Digital Sanskrit Buddhist Canon

एकविंशतितमपरिवर्तः

Technical Details


 



एकविंशतितमपरिवर्तः।



 



माराधिष्टानेनापक्रमणे सति नेदमष्टमं लिङ्गमित्याह। तत्र खलु पुनरित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। मारो हीत्यादि। अचिरयानसम्प्रस्थितस्येति। मूर्धाभिसमयेऽधुना प्रवृतस्य स्वरूपमहत्त्वाद्बलवत्तरं,कार्यनिवर्तकत्वातेजोवतरं,गौरवाकरणादवमंस्यते,हास्यस्थानीयत्वादुच्चग्धयिष्यति। अतिशयोक्त्यभिधानादुल्लापयिष्यति। निन्दाकरणात्कुत्सयिष्यति। वैरूप्यनिश्चारणात्पंशयिष्यति। मानस्योत्पादनविशेषाधानान्मानं जनयिष्यति। मानं सञ्जनयिष्यति। तथैवातिमानमानातिमानाभिमानभेदेन पदषट्कं मानं वर्धयिष्यति। मानं संवर्धयिष्यति। मानं स्तम्भयिष्यति। मान मुपस्तम्भयिष्यति। मानं वृंहयिष्यति। मानमुपवृंहयिष्यतीति यथाक्रमं योज्यम्। मिथ्यामानकरणान्मानमुत्पादयिष्यति। स तेन मानेनेत्यादि। हीनादहं श्रेयान् सदृशेन वासदृश इति चित्तोन्नतिर्मानः। सदृशादहं श्रेयान् श्रेयसा वा सदृश इत्यतिमानः। श्रेयसः श्रेयानहमिति मानातिमानः। अप्राप्ताधिगमे प्राप्त्यभिप्रायादभिमानः। अगुणवतोऽपि गुणवानहमिति मिथ्यामानः। दूरीकरिष्यति सर्वज्ञतामित्यादि। एतदुक्तम्। मानेन दूरीकरिष्यति सर्वज्ञतां त्रिसर्वज्ञतात्मिकाम्। अतिमानमानातिमानाभिमानैर्यथाक्रमं दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानं सर्वाकाराभिसम्बोधम्। स्वयम्भूज्ञानं मूर्धाभिसमयम्। सर्वज्ञज्ञानमनुपूर्वाभिसमयम्। मिथ्यामानेन च दूरीकरिष्यत्यनुत्तरां सम्यक्सम्बोधिमेकक्षणाभिसम्बोधपूर्वकं धर्मकायाभिसमयमिति। न सेविष्यत इत्यादि। पदत्रयं श्रुतादिज्ञानोत्पादनार्थम्। कल्पितपरतन्त्रपरिनिष्पन्नस्वरूपपरिज्ञानार्थं वा यथासंख्यं योज्यम्। प्रसङ्गान्मारकर्मप्रभेदं निर्दिशन् मृदुमारकर्मार्थमाह। पुनरपरमित्यादि। नामापदेशेनेति तन्नामकथनेन। नामाधिष्ठानेनेति मात्रादिनामव्यपदेशेन तथैव तत्कस्य हेतोरित्याशङ्क्याह। तव हीदं नामधेयमित्यादि। तत्र ग्रामं परित्यज्य क्रोशमात्रेणावस्थानादारण्यकः। गृहीतपिण्डपातसमादानत्वात्पैण्डपातिकः। रथ्याकर्पटचीवरत्वेन पांशुकूलिकः। समस्तं भक्तादिकमादाय भोजनात्पश्चात्खलुभक्तिकः। एकाशनोपवेशेन यथेष्टं परिभोगादेकाशनिकः। यथा संस्तीर्णकर्पटादौ शयनाद्याथासंस्तरिकः। संघाटयादित्रिचीवरमात्रत्वात्रैचीवरकः। श्मशाने स्थितत्वेन श्माशानिकः। तथा वृक्षमूलिकः। निषद्यथा रात्रौ स्थानान्नैषद्यिकः। उपर्यावरणाभावेनाभ्यवकाशिकः। धृतोर्णाचीवरादित्वेन नामतिकः। अधिकाभिलाषाभावादल्पेच्छः। तावन्मात्रेण सन्तोषात्सन्तुष्टः। आपत्तिरहितत्वेन प्रविविक्तः। अल्पेच्छत्वादपगतपादभ्रक्षणः। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह तथा हीत्यादि। मध्यं मारकर्मार्थमाह। तं च मार इत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि तवेत्यादि। अधिमात्रकर्माथमाह। तस्य खलु पुनरित्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। सद्भूतत्वे कथं पुनरिदं मारकर्मेत्याशङ्क्याह। ये खलु पुनरित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। ये हीत्यादि। प्रधानबुद्धत्वावस्थानामव्याकरणेन मारकर्मार्थमाह। पुनरपरमित्यादि। तत्र प्रयोगाद्यवस्थासु यथाक्रममनुवर्तितमनुवितर्कितमनुविचारितम्। श्रुतमयादिज्ञानेन वेति केचित्। तदुभयं तुलयित्वेति। यत्तेन विचिन्तितं,यच्च मारेण निर्दिष्टं नामधेयं तदेतदुभयं समेति सङ्गच्छत इति निरूप्य मंस्यत इति सम्बन्धः। तथैव सत्यत्वे कथं मारकर्मेत्याशङ्क्याह। यानि च मयेत्यादि। एवं नामापदेशेन बोधिसत्त्वानां तिरस्कारिणो दुर्लभा बोधिरित्यादि। सचेत्पुनरित्यादि। संधाव्य संसृत्येति। पापदेशनयात्मानं निर्मलीकृत्य निरभिमानतां प्राप्येत्यर्थः। एतदेव स्पष्टयन्नाह। यदि चासावित्यादि। तत्र विदूषणाप्रतिपक्षेण विगर्हिष्यति। समुदाचारप्रतिपक्षेण वान्तीकरिष्यति। स्वपरोपेक्षलज्जया जुगुप्सिष्यति। आश्रयबलात् प्रतिनिःस्रस्यति। प्रत्यापत्तिबलात् प्रतिदेशयिष्यति। दीर्घकाललभ्यत्वेन दुर्लभा तथैव तत्कस्य हेतोरित्याशङ्क्याह। तावद्गुरुतरं हीत्यादि। परापमानसमुत्थत्वेन यस्मान्मननापत्तिस्थानं तावद्गुरुतरं ,येन बोधिदुर्लभा भवति,न त्वसम्भविनीत्यर्थः। तथा हि ये प्रतिपक्षसन्निधावपचयधर्माणस्ते सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षास्तद्यथा कनकमलादयः। यथोक्तधर्माणश्च सर्व एव सद्धर्मावरणादय ति न्यायान्निःशेषं क्षयं यात्येव मननापत्तिस्थानम्। यत्पुनः प्रणश्यन्तीत्यादि वचनं तदसत्यां प्रतिपक्षभावनायामिति ज्ञेयम्। अन्यथा युक्तिविरोधो बहुतरसूत्रान्तविरोधश्च स्यात्। नियतवचनमप्येतेनैव व्याख्यातम्। अनियतवचनं पुनरसत्यामपि प्रतिपक्षभावनायां कादाचित्कफलत्वादित्यवसातव्यम्। मननापत्तिस्थानस्य गुरुत्वमेवं दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। चतस्रो मूलापत्तय इति। वधस्तेयमैथुनानृतसंज्ञिताः प्रधानापत्तयः। भिक्षुसंवरभ्रंशादभिक्षुः श्रामणेरत्वाभावादश्रमणः। उपासकभाववियोगादशाक्यपुत्रीयः। जन्मान्तरेऽप्यधिगमाभव्यत्वाद्गुरुतरापत्तिरियं मननापत्तिः। अतिगुरुत्वमावेदयन्नाह। तिष्ठन्त्वित्यादि। पञ्चेभ्य इति तथागतदुष्टचित्तरुधिरोत्पादादिभ्यः। गुरुतर इति। मानसहगतचित्तोत्पादसंख्यावच्छिन्ननरकवासानुभवनात्। नामापदेशेनैवं मारकर्म निर्दिश्य विवेकगुणेनापि मृदु मारकर्मार्थमाह। पुनरपरमित्यादि। तत्र वनप्रस्थो वनविशेषः। पश्चाद्विप्रतिसारित्वेन यावत्समाधेरनधिगमादपरिशुद्धकायवाङ्मनस्कर्मान्तस्तद्विपर्ययात्परिशुद्धकायवाङ्मनस्कर्मान्तः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हीत्यादि। मध्यमारकर्मार्थमाह। किञ्चापीत्यादि। इमं विवेकमिति। प्रज्ञापारमितोपायकौशल्यात्मकं निःश्रित इत्यादि। मृदुमध्याधिमात्रावग्रहभेदात्तत्र विवेकेऽरण्यवासादौ यथाक्रमं निःश्रितआलीनोऽध्यवसितस्तेनैवात्मोत्कर्षादध्यवसायमापन्नः। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। यः सुभूत इत्यादि। तेन विवेकेनेति। तेनारण्यवासादिना विवेकेन विहरन्नस्मिन् बोधिसत्त्वविवेके महोपायकौशलादौ न संदृश्यते। अधिमात्रमारकर्मार्थमाह।तमेनमित्यादि। संकीर्णविहारेणेति। श्रावकादिमनस्कारोपेतत्वात्। आकीर्णविहारेणेति। महायानाद्वहिर्गतविहारत्वात्। अन्यैर्बोधिसत्त्वैरस्पृश्यत्वाद्बोधिसत्त्वचण्डालः। स्वपरबोधिसत्त्वविदूषणाद्बोधिसत्त्वदूषी। बाङ्मात्रेण बोधिसत्त्वचर्याभ्युपगमाद्बोधिसत्त्वप्रतिरूपकः। बोधिसत्त्वधर्मवियोगाद्बोधिसत्त्वप्रतिवर्णिकः। बोधिसत्त्वसङ्घोपघाताद्बोधिसत्त्वकारण्डवकः। अकल्पिकपरिभोगाच्चौरः। तथैव तत्कस्य हेतोरित्याशङ्क्याह। अभिमानपतिता हीत्यादि। पापधर्मयोगादविशुद्धधर्माणः। कल्याणमित्रविरहादनाचार्यः। अन्यथावादित्वादनार्यधर्माणः। नवमस्वयमभिज्ञापराक्रमकल्याणमित्रसेवनलिङ्गार्थमाह। यस्य खलु पुनरित्यादि॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां मारकर्मपरिवर्तो नामैकविंशतितमः॥६०॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project