Digital Sanskrit Buddhist Canon

षड्विंशतितमपरिवर्तः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



विवृद्ध्यैवं वर्धितस्य मूर्धाभिसमयस्य सात्मीभावगमनपर्यन्तलक्षणां निरूढिं वक्तुं प्रसंशयन्नाह। चरन्नेव तावदित्यादि। स्पृहणीयास्त इति। अनेन मूर्धाभिसमयलाभिनां दुर्लभतां कथयति। संजातप्रसादातिशयत्वादिष्टाशंसनां कुर्वन्नधुना निरूढिमावेदयन्नाह। यैर्बोधिसत्त्वयानिकैरित्यादि। उह्यमानानिति प्रेर्यमाणान्। सर्वदोषवैषम्याभावान्समे पारिमे तीरे निर्वाणे बुद्धत्व इति यावत्। स्वपरोभयार्थसम्पत्सम्पादकत्वेन यथा क्रममभीप्सिताः परिचिन्तिताः परिगृहीता इति केचित्। त्रिसर्वज्ञतानिष्पादकत्वेनेत्यन्ये। बुद्धधर्माणामित्युपदेशपदं सर्वज्ञताप्रतिसंयुक्तधर्माणां स्वयम्भूधर्माणामसंहार्यधर्माणामिति। सर्वाकारज्ञतादित्रिसर्वज्ञताभेदेन निर्दिष्टम्। तदेवं त्रिसर्वज्ञताधर्माणामनुत्तरा परिपूरिः कथिता स्यात्। सा चापरित्यक्तसत्त्वार्थनिरूढिरित्यर्थः। न मे भगवन्नित्यादि। महाकरुणया समन्वागता इति। एवम्भूताधिगमावस्थायामपि निर्वाणपातपरिहारार्थं महाकरुणासंमुखकरणात् सत्त्वावतारणादिचित्तोत्पादाच्च महाकरुणया युक्ताः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तया महाकरुणयेत्यादि। दर्शनभावनाविशेषाशैक्षमार्गाधिगमभेदाद्यथाक्रमं वयं तीर्णा इत्यादि पदचतुष्टयम्। एतदुक्तम्। सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणाभावेनापरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणामनुत्तरा परिपूरिनिरूढिरिति। तथा चोक्तम्।



 



त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा।



अपरित्यक्तसर्त्त्वार्था निरूढिरभिधीयते॥३॥ इति।



 



निरूढ्यैवं निरूढस्य स्थिरीभावलक्षणाञ्चित्तसंस्थितिं प्रतिपादयितुं प्रश्नयन्नाह। यस्तेषां भगवन्नित्यादि। योऽनुमोदते कियत्स पुण्यं प्रसवतीत सम्बन्धः। प्रथमयानसंप्रस्थितानां चर्याप्रतिपन्नानामनिवर्तनीयानामेकजातिबद्धानामित्यनेन यथासम्भवं पूर्वोक्तचतुर्विकल्पप्रतिपक्षयोर्दर्शनभावनामार्गयोश्चतुर्विधाधिगन्तृव्यपदेशाच्चातुर्विध्यं ख्यापितमित्येके। लिङ्गविवृद्धिनिरूढिचित्तसंस्थितिस्वरूपावबोधभेदादित्यन्ये। अधिमुक्तिचर्याभूमौ प्रथमयानसंप्रस्थिता। प्रमुदितादिसप्तभूमिषु चर्याप्रतिपन्नाः। अचलादिभूमित्रितयेऽविनिवर्तनीयाः। दशम्यां भूमावेकजातिप्रतिबद्धा इत्यपरे। चित्तसंस्थितिमावेदयन् प्रश्नपरिहारार्थमाह। स्यात् खलु पुनरित्यादि। पलाग्रेणेति। पलप्रमाणेन। एतदुक्तं। सम्भवत्प्रमाणस्य वस्तुनो योगिभिरियत्तया पलप्रमाणेन परिमाणं प्रामात्तुं शक्यत इति न्यायाच्चतुर्द्वीपादित्रिसाहस्रलोकधातुप्रामाणं गृह्यते। न त्वनुमोदनापुण्यप्रमाणमित्यर्थान्तरव्याजेन प्रमाणातिक्रान्तपुण्यस्वरूपा समाधिलक्षणा चित्तसंस्थितिः कथितेति। तथा चोक्तम्।



 



चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः।



कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः॥४॥इति



 



एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि मूर्धाभिसमये वेदितव्यानि।



 



निर्वेधभागीयानन्तरं दर्शनमार्गः। तत्र चतुर्विधो विपक्षो ग्राह्यगाहकविकल्पः सप्रतिपक्षो वक्तव्य इत्यादौ तावत्सकलप्रवृत्तिपक्षाधिष्ठानं प्रथमं ग्राह्यविकल्पमावेदयनाह। माराधिष्ठितास्ते भगवन्नित्यादि। माराधिष्ठितामारपाक्षिकामारभवनच्युता इति। मृदुमध्याधिमात्रनिन्दाभिधानात्पदत्रयम्। तथैव तत्कस्य हेतोरित्याशङ्क्याह। मारभवनविध्वंसनकरा हीत्यादि। व्यतिरेकमुखेन निर्दिश्यान्वयमुखेन तमेव विकल्पं कथयन्नाह। अनुमोदितव्या भगवन्नित्यादि। मायोपमभावनया द्वयाद्वयसंज्ञाविगतानां बोधिसत्त्वानामेवंविधवित्तोत्पादानुमोदनादौ प्रवृत्तिः कार्येत्यर्थः। साधूक्तत्वादनुवदन्नाह। एवमेतत्कौशिकेत्यादि। द्वितीयं निवृत्तिपक्षाधिष्ठानं ग्राह्यविकल्पं कथयन्नाह। यैः कौशिक कुलपुत्रैरित्यादि। न विरागयिष्यन्तीति। हेये वस्तुनि निवृत्तिग्राह्यविकल्पबलादिति भावः। तथैवाविपरीतत्वेन प्रसंशयन्नाह। एवमेतद्भगवन्नित्यादि। एतदुक्तम्। अनुपलम्भोपलम्भस्वभावौ प्रवृत्तिनिवृत्तिपक्षौ यथाक्रममादानसंत्यागाकारेण ग्राह्याविति प्रवृत्तिनिवृत्तिपक्षाधिष्ठानौ ग्राह्यविकल्पौ वस्तुन्यप्रतिबद्धवृत्तित्वेन वितथप्रतिभासित्वादयथाविषयस्वरूपौ वक्ष्यमाणविषयप्रभेदेन प्रत्येकं नवप्रकारौ विबन्धकत्वात् क्लेशवद्विपक्षौ ज्ञेयाविति। तथा चोक्तम्।



 



प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ।



ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ॥५॥इति



 



ग्राह्यविकल्पद्वयं निर्दिश्यैव ग्राहकविकल्पद्वयं वक्तव्यमिति ,प्रथमं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानं ग्राहकविकल्पं कथयन्नाह। एवं तैरनुमोदनासहगतैरित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तैरित्यादि। द्रव्यसन्नेव आत्मा ग्राहक इति विकल्पाभिनिवेशेन पृथग्जनैरनुमोदितानि कुशलमूलानि यतस्तस्मात्सत्कारादिकं फलमुक्तं न त्वन्यद्बुद्धत्वादिकमित्यर्थः। ननु चानात्मानः सर्वधर्मा इत्यपि पृथग्जनाः प्रतिपद्यन्त इत्यव्यापिनी प्रथमग्राहकविकल्पव्यवस्था। अधिमुक्तिमनस्कारः स तेषां तत्त्वमनस्कारश्चेह विवक्षित इत्यसारम्। द्वितीयं प्रज्ञप्तिसदार्यपुद्गलाधिष्ठानं ग्राहकविकल्पं वक्तुमाह। यैरपि भगवंच्छन्दमुत्पाद्येत्यादि। सम्यक्सम्बोधेराहारका भविष्यन्तीति। प्रज्ञप्तिसन्नेवात्मा ग्राहक इति कल्पाभिनिवेशेनार्याणामनुमोदनाचित्तोत्पादाद्विविवर्धमाना बोधेरनुत्तरायाः समुत्पादका मुख्यतो भविष्यन्तीत्यर्थः। धर्मतोऽविरुद्धत्वादनुवदन्नाह। एवमेतत्कौशिकेत्यादि। मृदुमध्याधिमात्रानुमोदनाभेदादनुमोदितानीत्यादि पदत्रयं वाच्यम्। ननु चार्यस्याप्येवं भवत्यश्रौषमहं भिक्षवो रात्र्याः प्रत्यूषसमये शृगालस्य प्राणिनो वाशितशब्दं तथाहं स तस्मिन् सययेऽनिन्दितो नाम मृगराजोऽभूवमित्यव्यापिनी द्वितीयग्राहकविकल्पव्यवस्था। व्यवहारिकमार्याणामेवंविधं वचनं न पारमार्थिकमित्यसारम्। एतदुक्तम्। पृथग्जनार्यपुद्गलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकाविति द्वावेतो ग्राहकविकल्पौ। यदा तद्विषयभावापन्नग्राह्यावथौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित्तौ ग्राहकाविति। ग्राहकरूपेणानयोर्विविक्तरूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ वक्ष्यमाणविषयभेदेन प्रत्येकं नवप्रकारौ विबन्धकत्वाद्विपक्षाविति। तथा चोक्तम्।



 



द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ।



पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ॥६॥



ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ।



इति ग्राहकभावेन शून्यतालक्षणं तयोः॥७॥इति 



 



तत्र कथं विषयभेदेन प्रथमो ग्राह्यः विकल्पो न च वेति प्रथमविकल्पार्थमाह। कथं भगवन्नित्यादि। कथमिति केन प्रकारेण मायोपमं चित्तं न माया नाप्यन्यो धर्मस्तत्त्वेन कथञ्चिदभिसम्बुध्यत इति। प्रतिप्रश्नेन प्रतिपादयन्नाह। तत्किं मन्यस इत्यादि। यश्चात्यन्तविविक्तो धर्म इति यो धर्मः स्वभावशून्यः सोऽनुत्पन्नत्वादस्तितां न प्रतिपद्यते। न च निर्विषयः साधुः प्रयोगो विद्यते नञ्चः विकल्पापाश्रयत्वे वा सांवृतः स्यान्न तात्त्विक इति न्यायान्नास्तिताञ्च न प्रतिपद्यत इत्यर्थः। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। नहि भगवन्नित्यादि। विविक्तत्वादेव सर्वधर्माणां न हेतुफलभाव इत्याह। यश्च धर्मोऽत्यन्तविविक्त इत्यादि। आवाहको वा निर्वाहको वेति। उत्पादको वा नाशको वेत्यर्थः। अमुमेवार्थं विस्तारयन्नाह। कथञ्च भगवन्नित्यादि। तत्त्वतो नैव वोध्यबोधकमित्युपसंहरन्नाह। यदा भगवन्नित्यादि। सुभाषितत्वात्स्वहस्तयन्नाह। साधु साध्वित्यादि। किन्तु संवृत्या सुविशुद्धात्कारणात्सुविशुद्धं फलमित्याह। यत एव सुभूत इत्यादि। मायोपमत्वेन कार्यकारणयोरविपर्यस्तत्वादिति भावः। विविक्ततेत्यप्यभिनिवेशो न कार्य इत्यादि। सचेत्सुभूते बोधिसत्त्व इत्यादि।



 



शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः।



येषां तु शून्यतादृष्टिस्तानसाध्यान् वभाषिरे॥



 



इति न्यायाद्विविक्तताभिनिवेशस्यापि विपर्यासरूपत्वान्नैव प्रज्ञापारमिता स्यात्। कथन्तर्हि तामागम्याभिसम्बुध्यत इति चेदाह। एवं खलु सुभूते इत्यादि। एवमविचारैकरम्यत्वेन संवृतिरूपतयेतियावत्। अत एव परमार्थमधिकृत्याह। नापि सुभूते प्रज्ञापारमितामित्यादि। संवृत्योपसंहरन्नाह। अभिसम्बुध्यते चेत्यादि। भाषितस्येति। नाभिसम्बुध्यतेऽभिसम्बुध्यते चेत्यस्य। तथैवानुवदन्नाह। एवमेतदित्यादि। दुष्करकारक इति संवृतिसत्याश्रयेणेति भावः। अत एव परमार्थसत्यमधिकृत्याह। यथाहं भगवन्नित्यादि। भाषितस्येति दुष्करकारक इत्यस्य तत्कस्य हेतोरित्याशङ्क्याह। तथा हि भगवन्नित्यादि। कर्तृकर्मक्रियानुपलम्भदेशनायामनवसादादिना स्वभावविकल्पविरहात् सम्यक्प्रवृत्तत्वेन जिनजनन्याञ्चरतीति आह। सचेद्भगवन्नित्यादि। द्वितीयविकल्पार्थमाह। तद्यथापि नाम भगवन्नित्यादि। अविकल्पत्वाद्भगवन्नित्यनेन गोत्रविकल्पनिरासो ज्ञापितः। तृतीयविकल्पार्थमाह। मायापुरुषस्येत्यादि। नैवं भवत्यनुत्तरेत्यनेन प्रतिपत्तौ समुदागमविकल्पनिषेधः कृतः। चतुर्थविकल्पार्थमाह। प्रतिभासस्येत्यादि। प्रतिभासदृष्टान्तेनालम्बनविकल्पापोहो दर्शितः। पञ्चमविकल्पार्थमाह। तथागतस्य कश्चित्प्रियो वेत्यादि। अविकल्पत्वादेव भगवन्नित्यनेन बोधिसत्त्वस्यापि तथागतप्रियाप्रियासंविद्यमानदृष्टान्तेन प्रतिपक्षविपक्षविकल्पापोहो दर्शितः। षष्ठविकल्पार्थमाह। यथैव हि भगवन्नित्यादि। सर्वकल्पविकल्पप्रहीण इति स्वाधिगमविकल्पानुपलम्भो दर्शितः। सप्तमविकल्पार्थमाह। तथागतेनार्हतेत्यादि। तथागतनिर्मितोदाहरणेन निर्माणान्वयकर्तृविकल्पापोहो दर्शितः। अष्टमविकल्पार्थमाह। स निर्मितको यस्येत्यादि। अनेन च दृष्टान्तेन कारित्रविकल्पविवेको निवेदितः। नवमविकल्पार्थमाह। दक्षेण पलगण्डेनेत्यादि। स च दारुसंहातोऽविकल्प इत्यनेन क्रियासाफल्यविकल्पविरहो निगदितः। एतदुक्तम्। विविक्तेन विविक्तानवबोधस्वभावेऽचलादिभूमिप्रवेशेन वियतबुद्धगोत्रमायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे प्रतिभासमात्रेणाभ्रान्तज्ञानालम्बने गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे सर्वत्रगादित्वेन स्वाधिगमे हीनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया सर्वथोपादेयत्वेन प्रवृत्तिः कार्येत्येवं प्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो मूर्द्धाभिसमये दर्शनमार्गप्रयोगावस्थायां बोधिसत्त्वानां प्रहेयस्तत्तत्प्रतिपक्षावस्थाप्रतिपादेन व्यतिरेकमुखेन प्रतिपादित इति। तथा चोक्तम्।



 



एष स्वभावे गोत्रे च प्रतिपत्समुदागमे।



ज्ञानस्यालंवनाभ्रान्तौ प्रतिपक्षविपक्षयोः॥



स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले।



प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः॥६॥ इति।



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां मायोपमपरिवर्तो नाम षड्विंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project