥ सत्कृत्यविद्याशिल्पादिदानादेणेयजङ्घता॥११॥ संविद्यमानार्थयाचनकजनाप्रत्याख्यानात्पटूरूबाहुता॥१२॥ सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात् कोशगतवस्तिगुह्यता॥१३॥ प्रणीतोपास्तरणदानात्सुवर्णवर्णता॥१४॥ प्रासादावरणदानाच्छ्लक्षाच्छविता॥१५॥ सङ्गणिकादिपरिवर्जनात्प्रदक्षिणावर्तैकैकरोमता॥१६॥ सर्वगुरुजनयथास्थाननिवेशनादूर्णाङ्कितमुखता॥१७॥ सर्वथा मुखरवचनादनवसादनात् सिंहपूर्वार्द्धकायता॥१८॥ प्रियवादित्वसुभाषितानुलोमत्वात्सुसंवृतस्कन्धता॥१९॥ भैषज्यादिदानाच्चित्तान्तरात्मता॥२०॥ ग्लानजनोपस्थानाद्रसरसाग्रता॥२१॥ वनारामादिकरणसमादापनान्न्यग्रोधपरिमण्डलता॥२२॥ विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता॥२३॥ श्लक्ष्णादिवचनात्प्रभूतजिह्वता॥२४॥ सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद्व्रह्मस्वरता॥२५। सम्भिन्नप्रलापविरत्या सिंहहनुता॥२६॥ सर्वजनसम्मानादिना शुक्लदन्तता॥२७॥ विशुद्धाजीवत्वात्समदन्तता॥२८॥ सत्यवचनसमुदाचारादविरलदन्तता॥२९॥ पिशुनवचनानभ्यासात्समचत्वारिंशद्दन्तता॥३०॥ सर्वसत्त्वैकपुत्रदर्शनादभिनीलनेत्रता॥३१॥ प्रतिघातादिविवेकदर्शनाद्गोपक्षमनेत्रता चेति॥३२॥ तथा चोक्तम्।



 



चक्राङ्कहस्तःक्रमकूर्मपादो



जलावनद्धाङ्गुलिपाणिपादः।



करौ सपादौ तरूणौ मृदू च



समुत्सदैः सप्तभिराश्रयोऽस्य॥१३॥



दीर्घाङ्गुलिर्व्यायतपार्ष्णिर्गात्रं



प्राज्यं त्वृजूच्छङ्खपदोर्द्धरोमा।



एणेयजङ्घश्च पटूरुबाहुः



कोशावधानोत्तमवस्तिगुह्यः॥१४॥



सुवर्णवर्णः प्रतनुच्छविश्च



प्रदक्षिणैकैकसुजातरोमा।



ऊर्णाङ्कितास्यो हरिपूर्वकायः



स्कन्धौ वृतावस्य चितान्तरांसः॥१५॥



हीनो रसः ख्यातिरसोत्तमोऽस्य



न्यग्रोधवन्मण्डलतुल्यमूर्तिः।



उष्णीषमूर्धा पृथुचारुजिह्वो



ब्रह्मखरः सिंहहनुः सुशुक्लाः॥१६॥



तुल्याः प्रमाणेऽविरलाश्च दन्ता



ऽन्यूनसंख्या दशिकाश्चतस्रः।



नीलेक्षणो गोवृषपक्षमनेत्रो



द्वात्रिंशदेतानि हि लक्षणानि॥१७॥



यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः।



तस्य तस्य प्रपूर्यायं समुदागमलक्षणः॥१८॥



गुरूणामनुयानादिर्दृढता संवरं प्रति।



सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुनः॥१९॥



वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च।



इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः॥२०॥ इति



 



अशीत्यनुव्यञ्जनानि पुनर्यदुत सर्वसंस्कारविविक्तत्वेन ताम्रनखता॥१॥ सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता॥२॥ श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता॥३॥ वृत्तानवद्यत्वेन वृत्ताङ्गुलिता॥४॥ समुपचितकुशलमूलत्वेन चिताङ्गुलिता॥५॥ सम्यगनुपूर्वप्रवृत्तत्वेनानुपूर्वाङ्गुलिता॥६॥ सुनिगूढकायादिकर्मान्ताजीवित्वेन गूढशिरता॥७॥ क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता॥८॥ सुनिगूढधर्ममतित्वेन गूढगुल्फता॥९॥ सर्वदुर्गस्थानजनोत्तारकत्वेनाविषमपादता॥१०॥ नराभिभवनकुशलतया सिंहविक्रान्तगामिता॥११॥ नागाभिभवनकुशलतया नागविक्रान्तगामिता॥१२॥ वैहायसङ्गमकुशलतया हसंविक्रान्तगामिता॥१३॥ पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता॥१४॥ प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता॥१५॥ प्रासादिककुशलतया चारुगामिता॥१६॥ नित्यमवक्रचित्ततयाऽवक्रगामिता॥१७॥ विशुद्धगुणाख्यापकतया वृत्तगात्रता॥१८॥ प्रमृष्टपापधर्मतया मृष्टगात्रता॥१९॥ विनेयानुरूपधर्मदेशकतयाऽनुपूर्वगात्रता॥२०॥ कायादिशुचिसमुदाचारत्वाच्छुचिगात्रता॥२१॥ करुणाचित्तत्वान्मृदुगात्रता॥२२॥ विशुद्धचित्तत्वाद्विशुद्धगात्रता॥२३॥ परिपूर्णधर्मविनयत्वात्परिपूर्णव्यञ्जनता॥२४॥ पृथुचारुगुणाख्यानात्पृथुचारुमण्डलगात्रता॥२५॥ सर्वत्र समचित्तत्वात्समक्रमता॥२६॥ सुविशुद्धधर्मदेशनाद्विशुद्धनेत्रता॥२७॥ सुगमधर्मदेशनात् सुकुमारगात्रता॥२८॥ नित्यमदीनचित्तत्वाददीनगात्रता॥२९॥ समुद्गतकुशलत्वादुत्सदगात्रता॥३०॥ क्षीणपुनर्भवत्वेन सुसंहतगात्रता॥३१॥  सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता॥३२॥ सुविशुद्धपदार्थदर्शनाद्वितिमिरशुद्धालोकता॥३३॥ वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता॥३४॥ प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता॥३५॥ भग्नमानशृङ्गत्वेनाभग्नकुक्षिता॥३६॥ धर्मक्षयविनिवर्तकत्वेनाक्षामकुक्षिता॥३७॥ प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता॥३८॥ प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता॥३९॥ समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता॥४०॥ शुचिचित्तत्वेन शुचिसमुदाचारता॥४१॥ व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालगात्रता॥४२॥ कायादिलाघवप्रापकधर्मदेशत्वेन तूलसदृशसुकुमारपाणिता॥४३॥ प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता॥४४॥ गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता॥४५॥सम्यगायतिपरिशुद्धधर्मदेशकत्वेनायतपाणिलेखता॥४६॥ प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता॥४७॥ प्रतिबिम्बवत्विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बौष्ठता॥४८॥ मृदुवचनविनयत्वेन मृदुजिह्वता॥४९॥ प्रभूतगुणोपपन्नत्वेन तनुजिह्वता॥५०॥ रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता॥५१॥ सर्वत्राशापगतत्वेन मेघगर्जितघोषता॥५२॥ मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता॥५३॥ निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता॥५४॥ दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता॥५५॥ परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता॥५६॥ समभूमिप्रतिष्ठितत्वेन समदंष्ट्रता॥५७॥  सम्यगनुपूर्वाभिसमयप्रकाशकत्वेनानुपूर्वदंष्ट्रता॥५८॥ प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता॥५९॥ शुचिजनसम्पन्नत्वेन शुचिनासता॥६०॥ परमोदारधर्मत्वेन विशालनयनता॥६१॥ समुपचितसत्त्वराशित्वेन चितपक्ष्मता॥६२॥ सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता॥६३॥  नित्यमायतिदर्शित्वेनायतभ्रूकता॥६४॥ श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रूकता।६५॥ कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रूकता॥६६॥ समन्तदोषदर्शित्वेन समरोमभ्रूकता॥६७॥ परमपीडानिवर्तकत्वेन पीनायतभुजता॥६८॥ विजितरागादिसमरत्वेन समकर्णता॥६९। सर्वसत्त्वानुपहतसन्तानत्वेनानुपहतकर्णेन्द्रियता॥७०॥  सर्वदृष्टिकृतान्यथाविपरिणामत्वेनापरिग्लानललाटता॥७१॥ सर्ववादिप्रमथनत्वेन पृथुललाटता॥७२॥ परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता॥७३॥ विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता॥७४॥ प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता॥७५॥ श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता॥७६॥ रागाद्यसंलुठितचेतनत्वेनासंलुठितकेशता॥७७॥ नित्यमपरुषवचनत्वेनापरुषकेशता॥७८॥ बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता॥७९॥ सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति॥८०॥ तथा चोक्तम्।



 



ताम्राः स्निग्धाश्च तुङ्गाश्च नखाङ्गुलयो मुनेः।



वृत्तश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः॥२१॥



गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः।



विक्रान्तं दक्षिणञ्चारुगमनमृजुवृत्तते॥२२॥



मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता।



पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता॥२३॥



समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता।



अदीनोत्सदगात्रत्वे सुसंहतनगात्रता॥२४॥



सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता।



वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता॥२५॥



दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता।



समाचारः शुचिः कालतिलकापगता तनुः॥२६॥



करौ तूलमृदू स्निग्धगम्भीरायतलेखता।



नात्यायतं वचो बिम्बप्रतिबिम्बोपमौष्ठता॥२७॥



मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता।



चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः॥२८॥



अनुपूर्वीं गतास्तुङ्गा नासिका परमं शुचिः।



विशाले नयने पक्ष्मचितं पद्मदलाक्षिता॥२९॥



आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ।



पीनायतौ समौ कर्णावुपघातविवर्जितौ॥३०॥



ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता।



भ्रमराभाश्चिता श्लक्ष्णा असंलुडितमूर्तयः॥३१॥



केशा अपरुषाः पुंसां सौरभ्यादपहारिणः।



श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम्॥३२॥ इति।



 



तदनु येन शाक्यमुनितथागतादिरूपेणासंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समङ्करोत्यसौ कायः प्रबन्धतयाऽनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थोऽवसातव्यः। तथा चोक्तम्।



 



करोति येन चित्राणि हितानि जगतः समम्।



आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः॥३३॥ इति।



 



तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशानवस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा,दानादिचतुःसङ्ग्रहवस्तुनि प्रतिष्ठाप्य श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षं हेयोपादेयद्वारेण बोधयित्वा मायाकार इवानुनयादिविविक्ततया मैत्र्यादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिस्थाप्य,तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताऽभ्यासे,तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे,ततः सर्वधर्मप्रकृतिशून्यताऽभ्यासे,तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वत्रगधर्मधातुप्रतिवेधलक्षणेऽद्वयधर्मे,ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शीलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति,एवमनुक्रमेण प्रज्ञापारमिताऽधिष्ठानेन षष्ठ्यां भूमौ ज्ञानज्ञेयभावनाभिनिवेशलक्षणे सर्वधर्मानुपलम्भे,तदनन्तरं सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके,ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे पुनस्तत्रैव सर्वभावाभिनिवेशप्रहाणे,तदनु नवम्यां प्रणिधानपारमितासामर्थ्याद्बोधिप्राप्तौ,तदनन्तरं ज्ञानपारमिताबलाद्दशम्यां द्विविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य पुनस्तत्रैव जातिप्रतिबद्धस्वरूपे सम्यक्सम्बोधिप्रतिनियमे दशदिग्लोकधातवीर्यसत्त्वार्थे सर्वलोकधातुबुद्धोपमसङ्क्रमणादिगुणे च निवेशयत्येवमनुक्रमेण पुनस्तत्रैव विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे कर्मफलसम्बन्धाविप्रणाशे,यथाभूतपदार्थाधिगमे सर्वविपर्यासप्रहाणे निर्वस्तुकविपर्यासप्रहाणज्ञाने प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने,सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे,शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयतीत्येवं धर्मकायवदस्यासंसारं सप्तविंशतिप्रकारं कर्मविनेयजनप्रतिभासभाक् तदाधिपत्याश्रयेणायातं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति धर्मकायस्येष्यत इति कारित्रमवसातव्यम्।



 



तथा चोक्तम्।



तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते।



गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे॥३४॥



निवेशनं ससंक्लेशे व्यवदानावबोधने।



सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च॥३५॥



बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये।



सङ्केतेऽनुपलम्भे च परिपाके च देहिनाम्॥३६॥



बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे।



बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति॥३७॥



अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे।



बोधेरङ्गेष्ठनाशे च कर्मणां सत्यदर्शने॥३८॥



विपर्यासप्रहाणे च तदवस्तुकतानये।



व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति॥३९॥



व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम्।



धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम्॥४०॥ इति



 



एवमेव कारिकाशास्त्रप्रामाण्याद्भाबाध्याहारपदादिभिरभिसमयक्रमानुरूपो ग्रन्थार्थो वाच्यः। ततश्च केनचिदभिसमयालङ्कारकारिकापाठं बाहुल्येन नान्यथा कृत्वा प्रतिभातु ते सुभूत इत्यादि वाक्यमारभ्यास्या मातुर्यदसम्बद्धं सम्यक्समुदायावयवार्थानभिधानाद्व्याख्यातम्। तत्सन्त एव ज्ञातुमर्हन्तीति नोपन्यस्य निराकृतम्।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायामनुगमपरिवर्तो नामैकोनत्रिंशत्तमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project