Digital Sanskrit Buddhist Canon

सप्तविंशतितमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



सप्तविंशतितमपरिवर्तः



 



कथं निवृत्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवधेति प्रथमविकल्पार्थमाह। सारे वतायमित्यादि। प्रज्ञाकरुणयोः संसारनिर्वाणापातकारित्रत्वेन सकलाधिगमाधिपत्याद्यः प्रज्ञापारमितायाञ्चरति स सारे प्रधाने चरतीत्यनेन न्यूनताधिगमविकल्पो निषिद्धः। किन्तु तत्रापि सारत्वाभिनिवेशो न कार्य इत्याह। असारे वतायमित्यादि। सारत्वावग्रहाभावादसारः। द्वितीयविकल्पार्थमाह। नमस्कर्तव्यास्त इत्यादि। कल्याणमित्रादिसम्परिग्रहेण युक्ता  ये प्रज्ञापारमितायां चरन्ति,ते नमस्करणीया इत्यनेन सम्परिग्रहाभावविकल्पो निरस्तः। तृतीयविकल्पार्थमाह। ये चेह गम्भीरायां प्रज्ञापारमितायामित्यादि। न च तां धर्मतां साक्षात्कुर्वन्तीत्यनेन प्रतिपत्तिविशेषज्ञापनात् प्रतिपत्तिवैकल्यविकल्पाभावो दर्शितः। चतुर्थविकल्पार्थमाह। अथ खल्वायुष्मानित्यादि। न साक्षात्कुर्वन्तीति। यद्बोधिसत्त्वानां भूतकोटेरसाक्षात्करणं नैतद्दुष्करमधिगमे स्वातन्त्र्यलाभादिति भावः। अतः परप्रत्ययगामित्वविकल्पो निरस्तः। पञ्चमविकल्पार्थमाह। इदन्तु देवपुत्रा इत्यादि। सत्वान् विनेष्याम इति। मायोपमत्वेऽपि सर्वधर्माणां सत्त्वविनेयार्थमव्यावृत्तिगमनयोगेनान्ययानगमनाभावेन चानुत्तरबोध्यधिगमप्रस्थानात्सर्वाकारज्ञातोद्देशापरिभ्रंशेनोद्देशनिवृत्तिविकल्पविरहः सूचितः। षष्ठविकल्पार्थमाह। आकाशं स देवपुत्रा इत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। आकाशविविक्ततयेत्यादि। सत्त्वानां कृतशः सन्नाहं सन्नह्यन्त इति। आकाशोपमनिखिलसत्त्वधातुविनयनार्थं सन्नहनेनाप्रादेशिकमार्गव्यापारकथनात् प्रादेशिककारित्रविकल्पविवेकोऽर्थात्कथितः। सप्तमविकल्पार्थमाह। आकाशेन स इत्यादि। सत्त्वानामाकाशस्वभावोपगमनज्ञापनादनेनाधिगमनानात्वविकल्पाभावो दर्शितः। अष्टमविकल्पार्थमाह। अयञ्च सन्नाह इत्यादि। सत्त्वानामर्थाय सन्नहनेन प्रेक्षापूर्वकारित्वात् स्थानगमनाज्ञानविकल्पासंश्लेषो दर्शितः। नवमविकल्पार्थमाह। सा चात्यन्ततयेत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। सत्त्वविविक्ततयेत्यादि। पारमार्थिकद्रव्यानुपलम्भाद्रूपादीनां मायोपमताऽनुगन्तव्या। यावदित्यनेन द्वादशायतनादिपरिग्रहः। तथागताद्यधिगमधर्माणामपि शून्यत्वात्सर्वधर्मविविक्तता। उपसंहरन्नाह। एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्येति। एवमनुपलम्भदेशनायामनवसादाच्चरणमित्यादि। एवं देवपुत्राः सर्वधर्मविविक्ततायामित्यादि। अनुत्त्रासे को हेतुरित्याह। किं कारणमित्यादि। कर्तृकर्मक्रियानुपलम्भात्परिहरति। विविक्तत्वादिति। उपसंहरन्नाह। अनेन भगवन्नित्यादि। एतदुक्तम्। शून्यत्वादेवमेभ्यतीति भेतव्यानामभावाद्यतो न संसीदति। ततश्चरति मुख्यतो निर्याणस्वभावायां प्रज्ञापारमितायामेवञ्च पृष्ठतो निर्याणविकल्पापोहो दर्शितः स्यात्। एतदुक्तम्। संसारनिर्वाणान्यतरप्रपातित्वेन शून्यताधिगमे कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे सर्वसत्त्वाग्रतामहत्त्वाद्यप्रवृत्तत्वेनोद्देशनिवृत्तौ क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे सोपलम्भेन प्रथमफलाद्यधिगमनानात्वे सर्वाविद्यानुशयाप्रहीणत्वेन स्थानगमनाज्ञाने महायानसर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन निवृत्तिः कार्या। इत्येवन्निवृत्तिपक्षाधिष्ठानश्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो द्वितीयो ग्राह्यविकल्पो बोधिसत्त्वानां दर्शनमार्गे चित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेन प्रतिपादित इति। तथा चोक्तम्।



 



भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च।



परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते॥१०॥



परप्रत्ययगामित्वे समुद्देशनिवर्तने।



प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः॥११॥



पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः।



निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः॥१२॥इति



 



कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवधेति। प्रथमविकल्पार्थमाह। नापि भगवन् कश्चिदित्यादि। ग्रहणमोक्षणविकल्पाभावादिति भावः। एतदेव स्पष्टयन्नाह। तत्कस्यहेतोरित्यादि। द्वितीयविकल्पार्थमाह। अपि नु खलु पुनरित्यादि। एवं चरति चरति प्रज्ञापारमितायामिति। सर्वधर्मानुपलम्भदेशनायामेवमनवसादादिना यश्चरति मनसिकारविकल्पाभावात् सम्यक् चरति जिनजनन्यामित्यर्थः। तृतीयविकल्पार्थमाह। एवं चरन्तं बोधिसत्त्वमित्यादि। एवं चरन्तं नमस्यन्तीति। त्रैधातुकश्लेषविकल्पविरहानुभवत्वप्राप्त्या नमस्कुर्वन्ति। चतुर्थविकल्पार्थमाह। येऽपि ते सुभूतेऽप्रमेयेष्ठित्यादि। बुद्धचक्षुषा पश्यन्तीति स्थानविकल्पविवेकाद्विशिष्टार्थोत्पादनाभिप्रायेण निरूपयन्ति,कार्यनिष्पादनादनुगृह्णन्ति,भव्यतारूपेणावधारणात् समन्वाहरन्ति। तथागतानुग्रहादेव प्रश्नयन्नाह। ये च खलु पुनरित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। ये सुभूत इत्यादि। एतदेव विस्तारयन्नाह। तिष्ठन्त्वित्यादि। पञ्चमविकल्पार्थमाह। द्वाभ्यामित्यादि। अपरित्यक्ता भवन्तीत्यनेनाभावाभिनिवेशविकल्पो निषिद्धः। सर्वधर्माश्चानेन शून्यतातो व्यवलोकिता भवन्तीत्यनेन भावाभिनिवेशविकल्पश्च प्रतिक्षिप्तः। षष्ठविकल्पार्थमाह। अपराभ्यां सुभूत इत्यादि। धर्मवस्तुप्रज्ञप्तिविकल्पो मया प्रहतव्य इत्युक्तार्थस्य निष्पादनाद्यथावादी तथावादी तथाकारी च भवति। अत एव च समन्वाह्रियते। सप्तमविकल्पार्थाह। एवञ्चरतः सुभूत इत्यादि। यदुत प्रज्ञापारमिताविहारेणेति। सक्तिविकल्पप्रहाणकारित्वादस्य विहारस्येति भावः। एतदेव स्पष्टयन्नाह। तत्कस्य हेतोरित्यादि। समाहितासमाहितभेदाद्विहरन्निति बोधव्यम्। प्रमुदितां भूमिमारभ्य यावत् समन्तप्रभाबुद्धभूम्यधिगमलाभाद्यथाक्रमं नाथो भविष्यसीत्याद्येकादशपदानि वाच्यानि। उपसंहरन्नाह। एवं ते देवपुत्रा इत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। एतेन हि सुभुत इत्यादि। यस्माद्यथोक्तविहारेण विहरतो बोधिसत्त्वस्य बुद्धा भगवन्तो नामादिकीर्तनधर्मदेशनापूर्वकमुदानमुदीरयन्ति,तस्मादुत्साहं वर्धयिष्यन्तीत्यर्थः। एतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। सर्वबोधिसत्त्वानामानन्त्यान्नामग्रहणाशक्यत्वादतिदिशन्नाह। अपरेषामित्यादि। शाक्यमुनितथागतबुद्धक्षेत्रप्रशंसनार्हा बोधिसत्त्वा न विद्यन्त इति चेदाह। एवमेव सुभूत इत्यादि। एतदुक्तम्। यथाहं स्वबुद्धक्षेत्रावस्थितबोधिसत्त्वोत्साहनायापरतथागतक्षेत्रावस्थितबोधिसत्त्वानां नामादिकीर्तनपरो धर्मं देशयाम्येवमेव तेऽक्षोभ्यादयोऽपि तथागता मद्बुद्धक्षेत्रावस्थितबोधिसत्त्वानां नामादिकीर्तनपरा धर्मं देशयन्तीति। अष्टमविकल्पार्थमाह। किं सर्वेषामेवेत्यादि। नो हीदमिति। परिहारवचनं विवृण्वन्नाह न सुभूत इत्यादि। किन्तर्हि येऽविनिवर्तनीया इति। प्रतिपक्षविकल्पविगमाद्येऽष्टभ्यादिभूमावविनिवर्तनीयतां प्राप्ता इत्यर्थः। नवमविकल्पार्थञ्चाह। सन्ति भगवन्नविनिवर्तनीयानित्यादि। विद्यन्त इत्याह। सन्ति सुभूत इत्यादि। एतदेव ते पुनः कतम इत्याशङ्क्य प्रतिपादयन्नाह। य एतर्हीत्यादि। अक्षोभ्यस्येति वचनं बाहुल्येन तद्बुद्धक्षेत्रे परिशुद्धसन्ततीनामुत्पादात् अन्यानप्यतिदिशन्नाह। येऽपि ते सुभूत इत्यादि। रत्नकेतुबोधिसत्त्वग्रहणं तत्समानजातीयबोधिसत्त्वोपलक्षणपरं ज्ञेयम्। प्रतिविशिष्टकल्याणमित्रादिपरिग्रहबलेनाचलायां भूमेरपि प्राक्कथञ्चिद्यथेच्छगमनव्याघातविकल्पविरहादृद्धिवशितां प्राप्ता येऽक्षोभ्यादिबुद्धक्षेत्रे बोधिसत्त्वा विहरन्ति तेऽविनिवर्तनीयान् स्थापयित्वा नामादिकीर्तनविषया विद्यन्त इत्यर्थः। एतदुक्तम्। यथावत् संवृत्या ग्रहणमोक्षणे तत्त्वतोऽमनस्कारेण मनस्करणे धर्मतया त्रैधातुकोपश्लेषणे शून्यताऽनवस्थानेनावस्थानेऽनभिनिवेशेन सर्वाभिनिवेशे द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ तत्त्वज्ञानासक्त्यानभिनिवेशपूर्वकसक्तौ समताभावनाऽप्रतिपक्षतया प्रतिपक्षे सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन द्रव्यसन्नेवात्मा ग्राहकः प्रवर्तत इत्येवं पृथग्जनसम्बन्धी प्रथमो ग्राहकविकल्पो नवप्रकारो बोधिसत्त्वानां दर्शनमार्गप्रयोगावस्थायां प्रहेयः,तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेन प्रतिपादित इति। तथा चोक्तम् -



 



ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे।



मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च॥१३॥



स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः।



सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ॥१४॥इति



 



कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयग्रहणविकल्पो नवधेति। प्रथमविकल्पार्थमाह। पुनरपरं सुभूत इत्यादि। अधिमुञ्चन्तीति। सर्वसत्त्वाग्रताद्युद्देशगमनाभिप्रायेणानुत्पत्तिकाः। शान्ता इति वा सर्वधर्मान् मनसिकुर्वन्ति। न च तावत् प्रकर्षवतीमनुत्पत्तिकधर्मक्षान्तिमविनिवर्तनीयवशिताप्राप्तिं चाधिगता भवन्तीत्येवमुद्देशानिर्याणविकल्पाभावो दर्शितः। द्वितीयविकल्पार्थमाह। येषां खलु पुनरित्यादि। प्रहीणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश्चेत्यनेन मार्गावधारणविकल्पाभावमाह। बुद्धभूमिरेव तेषां प्रतिकांक्षितव्येत्यनेनापि स्वमार्गावधारणविकल्पविरहो दर्शितोऽन्यथा विपर्याससद्भावेन बुद्धभूमेरसम्भवात्। तृतीयविकल्पार्थमाह। तेऽपि व्याकरिष्यन्तेऽनुत्तरायामित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। येषां हि सुभूत इत्यादि। एवं प्रज्ञापारमितायाञ्चरतामिति। उत्पादनिरोधविकल्पविवेकेनानुत्तिष्ठतामित्यर्थः। चतुर्थविकल्पार्थमाह। पुनरपरं सुभूत इत्यादि। अविनिवर्तनीयतायां स्थास्यन्तीति। ये बोधिसत्त्वाः कांक्षादिकमकृत्वा विस्तरेण श्रवणादिकं करिष्यन्तीति तेषाञ्चान्तिके ब्रह्मचर्यचरणादिकमनुष्ठास्यन्ति तेऽपि संयोगवियोगविकल्पविरहादविनिवर्तनीयत्वे स्थास्यन्तीत्यर्थः। पञ्चमविकल्पार्थमाह। कः पुनर्वादो य एनामित्यादि। रूपादिस्थानविकल्पानुपलम्भेन ये त्वधिमुच्य प्रज्ञापारमितां तथत्वाय च स्थित्वा बुद्धत्वनिमित्तं सत्त्वेभ्यो धर्मं देशयिष्यन्ति,ते नितरामविनिवर्तनीयत्वे स्थास्यन्तीति पूर्वेण सम्बन्धः। षष्ठविकल्पार्थमाह। यदा भगवंस्तथतेत्यादि। यत्सुभूत इत्यादिना तद्वचनमनूद्य परिहरन्नाह। न सुभूते तथताविनिर्मुक्तोऽन्य इत्यादि। धर्मधातुस्वभावत्वात् सर्वधर्माणां तथताव्यतिरिक्तान्यधर्मानुपलम्भे सति नैव कश्चित्परमार्थतस्तथतायां स्थास्यति,संवृत्या पुनर्गोत्रविप्रणाशविकल्पविरहात्स्थास्यन्तीति भावः। परमार्थमेवाधिकृत्य स्पष्टयन्नाह। तथतैव तावदित्यादि। सप्तमविकल्पार्थमाह। न सुभूते तथताऽनुत्तरामित्यादि। तत्त्वतो न तथता नान्यो वा धर्मो बोधिमभिसम्बुध्यते किन्तु संवृत्या प्रार्थनाऽभावविकल्पविरहात् प्रार्थयितव्यवस्तूपलम्भेनाभिसम्बुध्यत इति मतिः। अष्टमविकल्पार्थमाह। न सुभूते तथता धर्मं देशयतीति। तत्त्वतो न तथता धर्मं देशयत्यपि तु संवृत्या हेत्वभावविकल्पविरहाद्धेतुसद्भावेन देशयतीत्यभिप्रायः। नवमविकल्पार्थमाह। सोऽपि सुभूते नोपलभ्यते यो धर्मो देश्येतेति। प्रत्यर्थिकधर्मोपलम्भविकल्पाभावेन देश्यमानधर्मानुपलम्भ इत्यर्थः। एतदुक्तम्। श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे हिताहितप्राप्तिपरिहारत्वेन मार्गामार्गावधारणे संवृतिकार्यकारणभावेनोत्पादनिरोधे निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे व्योमावस्थितशकुनिसदृशरूपादिस्थाने,बोधिचित्तोत्पादादिद्वारेण श्रावकादिगोत्रविनाशे तथताप्रतिविशिष्टधर्माभावेनाभिलाषाभावे परमार्थसत्याश्रयेण हेत्वभावेऽत्यन्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्तूपलम्भे च तात्त्विकभावाभिनिवेशेन प्रज्ञप्तिसन्नेवात्मा ग्राहकः प्रवर्तत इत्येवमार्याणां सम्बन्धी द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां बोधिसत्त्वानां प्रहेयस्तत्प्रतिपक्षावस्थाप्रतिपादनेन व्यतिरेकमुखेनोक्तो भवति।



 



तथा चोक्तम्।



यथोद्देशमनिर्याणे मार्गामार्गावधारणे।



सनिरोधे समुत्पादे वस्तुयोगवियोगयोः॥१५॥



स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः।



प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः॥१६॥ इति



 



स्याद्ग्राह्यविकल्पो न ग्राहकविकल्प इति। चतुष्कोटिकम्। तत्र प्रथमा कोटिः यद्विषयप्रतिभासा ग्राह्याकारविज्ञप्तिः। द्वितीया त्वेकक्षणिकी ग्राहकाकारा। तृतीया सैव क्षणान्तरे। चतुर्थी तदाकारविनिर्मुक्ता प्रज्ञापारमितेति। स्यात् गोत्रमेव न गोत्रविकल्प इति पश्चात्पादकः। यस्तावद्गोत्रविकल्पो गोत्रमपि तत् तद्यथा प्रतिपक्षसमुदागमकाले गोत्रम्। स्याद्गोत्रमेव न  गोत्रविकल्पः तद्यथा समुदागच्छद्गोत्रमिति। स्यात् समुदागमविकल्पो नालम्बनविकल्प इति पूर्वपादकः। यस्तावत् समुदागमविकल्पः आलम्बनविकल्पोऽपि सः तद्यथा समुदागच्छतः सम्यगालम्बने प्रयोगः। स्यादालम्बनविकल्प एव न समुदागमविकल्पस्तद्यथाऽपरिनिष्पन्नमालम्बनमिति। अनया दिशा शेषोऽभ्यूह्यः। दर्शनमार्गे विपक्षं सप्रतिपक्षमेव निर्दिश्य यन्महाबोधिपरिनिष्पत्तये दर्शनमार्गो येन त्रिविधकारणेन सहित इष्यते। तदिदानीं वक्तव्यमिति। महाबोधौ दर्शनादिमार्गसन्दर्शनेनान्येषां प्रतिष्ठापनं प्रथमं कारणं कथयन्नाह। गम्भीरा भगवन्नित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। न च नाम भगवन्नित्यादि। सर्वधर्मानुत्पादेऽप्यवलयनादिकमकृत्वाऽनुत्तरां बोधिं संवृत्या बोद्धुकामास्ते दुष्करकारका इत्युत्साहप्रवेदनाद्बोधौ दर्शनादिमार्गसंदर्शनान्येषां प्रतिपादिता स्यात्। परमार्थसमाश्रयणेन किञ्चिद्दुष्करमित्याह। यत्कौशिकैवमित्यादि। सुभाषितत्वेन प्रशंसयन्नाह। यद्यदेवार्यसुभूतिरित्यादि। न क्वचित्सज्जतीति। न क्वचिदभिनिवेशते। स्वोक्तार्थं द्रढयन्नाह। कच्चिदहमित्यादि। धर्मस्य चानुधर्ममिति यथा प्रणिहितस्य शून्यताधर्मस्य प्रतिपत्तिः। साधूक्तमित्याह। यत्खलु त्वमित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। यद्यदेव हीत्यादि। एतदेव कुत इति। तत्कस्य हेतोरित्याशङ्क्याह। सुभूतिर्हि कौशिकेत्यादि। कामादिधातुत्रये प्रत्येकं मृदुमध्याधिमात्रक्लेशप्रहाणकारिणोः दर्शनमार्गस्य शून्यतारूपेण दर्शितत्वाद्यथाक्रमं प्रज्ञापारमितामपि तावन्नोपलभ्यत इत्यारभ्य यावद्धर्ममेव तावन्नोपलभ्यत इति नवपदानि वाच्यानि। सामान्येन सर्वधर्माणां कार्यकारणयोरनुपलम्भाद्यथासंख्यं सर्वधर्मविविक्तविहारः,सर्वधर्मानुपलम्भविहारश्च ग्राह्यः। यद्येवं बोधिसत्त्वैः समान एव श्रावकाणां विहार इति चेदाह। यः खलु पुनरित्यादि। तेषामिति तथागतविहारव्यतिरिक्तानामन्येषामनेन विहारेण विहर्तव्यमिति। बोधिसत्त्वविहारानुशंसकथनेनैव महाबोधौ दर्शनादिमार्गसन्दर्शनाऽन्येषां निगदिता स्यात्।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां सारपरिवर्तो नाम सप्तविंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project